ऋषि अगस्त्यप्रोक्तं शिवलिङ्गप्रदक्षिणविध्युपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
अगस्त्यः (उवाच)
प्रदक्षिणविधिं वक्ष्ये शृणु सम्यग्द्विजोत्तम ।
नमस्कारविधिं चात्र वक्ष्ये वैदिकमार्गतः ॥ ५०॥
प्रदक्षिणप्रकारस्तु द्विविधो वेदसम्मतः ।
सव्यापसव्यः सव्यश्च तत्राद्यविधिरुच्यते ॥ ५१॥
वृषं चण्डं वृषं चैव सोमसूत्रं पुनर्वृषम् ।
चण्डं च सोमसूत्रं च पुनश्चण्डं पुनर्वृषम ॥ ५२॥
एतत्प्रदक्षिणोक्तानि स्थानानि नव सत्तम ।
न तान्युल्लङ्घनीयानि वेदमार्गरतैर्द्विजैः ॥ ५३॥
प्राग्द्वारे देवदेवस्य वृषस्थानं प्रकीर्तितम् ।
पश्चिमाभिमुखे लिङ्गे स्थानमेतदुदीरितम् ॥ ५४॥
प्राङ्मुखे शिवलिङ्गे तु चण्डस्थानं द्विजोत्तम ।
ईशानभागे विज्ञेयभन्यत्र तु न सर्वथा ॥ ५५॥
महेशस्योत्तरं स्थानं सोमसूत्रस्थलं स्मृतम् ।
पूर्वाभिमुखलिङ्गे तु नियमोऽयं प्रकीर्तितः ॥ ५६॥
पश्चिमाभिमुखे लिङ्गे सोमसूत्रं शिवस्य तु ।
पूर्वस्थानं तु विज्ञेयमन्यत्र तु न सर्वथा ॥ ५७॥
त्रीण्येतानि स्थलान्येव नव स्थानानि सत्तम ।
एतेष्वेव त्रिरावृत्त्या नवस्थानप्रकल्पनम् ॥ ५८॥
तेष्वेवैकैकमावृत्त्या तान्येवात्र पुनः पुनः ।
यत्नेनावर्तनीयानि नवतां यान्ति तान्यतः ॥ ५९॥
उपविश्य वृषस्थाने सङ्कल्प्य विधिपूर्वकम् ।
कृताञ्जलिपुटो मौनी चण्डस्थानं व्रजेत्ततः ॥ ६०॥
पुनर्वृषेशमागत्य चण्डस्थानं व्रजेत्ततः ।
ततो वृषेशमप्राप्य सोमसूत्रं व्रजेत्ततः ॥ ६१॥
सोमसूत्रमनुल्लङ्घ्य चण्डस्थानावृषं व्रजेत् ।
स्थानान्येवं समावृत्त्य वृषभेशं पुनर्यदा ॥ ६२॥
प्राप्नुयान्नियतो भूत्वा तदेकं स्यात्प्रदक्षिणम् ।
सव्यापसव्यरूपेऽस्मिन् वैदिके तु प्रदक्षिणे ॥ ६३॥
प्रदक्षिणविधिः प्रोक्तो जाबालैरयमेव हि ।
एवं प्रदक्षिणं कार्यं प्रत्यहं शङ्करालये ॥ ६४॥
यद्यत्र मोहाद्व्यत्यासस्तदा स्यादन्यथा ध्रुवम् ।
दिवासन्ध्यासु कर्तव्यमेवमेतत्प्रदक्षिणम् ॥ ६५॥
इदं प्रदक्षिणं नित्यं द्विजमात्रस्य सत्तम ।
प्रदक्षिणत्रयं कार्य एकं पञ्चदशाथ वा ॥ ६६॥
अष्टौ द्वादश वा कार्याण्यधिकान्यपि शक्तितः ।
सव्यं सव्येन कर्तव्यं तदपि श्रुतिचोदितम् ॥ ६७॥
तदपि द्विजमात्रस्य नित्यमेव न संशयः ।
शक्तैस्तु सर्वदा कार्यं सव्यासव्यप्रदक्षिणम् ॥ ६८॥
इदं कार्यं प्रदोषेषु शक्तिहीनैरपि द्विज ।
सव्यासव्यविधानेन प्रदोषे शङ्करालये ॥ ६९॥
प्रदक्षिणत्रयं वापि कर्तव्यं नियमाद्विजैः ।
शिवालये तु यः कुर्यात्सव्यासव्यप्रदक्षिणम् ॥ ७०॥
स फलं वाजपेयस्य सम्प्राप्नोति पदे पदे ।
कृताञ्जलिपुटैरेव शिवध्यानपुरःसरम् ॥ ७१॥
प्रदक्षिणं सदा कार्य महादेवालये द्विज ।
अष्टाङ्गसहितः कार्यः प्रणामः पार्वतीपतेः ॥ ७२॥
सर्वकालेषु यत्नेन शिवध्यानपुरःसरम् ।
जानुबाहुशिरोवक्षोगण्डानामष्टकं यदा ॥ ७३॥
दण्डवत्प्रणतासक्तं तदष्टाङ्गनतिर्भवेत् ।
एतदष्टाङ्ग संयुक्ताः प्रणामाः पार्वतीपतेः ॥ ७४॥
प्रयत्नेनान्वहं कार्याः सावधानं द्विजातिभिः ।
प्रणामाः पार्वतीशस्य कर्तव्या एकविंशतिः ॥ ७५॥
एकादशाऽथवाष्टौ वा नातो न्यूनाः कदाचन ।
प्रातः शिवार्चनं कृत्वा दश कुर्यात्प्रदक्षिणाः ॥ ७६॥
मध्याह्ने द्वादश स्युः सायमेकादशोदिताः ।
समुद्धूलितदेहेन महादेवप्रदक्षिणम् ॥ ७७॥
कर्तव्यं नातिवेगेन धृत्वा रुद्राक्षमालिकाः ।
सोमसूत्रमनुल्लङ्घ्य गर्भे कार्याः प्रदक्षिणाः ॥ ७८॥
वृषो यदि भवेद्गर्भे नो चेत्तत्र न सर्वथा ।
सोमसूत्रमनुल्लङ्घ्य गर्भे सवृषभेऽपि च ॥ ७९॥
विहितं वास्त्वविहितं सोमसूत्रं न लङ्घयेत् ।
बहिश्चापि हि तं सूत्रमुल्लङ्घय नैव सर्वथा ॥ ८०॥
मोहादपि तं सूत्रमुल्लङ्घ्याप्नोति यातनाः ।
उत्तराभिमुखैः कार्यं श्रीमहादेवपूजनम् ॥ ८१॥
प्राङ्मुखेनापि वा कार्यं श्रीमहादेवपूजनम् ।
पश्चिमाभिमुखैर्वापि कर्तव्यं शिवपूजनम् ॥ ८२॥
दक्षिणाभिमुखैर्मत्यैर्न कर्तव्यं शिवार्चनम् ॥ ८३॥
॥ इति शिवरहस्यान्तर्गते ऋषि अगस्त्यप्रोक्तं शिवलिङ्गप्रदक्षिणविध्युपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । ५०-८३॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 50-83..
Notes:
Ṛṣi Agastya ऋषि अगस्त्य delivers Upadeśa उपदेश (to Dvija द्विज) about the two types of Śivaliṅga Pradakṣiṇā शिवलिङ्ग प्रदक्षिणा viz., Savyāpsavya सव्याप्सव्य and Savya सव्य - especially mentioning about not crossing the Somasūtra सोमसूत्र.
Proofread by Ruma Dewan