शिवज्ञानबोधसूत्राणि
॥ शिवमयम् ॥
श्रीमहागणपाय नमः ।
शिवाभ्यां नमः ।
श्रीगुरुः प्रतिभानन्दः एवमलिखत् ।
शिवात्मज्योतिः (चिदात्मज्योतिः) प्रकाशते ब्रह्मैवाहं शिवः शम्भुशङ्करः ।
केवलं शिवः ।
गोविन्दहृदयान्तस्थः नटराजोह्यहं शिवः ।
ॐ तत्सत् ब्रह्मार्पणम् ।
श्रीमद्धर्मसंवर्धनीसमेत श्रीमत् पञ्चापकेशः शरणम् ।
श्रीमन्नन्दिकेशादि शिवयोगिनः संयोज्याः (सङ्गृह्यन्तु) ।
श्रीगुहमूर्तिः प्रियताम् । शिवायनमः ।
श्रीमज्जैगीषव्यादि सनकादिशिवयोगिनो जयन्तु ॥
गोविन्दहृदयारूढं शङ्करं शिवमव्ययम् ।
श्रीमन्नन्दीश विज्ञानदेशिकं गुरूमाश्रये ॥
ॐ नमःशिवाय । शिवायै नमः । शिवमस्तु ॥
अथ शिवज्ञानबोधसूत्राणि ।
स्त्रीपुंनपुंसकादित्वाज्जगतः कार्यदर्शनात् ।
अस्ति कतौ स हृत्वैतत् सृजत्यस्मात्प्रभुर्हरः ॥ १॥
(हरं विज्ञातारं सकलतनु कार्येषु करणं
न जानन्ते मोहादमित करणा अप्यतितरम् ।
उमानाथाकारं हृदय दहरान्तर्गतसरः
-पयोजन्तर्भास्वद्भवतु जगदाशाण्डजपरम् ॥)
अन्यः सन् व्याप्तितोनन्यः कर्ता कर्मानुसारतः ।
करोति संसृतिं पुंसां आज्ञया समवेतया ॥ २॥
नेतितो ममतोद्रेकात् अक्षोपरति बोधतः ।
स्वापे निर्भोगतोबोधेबोद्धृत्वादस्त्यणुस्तनौ ॥ ३॥ (बोद्धत्वादस्तयणुस्तनौ)
आत्मान्तःकरणादन्योप्यन्वितो मन्त्रिभूपवत् ।
अवस्थापञ्चकस्थस्स्यात् मलरुद्धस्वदृक्क्रियः ॥ ४॥ (अवस्थापञ्जकस्थस्स्यात्)
विदन्त्यक्षणि पुंसार्थान् न स्वयं सोऽपि शम्भुना ।
तद्विकारी शिवश्चेन्न कान्तोऽयोवत्स तं नयेत् ॥ ५॥
अदृष्यञ्चेदसद्भावो दृश्यंचेज्जडिमा भवेत् ।
शम्भोस्तद्व्यतिरेकेण ज्ञेयं रूपं विदुर्बुधाः ॥ ६॥
नाचित् चित्सन्निधौ किन्तु न वित्तस्ते उभेमिथः ।
प्रपञ्च शिवयोर्वेत्ता यस्स आत्मा तयोः पृथक् ॥ ७॥
स्थित्वा सहेन्द्रियव्याधैः त्वां न वेत्सीति बोधितः ।
मुक्त्वैतान् गुरुणानन्यो धन्यः प्राप्नोति तत्पदम् ॥ ८॥ (मुक्त्वौतान्)
चिदृशात्मनि दृष्ट्वेशं त्यक्त्वा वृत्तिं मरीचिकाम् ।
लब्ध्वा शिवपदच्छायां ध्यायेत्पञ्चाक्षरीं सुधीः ॥ ९॥
शिवेनैक्यं गतः सिद्धः तदधीन स्ववृत्तिकः ।
मलमायाद्यसंस्पृष्टो भवति स्वानुभूतिमान् ॥ १०॥
दृशोर्दर्शयिताचात्मा तस्य दर्शयिता शिवः ।
तस्मात्तस्मिन् परां भक्तिं कुर्यादात्मोपकारके ॥ ११॥
मुक्त्यै प्राप्य सतस्तेषां भजेद्वेषं शिवालयम् ।
एवं विद्यात् शिवज्ञानबोधे शैवार्थनिर्णयः ॥ १२॥
शिष्यश्श्रोत्रं च योनिश्चेद्गुरुर्जिह्वा च लिङ्गकम् ।
मन्त्रो बिन्दुः समाख्यातो बोधः पुत्रः शिवः स्वयम् ॥ १३॥
शिवोऽहम् ।
॥ इति शिवज्ञानबोधसूत्राणि ॥
Encoded and proofread by Ruma Dewan