नन्दिकेशप्रोक्तं शिवार्चनरहस्यकथनम्

नन्दिकेशप्रोक्तं शिवार्चनरहस्यकथनम्

ये ये नराः परमशाम्भवपादपद्मसेवारताः कलियुगेऽपि विशुद्धचित्ताः । ते तावदादरवरादिभिरन्वहं वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ १॥ श्रीनीलकण्ठ मदनान्तक चन्द्रमौले श्रीभाललोचन यमान्तक विश्वमूर्ते । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ २॥ उत्पत्तिपालनविनाशनहेतुभूत भूतेश भूतनिवहार्चितपादपद्म । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ ३॥ कल्याण पुण्यगुणसागर मेरुधीर रत्नस्फुरद्वरशरासनकोटिहस्त । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ ४॥ गौरीकुचोरुगिरिशेखरचारुहार काश्मीरसाररसरञ्जितपादपद्म । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ ५॥ आपादुकप्रणतदेवकिरीटकोटिरत्नप्रभापरिवृताङ्घ्रिसरोजराज । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ ६॥ संसारसागर निवारक कालकाल लीलाविशेषपरिकल्पितकल्पजात । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ ७॥ मन्नाथ सुन्दरतरातिमनोहराद्रिकन्यासनाथ विधृतोडुगणाधिनाथ । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ ८॥ रत्नाङ्गदाङ्गमणिकङ्कणकिङ्किणीक गौरीमनोहर सुनूपुरभासुराङ्घ्रे । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ ९॥ मन्दारकुन्दमकरन्दरसाभिषिक्तपादारविन्द परमादरहारवीर । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ १०॥ कर्पूरगौर हर सुन्दरतारतार तारामनोहरविहार विहारहार । (शूरमनोहरविहार) पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ ११॥ मामीश मामकधिया परिपालयाशु क्लेशापहारचतुर प्रवरप्रवीर । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ १२॥ सर्वामरेश्वरमखर्वसुरारिगर्वनिर्वापणप्रवण कारुणिकप्रवीण । (सर्वामरेश्वरवरातिसुरारिगर्व) पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ १३॥ श्रीमन्महेश करुणातरुणाम्बुराशे गौरीमुखाम्बुजसहस्रकराऽऽदरेण । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ १४॥ मृत्युञ्जयाव्यय पिनाककरामरारिवीरान्धकासुरनिवारणकारणाशु । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ १५॥ श्रीकालकूटविषदोषविदूषकाशापाशप्रणाशनविधानविनोदमोद । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ १६॥ सौवर्णवर्ण सहिरण्य हिरण्यबाहो शम्भो हिरण्यद हिरण्यपते स्मरारे । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ १७॥ अन्यस्तवास्ति शिव शङ्कर पालनीयो मत्तोऽधिकः कलुषनाशकरातिधीर । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ १८॥ घोरापराघनिधिशोषक कामशत्रो चित्रत्रिनेत्र करुणारसपात्रभूत । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ १९॥ भस्मावगुण्ठनविनष्टमहाघकोटि रुद्राक्षकर्णपरवर्णमवर्ण्यवर्ण । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ २०॥ श्रीबिल्वमूलशिवलिङ्गसमर्चनेन निर्धूतपातककुलाचलमीशशीलम् । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ २१॥ दाराविहारपरिहाररसादरं मां धीरं दुरोदरविचारविवर्जितं च । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ २२॥ शम्भो त्वदङ्घ्रिकमलं कलयामि काले कालेऽनुवेलमतिवेलमतोऽनुवेलम् । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ २३॥ नित्यं महेशचरणस्मरणप्रवीणं प्रक्षीणपापकरणं करुणार्णवेश । पाहीति ये सकृदपि प्रवदन्ति ते वः पूज्या भवन्ति तदिदं परमं रहस्यम् ॥ २४॥ यः कश्चिदन्तकरिपुस्मरणप्रवीणः प्राणप्रयाणसमयेऽपि स एव वन्द्यः । पूज्यः स एव सकलाघविनाशहेतुः तत्पादपद्मभजनं निधिरेव कोऽपि ॥ २५॥ श्रीकालकाल करुणाकर दीनबन्धो भक्तप्रभूतकरुणारससारसिन्धो । मां दीनमप्यनुदिनं परिपालयेति ये संवदन्ति सकृदेव हि ते नमस्याः ॥ २६॥ प्रक्षीणपातककुलं भसितत्रिपुण्ड्र रुद्राक्षभूषणमदूषणमन्धकारे । पाहीति ये प्रतिदिनं प्रवदन्त्यमन्दं तं वन्दनीयमसकृत् प्रवदामि देवाः ॥ २७॥ स्वामिन्नशाम्भवकथार्णवबाडबं मां शैवापकारतरुसारकुठारभूतम् । लिङ्गार्चनव्रतविदूषकशैलवज्रं पाहीति यो वदति तं प्रणमन्ति देवाः ॥ २८॥ पापाम्बुराशिपरिहारकरप्रवीरं हारं हरार्चनपरं गतदुर्विकारम् । धीराः परं सततमादरतो नमन्ति सन्तः कृतान्तपरितापनिवारणाय ॥ २९॥ ये शूलपाणिचरणस्मरणप्रवीणाः ते तावदन्तकभयप्रलयप्रवृत्ताः । पुण्यार्णवाः परमकारुणिकोत्तमाश्च तत्पादपद्मभजने क्व भयं भवाब्धेः ॥ ३०॥ ये काशिकापुरपते त्रिपुरान्तकारे विश्वेश्वर त्रिदशवन्द्यपदारविन्द । मां रक्ष रक्ष विषमेक्षण वीक्षणेन प्रक्षीणपापमिति वेदविदो वदन्ति ॥ ३१॥ सानन्दमिन्दुशकलाभरण प्रणामश्रेणीं गृहाण करुणोरुतरङ्गिणी ते । मय्यन्वहं प्रसरतु प्रणतार्तिनाशं सम्पादयत्विति वदन्ति त एव मान्याः ॥ ३२॥ आनन्दकन्द मदनद्रुमवीतिहोत्र पाहि त्रिनेत्र सुचरित्र पवित्रगात्र । श्रीविश्वनाथ करुणारसपात्रमात्रमित्युत्तमोत्तमतमाः प्रवदन्ति शैवाः ॥ ३३॥ दुष्टाघकोटिघटितानपि कालकूटकूटोपमानपि महेश्वर पाहि दीनान् । दीनार्तिभञ्जनमहाव्रतदीक्षितास्मान् पाहीति वेदवचनानि वदन्ति मान्याः ॥ ३४॥ लिङ्गार्चनव्रतपरात् न परोऽस्ति कोऽपि लोके प्रभूतपरमाद्भुतपुण्यराशिः । लिङ्गार्चनव्रतपरो भवतीति वेदाः तावद्वदन्ति बहवो बहुधा बुधानाम् ॥ ३५॥ ॥ इति शिवरहस्यान्तर्गते नन्दिकेशप्रोक्तं शिवार्चनरहस्यकथनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४२। २१-५५॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 42. 21-55.. Proofread by Ruma Dewan
% Text title            : Nandikeshaproktam Shivarchanarahasyakathanam
% File name             : shivArchanarahasyakathanaMnandikeshaproktam.itx
% itxtitle              : shivArchanarahasyakathanaM nandikeshaproktam (shivarahasyAntargatam)
% engtitle              : shivArchanarahasyakathanaM nandikeshaproktam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 42| 21-55||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org