शिवधर्मोपदेशम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
शिव उवाच ।
शिवधर्मो विशिष्टोऽत्र शिपिविष्टपदाश्रयः ।
संसेव्योऽयं परो धर्मः शिवाख्योऽयं शिवार्थिभिः ॥ १९॥
ये तिष्ठन्ति परे धर्मे ते रुद्रा नात्र संशयः ।
ग्रामे वा यदि वारण्ये जले वापि स्थलेऽपि वा ॥ २०॥
क्षेत्रे वा नगरे वापि कीकटे वा जनावृते ।
यत्र वा विद्यते लिङ्गं सर्वतीर्थानि तत्र वै ॥ २१॥
कीर्तयिष्यन्ति मामीशे सकृदप्याशु ये नराः ।
सर्वपापैर्विमुच्यन्ते कोटिजन्मकृतैरपि ॥ २२॥
ये पूजयन्ति लिङ्गं मे त्रिकालं बिल्वपल्लवैः ।
ये पश्यन्ति सकृद्देवि शिवलिङ्गं ममाश्रयम् ॥ २३॥
भूभागसञ्चरा रुद्रास्ते कृतार्था न संशयः ।
प्रातः सङ्गममध्याह्ने प्रदोषे वापि शङ्करम् ॥ २४॥
ये पश्यन्त्यर्चयन्ते वा त एव गणपुङ्गवाः ।
अस्मिन् कैलाससदने वस्तुं योग्या भवन्ति हि ॥ २५॥
यः क्षणं वा मुहूर्तं वा शिवं मां नो विचिन्तयेत् ।
सर्वोऽपि दिवसो वन्ध्यो भवत्येव गिरीन्द्रजे ॥ २६॥
दुर्लभं प्राप्य मानुष्यं येऽर्चयन्ति सदाशिवम् ।
तेषां हि सफलं जन्म भस्मरुद्राक्षधारिणाम् ॥ २७॥
शिवभक्तिपरा ये तु शिवप्रणतमस्तकाः ।
शिवलोके क्षणाद्देवि विषमाक्षा भवन्ति ते ॥ २८॥
शिवपूजाकरकराः शिवालयगताङ्घ्रयः ।
शिवार्पितलसद्भ्राणा नैवेद्यास्वादजिह्वकाः ॥ २९॥
शिवध्यानैकहृदया न ते दुःखस्य भाजनम् ।
तेषां हि सफलं जन्म कृतार्थाः शाम्भवोत्तमाः ॥ ३०॥
भवनानि मनोज्ञानि मङ्गलाभरणाः स्त्रियः ।
धनं च दिष्टपर्यन्तं मम पूजाविधेः फलम् ॥ ३१॥
तुरङ्गवरमातङ्गगोमहिष्यादिकोटयः ।
तद्द्वारि वरवृक्षाश्च नित्यं सन्निहिताः शिवे ॥ ३२॥
ये वाञ्छन्ति महाभाग्यं राज्यं च त्रिदशालयम् ।
ब्रह्त्वं वाऽथ विष्णुत्वम्मिन्द्रत्वं वापि पार्वति ॥ ३३॥
तेऽर्चयन्ति सदाकालं ममैव चरणाम्बुजम् ।
सौभाग्यं कान्तिरारोग्यं शौर्यं त्यागः प्रभावता ॥ ३४॥
यशश्च जगति ख्यातिः शिवमर्चयतो भवेत् ।
देवासुरेषु मुनिषु यद्यदुत्कृष्टमीश्वरि ॥ ३५॥
तत्सर्वं मत्प्रसादेन लब्धमीशे शिवार्चनात् ।
ममैव पूजया विष्णुः पालयेज्जगतीत्रयम् ॥ ३६॥
ममैव पूजया ब्रह्मा जगत्सृष्टिं करोत्यपि ।
ममैव पूजया रुद्रोऽप्यन्ते संहरते जगत् ॥ ३७॥
ममैव पूजया शक्रः पालयत्यमरावतीम् ।
ममैव पूजया देवि दिक्पाला वरुणो यमः ॥ ३८॥
वसवो द्वादशादित्या मरुतोऽप्यश्विनावपि ।
रुद्रा एकादशगणा सूर्याद्या ग्रहनायकाः ॥ ३९॥
मनवो मुनयः सिद्धा गन्धर्वा गरुडाः खगाः ।
यक्षकिम्पुरुषा नागा नृपा ये कालसम्भवाः ॥ ४०॥
युगे युगे प्रजा यास्ता सर्वे मत्पूजया वराः ।
भान्त्येव भानवः सर्वे वान्ति वाताः सदा शिवे ॥ ४१॥
वर्षन्त मेघाः सततं पान्ति दिक्पतयो जगत् ।
ज्योतींष्यपि प्रकाशन्ते नगा नागाश्च भूधराः ॥ ४२॥
शेषोऽप्यशेषशिरसा भुवं धत्ते शिवार्चनात् ।
स्वांशुभिः पोषयत्येव सोमोऽप्योषधिमण्डलम् ॥ ४३॥
नद्यः समुद्राश्च तथा नोद्वेलाः संवहन्त्यपि ।
किं शिवे बहुनोक्तेन सर्वं मत्पूजया स्थिरम् ॥ ४४॥
चरं वाप्यचरं वाद्य जगच्चक्रं प्रवर्तते ।
नारुद्रः संस्मरेद्रुद्रं नारुद्रो रुद्रमर्चयेत् ॥ ४५॥
नारुद्रः कीर्तयेद्रुद्रं नारुद्रो रुद्रमाप्नुयात् ।
सम्पर्कात् कौतुकाल्लोभात् भयाद्वापि च संस्मरेत् ॥ ४६॥
कीर्तयेदर्चयेद्यो मां स मे प्रियतरो गणः ।
शिवधर्मस्य सारोऽयं शिवभक्तिः सुनिश्चला ॥ ४७॥
सा चाष्टाङ्गा मया चोक्ता कार्या नित्यं विशेषतः ।
मद्भक्तजनवात्सल्यं पूजायाश्चानुमोदनम् ॥ ४८॥
स्वयमभ्यर्चनं भक्त्या ममार्थे चाङ्गचेष्टनम् ।
मत्कथाश्रवणे भक्तिः स्वरनेत्रषु विक्रिया ॥ ४९॥
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ५३॥
नार्चयेद्यस्सदाऽऽत्मस्थं यो मां समयमास्थितः ।
स मां पर्वतदुर्गेषु मार्गमाणो न पश्यति ॥ ५४॥
यो मां सर्वगतं पश्येत् सर्वं च मयि पश्यति ।
तस्याहं नित्यमात्मस्थः स च नित्यं मयि स्थितः ॥ ५५॥
सुदुर्लभा शिवे भक्तिः दुर्लभं च शिवार्चनम् ।
सुदुर्लभं शिवे दानं शिवहोमश्च दुर्लभः ॥ ५६॥
सुदुर्लभं शिवज्ञानं तदभ्यासोऽतिदुर्लभः ।
सुदुर्लभतरं ज्ञेयं जपध्यानं शिवात्मकम् ॥ ५७॥
अत्यन्तदुर्लभं देवि शिवलिङ्गे शिवार्चनम् ।
सुदर्लभा तु तद्भक्तिः तदभ्यासोऽतिदुर्लभः ॥ ५८॥
सुदुर्लभमिदं ज्ञात्वा शिवभक्तिं समाश्रयेत् ।
लाभस्तेषां जयस्तेषां यशस्तेषां पदे पदे ॥ ५९॥
ये शिवं शरणं प्राप्ताः शिवार्चनपरायणाः ।
येषां दिवा च रात्रौ च नित्यं शिवगता स्मृतिः ॥ ६०॥
``नमः'' कारादि संयुक्तं शिवायेत्यक्षरत्रयम् ।
जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम् ॥ ६१॥
यदङ्गं भस्मसंयुक्तं त्रिपुण्ड्रललितालिकम् ।
रुद्राक्षमालाभरणं चन्द्रचूडालयं शिवे ॥ ६२॥
जातेनात्मद्रुहा येन भगवान्न समर्चितः ।
स चिरं सञ्चरत्यस्मन् संसारे दुःखसागरे ॥ ६३॥
दुर्लभं प्राप्य मानुष्यं न मूको बधिरो भवेत् ।
यदि सर्वगता सिद्धिर्विप्रत्वं च नरेषु च ॥ ६४॥
इहामुत्रसुखावाप्त्यै शिवे भक्तिं समाश्रयेत् ।
दुर्लभा दुर्लभा देवि मम भक्तिः सुदर्लभा ॥ ६५॥
मुक्तिदा मोक्षदात्री च पशुपाशनिकृन्तनी ॥ ६६॥
॥ इति शिवरहस्यान्तर्गते शिवधर्मोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः २ । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 2 . vAvRRittashlokAH ..
Proofread by Ruma Dewan