ऋषि अगस्त्यप्रोक्तं शिवलिङ्गस्वरूपोपदेशम्

ऋषि अगस्त्यप्रोक्तं शिवलिङ्गस्वरूपोपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) सनातनः (उवाच) शिवलिङ्गानि पूज्यानि कानि कानि मुनीश्वर । एतत्सर्वं विशेषेण वद मह्यं कृपानिधे ॥ २५१॥ दधीचिरुवाच इति तद्वचनं श्रुत्वा प्रहृष्टवदनो मुनिः । शिवलिङ्गस्वरूपाणि वक्तुं समुपचक्रमे ॥ २५२॥ अगस्त्यः उवाच शिवलिङ्गानि तिष्ठान्ति विविधान्युत्तमानि च । तत्स्वरूपाणि सर्वाणि वक्ष्ये सनातन ॥ २५३॥ शिवलिङ्गस्वरूपं तु वक्तुं यद्यपि नोचितम् । तथापि शिवभक्ताय तुभ्यं तत्प्रवदाम्यहम् ॥ २५४॥ शिवलिङ्गस्य महात्म्यं यस्य कस्यापि सत्वरम् । न वक्त्व्यं यतस्तत्तु गोपनीयं प्रयत्नतः ॥ २५५॥ यस्यास्ति श्रुतिषु श्रद्धा यस्य श्रद्धा महेश्वरे । तस्यैव शिवमाहात्म्ये श्रद्धा नान्यस्य सर्वथा ॥ २५६॥ यस्यास्ति शिवमाहात्म्ये श्रद्धा मुक्तिप्रदायिनी । तस्मै वकव्यमुत्कृष्टं शिवमाहात्म्यमादरात् ॥ २५७॥ धन्योऽसि कृतकृत्योऽसि शिवभक्तोऽसि यन्मुने । शङ्करानुगृहीतानां शिवे भक्तिः प्रजायते ॥ २८३॥ श्रुतिश्रद्धा तवातीव यतः शिवमयो ह्यसि । भक्तिरन्याहशी शम्भौ यतस्तेऽस्ति सनातन ॥ २८४॥ ततस्ते शिवलिङ्गानां माहात्म्यं प्रवदाम्यहम् । - - शिवलिङ्गेषु सर्वेषु रसलिङ्गमनुत्तमम् । तत्र सम्पूजितः शम्भुः प्रसीदति न संशयः ॥ २८५॥ रसलिङ्गे महादेवं सम्पूज्यान्वहमादरात् । भुक्त्वा भोगानिहान्ते च शिवं प्राप्नोत्यसंशयम् ॥ २८६॥ हैमरौप्यादिलिङ्गेषु सम्पूज्य परमेश्वरम् । सर्वपापविनिर्मुक्ताः प्रयान्ति शिवमन्दिरम् ॥ २८७॥ काश्मीरलिङ्गममलं पुरा विष्णुर्यथाविधि । पूजयित्वा परामृद्धिं लक्ष्मीं चावाप शोभनाम् ॥ २८८॥ विधिर्मरकते लिङ्गे समभ्यर्च्य महेश्वरम् । सृष्टिकर्ताऽभवत्पूर्वं महादेवप्रसादतः ॥ २८९॥ हेमलिङ्गे समभ्यर्च्य महादेवं शचीपतिः । वृत्त्त्रं हत्वा विना यत्नात्स्वर्गं प्राप पुनर्मुदा ॥ २९०॥ वैद्रुमं लिङ्गमभ्यर्च्य योगसिध्यर्थमादरात् । योगिनो योगसम्पन्ना जाता भस्मविभूषणाः ॥ २९१॥ ॥ इति शिवरहस्यान्तर्गते ऋषि अगस्त्यप्रोक्तं शिवलिङ्गस्वरूपोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २७ मध्यार्जुनमहिमानुवर्णनम् । वावृत्तश्लोकाः॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 27 madhyArjunamahimAnuvarNanam . vAvRRittashlokAH.. Notes: Ṛṣi Agastya ऋषि अगस्त्य; delivers Upadeśa उपदेश to Sanātana Muni सनातन मुनि about worshiping Śivaliṅga-s शिवलिङ्गानि made of various materials including Rasaliṅga रसलिङ्ग, Hemaliṅga हेमलिङ्ग, Raupyaliṅga रौप्यलिङ्ग, Kāśmīraliṅga काश्मीरलिङ्ग, Marakataliṇga मरकतलिङ्ग, Vaidrumaliṇga वैद्रुमलिङ्ग. Chapter 27 further has details about worshiping the Mṛttikāliṅga मृत्तिकालिङ्ग / Mṛnmayaliṅga मृन्मयलिङ्ग / Mṛlliṅga मृल्लिङ्ग - as told by Himavān हिमवान् to his son Maināka मैनाक. Proofread by Ruma Dewan
% Text title            : Rishi Agastyaproktam Shivalingasvarupopadesham
% File name             : shivalingasvarUpopadesham.itx
% itxtitle              : shivaliNgasvarUpopadesham (shivarahasyAntargatam)
% engtitle              : shivalingasvarUpopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 27 madhyArjunamahimAnuvarNanam | vAvRittashlokAH||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org