शिवार्याशतकम्
(* उपातिच्छन्दः)
काचित्सोमा धवला कृतविषकवला पटीयसी देवी ।
जटिला शशधरनिटिला कुहितकुटिला नमस्या मे ॥ १॥
अस्तु निरञ्जनमेकं वस्तु त्रय्याः शिरोभागे ।
अरुणं तरुणीधरणं विलसत्करुणं तु नः श्रेयः ॥ २॥
नैगमपटलीरूढं मनसि निरूढं जगत्त्रय्याः ।
हिमगिरिरत्नसमूढं स्मरति न मृढं कुतश्चेतः? ॥ ३॥
अयि! । मामनाथमल्पं करुणाजल्पं प्रभो! पाहि ।
जहि वा विरुदाकल्पं कल्पं कल्पं यमाधरसे ॥ ४॥
विषयविषाशनमत्तं विषयिषु यत्तं स्मराराते ! ।
स्मर मां मुहुरनिमित्तं यदि तव चित्तं कृपायोनिः ॥ ५॥
किं न च्छिन्नं शम्भो ! । यदि भवदम्भो विवृद्धोऽसौ ।
परमिह भवहरमपरं विद्मो न परम्पराजाले ॥ ६॥
विषपीयूषनिकेतन! । धृतविषकेतन ! भवाराते !
चेतितविष्टपचेतन! करुणावेतनमिदं कुरु मे ॥ ७॥
व्यालाकलितजटालादिह विधुभालां ददक्षिणे बालात् ।
न हि रे ! कण्ठे कालात्कलितकपालात्परं किञ्चित् ॥ ८॥
काचित्कदनितमदना चित्सुखसदना तनू गौरी
गौरीचुम्बितवदना चन्दिररदना नमस्या मे ॥ ९॥
काचिचिदिह सदारा दाहितदारा ममेदानीम् ।
करुणापारावारा जगदाकारा पुरः पश्चात् ॥ १०॥
कपिलः कालीशाली वीटपपाली जगज्जीवः ।
हरिहरमस्तकमाली मनसि कपाली सदा ध्येयः ॥ ११॥
ऐरावणेन्दुवर्णा शोभितकर्णा फणीन्द्राभ्यां ।
वामे विलसदपर्णा शिवमितिवर्णा तनुर्ध्येया ॥ १२॥
न वयं वेदविधिज्ञा न च कृतयज्ञाः कृतज्ञा वा ।
किं स्वाशापटलं पटमकपटमीशं प्रपश्यामः ॥ १३॥
विष्वकरुणावेषा दत्ताशेषा स्वभक्तेभ्यः ।
शेषाकल्पविशेषा जगतः शेषा तनुः पायात् ॥ १४॥
शमनः श्रेणीशमनी शमदमगमनीयमाहात्म्या ।
भूतिः कापि च रमणी स्वीकृतरमणी मुदे नः स्यात् ॥ १५॥
निरयत्रासनिहन्त्री बुद्धिनियन्त्री मुमुक्षूणां ।
कलितकलामयतन्त्री गिरिजारन्त्री तनुर्ध्येया ॥ १६॥
बालकलाधरचूला सुहृदनुकूला जगज्जननी ।
ध्योतचर्मदुकूला धृतत्रिशूला तनुर्जयति ॥ १७॥
अलसं जडमतिचपलं कितवं धूर्तं शठं हृष्टं ।
विषमिव विषयिणमपि माभिधेहि त्रिपुरान्तक! स्वपदोः ॥ १८॥
भुजगान्कर्तुं भुजगाननलं निटिले विषं कण्ठे ।
नैव विवेकस्तेऽभूदर्तुं पदयोः क्षमामेव ॥ १९॥
त्वत्तो मातुस्तातादिह नो धाता पुराराते ! ।
नापि च भवतः पातादपरः पातास्ति किं कुर्मः ॥ २०॥
वेदावेदितशोधाः प्रत्यग्योधाः शृणुध्वं मे ।
अर्धाङ्गाहितदारं परमोदारं महः श्रेयः ॥ २१॥
तर्कादुदर्कभाजां कर्कशवाचां प्रपञ्चोऽयम् ।
यच्छ्रीकण्ठे तेजसि सत्यपि सिद्धान्तमिच्छन्तः ॥ २२॥
सङ्ख्या सङ्ख्याहीनं सङ्ख्यावन्तो ब्रुवन्तु सङ्ख्यें ।
पश्यन्त्वथवा वल्लयां वल्ल्यां भिल्लीचरं कञ्चित् ॥ २३॥
तावद्धर्मोऽधर्मस्तावत्कर्माप्यकर्मैव ।
यावत्रिगुणविलासी निगमनिवासी नुतो नेशः ॥ २४॥
यदिदं निगमविचारे स्मृतिसंसारेऽपि यथावत् ।
तदिदं निखिलाधारं सारं कैलासकुञ्जेषु ॥ २५॥
विषधरविषयविषादं मामविषादं धरः स्वपदोः ।
नो चेत्रिभुवनरक्षणविरुदं भवतोऽद्य भाराय ॥ २६॥
काचिच्चित्तकुटीरे चित्पटपेटीगता मूर्तिः ।
उद्भटतटिनीमुकुटा घटतो रटतः स्फुटं मेऽस्ति ॥ २७॥
काचिच्चित्तचमत्कृतिरुग्रा सोमासिता काली ।
स्त्रीपुंस्तनुरप्येका चिन्त्यविवेका मुदे नस्तात् ॥ २८॥
न हि रे! । काचन चिन्ता त्रिजगचिन्तामणिः शम्भुः ।
अन्तः परितः पुरतः स्फुरति प्रेम्णा समाकृतः ॥ २९॥
मन्त्रैः किं किं तन्त्रैरपि किं वेदान्तसिद्धान्तैः ।
यावत्तत्त्वगुरूणां गुरुरयमाशो न सर्वस्वम् ॥ ३०॥
मास्तु ममागमबोधो मास्तु च शोधोऽपि सर्वत्र ।
अस्तु श्रुतिषु यदेकं वस्तु स्वान्ते मृडान्येव ॥ ३१॥
स्मरहर पुरहर भव हर शिव मृड गिरिशेति अल्पतामग्रे ।
भृत्यायते सुरेज्यः कालो बालायते सद्यः ॥ ३२॥
नाहं विभेमि कालान्नो भवजालादपि भ्रष्टः ।
दीनानाथत्रातरि पातरि शिरसि स्थिते स्थाणौ ॥ ३३॥
शिवदः शम्भुः शङ्कर ईश्वर एवासि सर्वेषु ।
वामेषु बामदेवो देव ! त्वं मत्कृते स्थाणुः ॥ ३४॥
सन्ततमाद्रिनिवासात्कठोरनाम्नावनौ नीतः ।
अपि काकोलहरत्वात्करुणाकृपार एवासि ॥ ३५॥
दग्धे दिविद्वृन्दे परितः प्लुष्टेऽपि गोविन्दे ।
ब्रह्माण्डमण्डपेऽस्मिन्क्षुब्धे ६वेडाश एव त्वम् ॥ ३६॥
पयसा प्लावितसत्ये कॢप्त वैकुण्ठ आकण्टे ।
स्मारितविष्टपवृत्त धर्ता त्वं स्वेव गङ्गायाः ॥ ३७॥
वृन्दायामपि विष्णुं तद्वत्परमेष्ठिनं च कन्यायां ।
युङ्क्त्वाप्यतो जिगीषुः स्मर्तव्यात्मा स्मरस्त्वत्तः ॥ ३८॥
गर्वादखर्वकर्ता त्वहमिति भावादृतो बोधः ।
त्वामपि सविधे विमनंश्छिन्नः कापालभूषायै ॥ ३९॥
केचिद्वदन्ति गुणिनं निर्गुणमेकेऽपि विद्वांसः ।
निर्णेतुमेव धत्से त्रिगुणीं मुण्डावलिं नित्यः ॥ ४०॥
नित्यानित्यविवेके नित्यस्त्वत्तोऽस्ति नैवान्यः ।
निखिलं त्वमेव दग्धा धत्से भस्माङ्गरागाय ॥ ४१॥
भस्मासुरोऽपि कश्चिद्धस्मरशक्तिः पुरा भक्तः ।
विस्मृतशैवचपेटः कपटी भस्मैव सञ्जातः ॥ ४२॥
ख्यातस्त्वमेव देवस्त्वमेव निखिले महादेवः ।
रुद्रादन्याभावे स नास्मि विष्णुर्न वा धाता ॥ ४३॥
धातुस्त्वमेव धाता पाता विष्णोश्च विष्णुत्वात ।
अपि च हरस्य हरस्त्वं नातस्त्रातः परा काष्टा ॥ ४४॥
काष्ठावासो वासो यस्य त्रैलोक्यधृलीषु ।
युक्तं निखिले दग्धे शेषावासश्च वासाय ॥ ४५॥
वासो यस्य हृदब्जे भासः सर्वेषु भूतेषु ।
हासः कालो नृत्याद्दासस्तस्याहमेकस्य ॥ ४६॥
एकस्य द्वे नियमात्कश्चिद्वैपश्चितोऽस्स्वर्थः ।
जानेऽहं तु यदङ्गे गिरिजागङ्गे तमेवैकम् ॥ ४७॥
एको रुद्रः प्रथमा सर्वो रुद्रः परा बृते ।
परमृग्यजुषोक्तीनां सिद्धः सिद्धान्त एवैकः ॥ ४८॥
एकोऽहं तु बहु स्यामनया वाचैव सा सिद्धिः ।
तस्मात्सिद्धिनिदानं रुद्रं जानन्तु भद्राय ॥ ४९॥
भद्राय राजमुद्रा वेदो ब्रूते शिवः शिवदः ।
नातः पुमर्थसिद्धिः काचित्कश्चिन्न सिद्धान्तः ॥ ५०॥
सिद्धान्तादरदूरं दूरत्वान्नाम पीयूषात् ।
पीयूषांशुकलाधरधर मां चानाथनाथत्वात् ॥ ५१॥
नाथ! । त्वामनुयातस्याधःपातः कथं मे स्यात् ।
स्यादथ दैवनियोगाद्योगाभक्त्याथ मुक्त्या च ॥ ५२॥
मुक्त्यालमस्तु भक्तिप्रसादलभ्यो ममास्त्विष्टः ।
ब्रह्माण्डव्रजबीजः कैलासाद्रिद्रुमः कश्चित् ॥ ५३॥
कश्चिद्गिरिजावल्लीवातो ललितो जगत्पर्णैः ।
स्वान्तालवालवासी स्मृत्या फलितो भवेत्सद्यः ॥ ५४॥
सद्यः पापविनाशः सद्यस्त्रैतापिकी शान्तिः ।
सद्यः सकलसुखानां सिद्धिर्भविता शिवस्मरणात् ॥ ५५॥
स्मरणादेव हि देवा मरणान्मुक्ताः सुखं चेरुः ।
स्मरणादेव मुनीशाः शम्भोः कारुण्यपात्राणि ॥ ५६॥
पात्राणि तानि मन्ये हिमगिरिकन्येशपूर्णानि ।
शेषाणि खर्पराणि प्रायो विण्मूत्रदिग्धानि ॥ ५७॥
दिग्धानि भान्ति येषां भसितैर्भालानि भाग्येन ।
धन्यास्त एव वन्या नान्यान्मन्यामहे नूनम् ॥ ५८॥
नूनं विभूतिकवचाः शिवमृडरुद्रेति दिव्यास्त्राः ।
त्रिषु लोकेषु जयन्तः सन्ततमन्तः कृपावन्तः ॥ ५९॥
कृपया तेन विमुक्ता जीवन्मुक्तास्त एवैते ।
येषामन्तःकरणे जगदावरणेश्वरः शम्भुः ॥ ६०॥
शम्भुर्मुक्तिलताया मण्डप एवास्ति निश्चितं फलवान् ।
यस्तामिच्छति कश्चित्सुततं मनसा श्रयेत्स्वस्थः ॥ ६१॥
स्वस्थस्तदेव भविता भविता सिद्धिस्तदा काचित् ।
सुरनरफणिनामविता त्रिजगत्सविता सदा ध्यातः ॥ ६२॥
ध्यातः शुद्धमनोभिः ख्यातः श्रौतार्थविस्तारैः ।
ज्ञातः परमगुरुभ्योऽस्यातः शम्भोरहं भृत्यः ॥ ६३॥
भृत्यः कृतातिकृत्यः शम्भोरेवास्ति नान्यस्य ।
कुपिते कदाप्यगस्त्ये सिन्धुर्बिदूपमो जातः ॥ ६४॥
जातो दशावतारी भृगुणा शप्तोऽपि गोविन्दः ।
गोविन्दोऽपि यदीयो मधुहा मुरहाथ लक्ष्मीशः ॥ ६५॥
लक्ष्मीश्वरोऽथ चक्री खगपतिरपि यो जगत्राता ।
वरदे गौरीरमणे विष्णुदैत्यान्तको जातः ॥ ६६॥
जातो मरत्यवश्यं मृत्योर्जायेत वा निरयी ।
प्राप्ते कायनिकाये शिवमेवालम्ब रे चेतः! ॥ ६७॥
चेतस्तवैव भाग्याञ्चक्षुःश्रोत्रास्यमुख्यानि ।
सन्तीन्द्रियाणि यावत्तावत्सम्भावयेशानम् ॥ ६८॥
ईशानमेव शरणं व्रजतो मरणं तु मोक्षाय ।
नो चेन्मायावरणं व शिवाचरणं विना नश्येत् ? ॥ ६९॥
नश्येत्पापकलापः शिव शिव जप्ते क्व सन्तापः ?
स्यादथ कोऽपि दुरापः सुमेरुचापः पुरः पश्चात् ॥ ७०॥
पश्चात्तापनिमित्तं ब्रूमश्चितं प्रति क्षोभात् ।
स्मर रे! शिवेति वित्तं भित्त्वा भित्तं तु विषयाणाम् ॥ ७१॥
विषयाणामपि चिन्ता का तव चिन्ता ।
शिव शिव शिवेति जते शिव एवं त्वं न सन्देहः ॥ ७२॥
सन्देहोऽपि न कश्चित्सर्यो रुद्रः श्रुतिर्बूते ।
तस्माद्भावनयाहं बद्धो मुक्तोऽहमित्युक्तिः ॥ ७३॥
उक्तिस्तावद्द्विविधा विद्याऽविद्यात्मिका भवति ।
विधा शिवपदफलदाऽविद्या संसारभोगाय ॥ ७४॥
भोगायापि श्चेद्ध्यातो दद्यात्स सद्भोगान् ।
विषयप्रेमजभोगो भुक्तो भवतैव रोगाय ॥ ७५॥
रोगायौषधमकं दृष्ट्वा नैकं वदाम्येतत् ।
एका पुण्यत रङ्गा गङ्गा गङ्गाधरोऽप्येकः ॥ ७६॥
एको वस्तुविवेको धात्रामेकोपनिषदुक्तः ।
शिवमिति स परिच्छेको न चेति भेकोपमो ब्रूते ॥ ७७॥
ब्रूते यस्तु कदाचिच्छिवेति नामाक्षरद्वितयं ।
तस्य तदेव भवाहे मुक्तिर्भुक्तिश्च मुक्तिश्च ॥ ७८॥
मुक्तिः शमदमसिद्धा यस्याः सिद्धा अपि भ्रष्टाः ।
भ्रष्टा अपि शिवभक्त्या स्रष्टारस्ते तु शास्त्राणाम् ॥ ७९॥
शास्त्राणि सन्तु दूरं दूरं मन्त्राश्च तन्त्राणि ।
नेदीयसीह चेतसि नित्यानन्दे जगत्कन्दे ॥ ८०॥
कन्दं छिनत्ति जनुषां भिनत्ति भेदभ्रमं सद्यः ।
यच्छति रूपमरूपं चित्तमचिन्तामणेः शम्भोः ॥ ८१॥
शम्भोर्ध्यानममन्दं ज्ञानानन्दं नयत्युच्चैः ।
अश्रममपि तन्मन्दास्त्यजन्ति पापे च युञ्जन्ति ॥ ८२॥
युञ्जन्ति योगमपरे भोगं भुञ्जन्ति चैवान्ये ।
अस्माकमप्यभङ्गा तृप्तिगङ्गाधरः कश्चित् ॥ ८३॥
कश्चिच्चिदम्बुमाली जटिलो व्यालीन्सद्व्यालः ।
शूली ब्रह्मकपाली विभूतिशाली स नः पायात् ॥ ८४॥
पायादपायहन्ता पुङ्गवगन्ता पुरारातिः ।
मुनिजनमानसरन्ता मानससन्तापदावाग्निः ॥ ८५॥
दावाग्नेरप्यधिकः सम्भवमरणोद्भवो व्याधिः ।
शान्तिस्तदैव भविता भविता भर्गश्च वैद्यश्चेत् ॥ ८६॥
चेदद्य नीलकण्ठं भवगजकण्ठीरवं स्मरसि ।
तर्हि त्वमेव जन्तो! बहुविधमन्तो सुखी भविता ॥ ८७॥
भविता तदैव सर्वं शृणु गतगर्वं किमप्यन्तः ।
जपतः सर्वदशर्वं दुःखमसर्वं सुखाय स्यात् ॥ ८८॥
स्यादिह कोऽपि न पाता पातकपातादहं जाने ।
दैवाद्गिरिजाजानेरपरः शपथोऽस्ति तत्पदयोः ॥ ८९॥
पदयोरधरीभूते विधुरीभूतोऽसि चेन्नाथ! ।
कः कटु मधुरीकुरुते त्वत्तोऽप्यन्तरधुरीणस्त्वम् ॥ ९०॥
त्वं मे माता तातस्राता भ्राता गुरुर्देवः ।
त्वं मे जीवस्त्वत्तः परमं परमं न मे किञ्चित् ॥ ९१॥
किञ्चित्काचित्कश्चित्रितयं तावद्भवत्यर्वाक् ।
शिवलिङ्गादेकस्मात्स्फुरन्ति सर्वाणि लिङ्गानि ॥ ९२॥
लिङ्गानि पूर्वदेवैर्देवः सर्वेषु लोकेषु ।
नत्वा हरिहरमुख्यैर्लब्धानीष्टानि निष्ठातः ॥ ९३॥
निष्ठा विमलज्ञानं निष्ठा भक्तिश्च वैराग्यं ।
निष्टैव संशयानां हन्त्री निष्टा शिवं दत्ते ॥ ९४॥
दत्ते भावितमन्तर्धत्ते त्वीयेषु कृत्येषु ।
नित्यैव नित्यमीशो यस्तं मत्या श्रयेदन्तः ॥ ९५॥
अन्तः शुखमनोभिः सन्तः पश्यन्ति यत्तेजः ।
गौरं तदेव गौरीलम्पटमपटं प्रपश्यामः ॥ ९६॥
पश्यन्तस्त्वामीशं के परमीशं प्रपश्यन्ति ।
अभजन्तोऽपि भजन्तं के परमं तं न पश्यन्ति ॥ ९७॥
पश्यन्ति शाश्वतं ते पदमिह शम्भोः पदे लग्नाः ।
अपरे पतति सद्यः परितः क्लिश्यन्ति वा भग्नाः ॥ ९८॥
भग्नास्त एवं लोके त एव शोके निमज्जन्ति ।
यैरधिवाणि भवानीपतिरिह नानीयते यत्नात् ॥ ९९॥
मोदादन्तर्गोधाधरमघ्नतो दापतुत्यै ये (?)
दधति विषयापनोदानपहस्तो दारभासस्ते ॥ १००॥
भासन्त एव वासा येषां वासाय विग्वासाः ।
तेऽपि सुखोल्लासा वै शैवा शैवस्य देवताकाराः ॥ १०१॥
(अनुष्टुप्छन्दः)
इदमार्यापतेरार्याशतमार्याः पठन्ति ये ।
ते तु शैवागमाचार्या नात्र कार्या विचारणा ॥ १०२॥
इत्याकूतमयूरेशशैवेनाऽऽशैवशासनात् ।
उपगीत्यैव गीतानां गाता वीशः प्रसीदतु ॥ १०३॥
इति श्रीरामनन्दनमयूरेश्वरकृतं शिवार्याशतकं सम्पूर्णम् ।
टिप्पणि
* अस्य शतकस्यैतत्कविकृतत्वे संशते नश्चतः । नास्य नामापि कविलिखितस्वकृतग्रन्थावल्यामुपलभ्यते । न च कापि मातृका । काव्यसङ्ग्रहकारैस्तु शतकमेतद्यथा मुद्रितं तथैवास्माभिर्मुद्यते । सन्ति खल्वत्र बहव एवाशुद्धयः । अपेक्ष्यन्ते च कचित्कतिपये वर्णाः । यद्यप्यन्ते ``इदमार्यापतेरार्याशतम्'' इत्यादि लिख्यते तथापि तत्परलिखितं स्यादित्यस्ति नो विश्वासः । तादृशस्योल्लेखस्य कुत्राप्येतत्कविकाव्येऽदर्शनात् ।
Proofread by Rajesh Thyagarajan