शतानन्दगुरुसंवादे शिवधर्मानुवर्णनम्

शतानन्दगुरुसंवादे शिवधर्मानुवर्णनम्

शतानन्दः - धर्माणां परमो धर्मः को वा धर्मस्त्वया मतः । धर्मोत्तमोत्तमत्वेन ज्ञातं धर्म वदाऽधुना ॥ देवोत्तमोतमेन को वा देवस्त्वया मतः । श्रुतिभिः कस्य वा धर्मः कीर्तितः कः परः प्रभुः ॥ गुरुः - धर्मोत्तमोत्तमत्वेन शिवधर्मः प्रकीर्तितः । शिवधर्मात् परो धर्मो नास्ति न श्रूयते ध्रुवम् ॥ १॥ तेनैव शिवधर्मेण सर्वान् कामानवाप्नुयात् । यं यं कामयते कामं तं तं कामारिधर्मतः ॥ २॥ शिवपूजा परो धर्मः तथैव शिवपूजया । शिवपादाब्जभृङ्गत्वं प्राप्तोत्येव न संशयः ॥ ३॥ तत्फलं नोग्रतपसा न यागार्बुदकोटिभिः । परं तु श्रीमहादेवकृपया परया खलु ॥ ४॥ सम्प्राप्य भूरिपुण्येन भक्तिमव्यभिचारिणीम् । क्षणेन शङ्करं स्मृत्वा मुक्तो भवति पातकैः ॥ ५॥ यत्पूजया महादेवपादाम्बुजरजो भवेत् । सा पूजा लिङ्गपूजेति विज्ञेया श्रुतिशेखरैः ॥ ६॥ महापातकतूलाद्रिः शिवनामाग्निलेशतः । दग्धः क्षणेन भवतीत्यवधारय सादरम् ॥ ७॥ यस्य शङ्करपूजायां विश्वासोऽतिदृढः सदा । तेन तीर्णः स संसारो नानापातकसागरः ॥ ८॥ शिवपूजाप्रभावस्तु श्रुतिषु प्रथितः स तु । एकया जिह्वया वक्तुं शक्य एव न वस्तुतः ॥ ९॥ सहस्रजिह्वः शेषोऽयमनेनापि न सर्वथा । शिवधर्मप्रभावो यः स तु वक्तुं न शक्यते ॥ १०॥ ॥ इति शिवरहस्यान्तर्गते शतानन्दगुरुसंवादे शिवधर्मानुवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४६। ८९-१०० ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 46. 89-100 .. Proofread by Ruma Dewan
% Text title            : Shatanandagurusamvade Shivadharmanuvarnanam
% File name             : shivadharmAnuvarNanamshatAnandagurusaMvAde.itx
% itxtitle              : shivadharmAnuvarNanam shatAnandagurusaMvAde (shivarahasyAntargatam)
% engtitle              : shivadharmAnuvarNanam shatAnandagurusaMvAde
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 46| 89-100 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org