शिवगौर्योः विभूतिवर्णनम्
सनत्कुमार उवाच ।
विभूतीः शिवयोर्मह्यमाचक्ष्व त्वं गणाधिप ।
परापरविदां श्रेष्ठ परमेश्वरभावित ॥ १॥
नन्दिकेश्वर उवाच ।
हन्त ते कथयिष्यामि विभूतीः शिवयोरहम् ।
सनत्कुमार योगीन्द्र ब्रह्मणस्तनयोत्तम ॥ २॥
परमात्मा शिवः प्रोक्तः शिवा सा च प्रकीर्तिता ।
शिवमेवेश्वरं प्राहुर्मायां गौरीं विदुर्बुधाः ॥ ३॥
पुरुषं शङ्करं प्राहुर्गौरीं च प्रकृतिं द्विजाः ।
अर्थः शम्भुः शिवा वाणी दिवसोऽजः शिवा निशा ॥ ४॥
सप्ततन्तुर्महादेवो रुद्राणी दक्षिणा स्मृता ।
आकाशं शङ्करो देवः पृथिवी शङ्करप्रिया ॥ ५॥
समुद्रो भगवान् रुद्रो वेला शैलेन्द्रकन्यका ।
वृक्षः शूलायुधो देवः शूलपाणिप्रिया लता ॥ ६॥
ब्रह्मा हरोऽपि सावित्री शङ्करार्धशरीरिणी ।
विष्णुर्महेश्वरो लक्ष्मीर्भवानी परमेश्वरी ॥ ७॥
वज्रपाणिर्महादेवः शची शैलेन्द्रकन्यका ।
जातवेदाः स्वयं रुद्रः स्वाहा शर्वार्धकायिनी ॥ ८॥
यमस्त्रियम्बको देवस्तत्प्रिया गिरिकन्यका ।
वरुणो भगवान् रुद्रो गौरी सर्वार्थदायिनी ॥ ९॥
बालेन्दुशोखरो वायुः शिवा शिवमनोरमा ।
चन्द्रार्धमौलिर्यक्षेन्द्रः स्वयमृद्धिः शिवा स्मृता ॥ १०॥
चन्द्रार्धशेखरश्चन्द्रो रोहिणी रुद्रवल्लभा ।
सप्तसप्तिः शिवः कान्ता उमादेवी सुवर्चला ॥ ११॥
षण्मुखस्त्रिपुरध्वंसी देवसेना हरप्रिया ।
उमा प्रसूतीर्वै ज्ञेया दक्षो देवो महेश्वरः ॥ १२॥
पुरुषाख्यो मनुः शम्भुः शतरूपा शिवप्रिया ।
विदुर्भवानीमाकूतिं रुचिं च परमेश्वरम् ॥ १३॥
भृगुर्भगाक्षिहा देवः ख्यातिस्त्रिनयनप्रियः ।
मरीचिर्भगवान् रुद्रः सम्भूतिर्वल्लभा विभोः ॥ १४॥
विदुर्भवानीं रुचिरां कविं च परमेश्वरम् ।
गङ्गाधरोऽङ्गिरा ज्ञेयः स्मृतिः साक्षादुमा स्मृता ॥ १५॥
पुलस्त्यः शशभृन्मौलिः प्रीतिः कान्ता पिनाकिनः ।
पुलहस्त्रिपुरध्वंसी दया कालरिपुप्रिया ॥ १६॥
क्रतुर्दक्षक्रतुध्वंसी सन्नतिर्दयिताविभोः ।
त्रिनेत्रोऽत्रिरुमा साक्षादनसूया स्मृता बुधैः ॥ १७॥
ऊर्जामाहुरुमां वृद्धां वसिष्ठं च महेश्वरम् ।
शङ्करः पुरुषाः सर्वे स्त्रियः सर्वा महेश्वरी ॥ १८॥
पुल्लिङ्गशब्दवाच्या ये ते च रुदाः प्रकीर्तिताः ।
स्त्रीलिङ्गशब्दवाच्या याः सर्वा गौर्या विभूतयः ॥ १९॥
सर्वे स्त्रीपुरुषाः प्रोक्तास्तयोरेव विभूतयः ।
पदार्थशक्तयो यायास्ता गौरीति विदुर्बुधाः ॥ २०॥
सा च विश्वेश्वरी देवी स च सर्वो महेश्वरः ।
शक्तिमन्तः पदार्था ये स च सर्वो महेश्वरः ॥ २१॥
अष्टौ प्रकृतयो देव्या मूर्तयः परिकीर्तिताः ।
तथा विकृतयस्तस्या देहबद्धविभूतयः ॥ २२॥
विस्फुलिङ्गा यथा तावदग्नौ च बहुधा स्मृताः ।
जीवाः सर्वे तथा शर्वो द्वन्द्वसत्त्वमुपागतः ॥ २३॥
गौरीरूपाणि सर्वाणि शरीराणि शरीरिणाम् ।
शरीरिणस्तथा सर्वे शङ्करांशा व्यवस्थिताः ॥ २४॥
श्राव्यं सर्वमुमारूपं श्रोता देवो महेश्वरः ।
विषयित्वं विभुर्धत्ते विषयात्मकतामुमा ॥ २५॥
स्रष्टव्यं वस्तुजातं तु धत्ते शङ्करवल्लभा ।
स्रष्टा स एव विश्वात्मा बालचन्द्रार्धशेखरः ॥ २६॥
दृश्यवस्तु प्रजारूपं बिभर्ति भुवनेश्वरी ।
द्रष्टा विश्वेश्वरो देवः शशिखण्डशिखामणिः ॥ २७॥
रसजातमुमारूपं घ्रेयजातं च सर्वशः ।
देवो रसयिता शम्भुर्घ्राता च भुवनेश्वरः ॥ २८॥
मन्तव्यवस्तुतां धत्ते महादेवी महेश्वरी ।
मन्ता स एव विश्वात्मा महादेवो महेश्वरः ॥ २९॥
बोद्धव्यं वस्तु रूपं च बिभर्ति भववल्लभा ।
देवः स एव भगवान् बोद्धा बालेन्दुशेखरः ॥ ३०॥
पीठाकृतिरुमा देवी लिङ्गरूपश्च शङ्करः ।
प्रतिष्ठाप्य प्रयत्नेन पूजयन्ति सुरासुराः ॥ ३१॥
ये ये पदार्था लिङ्गाङ्कास्ते ते शर्वविभूतयः ।
अर्था भगाङ्किता ये ये ते ते गौर्या विभूतयः ॥ ३२॥
स्वर्गपाताललोकान्तब्रह्माण्डावरणाष्टकम् ।
ज्ञेयं सर्वमुमारूपं ज्ञाता देवो महेश्वरः ॥ ३३॥
बिभर्ति क्षेत्रतां देवी त्रिपुरान्तकवल्लभा ।
क्षेत्रज्ञत्वमथो धत्ते भगवानन्धकान्तकः ॥ ३४॥
शिवलिङ्गं समुत्सृज्य यजन्ते चान्यदेवताः ।
स नृपः सह देशेन रौरवं नरकं व्रजेत् ॥ ३५॥
शिवभक्तो न यो राजा भक्तोऽन्येषु सुरेषु यः ।
स्वपतिं युवतिस्त्यक्त्वा यथा जारेषु राजते ॥ ३६॥
ब्रह्मादयः सुराः सर्वे राजानश्च महर्द्धिकाः ।
मानवा मुनयश्चैव सर्वे लिङ्गं यजन्ति च ॥ ३७॥
विष्णुना रावणं हत्वा ससैन्यं ब्रह्मणः सुतम् ।
स्थापितं विधिवद्भक्त्या लिङ्गं तीरे नदीपतेः ॥ ३८॥
कृत्वा पापसहस्राणि हत्वा विप्रशतं तथा ।
भावात्समाश्रितो रुद्रं मुच्यते नात्र संशयः ॥ ३९॥
सर्वे लिङ्गमया लोकाः सर्वे लिङ्गे प्रतिष्ठिताः ।
तस्मादभ्यर्चयेल्लिङ्गं यदीच्छेच्छाश्वतं पदम् ॥ ४०॥
सर्वाकारौ स्थितावेतौ नरैः श्रेयोऽर्थिभिः शिवौ ।
पूजनीयौ नमस्कार्यौ चिन्तनीयौ च सर्वदा ॥ ४१॥
इति श्रीलिङ्गमहापुराणे उत्तरभागे एकादशाध्यायान्तर्गतं
शिवगौर्योः विभूतिवर्णनं समाप्तम् ।
लिङ्गपुराण । उत्तरभाग । अध्याय ११/३-४१॥
lingapurANa . uttarabhAga . adhyAya 11/3-41..
Proofread by PSA Easwaran