व्यासकृतं शिवमानसपूजा
काश्यां शाम्भवचित्तेऽपि तदन्यत्र न सर्वथा ।
त्रिष्वप्यत्युत्तमं मन्ये केवरूं शाम्भवं मनः ॥ १॥
तत्रानन्दो यथा तद्वानन्दो यत्र कुत्र वा ।
कल्पते बहुधा पूजा शाम्भवेन प्रतिक्षणम् ॥ २॥
प्रतिक्षणं विशिष्टेष्टक्षणदा सा मनोरमा ।
स तन्मनो विभुतया ज्ञातं तत्र शिवालयः ॥ ३॥
परार्धयोजनायामः कल्पितो रत्नमण्डितः ।
रत्नप्राकारसंवीतो रत्नमन्दिरमण्डितः ॥ ४॥
रत्नद्वारार्बुदाकीर्णमेकैकं तत्र मन्दिरम् ।
तत्रापि कल्पतरवः प्रसूनसमलङ्कृताः ॥ ५॥
अर्पिताः कोटिशस्तेन कल्पिताः शिवमन्दिरे ।
तत्कल्पतरुमध्यस्थरत्नसिंहासनं वरम् ॥ ६॥
कोटियोजनविस्तीर्णं कल्पितं तावदायतम् ।
तदग्रे कल्पिता तेन पुष्पशय्या मनोहरा ॥ ७॥
तत्र स्थितमुमाकान्तं मां चिन्तयति सादरम् ।
नव्यचित्रदुकूलानां पुञ्जैरावेष्टितं मुहुः ॥ ८॥
नानापरिमलद्रव्यरसरागानुरञ्जितम् ।
दिव्याभरणपङ्कीर्णं भित्तिकाञ्चिविराजितम् ॥ ९॥
रत्नकर्पूरनिकरकान्तिराजिविराजितम् ।
रत्नाङ्गदार्बुदाकीर्णं तत्कान्तिनिकराश्रितम् ॥ १०॥
रत्नोत्तमपरिक्रान्तकटिसूत्रविराजितम् ।
दिव्यरत्नाङ्गुलीयानां सहस्रेण समन्वितम् ॥ ११॥
अपारतारहाराणां विहारैश्च विराजितम् ।
मणिश्रेष्ठसमाकीर्णं कर्णाभरणभूषितम् ॥ १२॥
रत्नरत्नसमाकीर्ण कोटीरगणराजितम् ।
नूपुरैरप्यपारैश्च सदारपरिवेष्टितम् ॥ १३॥
धूपैर्विचित्रैरगरुप्रभवैरपि धूपितम् ।
रत्ननीराजनव्राजविराजितमुमापतिम् ॥ १४॥
दिव्यपक्वान्नगिरिभिः शर्करापर्वतान्वितैः ।
दिव्याज्यवाहिनीयुक्तैः सन्तोषयति मां मुहुः ॥ १५॥
सूपशाकगिरिव्रातसमेतोदनपर्वतैः ।
मध्वाज्यवाहिनीयुक्तैः तोषयत्यनुवासरम् ॥ १६॥
सुधाफलैरपारैश्च विविधैर्मधुरोत्तमैः ।
सन्तोषं जनयन्त्येव सुधाधाराभिरादरात् ॥ १७॥
ताम्बूलपर्वतानेव पूगपर्वतसङ्कुलान् ।
मुक्ताचूर्णान्वितान् दिव्यान् प्रयच्छति यथेच्छया ॥ १८॥
एलालवङ्गगिरयः खदिरा गिरयोऽपि मे ।
एवं प्रतिक्षणं तेन मानसं मम पूजनम् ॥ १९॥
करोति प्रत्यहं भक्त्या नृत्यत्यग्रे यथेच्छया ।
पञ्चामृतप्रवाहैर्मामभिषिच्य मनोहरैः ॥ २०॥
एवं पूजाविधानेन कल्पिते शाम्भवेन मे ।
तच्चित्ते यादृशं सौख्यं तन्न क्वापि मनोहरम् ॥ २१॥
मन्दिरं शाङ्कराकारं दृश्यते नन्दिकेश्वर ।
समृद्धं सदनं त्यक्त्वा धनधान्यादिभिर्नरः ॥ २२॥
अन्यत्र याति किं लोके तथा तत् त्यज्यते कथम् ।
गौर्या सह विहारार्थं पुष्पप्रामादकल्पना ॥ २३॥
क्रियते तेन सततं त्तत्यागे मतिरेव न ।
शरीरे यादृशी प्रीतिः मदीये मम सर्वथा ॥ २४॥
ततोऽप्यत्राधिका प्रीतिः शाम्भवे विग्रहे सदा ।
तेन छत्राण्यपाराणि मण्डितानि मनोहरैः ॥ २५॥
कल्प्यन्ते मणिभिर्दिव्यैः मुक्ताजालोचितान्यपि ।
सुधाकरकराकारैः अपारैरपि चामरैः ॥ २६॥
चारुचामीकराकारदण्डमण्डलमण्डितैः ।
निरतः शाङ्करो नित्यं मम सेवां करोत्यतः ॥ २७॥
रम्यं शाङ्करमेवात्र शरीरं मम मन्दिरम् ।
किं कैलासेन काश्या वा किं गौर्या मन्दरेण वा ॥ २८॥
शरीरं शाङ्करं मन्ये रत्नमण्डितमन्दरम् ।
प्रतिक्षणं तेन पूजा तथा विविधसाधनैः ॥ २९॥
क्रियते तादृशी कुत्र पूजोपकरणानि ते ।
मरन्दरससङ्कीर्णकुसुमासारकल्पना ॥ ३०॥
क्रियते तेन साऽन्येन कल्पनीया कथं मम ।
तादृशः शङ्करो वीरः कलौ कश्चिद्भविष्यति ॥ ३१॥
द्वित्राः सन्त्यधुना नन्दिन् ते ते पूज्या न संशयः ।
एतावत्कालपर्यन्तं त्वया पूजा कृता मम ॥ ३२॥
परन्तु न तथा पूजा कृता ज्ञाताऽपि मे ध्रुवम् ।
अधुना गम्यते नन्दिन् रेवातीरं मनोहरम् ॥ ३३॥
तत्रास्ति शाम्भवः कश्चितेन ध्यानं कृतं मम ।
आसायं तत्र विश्रम्य गौर्या सह विशेषतः ॥ ३४॥
प्रतिक्षणमपाराभिः पूजाभिः परिवेष्टितः ।
वसामि परमानन्दसागरः करुणाकरः ॥ ३५॥
सायङ्कालेऽपि पूजां मे स करिष्यति सादरम् ।
महानिशि महापूजां स करिष्यति सादरम् ॥ ३६॥
ततः परं पुष्पशय्यां कल्पयिष्यति मे पराम् ।
रत्नप्रासादमध्यस्थमन्दिरे रत्नसुन्दरे ॥ ३७॥
विहारसाधनं सर्वं कल्पयिष्यति भक्तितः ।
रत्नदीपाः सुधाधाराः फलसारा मनोहराः ॥ ३८॥
पुष्पसाराः कल्पनीयाः मन्दवाता मनोहराः ।
ततः परं स विरतो विहारनिरते मयि ॥ ३९॥
निद्रामुद्रान्वितः सोऽपि भविष्यति कथञ्चन ।
इदानीं तु त्वया नन्दिन् कैलासं प्रति सत्वरम् ॥ ४०॥
गतसंरक्षणं कार्य कैलासद्वारमन्दिरे । (गन्तव्यं रक्षणं)
पुनरप्यमृता मृतामृता मृतनामामृतपानलोलुपा ॥ ४१॥
रसना शिवकीर्तनोत्सुका शिवगङ्गेव पुनाति मानसम् ।
शिवसज्जनसाधुवादगोष्टी भुवनान्तान्यपि तारयन्ति सत्यम् ॥ ४२॥
॥ इति शिवरहस्यान्तर्गते व्यासकृतं शिवमानसपूजा सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २४। ९०-१३१ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 24. 90-131 ..
Proofread by Ruma Dewan