ऋषि अगस्त्यप्रोक्तं शिवार्चनोपदेशम् ३

ऋषि अगस्त्यप्रोक्तं शिवार्चनोपदेशम् ३

(शिवरहस्यान्तर्गते उग्राख्ये) अगस्त्यः (उवाच) अत एव महादेवः पूजनीयो महर्षिभिः । समर्चयन्त्युमाकान्तमिन्द्रोपेन्द्रादयः सुराः ॥ २२७॥ अत्यन्तश्रद्धया देवं येऽर्चयन्ति महेश्वरम् । तेषामायुष्यमारोग्यमपवर्गश्च जायते ॥ २२८॥ पुण्या शिवा शिवः पुण्यः पुण्यं तिर्यक्त्रिपुण्ड्रकम् । शिवलिङ्गार्चनं पुण्यं पुण्यमानन्दकाननम् ॥ २२९॥ एतत्प्रातः समुत्थाय स्मर्तव्यं पुण्यपञ्चकम् । स्मरणेनास्य सततं जायते पुण्यवान्नरः ॥ २३०॥ उमासहायमित्यादिवेदमन्त्रैः शिवः प्रगे । स्मर्तव्यः सततं विप्रैः सर्वसिध्यर्थमादरात् ॥ २३१॥ शिव शङ्कर गौरीश विश्वनाथ महेश्वर । देवोत्तमेति नामानि प्रातर्जप्यानि सज्जनैः ॥ २३२॥ भवानी स्कन्दजननी गौरी शङ्करवल्लभाम् । शिवेति प्रातरुत्थाय स्मर्तव्या जगदम्बिका ॥ २३३॥ प्रातः कालान्यकालेऽपि शिव शम्भो महेश्वर । महादेवेति नामानि जपनीयानि सज्जनैः ॥ २३४॥ स्मर्तव्यः कीर्तनीयश्च जपनीयश्च शङ्करः । यतस्तत्स्मरणादीनि मुक्तिदानि महामुने ॥ २३५॥ तन्मनो येन मनसा स्मर्यन्ते पार्वतीपतिः । सा जिह्वा कीर्त्यते साम्बः सततं जिह्वया यया ॥ २३६॥ स हस्तो येन हस्तेन बिल्वैः सम्पूज्यते शिवः । तच्छिरो येन शिरसा नम्यते भगवान् शिवः ॥ २३७॥ तौ पादौ यौ शिवक्षेत्रे भक्त्या पर्यटतो मुदा । स पुण्यो येन वा काश्यां स्वशरीरं समर्पितम् ॥ २३८॥ पद्भ्यां प्रदक्षिणाः कार्याः सावधानं शिवालये । हस्ताभ्यां अतियत्नेन कर्तव्यं शङ्करार्चनम् ॥ २३९॥ प्रणामाः स्वशरीरेण कर्तव्याः पार्वतीप्रभोः । श्रोत्राभ्यामतियत्नेन श्रोतव्याः शाङ्कराः कथाः ॥ २४०॥ नेत्राभ्यामतियत्नेन द्रष्टव्यः पूजितः शिवः । घ्राणेन घ्रेयममलं बिल्वपत्रं शिवार्पितम् ॥ २४१॥ जिह्वया श्रीमहादेवः कीर्तनीयः प्रयत्नतः । स्प्रष्टव्यं शिवलिङ्गं च श्रद्धया यत्समर्चितम् ॥ २४२॥ ध्यातव्यो मनसा नित्यमुमादेहार्धविग्रहः । वेदवेदान्तसंवेद्यः सर्वदा श्रीसदाशिवः ॥ २४३॥ इन्द्रियैः षड्भिरप्यार्यास्तत्तदिन्द्रियकर्मभिः । शिवमेवानिशं भक्त्याऽऽराधयन्ति मुमुक्षवः ॥ २४४॥ यजन्ते विविधैर्यज्ञैः शिवमेव हि याजिनः । यतो देवाधिदेवोऽयं यज्ञकर्मफलप्रदः ॥ २४५॥ चिन्तयन्ति महादेवं योगिनो युक्तमानसाः । यतो देवाधिदेवोऽयं योगकर्मफलप्रदः ॥ २४६॥ शिवात्परतरं नेति ये भजन्ति महेश्वरम् । ते धन्यास्ते सदाचारास्ते पूज्या धर्ममूर्तयः ॥ २४७॥ शिवनाममणिं कण्ठे सदा सन्धारयन्ति ये । ते धन्यास्ते सदाचारास्ते पूज्या धर्ममूर्तयः ॥ २४८॥ सन्धारयन्ति ये शुद्धं त्रिपुण्ड्रं शिवभूषणम् । ते धन्यास्ते सदाचारास्ते पूज्या धर्ममूर्तयः ॥ २४९॥ येषां देवगणाधीशो महेशः कुलदैवतम् । ते धन्यास्ते सदाचारास्ते पूज्या धर्ममूर्तयः ॥ २५०॥ येषां सर्वार्थदं नित्यं व्रतं शङ्करपूजनम् । ते धन्यास्ते सदाचारास्ते पूज्या धर्ममूर्तयः ॥ २५१॥ येषां शिवार्चनादन्यद्व्रतं नास्त्येव सर्वथा । ते धन्यास्ते सदाचारास्ते पूज्या धर्ममूर्तयः ॥ २५२॥ येषां शिवान्यदेवेषु शिवभक्तत्वधीः सदा । ते धन्यास्ते सदाचारास्ते पूज्या धर्ममूर्तयः ॥ २५३॥ येषां महेश्वरे साम्बे सर्वदेवोत्तमत्त्वधीः । ते धन्यास्ते सदाचारास्ते पूज्या धर्ममूर्तयः ॥ २५४॥ येषां चित्तं परावृत्तं महादेवान्यदर्शनात् । ते धन्यास्ते सदाचारास्ते पूज्या धर्ममूर्तयः ॥ २५५॥ कर्मणा मनसा वाचा नित्यमव्यभिचारतः । यः पूजयेन्महारुद्रं स मोक्षमधिगच्छति ॥ २५६॥ ॥ इति शिवरहस्यान्तर्गते राजाप्रति ऋषि अगस्त्यप्रोक्तं शिवार्चनोपदेशं ३ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २८ मध्यार्जुनमहिमानुवर्णनम् । २२७-२५६॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 28 madhyArjunamahimAnuvarNanam . 227-256.. Notes: Ṛṣi Agastya ऋषि अगस्त्य delivers Upadeśa उपदेश (to Rājā राजा) about worshiping Śiva शिव. Proofread by Ruma Dewan
% Text title            : Rishi Agastyaproktam Shivarchanopadesham 3
% File name             : shivArchanopadesham3.itx
% itxtitle              : shivArchanopadesham 3 agastyaproktam (shivarahasyAntargatam ata eva mahAdevaH pUjanIyo maharShibhiH)
% engtitle              : shivArchanopadesham 3 agastyaproktam 
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 28 madhyArjunamahimAnuvarNanam | 227-256||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org