कैलाससम्परिवेष्टित शिवक्षेत्राणिवर्णनम्
॥ हिमावन्प्रति नन्दिकेश्वरप्रोक्तं कैलाससम्परिवेष्टित शिवक्षेत्राणिवर्णनम् ॥
(शिवरहस्यान्तर्गते कैलासदर्शनम् - ३)
नन्दिकेश्वरः (उवाच)
प्राच्यां पश्य नगश्रेष्ठ श्रेष्ठोऽयं धरणीधरः ।
निष्टप्तकनकाकरो नानासुरवराश्रयः ॥ २४.१॥
सहस्रशिखरापार कान्तिकाञ्चितदिक्तटः ।
वृषस्तम्भनिभो भाति कैलासाग्रे नगोत्तमः ॥ २४.२॥
पश्य तान्परिघा(खा)कारान्त्समुद्रान्त्सनदीनदान् ।
पश्य द्वीपान्महाशैल समुद्रेषु विशेषतः ॥ २४.३॥
विपिनावनिजातानां प्रासादानाञ्च मौलयः ।
प्रोद्यत्पताकाराजन्तिमणिकुम्भाग्रशोभिताः ॥ २४.४॥
एष नीलस्तथा विन्ध्यो मन्दरो दर्दु(र्द)रो नगः ।
सुमाली केतुमालश्च भद्राश्वौ तत्रवार्षकौ ॥ २४.५॥
रैवतश्शतश्रृङ्गश्च मणिबभ्रुश्च पिङ्गलः ।
उदयश्चक्रवालश्च मैनाकोऽयं मधुर्गिरिः
(मैनाको यमधुर्गिरिः) ॥ २४.६॥
अस्ताचलः पारियात्रो निषधः कन्द(कुन्त)लाचलः ।
तदं मूर्तिरियं शैली मौलिकेदारलिङ्गतः ॥ २४.७॥
त्वमत्यन्तमहाशृङ्गैरुपेतोऽसि महानग ।
त्वत्तो मानुषगङ्गेयं निर्गता लिङ्गरङ्गिता ॥ २४.८॥
भगीरथस्य तपसा प्लावयन्ती च भूतलम् ।
अन्या विक्रमतो विष्णोः पादतो निर्मता नग ॥ २४.९॥
गङ्गाद्वारात्प्रतीच्यब्धिं सङ्गता मालवानिमे(यम्) ।
इयं गर्वभराक्रान्ता चेशान (ईशेन) शशिमौलिना ॥ २४.१०॥
जटाकोटीरनिलयां चक्रे सा च विसर्जिता ।
देवैस्सम्प्रार्थितो देवस्तां भूमौ परिमुक्तवान् ॥ २४.११॥
आनन्दकाननं प्राप्ता चक्रर्तीर्थे सरिद्वरा ।
तत्तीरे पश्य सुभगं विश्वेशशिखरं महत् ॥ २४.१२॥
भारते भूमिसर्वस्वखण्डे वै जाह्नवी यतः ।
अविमुक्तं प्रपश्याद्य मृता यत्रापुनर्भवाः ॥ २४.१३॥
विमुक्तिं दास्यते देवो यत्र विश्वेश्वरस्स्वयम् ।
तत्पश्चात्सागरप्रान्ते कुरुक्षेत्रं प्रभासकम् ॥ २४.१४॥
रुद्रकोटिः पुष्करञ्च गङ्गाद्वारं पवित्रकम् ।
पिण्डालकं कालजरं (कालञ्जरं) तापितीरे मनोहरम् ॥ २४.१५॥
यत्र पाशुपतो योगी मुनीनाञ्चोपदेशितः (ता) ।
देवदेवेन तत्रैव पश्यैतन्मणिकुम्भकम् ॥ २४.१६॥
श्रीशैलशिखरं पश्य पश्य त्र्यम्बकभूधरम् ।
क्षिप्रातीरे(र) महाकालं कामदं वैद्यनाथ(य)कम् ॥ २४.१७॥
पश्चात्तथोत्तराश्चेमे कुरवः पश्य भूधर ।
ताम्रस्वर्ण(वर्ण)मयी भूमिस्तत्र द्वीपे घृतोदधौ ॥ २४.१८॥
स हि किम्पुरुषावासः पुरुषास्तुरगाननाः ।
शिलानदीमिमां पश्य तत्प्रान्ते काकवक्त्रकाः (का) ॥ २४.१९॥
पुरुषाणां प्रवेशोऽत्र तावदेव नगोत्तम(मा) ।
मरुभूमिस्ततो द्वीपौ शाकक्रौञ्चौ मनोरमौ ॥ २४.२०॥
कुशकाशौ ततः प्राच्यां क्षीरोदेनावृतौ नग ।
देवभूमिस्ततो रम्या दध्योदे परिकल्पिता ॥ २४.२१॥
चक्रवालो गिरिःप्राच्यां तत्प्राच्यामुदयाचलः ।
पश्चादपिप्रपश्येमां भूमिं स्वादो(दू)दधीवृताम् ॥ २४.२२॥
स्वर्णारं पश्य सुभगं वरुणावासमुत्तमम् ।
शोणो नाम नदो विप्र प्रतीच्यां वहते नग ॥ २४.२३॥
रम्यसालवनप्रान्ते गन्धर्वाणां प्रमोदभूः ।
अस्ताचलावधि नग तत्प्रान्ते शाल्मली द्वी(द्वि)पः ॥ २४.२४॥
दक्षिणे भारते वर्षे जम्बूनाम नदी स(त)दा ।
प्र(या)त्येव नि(वि)यतं तस्या द्वीपं जाम्बूनदं स्मृतम् ॥ २४.२५॥
देवभोग्यं महच्छैल (महाशैल) निष्टप्तकनकं हि तत् ।
प्रतिष्ठानपुरं पश्य करहट्टपुरं तथा ॥ २४.२६॥
करवीर पुरञ्चापि (पुरीं चापि) पश्य विन्ध्यनिवासिनीम् ।
पश्य वेणुवनं पुण्यं नागनाथशिवालयम् ॥ २४.२७॥
ओङ्कारं नर्मदातीरे कुण्डञ्चोङ्कारनामकम् ।
आवाटकमिदं पश्य पश्यैतद्घुसृणेश्वरम् ॥ २४.२८॥
(आवण्टकमिदं पश्य पश्य तद्घुसृणीश्वरम्) ॥ २४.२८॥
नैमिषं(शं) पश्य विपुलं विशालं बदरीमनु ।
गोदाञ्च नर्मदाञ्चैव बाहुदां कृष्णवेणिकाम् ॥ २४.२९॥
नीराम्पयोष्णीम्पश्यागनीरजावलिभासुराम् ।
कालिन्दीगङ्गयायुक्ता यत्र वेदीप्रजापतेः ॥ २४.३०॥
प्रयागवनमेतद्वै चित्रकूटगिरिस्ततः ।
शूले टङ्कका(काश्या)लयं पश्य
गयाञ्च पितृतृप्तिदाम् ॥ २४.३१॥
सोमेश्वरालयं शैल पश्यायोध्यां महापुरीम् ।
सुधेश्वरालयं पश्य सरयूतीरसङ्गतम् ॥ २४.३२॥
पश्चात्कोकामुखं पश्य गङ्गां पश्याब्धिसङ्गताम् ।
कामोदकमिदं पश्य पश्य कोङ्कणभूतलम् ॥ २४.३३॥
पश्चिमाम्भोधिकोणे च पश्य गोकर्णमुत्तमम् ।
रम्यं शेषाचलं पश्य स्कन्दो यत्र प्रतिष्ठितः ॥ २४.३४॥
श्रीमद्दक्षिणकैलासशिखरं पश्य भूधर (भूधरम्) ।
पश्य काञ्चीञ्च विपुला(लां)मेकाम्रशिखरं नग ॥ २४.३५॥
पश्यारुणाद्रिशिखरं स्मरणात्पापनाशनम् ।
वृद्धाचलाद्रिं पश्याद्रे रम्यामभ्रसभां दृशा ॥ २४.३६॥
पश्य नर्तनमीशस्य देवदेवस्य धूर्जटेः ।
गोपर्वतं तत्र पश्य पुण्यं मार्गसहायकम् ॥ २४.३७॥
(गोपर्वतं तत्र पुण्यं शिवमार्गसहायकम्) ॥ २४.३७॥
सदहयाद्रिं पश्य तुङ्गाग्रे यतो जाता कवेरजा ।
पुण्यं श्रीकण्ठशिखरं ततो रत्नगिरीश्वरम् ॥ २४.३८॥
तृणज्योतीशशिखरं मातृभूताद्रिरेषवै ।
तद्दक्षिणे द्वादशान्तं ततो वेणुवनं नग ॥ २४.३९॥
महेन्द्रशिखरं पश्य दक्षिणाम्भोनिधौ स्थितम् ।
ताम्रपर्णी तत्र नदी कृतमाला च वेगिनी ॥ २४.४०॥
कन्यातीर्थं ततः प्राच्यां पश्य चाद्रे शुचीश्वरम् ।
गन्धमादनशैलेशशिखरं पश्य भूधर ॥ २४.४१॥
गजारण्यं ततोदीच्यां ततः पञ्चनदाह्वयम् ।
कुम्भेशशिखरं पश्य पश्य मध्यार्जुनाभिधम् ॥ २४.४२॥
त्रिकोटीं(त्रिकोटि)मङ्गलं पश्य मायूरंश्वेतकाननम् ।
सङ्गतां सिन्धुना पश्य सह्यजां पुण्यनिम्नगाम् ॥ २४.४३॥
वाञ्छेश्वरं छायावनं पुण्यं तत्तेजिनीपुर(वन)म् ।
घ(व)टेश्वरं तत्र पश्य यत्र कालो हतः पुरा ॥ २४.४४॥
श्रीमहेशेन पुण्याद्रे मृकण्डुतनयावने ।
ब्रह्मेशञ्चैव वैद्येशं तञ्जेशं तत्प्रतीच्यके ॥ २४.४५॥
कमलालयसंज्ञञ्च तथैवान्ये शिवालयाः ।
श्रुतिकाननमीक्षस्व वेदतीर्थस्तथाब्धिराट् ॥ २४.४६॥
कावेरीतीरजो(तो)द्भासिलिङ्गधामानि लोकय ।
भारतं पश्य विपुलं खण्डं (खण्डमतुलं पश्य)
तल्लिङ्गमण्डलम् ॥ २४.४७॥
प्राक्पश्चाद्दक्षिणे चापि भूधरेन्द्र तथोत्तरे ।
ब्रह्माण्डभित्तिरेषा(वा)त्र खण्डान्यपि विलोकय ॥ २४.४८॥
शिवाज्ञया मया शैल दर्शितोऽयं नगोत्तमः ।
पुण्योऽयं रमणीयोऽयं कैलासः शङ्करालयः ॥ २४.४९॥
भद्राश्वं(श्व) केतुमालं च प्राच्यामीक्षस्व सन्नग ।
पश्चाद्धरिश्च किम्पूर्षः खण्डे द्वे सागरावृते ॥ २४.५०॥
देवभूमिरियं पश्य सुरकिन्नरहर्षदा ।
तत्रोत्तरे मन्दरो हि शम्भोरानन्दवासभूः ॥ २४.५१॥
इलावृततो मणीवर्षो भारतो दक्षिणे नग ।
कल्पितास्ते महेशेन वर्षाश्च कुलपर्वताः ॥ २४.५२॥
॥ इति शिवरहस्यान्तर्गते भवाख्ये हिमावन्प्रति नन्दिकेश्वरप्रोक्तं
कैलाससम्परिवेष्टित शिवक्षेत्राणिवर्णनम् ॥
- ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः २४॥
- .. shrIshivarahasyam . bhavAkhyaH dvitIyAMshaH . adhyAyaH 24 ..
Notes
Nandikeśvara नन्दिकेश्वर details to Himāvan हिमावन् ; the several Śiva-kṣetra शिवक्षेत्र surrounding Kailāsa कैलास in various directions, as he continues further to take Himāvan हिमावन् around on the guided tour of Kailāsadarshana कैलासदर्शन.
Proofread by Ruma Dewan