देवान्प्रति देविप्रोक्तं शिवज्ञानोपदेशम् २
देव्युवाच -
स्तुत्या च भवतां देवाःप्रसादसुमुखात्वहम् ।
ददामिवाञ्छितं सर्वं शिवज्ञानमिदं सुराः ॥ ३५॥
मज्ज्ञानेन परां शान्तिमधिगच्छत सुव्रताः ।
अहं मानं परित्यज्य शिवसार्वात्म्यवेदिनः ॥ ३६॥
विमुक्ताः पशवो यूयं मन्मायाशक्तिवैभवात् ।
अहमेवाखिलाराध्या ह्यहं ध्येयाखिलैरपि ॥ ३७॥
संविच्च सदसच्चापि चाहं विश्वमिदं ध्रुवम् ।
मन्मायया मोहितास्स्थ ह्यहमेतद्भवाभवम् ॥ ३८॥
अहमेव स्वयमिदं ददामि ज्ञानमैश्वरम् ॥ ३९॥
अहं विश्वं भुवनं चेतयामि ह्यहं विश्वेभिर्वसुभिश्चराम्पहमादित्यैरुत विश्वदेवैः ।
अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्व ॥ ४०॥
अहं दधामि द्रविणं हविष्मते सुवीर्याय यजमानाय सुन्वते ।
परो दिवाहं परयेनापृथिव्यां परम्परा हि प्रथमा पृथिव्याम् ॥ ४१॥
एषोऽन्तर्याम्यमृतः पुराणस्सदाजनानां हृदये सन्निविष्टः ।
एनमात्मानं गूढमनुप्रविष्टं हृदा पश्यन्ति मनसा मनीषिणः ॥ ४२॥
एषभूतपतिरेषसेतुर्विधरणो लोकानामसम्भेदाय ।
एष सुप्तेषु जागर्ति भूतम्भूतं पुरुषो निर्मिमाणः ॥ ४३॥
एषोऽन्तरादित्ये ह्यमृतो हिरण्मयः पुरुषो दृश्यते शिवः ।
एष धाता विधाता च स्वराट् सम्म्राट् प्रजापतिः ॥ ४४॥
एष दिव्यो देव एकः पुराणो सङ्गिष्वसङ्गो गुणनामकर्मभिः ॥ ४५॥
एष एव हि भूतात्मा भूते भूते व्यवस्थितेः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ ४६॥
जलस्य चलनादेव यथाचलति भास्करः ।
तथैष सर्वभूतेषु तद्धर्मैर्नैव लिप्यते ॥ ४७॥
अलिङ्ग आकाशसधर्म एषो नान्तो न चादिर्न च मध्यमेषः ।
जगद्गतोऽयं न जगद्विचित्रमेषोऽखिलाधार उरुक्रमस्सदा ॥ ४८॥
विशेषहीनश्च कविः पुराण एष स्वतन्त्रः पुरुषः पुराणः ।
गूढेषु गूढः परपारपारस्सदुर्दर्शोयोगयुक्तैश्च भूयान् ॥ ४९॥
सहैव संस्थो भवतां वै निलिम्पाः ।
नजानन्ति सर्वे हृदा भासमानं सदाभास्यभासं महोक्षाद्विहीनम् ॥ ५०॥
अस्यैव हि प्रकृतिश्चास्मि देवा न मां जानते ये सदा दुःखभाजः ।
प्रभास्मीह देवी शशी सूर्यऋक्षे ऋषौ ग्रहाणां परमास्थितश्च ॥ ५१॥
न चावयोर्भेदजालं कदाचिन्माया चाहं ह्येषमायी महेशः ।
भावग्राह्यो ह्यनीडात्मा भावाभावकरश्शिवः ॥ ५२॥
कलाविदं पुरुषं देवमीडयं निचाय्यैनं शान्तिमत्यन्तमेति ।
एष आत्मा तपसालोकनीयो नान्यैर्धर्मैरस्य लिङ्गं न चैव ॥ ५३॥
यस्यैष आत्मा वृणुते तनूं स्वां तस्य प्रसादेन हितस्य लाभः ।
यस्यैव लाभान्न परं लाभमीष्टे जनस्सुरा ज्ञानमेतस्य दुर्ज्ञम् ॥ ५४॥
पुराविदः कवयो ये मनीषिणो ज्ञात्वाप्येनं निष्प्रकम्पा महेशम् ।
तरन्ति शोकं च पृथक्पृथग्जना न जायते (जानते) नित्ययुक्ता गुणेषु ॥ ५५॥
तथेन्द्रियाधारमनन्तरूपं नीरूपरूपं परमाकाशमेनम् ।
विष्वक्प्रपञ्चेषु पुरीशयं स्थितं वेदान्तसङ्घैर्पि ष्टुड्यमाणः ॥ ५६॥
रसं रसानां परमास्वादनीयमनास्वादं रसवर्जं सुगुप्तम् ।
तुरीयमिन्द्रं सततोदितं गुणैर्गुणातीतं विप्लुषन्दिव्यधाम ॥ ५७॥
एषोऽनन्तो महिमाधार ईशो भूमा सीमा सार एकोऽद्वितीयः ।
नानैवास्ति महिमायं प्रतिष्ठा कविः प्रधानो रसवर्जोऽयमात्मा ॥ ५८॥
एष ब्रह्मैष एवेन्द्र एष सर्वं चराचरम् ।
एष आत्मापहतपाप्माविरजो विशोको विमृत्युरजिघृत्सोऽपिपासः ॥ ५९॥
सत्यकामोऽगुणो ह्येष बृहद्धामायमीश्वरः ।
एषोऽशरीरो विश्वकर्ता गुणेश एष देवश्शीर्यमाणैर्नशीर्णः ॥ ६०॥
अरजोऽयममृतो वै विशोकश्शोकातिगो जातिधर्मैर्विहीनः ।
एष देवैर्वेदसङ्घैश्च विप्रैरभिष्टुतोऽप्रतर्क्यो हीन्द्रियैश्च ॥ ६१॥
एषोऽनन्तश्चेष्टते देहजालैर्यथोर्णनाभिस्सृजते तन्तुजालम् ।
एष आदित्ये तपति तेजसेद्धः एष विप्रैर्मखजालैश्च तुष्टः ॥ ६२॥
यः पाति सोमममृतस्य नाभिं कालातिगः पाति विश्वं सदैव ।
(अपाति सोमममृतस्य नाभिं कालातिगः पाति विश्वं सदैव) ।
अस्मद्भिन्नं नाणुरस्तीह किञ्चित्स एष भर्ता मम देवः पुराणः ॥ ६३॥
नीरूपरूपोऽप्ययमात्मा महेशो नीलग्रीवश्शिपिविष्टश्शाश्वतोऽयम् ।
न हन्यते हन्यमाने शरीरे दिव्यो देवोह्येष देवः पुराणः ॥ ६४॥
तं ब्रह्मवन्वान उपासते परं बुद्धीन्द्रियातीतमनौपमं शिवम् ।
नान्तः प्रज्ञं न वहिः प्रज्ञमीशं नोभयतः प्रज्ञमर्हत्तमं च ॥ ६५॥
विश्वस्य स्रष्टारमनेकरूपं विश्वस्यैकं परिवेष्टितारम् ।
गुहाहितं गह्वरेष्टं पुराणं त्ववस्थातीतं प्रणवं चादिमेकम् ॥ ६६॥
महं महान्तं परमात्मानमीशमणोरणीयांसमिदं ततं च ।
विभ्राजमानं भूतवर्गेष्वसङ्गं वेलातिगं स्वप्रभाभासमानम् ॥ ६७॥
बालाग्रमात्रं हृदये प्रतिष्ठं जीवाभासं मन्यमानैश्च मूढैः ।
न त्वेष जीवो न शिवश्चादिकर्ता यस्मात्परं नापरमस्ति किञ्चित् ॥ ६८॥
बृहत् ब्रह्म शुक्लं ऋतं सत्यमीशं प्रमोदं महज्ज्ञानमानन्दमेकम् ।
य एनं विदुरमृतास्ते भवन्ति ह्यथेतरे दुःखमेवाविशन्ति ॥ ६९॥
स एष परमानन्दोप्यानन्दो ब्रह्म तत्परम् ।
अस्यैवानन्दमात्रा हि भवन्तश्च सुरासुराः
अयमेव परा काष्टा स ब्रह्म स शिवस्स्वयम् ।
वेदपर्वतजालोत्थमन्त्रैः कॢप्तोऽयमेव हि ॥ ६२॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये देवान्प्रति देविप्रोक्तं शिवज्ञानोपदेशम् २॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ५५ - देव्युपनिषत्प्रतिपादनम् । ३५-६९॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 55 - devyupaniShatpratipAdanam . 35-69..
Notes:
Devī देवी obliges the Deva-s देवाः with Śivajñānam शिवज्ञानम् upon being beseeched by them.
Encoded and proofread by Ruma Dewan