शिवार्याशतकम्

शिवार्याशतकम्

(* उपातिच्छन्दः) काचित्सोमा धवला कृतविषकवला पटीयसी देवी । जटिला शशधरनिटिला कुहितकुटिला नमस्या मे ॥ १॥ अस्तु निरञ्जनमेकं वस्तु त्रय्याः शिरोभागे । अरुणं तरुणीधरणं विलसत्करुणं तु नः श्रेयः ॥ २॥ नैगमपटलीरूढं मनसि निरूढं जगत्त्रय्याः । हिमगिरिरत्नसमूढं स्मरति न मृढं कुतश्चेतः? ॥ ३॥ अयि! । मामनाथमल्पं करुणाजल्पं प्रभो! पाहि । जहि वा विरुदाकल्पं कल्पं कल्पं यमाधरसे ॥ ४॥ विषयविषाशनमत्तं विषयिषु यत्तं स्मराराते ! । स्मर मां मुहुरनिमित्तं यदि तव चित्तं कृपायोनिः ॥ ५॥ किं न च्छिन्नं शम्भो ! । यदि भवदम्भो विवृद्धोऽसौ । परमिह भवहरमपरं विद्मो न परम्पराजाले ॥ ६॥ विषपीयूषनिकेतन! । धृतविषकेतन ! भवाराते ! चेतितविष्टपचेतन! करुणावेतनमिदं कुरु मे ॥ ७॥ व्यालाकलितजटालादिह विधुभालां ददक्षिणे बालात् । न हि रे ! कण्ठे कालात्कलितकपालात्परं किञ्चित् ॥ ८॥ काचित्कदनितमदना चित्सुखसदना तनू गौरी गौरीचुम्बितवदना चन्दिररदना नमस्या मे ॥ ९॥ काचिचिदिह सदारा दाहितदारा ममेदानीम् । करुणापारावारा जगदाकारा पुरः पश्चात् ॥ १०॥ कपिलः कालीशाली वीटपपाली जगज्जीवः । हरिहरमस्तकमाली मनसि कपाली सदा ध्येयः ॥ ११॥ ऐरावणेन्दुवर्णा शोभितकर्णा फणीन्द्राभ्यां । वामे विलसदपर्णा शिवमितिवर्णा तनुर्ध्येया ॥ १२॥ न वयं वेदविधिज्ञा न च कृतयज्ञाः कृतज्ञा वा । किं स्वाशापटलं पटमकपटमीशं प्रपश्यामः ॥ १३॥ विष्वकरुणावेषा दत्ताशेषा स्वभक्तेभ्यः । शेषाकल्पविशेषा जगतः शेषा तनुः पायात् ॥ १४॥ शमनः श्रेणीशमनी शमदमगमनीयमाहात्म्या । भूतिः कापि च रमणी स्वीकृतरमणी मुदे नः स्यात् ॥ १५॥ निरयत्रासनिहन्त्री बुद्धिनियन्त्री मुमुक्षूणां । कलितकलामयतन्त्री गिरिजारन्त्री तनुर्ध्येया ॥ १६॥ बालकलाधरचूला सुहृदनुकूला जगज्जननी । ध्योतचर्मदुकूला धृतत्रिशूला तनुर्जयति ॥ १७॥ अलसं जडमतिचपलं कितवं धूर्तं शठं हृष्टं । विषमिव विषयिणमपि माभिधेहि त्रिपुरान्तक! स्वपदोः ॥ १८॥ भुजगान्कर्तुं भुजगाननलं निटिले विषं कण्ठे । नैव विवेकस्तेऽभूदर्तुं पदयोः क्षमामेव ॥ १९॥ त्वत्तो मातुस्तातादिह नो धाता पुराराते ! । नापि च भवतः पातादपरः पातास्ति किं कुर्मः ॥ २०॥ वेदावेदितशोधाः प्रत्यग्योधाः श‍ृणुध्वं मे । अर्धाङ्गाहितदारं परमोदारं महः श्रेयः ॥ २१॥ तर्कादुदर्कभाजां कर्कशवाचां प्रपञ्चोऽयम् । यच्छ्रीकण्ठे तेजसि सत्यपि सिद्धान्तमिच्छन्तः ॥ २२॥ सङ्ख्या सङ्ख्याहीनं सङ्ख्यावन्तो ब्रुवन्तु सङ्ख्यें । पश्यन्त्वथवा वल्लयां वल्ल्यां भिल्लीचरं कञ्चित् ॥ २३॥ तावद्धर्मोऽधर्मस्तावत्कर्माप्यकर्मैव । यावत्रिगुणविलासी निगमनिवासी नुतो नेशः ॥ २४॥ यदिदं निगमविचारे स्मृतिसंसारेऽपि यथावत् । तदिदं निखिलाधारं सारं कैलासकुञ्जेषु ॥ २५॥ विषधरविषयविषादं मामविषादं धरः स्वपदोः । नो चेत्रिभुवनरक्षणविरुदं भवतोऽद्य भाराय ॥ २६॥ काचिच्चित्तकुटीरे चित्पटपेटीगता मूर्तिः । उद्भटतटिनीमुकुटा घटतो रटतः स्फुटं मेऽस्ति ॥ २७॥ काचिच्चित्तचमत्कृतिरुग्रा सोमासिता काली । स्त्रीपुंस्तनुरप्येका चिन्त्यविवेका मुदे नस्तात् ॥ २८॥ न हि रे! । काचन चिन्ता त्रिजगचिन्तामणिः शम्भुः । अन्तः परितः पुरतः स्फुरति प्रेम्णा समाकृतः ॥ २९॥ मन्त्रैः किं किं तन्त्रैरपि किं वेदान्तसिद्धान्तैः । यावत्तत्त्वगुरूणां गुरुरयमाशो न सर्वस्वम् ॥ ३०॥ मास्तु ममागमबोधो मास्तु च शोधोऽपि सर्वत्र । अस्तु श्रुतिषु यदेकं वस्तु स्वान्ते मृडान्येव ॥ ३१॥ स्मरहर पुरहर भव हर शिव मृड गिरिशेति अल्पतामग्रे । भृत्यायते सुरेज्यः कालो बालायते सद्यः ॥ ३२॥ नाहं विभेमि कालान्नो भवजालादपि भ्रष्टः । दीनानाथत्रातरि पातरि शिरसि स्थिते स्थाणौ ॥ ३३॥ शिवदः शम्भुः शङ्कर ईश्वर एवासि सर्वेषु । वामेषु बामदेवो देव ! त्वं मत्कृते स्थाणुः ॥ ३४॥ सन्ततमाद्रिनिवासात्कठोरनाम्नावनौ नीतः । अपि काकोलहरत्वात्करुणाकृपार एवासि ॥ ३५॥ दग्धे दिविद्वृन्दे परितः प्लुष्टेऽपि गोविन्दे । ब्रह्माण्डमण्डपेऽस्मिन्क्षुब्धे ६वेडाश एव त्वम् ॥ ३६॥ पयसा प्लावितसत्ये कॢप्त वैकुण्ठ आकण्टे । स्मारितविष्टपवृत्त धर्ता त्वं स्वेव गङ्गायाः ॥ ३७॥ वृन्दायामपि विष्णुं तद्वत्परमेष्ठिनं च कन्यायां । युङ्क्त्वाप्यतो जिगीषुः स्मर्तव्यात्मा स्मरस्त्वत्तः ॥ ३८॥ गर्वादखर्वकर्ता त्वहमिति भावादृतो बोधः । त्वामपि सविधे विमनंश्छिन्नः कापालभूषायै ॥ ३९॥ केचिद्वदन्ति गुणिनं निर्गुणमेकेऽपि विद्वांसः । निर्णेतुमेव धत्से त्रिगुणीं मुण्डावलिं नित्यः ॥ ४०॥ नित्यानित्यविवेके नित्यस्त्वत्तोऽस्ति नैवान्यः । निखिलं त्वमेव दग्धा धत्से भस्माङ्गरागाय ॥ ४१॥ भस्मासुरोऽपि कश्चिद्धस्मरशक्तिः पुरा भक्तः । विस्मृतशैवचपेटः कपटी भस्मैव सञ्जातः ॥ ४२॥ ख्यातस्त्वमेव देवस्त्वमेव निखिले महादेवः । रुद्रादन्याभावे स नास्मि विष्णुर्न वा धाता ॥ ४३॥ धातुस्त्वमेव धाता पाता विष्णोश्च विष्णुत्वात । अपि च हरस्य हरस्त्वं नातस्त्रातः परा काष्टा ॥ ४४॥ काष्ठावासो वासो यस्य त्रैलोक्यधृलीषु । युक्तं निखिले दग्धे शेषावासश्च वासाय ॥ ४५॥ वासो यस्य हृदब्जे भासः सर्वेषु भूतेषु । हासः कालो नृत्याद्दासस्तस्याहमेकस्य ॥ ४६॥ एकस्य द्वे नियमात्कश्चिद्वैपश्चितोऽस्स्वर्थः । जानेऽहं तु यदङ्गे गिरिजागङ्गे तमेवैकम् ॥ ४७॥ एको रुद्रः प्रथमा सर्वो रुद्रः परा बृते । परमृग्यजुषोक्तीनां सिद्धः सिद्धान्त एवैकः ॥ ४८॥ एकोऽहं तु बहु स्यामनया वाचैव सा सिद्धिः । तस्मात्सिद्धिनिदानं रुद्रं जानन्तु भद्राय ॥ ४९॥ भद्राय राजमुद्रा वेदो ब्रूते शिवः शिवदः । नातः पुमर्थसिद्धिः काचित्कश्चिन्न सिद्धान्तः ॥ ५०॥ सिद्धान्तादरदूरं दूरत्वान्नाम पीयूषात् । पीयूषांशुकलाधरधर मां चानाथनाथत्वात् ॥ ५१॥ नाथ! । त्वामनुयातस्याधःपातः कथं मे स्यात् । स्यादथ दैवनियोगाद्योगाभक्त्याथ मुक्त्या च ॥ ५२॥ मुक्त्यालमस्तु भक्तिप्रसादलभ्यो ममास्त्विष्टः । ब्रह्माण्डव्रजबीजः कैलासाद्रिद्रुमः कश्चित् ॥ ५३॥ कश्चिद्गिरिजावल्लीवातो ललितो जगत्पर्णैः । स्वान्तालवालवासी स्मृत्या फलितो भवेत्सद्यः ॥ ५४॥ सद्यः पापविनाशः सद्यस्त्रैतापिकी शान्तिः । सद्यः सकलसुखानां सिद्धिर्भविता शिवस्मरणात् ॥ ५५॥ स्मरणादेव हि देवा मरणान्मुक्ताः सुखं चेरुः । स्मरणादेव मुनीशाः शम्भोः कारुण्यपात्राणि ॥ ५६॥ पात्राणि तानि मन्ये हिमगिरिकन्येशपूर्णानि । शेषाणि खर्पराणि प्रायो विण्मूत्रदिग्धानि ॥ ५७॥ दिग्धानि भान्ति येषां भसितैर्भालानि भाग्येन । धन्यास्त एव वन्या नान्यान्मन्यामहे नूनम् ॥ ५८॥ नूनं विभूतिकवचाः शिवमृडरुद्रेति दिव्यास्त्राः । त्रिषु लोकेषु जयन्तः सन्ततमन्तः कृपावन्तः ॥ ५९॥ कृपया तेन विमुक्ता जीवन्मुक्तास्त एवैते । येषामन्तःकरणे जगदावरणेश्वरः शम्भुः ॥ ६०॥ शम्भुर्मुक्तिलताया मण्डप एवास्ति निश्चितं फलवान् । यस्तामिच्छति कश्चित्सुततं मनसा श्रयेत्स्वस्थः ॥ ६१॥ स्वस्थस्तदेव भविता भविता सिद्धिस्तदा काचित् । सुरनरफणिनामविता त्रिजगत्सविता सदा ध्यातः ॥ ६२॥ ध्यातः शुद्धमनोभिः ख्यातः श्रौतार्थविस्तारैः । ज्ञातः परमगुरुभ्योऽस्यातः शम्भोरहं भृत्यः ॥ ६३॥ भृत्यः कृतातिकृत्यः शम्भोरेवास्ति नान्यस्य । कुपिते कदाप्यगस्त्ये सिन्धुर्बिदूपमो जातः ॥ ६४॥ जातो दशावतारी भृगुणा शप्तोऽपि गोविन्दः । गोविन्दोऽपि यदीयो मधुहा मुरहाथ लक्ष्मीशः ॥ ६५॥ लक्ष्मीश्वरोऽथ चक्री खगपतिरपि यो जगत्राता । वरदे गौरीरमणे विष्णुदैत्यान्तको जातः ॥ ६६॥ जातो मरत्यवश्यं मृत्योर्जायेत वा निरयी । प्राप्ते कायनिकाये शिवमेवालम्ब रे चेतः! ॥ ६७॥ चेतस्तवैव भाग्याञ्चक्षुःश्रोत्रास्यमुख्यानि । सन्तीन्द्रियाणि यावत्तावत्सम्भावयेशानम् ॥ ६८॥ ईशानमेव शरणं व्रजतो मरणं तु मोक्षाय । नो चेन्मायावरणं व शिवाचरणं विना नश्येत् ? ॥ ६९॥ नश्येत्पापकलापः शिव शिव जप्ते क्व सन्तापः ? स्यादथ कोऽपि दुरापः सुमेरुचापः पुरः पश्चात् ॥ ७०॥ पश्चात्तापनिमित्तं ब्रूमश्चितं प्रति क्षोभात् । स्मर रे! शिवेति वित्तं भित्त्वा भित्तं तु विषयाणाम् ॥ ७१॥ विषयाणामपि चिन्ता का तव चिन्ता । शिव शिव शिवेति जते शिव एवं त्वं न सन्देहः ॥ ७२॥ सन्देहोऽपि न कश्चित्सर्यो रुद्रः श्रुतिर्बूते । तस्माद्भावनयाहं बद्धो मुक्तोऽहमित्युक्तिः ॥ ७३॥ उक्तिस्तावद्द्विविधा विद्याऽविद्यात्मिका भवति । विधा शिवपदफलदाऽविद्या संसारभोगाय ॥ ७४॥ भोगायापि श्चेद्ध्यातो दद्यात्स सद्भोगान् । विषयप्रेमजभोगो भुक्तो भवतैव रोगाय ॥ ७५॥ रोगायौषधमकं दृष्ट्वा नैकं वदाम्येतत् । एका पुण्यत रङ्गा गङ्गा गङ्गाधरोऽप्येकः ॥ ७६॥ एको वस्तुविवेको धात्रामेकोपनिषदुक्तः । शिवमिति स परिच्छेको न चेति भेकोपमो ब्रूते ॥ ७७॥ ब्रूते यस्तु कदाचिच्छिवेति नामाक्षरद्वितयं । तस्य तदेव भवाहे मुक्तिर्भुक्तिश्च मुक्तिश्च ॥ ७८॥ मुक्तिः शमदमसिद्धा यस्याः सिद्धा अपि भ्रष्टाः । भ्रष्टा अपि शिवभक्त्या स्रष्टारस्ते तु शास्त्राणाम् ॥ ७९॥ शास्त्राणि सन्तु दूरं दूरं मन्त्राश्च तन्त्राणि । नेदीयसीह चेतसि नित्यानन्दे जगत्कन्दे ॥ ८०॥ कन्दं छिनत्ति जनुषां भिनत्ति भेदभ्रमं सद्यः । यच्छति रूपमरूपं चित्तमचिन्तामणेः शम्भोः ॥ ८१॥ शम्भोर्ध्यानममन्दं ज्ञानानन्दं नयत्युच्चैः । अश्रममपि तन्मन्दास्त्यजन्ति पापे च युञ्जन्ति ॥ ८२॥ युञ्जन्ति योगमपरे भोगं भुञ्जन्ति चैवान्ये । अस्माकमप्यभङ्गा तृप्तिगङ्गाधरः कश्चित् ॥ ८३॥ कश्चिच्चिदम्बुमाली जटिलो व्यालीन्सद्व्यालः । शूली ब्रह्मकपाली विभूतिशाली स नः पायात् ॥ ८४॥ पायादपायहन्ता पुङ्गवगन्ता पुरारातिः । मुनिजनमानसरन्ता मानससन्तापदावाग्निः ॥ ८५॥ दावाग्नेरप्यधिकः सम्भवमरणोद्भवो व्याधिः । शान्तिस्तदैव भविता भविता भर्गश्च वैद्यश्चेत् ॥ ८६॥ चेदद्य नीलकण्ठं भवगजकण्ठीरवं स्मरसि । तर्हि त्वमेव जन्तो! बहुविधमन्तो सुखी भविता ॥ ८७॥ भविता तदैव सर्वं श‍ृणु गतगर्वं किमप्यन्तः । जपतः सर्वदशर्वं दुःखमसर्वं सुखाय स्यात् ॥ ८८॥ स्यादिह कोऽपि न पाता पातकपातादहं जाने । दैवाद्गिरिजाजानेरपरः शपथोऽस्ति तत्पदयोः ॥ ८९॥ पदयोरधरीभूते विधुरीभूतोऽसि चेन्नाथ! । कः कटु मधुरीकुरुते त्वत्तोऽप्यन्तरधुरीणस्त्वम् ॥ ९०॥ त्वं मे माता तातस्राता भ्राता गुरुर्देवः । त्वं मे जीवस्त्वत्तः परमं परमं न मे किञ्चित् ॥ ९१॥ किञ्चित्काचित्कश्चित्रितयं तावद्भवत्यर्वाक् । शिवलिङ्गादेकस्मात्स्फुरन्ति सर्वाणि लिङ्गानि ॥ ९२॥ लिङ्गानि पूर्वदेवैर्देवः सर्वेषु लोकेषु । नत्वा हरिहरमुख्यैर्लब्धानीष्टानि निष्ठातः ॥ ९३॥ निष्ठा विमलज्ञानं निष्ठा भक्तिश्च वैराग्यं । निष्टैव संशयानां हन्त्री निष्टा शिवं दत्ते ॥ ९४॥ दत्ते भावितमन्तर्धत्ते त्वीयेषु कृत्येषु । नित्यैव नित्यमीशो यस्तं मत्या श्रयेदन्तः ॥ ९५॥ अन्तः शुखमनोभिः सन्तः पश्यन्ति यत्तेजः । गौरं तदेव गौरीलम्पटमपटं प्रपश्यामः ॥ ९६॥ पश्यन्तस्त्वामीशं के परमीशं प्रपश्यन्ति । अभजन्तोऽपि भजन्तं के परमं तं न पश्यन्ति ॥ ९७॥ पश्यन्ति शाश्वतं ते पदमिह शम्भोः पदे लग्नाः । अपरे पतति सद्यः परितः क्लिश्यन्ति वा भग्नाः ॥ ९८॥ भग्नास्त एवं लोके त एव शोके निमज्जन्ति । यैरधिवाणि भवानीपतिरिह नानीयते यत्नात् ॥ ९९॥ मोदादन्तर्गोधाधरमघ्नतो दापतुत्यै ये (?) दधति विषयापनोदानपहस्तो दारभासस्ते ॥ १००॥ भासन्त एव वासा येषां वासाय विग्वासाः । तेऽपि सुखोल्लासा वै शैवा शैवस्य देवताकाराः ॥ १०१॥ (अनुष्टुप्छन्दः) इदमार्यापतेरार्याशतमार्याः पठन्ति ये । ते तु शैवागमाचार्या नात्र कार्या विचारणा ॥ १०२॥ इत्याकूतमयूरेशशैवेनाऽऽशैवशासनात् । उपगीत्यैव गीतानां गाता वीशः प्रसीदतु ॥ १०३॥ इति श्रीरामनन्दनमयूरेश्वरकृतं शिवार्याशतकं सम्पूर्णम् । टिप्पणि * अस्य शतकस्यैतत्कविकृतत्वे संशते नश्चतः । नास्य नामापि कविलिखितस्वकृतग्रन्थावल्यामुपलभ्यते । न च कापि मातृका । काव्यसङ्ग्रहकारैस्तु शतकमेतद्यथा मुद्रितं तथैवास्माभिर्मुद्यते । सन्ति खल्वत्र बहव एवाशुद्धयः । अपेक्ष्यन्ते च कचित्कतिपये वर्णाः । यद्यप्यन्ते ``इदमार्यापतेरार्याशतम्'' इत्यादि लिख्यते तथापि तत्परलिखितं स्यादित्यस्ति नो विश्वासः । तादृशस्योल्लेखस्य कुत्राप्येतत्कविकाव्येऽदर्शनात् । Proofread by Rajesh Thyagarajan
% Text title            : Shivarya Shatakam
% File name             : shivAryAshatakam.itx
% itxtitle              : shivAryAshatakam (shrIrAmanandanamayUreshvarakRitam)
% engtitle              : shivAryAshatakam
% Category              : shiva, moropanta, shataka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org