याज्ञवल्क्यप्रोक्तः शिवज्ञानोदयः
शिव एव परं ब्रह्म शिव एव शिवात्मकः ।
-इति बुद्धिर्महादेवलिङ्गाराधनतो नृप- ॥ १॥
महादेवे महानन्दे परब्रह्मणि शङ्करे ।
भक्तया शिवार्चनेन स्यात् भक्तिरव्यभिचारिणी ॥ २॥
शिवपूजा श्रुतिप्रोक्ता शिवलिङ्गे शिवात्मके ।
तयैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ ३॥
शिवमुद्दिश्य सुकृतं यद्यत्कृतमनेकधा ।
तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ ४॥
कृतानि येन दानानि शिवप्रीत्यर्थमादरात् ।
तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ ५॥ (प्राप्यते इति सुवचम्)
येन कन्याप्रदानेन शैवः सन्तोषितो मुहुः ।
तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ ६॥
येन रत्नप्रदानेन शाम्भवास्तोषिता मुहुः ।
तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ ७॥
येनाश्वगजदानाद्यैः शाम्भवस्तोषितो मुहुः ।
तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ ८॥
येन गोकोटिदानेन शाम्भवास्तोषिता मुहुः ।
तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ ९॥
सुशीतलाम्बुसेकेन येनैवाराधितः स्वकः ।
तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ १०॥
पट्टतूलप्रदानेन येनैवाराधितः शिवः ।
तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ ११॥
येन दिव्यान्नदानेन तोषितः पार्वतीपतिः ।
तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ १२॥
रत्नाभरणदानेन येनैवाराधितः शिवः ।
तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ १३॥
रथोत्सवादिना नित्यं तोषितो येन शङ्करः ।
तेनैव जायते शम्भौ भक्तिरव्यभिचारिणी ॥ १४॥
अविरक्तो विरक्तो वा भक्तिमव्यभिचारिणीम् ।
प्राप्य यः पार्वतीकान्तमर्चयेत् स तु भाग्यवान् ॥ १५॥
वैराग्यमपि भोगेच्छाविरहः केवलं मतः ।
न तु भाग्यपरित्यागो वैराग्यमिति मे मतिः ॥ १६॥
भाग्ये त्यक्ते लिङ्गपूजा साङ्गा न तु भविष्यति ।
निरङ्गं वैदिकं कर्म न फलायेति मे मतिः ॥ १७॥
लिङ्गार्चनेन कर्तव्यं फलं विविधमित्यतः ।
तदर्चनं च केनेति साधनं समपेक्षितम् ॥ १८॥
॥ इति शिवरहस्यान्तर्गते पूवार्धे याज्ञवल्क्यप्रोक्तः शिवभक्तिज्ञानोदयः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४६। ९-२६ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 46. 9-26 ..
Proofread by Ruma Dewan