सदाशिवप्रोक्ता शिवार्चनविधिव्याख्या
ममेव पूजा विहिता तैरादौ तदनन्तरम् ।
लिङ्गपूजापि विहिता सा पूजा सुलभा यतः ॥ १॥
मत्स्वरूपपरिज्ञानमशक्यमिति निश्चयात् ।
तल्लिङ्गपूजनं तावदुक्तं लोकोपकारकम् ॥ २॥
मल्लिङ्गपूजनं तावत् यावज्जीवं विशेषतः ।
कर्तव्यमतियत्नेन शुचिभूतेन भस्मना ॥ ३॥
यावज्जीवश्रुतिः सेयमग्निहोत्रादिकर्मणाम् ।
शिवलिङ्गार्चनस्यापि समाना न विशेषतः ॥ ४॥
सायं प्रातः श्रुतिस्तत्र भिन्नकालनियामिका ।
अनुपादेयमन्त्राङ्गं कालोऽपीत्यवधारितः ॥ ५॥
तथा च विधिशक्तिश्च कालमादाय केवलम् ।
तत्र पर्यवसनैव सायम्प्रातरिति श्रुतिः ॥ ६॥
प्रकृते लिङ्गपूजायां श्रुतिः कालनियामिका ।
नास्तीति सर्वदा कार्या सा णमुलप्रत्ययात्मिका ॥ ७॥
न णमुल्प्रत्ययस्यास्य सङ्कोचाय श्रुतिस्तथा ।
असङ्कुचित एवायं प्रत्ययः स्वार्थबाधकः ॥ ८॥
विहिता प्रत्ययेनैवं शिवपूजनभावना ।
तया भावनया तावत् करणं पूजनं मतम् ॥ ९॥
तत्राधिकरणं किं वा का तद्बोधकसप्तमी ।
अधिकारी च कस्तस्मिन् कथमंशोऽपि चिन्तितः ॥ १०॥
शिवलिङ्गे बिल्वपत्रैः पवित्रैः स्वार्जितैरपि ।
श्रुतिप्राप्त भावनापि पूर्णांशा समभूत् शिवे ॥ ११॥
श्रुतिर्यथास्ति सर्वेभ्यः कामेभ्य इति तत्र सा ।
दर्शादौ तद्वदत्रापि कामश्रुतिरविच्युता ॥ १२॥
फलसाधनभूतत्त्वात् करणं शिवपूजनम् ।
शिवार्चनेन लभ्यन्ते सर्वे कामा इति श्रुतेः ॥ १३॥
इयं शिवार्चनेनेति तृतीयाकरणं परम् ।
शिवपूजनमेवेति शक्त्या बोधयति स्वयम् ॥ १४॥
तस्याः शक्तिस्तु नान्यत्र ओमित्यस्यैव निश्चिता ।
करणे शक्तिरेवञ्चेत् तदेव करणं स्मृतम् ॥ १५॥ (शक्तिरेवं चेत्)
यज्जुहोति तदित्यादि श्रुतिरायतने यथा ।
शक्त्या तथैव प्रकृते लिङ्गे कुर्यादिति श्रुतिः ॥ १६॥
तथा च सप्तमी सेयं लिङ्गमायतनं परम् ।
ज्ञेयं शिवार्चनस्यापि तत्र शक्ता वदत्यपि ॥ १७॥
फलकामोऽधिकारीति ज्योतिष्टोमविनिश्चयात् ।
प्रकृतेऽप्यधिकारीति फलकाम इति श्रुतः ॥ १८॥
गुणोत्तरान्वेषणाय प्रवृत्ता सापि भावना ।
बिल्वपत्रैरिति श्रुत्या तानि जग्राह सादरम् ॥ १९॥
पत्न्यवेक्षितमित्यत्र संस्कारः पत्न्यवेक्षणम् ।
स्वानीतत्त्वं च संस्कारो बिल्वपत्रेषु निश्चितः ॥ २०॥
प्रयोगे प्रथमे तावत् संस्कारोऽयमिति श्रुतः ।
आज्यवन्न द्वितीया हि प्रयोगे नियमस्तु न ॥ २१॥
(स्वानीतान्येव तानीति सन्ध्कारापेक्षयाऽपि सा ।
स्वानीतत्त्वाख्यसंस्कारं सा गृह्णात्येव सादरम् ॥) (अतिरिक्त श्लोकः)
आधानभावनानाञ्च कर्तृरूपावगाहिनी ।
अनन्धकर्तृसापेक्षा प्रयोगे प्रथमा मता ॥ २२॥
द्वितीयादिप्रयोगेषु दैवादन्धत्वसम्भवे ।
आज्यावेक्षणसंस्कारलोपं गृह्णाति भावना ॥ २३॥
एवं शिवार्चनेऽप्याद्ये स्वातितत्त्वावगाहिनी ।
प्रयोगे भावना तत्त्वं द्वितीया नावगाहते ॥ २४॥
यदि कर्ता स्वयं दक्षः तत्पत्रानयने सदा ।
तद्गृह्णातीति नियमो न द्वितीयादिषु ध्रुवम् ॥ २५॥
न पङ्गुरप्यधिकृतः प्रयोगे प्रथमे यतः ।
प्रदक्षिणक्रमणवत् गृह्णात्यत्रापि भावना ॥ २६॥
एवं चाद्यप्रयोगेऽपि विशेषवचनैः परम् ।
पङ्ग्वादीनपि गृह्णाति शिवपूजनभावना ॥ २७॥
सोमाभावे तु पूतीकान् विशेषवचनेन सा ।
गृह्णाति भावना तद्वत् अन्यद्गृह्णाति भावना ॥ २८॥
आद्यप्रयोगे गृह्णाति बिल्वपत्राणि भावना ।
तदभावे तु तत्तुल्यं पत्रं गृह्णाति भावना ॥ २९॥
अत्राङ्गानि बहून्येव श्रुतानि विविधान्यपि ।
नित्यं चमसवत् किञ्चित् अङ्गमस्ति शिवार्चने ॥ ३०॥
गोदोहनादितुल्यानि काम्याङ्गान्यपि कानिचित् ।
तानि नित्याङ्गलोपाय प्रवृत्तानि कथञ्चन ॥ ३१॥
गोदोहनप्रयोगे किं चमसस्याङ्गता मता ।
एवं नित्याङ्गलोपेऽपि प्रयोगस्याविशेषतः ॥ ३२॥
भस्मत्रिपुण्ड्रकरणं सन्निपत्ये पकारकम् ।
शिवलिङ्गं च रुद्राक्षधारणं च श्रुतिश्रुतम् ॥ ३३॥
नवनीताभ्यञ्जनादितुल्यं भस्मादिधारणम् ।
तस्य प्रतिनिधिर्नेति तत्प्रयोगेऽप्यपेक्षते ॥ ३४॥
कर्माङ्गत्वेन विज्ञातं भस्मधारणमित्यतः ।
तत्त्यागे नाधिकारी स्यात् स्मार्ते वा वैदिकेऽपि वा ॥ ३५॥
शिवमन्त्रजपे योग्यो भस्मधारी भवेन्नरः ।
धृते भस्मनि गायत्री गुरुणाप्युपदिश्यते ॥ ३६॥
अग्निकार्येण सम्पन्ने पूर्वं भस्मन्यतः परम् ।
धृते भस्मनि गायत्री जपयोग्योपजायते ॥ ३७॥
गायत्री शिवमन्त्रत्वात् भस्मधारणभावना ।
सा गृह्णात्विति पश्यन्ति तद्गृहीताऽपि तिष्ठति ॥ ३८॥ (सा गृह्णाति विपश्यन्ति, मां गृह्णात्विति)
रुद्राक्षधारणं तद्वत् तां शिवार्चनभावनाम् ।
स्वानुग्रहार्थं पश्यन्ती भावनां प्रचलिष्यति ॥ ३९॥
पूर्वाङ्गान्युत्तराङ्गानि तानि तावत्परस्परम् ।
महापूर्वोपयुक्तानि स्वापूर्वद्वारसम्भवात् ॥ ४०॥
तदपूर्वफलं यावत् तावदेवोपतिष्ठति ।
फले जाते न तस्यापि कृत्यमित्यवधारितम् ॥ ४१॥
सर्वेभ्य एव कामेभ्यः शिवपूजनमित्यपि ।
प्रयोगभेदमाश्रित्य तदभावेन तन्मतम् ॥ ४२॥
न ह्येकेन प्रयोगेन फलानि विविधान्यपि ।
अतोऽर्थवाद एवायं नानाविधफलश्रुतिः ॥ ४३॥
आवृत्तिश्च प्रयोगानां बहूनि विविधान्यपि ।
फलानि विविधान्येव भविष्यन्तीति निश्चयः ॥ ४४॥
जाघिनीवद् बिल्वपत्रमन्यच्चार्चनसाधनम् ।
भवत्यतो लौकिकं च तदङ्गमिति निश्चितम् ॥ ४५॥
तत्सर्वाङ्गोपसंहारं सर्वथा फलभावना ।
स्वापेक्षितं गृहीत्वैव सम्पूर्णा फलमिच्छति ॥ ४६॥
शुचितत्कालजीवित्वनिद्रालस्यादिवर्जनम् ।
गृह्णाति भावना तावत् तदङ्गमिति निश्चयात् ॥ ४७॥
विश्वासोऽप्यङ्गमेवात्र शिवपूजनबोधके ।
वाक्ये तदर्थवादोऽपि प्ररोचक इति स्मृतेः ॥ ४८॥
शिवार्चनेऽपि वेदस्यावेदस्य नियमात् तयोः । (वेदः स्याद्वेदश्च)
तदङ्गत्वमिति ज्ञातं भावनानुगृहीतयोः ॥ ४९॥
शिवपूजोपकरणं भस्मसंस्कृतमेव तत् ।
गृहीतः सोऽपि संस्कारः तया भावनया हि तत् ॥ ५०॥
अखण्डभावना सेयं प्रयोगस्य विशेषतः ।
भावनान्तरसम्पन्ना तत्तदङ्गावगाहनात् ॥ ५१॥
तत्प्रयोगबहिर्भूतान्यङ्गानि विविधान्यपि ।
गृह्णाति भावना सैव बृहस्पतिसवं यथा ॥ ५२॥
तथा च शिवपूजायां लिङ्गमाहवनीयवत् ।
जलादिवत् शाम्भवोऽपि पूजाधिकरणं क्वचित् ॥ ५३॥
लिङ्गान्यपि विचित्राणि नार्मदादीनि कानिचित् ।
तेषु पूजा विशेषेण तत्फलायोपकल्पते ॥ ५४॥
रेवाजलेन रेवायां रेवातीरसमुद्भवैः ।
दूर्वाङ्कुरैर्वा सम्पूज्य मुक्तो भवति मानवः ॥ ५५॥
रेवातीरसमुत्पन्नाः तरवोऽपि महावने ।
लिङ्गरूपाः ततस्तेषु पूजनं भुक्तिमुक्तिदम् ॥ ५६॥
लिङ्गानि सन्ति यावन्ति त्रैलोक्ये वरवर्णिनि ।
तानि सर्वाणि लिङ्गानि मम प्रियकराणि हि ॥ ५७॥
मद्भक्तो यत्र सद्भत्त्या मम ध्यानं करिष्यति ।
तदेव लिङ्गं मद्रूपमन्यरूपं न सर्वथा ॥ ५८॥
मन्त्रैरधिष्ठिते द्रव्यैः पूजा तावद्विधीयते ।
अधिष्ठानं देवतायाः पवित्रं मन्त्रसाधिते ॥ ५९॥
तथा च सिद्धलिङ्गानि नार्मदादीनि केवलम् ।
तत्र प्रतिष्ठाविधयः प्रसरन्ति न सर्वथा ॥ ६०॥
सिद्धक्षेत्राणि यावन्ति तत्र लिङ्गानि यानि च ।
तेषु प्रतिष्ठाविधयः प्रसरन्ति न सर्वथा ॥ ६१॥
सिद्धक्षेत्रोत्तमा काशी तत्र लिङ्गानि यानि तु ।
तानि लिङ्गानि सर्वाणि सिद्धानीत्यवगम्यते ॥ ६२॥
रेवायां यानि लिङ्गानि तानि लिङ्गानि -शैलजे- ।
सिद्धलिङ्गानि सर्वाणि तानि पूज्यानि सर्वथा ॥ ६३॥
त्रियम्बकाख्यं यल्लिङ्गं गोदामूले मनोहरम् ।
तत् सिद्धलिङ्गं तत्पूजा भुक्तिमुक्तिप्रदायिनी ॥ ६४॥
महाबलाभिधं लिङ्गं सिद्धलिङ्गमिति श्रुतम् । (अहोबलाभिधं)
कोटिशङ्करलिङ्गं च सिद्धलिङ्गमिति श्रुतम् ॥ ६५॥ (संज्ञं सिद्धलिङ्गमिति)
तीर्थेशलिङ्गमप्येवं सिद्धलिङ्गमिति श्रुतम् ।
सङ्गमेश्वरलिङ्गं च सिद्धलिङ्गमिति स्मृतम् ॥ ६६॥
श्रीशैले यानि लिङ्गानि तानि लिङ्गानि -शैलजे- ।
सिद्धलिङ्गानि सर्वाणि तत्पूजा सर्वसिद्धिदा ॥ ६७॥
अशीतियोजनायामः श्रीशैलः -कमलानने- ।
स तु लिङ्गमयः सर्वः सर्वतीर्थमयोऽपि सः ॥ ६८॥
॥ इति शिवरहस्यान्तर्गते सदाशिवप्रोक्ता शिवार्चनविधिव्याख्या सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३४। ४५-११२ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 34. 45-112 ..
Proofread by Ruma Dewan