श्रीशङ्करप्रोक्तं शिवधर्मानुवर्णनम्
लिङ्गार्चकाराधकसेवकान् वा दृष्ट्वा प्रयत्नेन नतो नयेन ।
कृताञ्जलिः स्यादत एव मित्रं यमो मदीयं गिरिराजकन्ये ॥ ४०॥
यन्मन्दिरे नार्मदलिङ्गपूजा तन्मन्दिरस्थान् न यमो गवादीन् ।
विलोक्य दूरात् प्रणतोऽतिनम्रः करोति तस्य स्तुतिमादरेण ॥ ४१॥
धन्यं गृहं तस्य तदेव तावत् पवित्रमत्र त्रिपुरान्तकस्य ।
लिङ्गं मनोज्ञं वसतीति मत्वा नमत्ययं मन्दिरमप्यपारम् ॥ ४२॥
लिङ्गालयं पश्यति यः प्रयत्नात्तमेव दृष्ट्वा स यमोऽतिभक्त्या ।
धन्योऽतिधन्यः सुतरां स धन्यो मान्यो यमेति प्रवदत्यवश्यम् ॥ ४३॥
तन्मन्दिरं शङ्करमन्दिरत्वात् वृन्दारवन्द्यं मुनिवृन्दवन्द्यम् ।
तत्सर्ववन्द्यं भवतीति मत्वा पुनः पुनः स प्रणमत्यवश्यम् ॥ ४४॥
यदङ्गे रुद्राक्षाः स तु भवति भालाक्ष इति धीः
विभूतेर्वा लेशो यदि भवति तत्भालफलके ।
सकृद्वा मन्नामप्रजपनपरा यस्य रसना
तमालोक्यालोक्य प्रणमति पुनर्नृत्यति यमः ॥ ४५॥
पिबन्ति ये वा शिवनामरूपां सुधां मुहुस्तान् प्रणमत्यवश्यम् ।
एते महेशप्रियविग्रहत्वात् पूज्या इति स्तौति यमः स गौरि ॥ ४६॥
यस्यैव मय्यव्यभिचारिणी स्यात् भक्तिस्तमाशु प्रणतोऽतिभक्त्या ।
स्तौति प्रनृत्यत्यपि गौरि नित्यं स एव मित्रं मम नात्र चित्रम् ॥ ४७॥
लिङ्गानि ये वा रजनीमुखेषु दृष्ट्वा प्रयत्नेन नमन्ति धीराः ।
तानाशु दृष्ट्वा प्रणमत्यवश्यं कालस्तदाराधनसक्तचित्तान् ॥ ४८॥
त्रिपुण्ड्ररुद्राक्षधरान् विलोक्य दूरादपि प्राञ्जलिरेव भक्त्या ।
तानाशु दृष्ट्वा प्रणमत्यवश्यं कालस्तदाराधनसक्तचित्तान् ॥ ४९॥
ये प्रातरुत्थाय शिवं स्मरन्ति मामव्ययं पातकनाशहेतुम् ।
तानाशु दृष्ट्वा प्रणमत्यवश्यं कालस्तदाराधनसक्तचित्तान् ॥ ५०॥
काशीपुरीदर्शनपूतचित्तान् शिवार्चनोत्पन्नसुखप्रवाहान् ।
तानाशु दृष्ट्वा प्रणमत्यवश्यं कालस्तदाराधनसक्तचित्तान् ॥ ५१॥
मल्लिङ्गपूजाजनितोत्सवा ये मल्लिङ्गसन्दर्शनपावनाश्च ।
तानाशु दृष्ट्वा प्रणमत्यवश्यं कालस्तदाराधनसक्तचित्तान् ॥ ५२॥
- -
हे विश्वेश्वर चन्द्रशेखर महादेव स्मरारे हर
श्रीकण्ठ त्रिपुरान्तक त्रिनयन श्रीकालकालाव माम् ।
दीनं मामिति ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा-
संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ ५८॥
गौरीवल्लभ मन्मथान्तकरिपो भालाक्ष विश्वाधिक
श्रीकण्ठ प्रमथाधिपाव भगवन् इत्यादरात् सन्ततम् ।
दीनं मामिति ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा-
संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ ५९॥
ये भर्ग त्रिदशार्चिताङ्घ्रिकमल श्रीपुञ्जविश्रामभूः
भूधारीश्वरकन्यकाकुचगिरिश्रीपूरसारादर ।
दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा-
संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ ६०॥
शम्भो नार्मदतुङ्गलिङ्गनिलयामेय प्रभो धूर्जटे
संसारार्तिभिषक्तमोत्तम महादेवामराधीश्वर ।
दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा-
संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ ६१॥
रुद्राक्षप्रिय भूतिभूषण लसद्बिल्वीदलाभ्यर्चित
श्रीशूलिन् मृगशावचिह्नितकराम्भोजाम्बुजाराधित ।
दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा-
संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ ६२॥
श्री मृत्युञ्जय कालकण्ठ करुणासिन्धो कपर्दिन् विभो
भक्ताभीप्सितदानलोल ललितादेवीसमाराधित ।
दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा-
संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ ६३॥
श्रीमन्मेरुशरासनातिरुचिरव्यापारसारादर
स्वामिन् चारुसुधाकरार्धघटित भाकोटिपीताम्बर ।
दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा-
संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ ६४॥
विश्वाधीश्वर हे महेश्वर महारुद्रान्तकारे हर
ज्ञानानन्दधनानपाय विलसत्सौभाग्यभाग्योदय ।
दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा-
संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ ६५॥
भो शम्भो भव भीमशङ्कर हर व्योमान्तकेशानघ
ब्रह्माण्डोदयपालनव्यतिकरव्यापार विश्वेश्वर ।
दीनं मामव ये वदन्ति विलसद्रुद्राक्षभूतिप्रभा-
संवीताः सुकृतैस्त एव गिरिजे कालार्चिताः केवलम् ॥ ६६॥
मन्नामोत्सुकमानसो मुहुरयं कालः प्रपश्यत्ययं
मत्पूजानिरतांश्च पश्यति मुहुर्भस्मत्रिपुण्ड्राङ्कितान् ।
रुद्राक्षाभरणांश्च तच्चरणजान् रेणून् शिरस्यादरात्
धृत्वा नृत्यति शर्व शङ्कर महादेवेति शैलात्मजे ॥ ६७॥
मन्नाम स्मृतमेव जीवनमिति ज्ञात्वा स्मरत्यादरात्
मामीशं शिवमप्रमेयविभवं ये ते परं शैलजे ।
कैलासं समुपेत्य मत्पदरजः पुञ्जैः सह क्रीडनं
कुर्वन्त्युत्तमभूतिभूषितमहारुद्राक्षवक्षःस्थलाः ॥ ६८॥
- -
उद्धृत्याद्य भुजद्वयं निगदितं लिङ्गार्चनं केवलं
मोक्षोपायतया श्रुतं श्रुतिशतैस्तेनैव मुक्तिः परा ।
तत्र स्यादधिकारितापि भसिनोद्धूलनं सर्वथा
तेनैवानुलवं त्रिपुण्ड्ररचना भालादिके बालिके ॥ ८७॥
यन्नामस्मरणेन केवलमुमे प्राणप्रयाणेप्सितं
भस्माङ्गे करकण्टकर्णयुगले रुद्राक्षमाला यदि ।
मुक्तिः स्यादनपायिनी मम सखा स स्यान्मदीयं धनं
सर्वं तस्य वशे स केवलमहं सत्यं त्रिसत्यं शिवे ॥ ८८॥
॥ इति शिवरहस्यान्तर्गते श्रीशङ्करप्रोक्तं शिवधर्मानुवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः १२। वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 12. vAvRRittashlokAH ..
Proofread by Ruma Dewan