ऋषि अगस्त्यप्रोक्तं शिवार्चनोपदेशम् ४
(शिवरहस्यान्तर्गते उग्राख्ये)
अगस्त्यः
यः पूजितः स्तुतो ध्यातो वन्दितोमेशविग्रहः ।
(येन ध्यातः शिवो यस्तु वन्दितोमेशविग्रहः ।)
स एव लभते धन्यो मुक्तिकान्ताकरग्रहम् ॥ २८३॥
विलोकयन्ति सततं मुक्तिकान्तां शिवार्चकाः ।
सापि पश्यति सोत्साहं शिवाराधनतत्परान् ॥ २८४॥
मुक्त्यङ्गना विलोक्यैव शिवाराधनतत्परम् ।
नृत्यत्यत्यन्तसन्तुष्टा वल्लभोऽयं ममेति सा ॥ २८५॥
स एव सततं ध्यात्वा पार्वतीप्राणवल्लभः(भम्) ।
स एव शैवः शुद्धात्मा जायते मुक्तिवल्लभः ॥ २८६॥
स एवातिप्रयत्नेन समाराधितशङ्करः ।
स एव वस्तुतो लोके मुक्तिकान्तामनोहरः ॥ २८७॥
महेश्वरमुमाकान्ता(न्तं) कालान्तकमनामयम् ।
यः पूजयति तस्यैव मुक्तिर्नान्यस्य सर्वथा ॥ २८८॥
स्नात्वादौ भस्मना देहमुद्धूल्यापादमस्तकम् ।
पूजनीयो महादेवो लिङ्गरूपी मुमुक्षुभिः ॥ २८९॥
एवमव्यभिचारेण नित्यमभ्यर्चितः शिवः ।
ददाति भुक्तिं मुक्तिं च सत्यं सत्यं न संशयः ॥ २९०॥
Shloka no. 291 is either missing or the numbering after no. 290 is incorrect.
ऐश्वर्यमतुलं भुक्त्वा शिवलिङ्गार्चनान्मुने ।
प्रयाति शिवसायुज्यं निर्दग्धाखिलकल्पषाः(षः) ॥ २९२॥
कोटिशः कृतपापोऽपि सकृदर्चितशङ्करः ।
प्रयाति शिवसायुज्यं पुनरावृत्तिवर्जितम् ॥ २९३॥
शिवपूजाग्निसन्दग्धमहापातकपर्वताः ।
पीतामृताशुचिर्भूताः (पीतामृताः शिवात्मानः)
शिवं यान्ति शिवादृताः ॥ २९४॥
समभ्यर्च्य महादेवं सकृदप्याहिताशयाः ।
लब्ध्वोपेन्द्रत्वमिन्द्रत्वं ब्रह्मत्वं च शिवं युयुः ॥ २९५॥
॥ इति शिवरहस्यान्तर्गते राजाप्रति ऋषि अगस्त्यप्रोक्तं शिवार्चनोपदेशं ४ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २८ मध्यार्जुनमहिमानुवर्णनम् । २८३-२९५॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 28 madhyArjunamahimAnuvarNanam . 283-295..
Notes:
Ṛṣi Agastya ऋषि अगस्त्य delivers Upadeśa उपदेश (to Rājā राजा) about worshiping Śiva शिव.
Proofread by Ruma Dewan