श्रीशिवमीडेस्तवरत्नम्
स्वप्रकाशशिवरूपसद्गुरुं निष्प्रकाशजडचैत्यभासकम् ।
अप्रमेयसुगुणामृतालयं संस्मरामि हृदि नित्यमद्भुतम् ॥ १॥
यः क्रीडार्थं विश्वमशेषं निजशक्त्या
सृष्ट्वा स्वस्मिन् क्रीडति देवोऽप्यनवद्यः ।
निस्त्रैगुण्यो मायिकभूमिव्यतिरिक्तः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ २॥
एको देवो भाति तरङ्गेष्विव भानुः
नानाभूतेष्वात्मसु सर्वेष्वपि नित्यम् ।
शुद्धो बुद्धो निर्मलरूपो निरवद्यः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ ३॥
देवाधीशं सर्ववरेण्यं हृदयाब्जे
नित्यं ध्यात्वा योगिवरा यं दृढभक्त्या ।
शुद्धा भूत्वा यान्ति भवाब्धिं न पुनस्ते
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ ४॥
श्रौतैः स्मार्तैः कर्मशतैश्चपि य ईशो
दुर्विज्ञेयः कल्पशतं तैर्जडरूपैः ।
संविद्रूपस्वैकविचारादधिगम्यः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ ५॥
कर्माध्यक्षः कामिजनानां फलदाता
कर्तृत्वाहङ्कारविमुक्तो निरपेक्षः ।
देहातीतो दृश्यविविक्तो जगदीशः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ ६॥
नान्तर्बाह्ये नोभयतो वा प्रविभक्तं
यं सर्वज्ञं नापि समर्थो निगमादिः ।
तत्त्वातीतं तत्पदलक्ष्यं गुरुगम्यं
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ ७॥
यद्भासार्को भाति हिमांशुर्दहनो वा
दृश्यैर्भास्यैर्यो न च भाति प्रियरूपः ।
यस्माद् भाति व्यष्टिसमष्ट्यात्मकमेतत्
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ ८॥
आशादेशाद्यव्यवधानो विभुरेकः
सर्वाधारः सर्वनियन्ता परमात्मा ।
पूर्णानन्दः सत्त्ववतां यो हृदि देवः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ ९॥
कोऽहं देवः किं जगदेतत् प्रविचाराद्
दृश्यं सर्वं नश्वररूपं गुरुवाक्यात् ।
सिद्धे चैवं यः खलु शेषः प्रतिपन्नः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ १०॥
सत्यं ज्ञानं ब्रह्म सुखं यं प्रणवान्तं
सर्वस्फूर्तिः शाश्वतरूपस्त्विति वेदाः ।
जल्पन्त्येवं स्वच्छधियोऽपि प्रभुमेकं
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ ११॥
यस्माद् भीतो वाति च वायुस्त्रिपुरेषु
ब्रह्मेन्द्राद्यास्ते निजकर्मस्वनुबद्धाः ।
चन्द्रादित्यौ लोकसमूहे प्रचरन्तौ
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ १२॥
मायाकार्यं जन्म च नाशः पुरजेतुः
नास्ति द्वन्द्वं नाम च रूपं श्रुतिवाक्यात् ।
निर्णीतार्थो नित्यविमुक्तो निरपायः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ १३॥
नायं देहो नेन्द्रियवर्गो न च वायुः
नेदं दृश्यं जात्यभिमानो न च बुद्धिः ।
इत्थं श्रुत्या यो गुरुवाक्यात् प्रतिलब्धः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ १४॥
स्थूलं सूक्ष्मं क्षाममनेकं न च दीर्घं
ह्रस्वं शुक्लं कृष्णमखण्डोऽव्ययरूपः ।
प्रत्यक्साक्षी यः परतेजाः प्रणवान्तः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ १५॥
यत्सौख्याब्धेर्लेशकणांशोः सुरमर्त्या-
स्तिर्यञ्चोऽपि स्थावरभेदाः प्रभवन्ति ।
तत्तत्कार्यप्राभववन्तः सुखिनस्ते
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ १६॥
यस्मिञ्ज्ञाते ज्ञातमशेषं भुवनं स्याद्
यस्मिन् दृष्टे भेदसमूहो लयमेति ।
यस्मिन्मृत्युर्नास्ति च शोको भवपाशाः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ १७॥
द्यां मूर्धानं यस्य वदन्ति श्रुतयस्ताः
चन्द्रादित्यौ नेत्रयुगं ज्यां पदयुग्मम् ।
आशां श्रोत्रं लोमसमूहं तरुवल्लीः (तरुवल्ल्यः)
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ १८॥
प्राणायामैः पूतधियो यं प्रणवान्तं
सन्धायात्मन्यव्यपदेश्यं निजबोधम् ।
जीवन्मुक्ताः सन्ति दिशासु प्रचरन्तः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ १९॥
यच्छ्रोतव्यं श्रौतगिरा श्रीगुरुवाक्याद्
यन्मन्तव्यं स्वात्मसुखार्थं पुरुषाणाम् ।
यद् ध्यातव्यं सत्यमखण्डं निरवद्यं
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ २०॥
यं जिज्ञासुः सद्गुरुमूर्तिं द्विजवर्यं
नित्यानन्दं तं फलपाणिः समुपैति ।
भक्तिश्रद्धादान्तिविशिष्टो धृतियुक्तः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ २१॥
पृथव्यम्बवग्निस्पर्शनखानि प्रविलाप्य
स्वस्मिन् मत्या धारनया वा प्रणवेन ।
यच्छिष्टं तद् ब्रह्म भवामीत्यनुभूतं
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ २२॥
लीने चित्ते भाति च एको निखिलेषु
प्रत्यग्दृष्ट्या स्थावरजन्तुष्वपि नित्यम् ।
सत्यासत्ये सत्यमभूच्च व्यतिरेकात्
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ २३॥
चेतःसाक्षी प्रत्यगभिन्नो विभुरेकः
प्रज्ञानात्मा विश्वभुगादिव्यतिरिक्तः ।
सत्यज्ञानानन्दसुधाब्धिः परिपूर्णः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ २४॥
सर्वे कामा यस्य विलीना हृदि संस्थाः
तस्योदेति ब्रह्मरविर्यो हृदि तत्र ।
विद्याविद्या नास्ति परे च श्रुतिवाक्यात्
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ २५॥
स त्यागेशः सर्वगुहान्तः परिपूर्णो
वक्ता श्रोता वेदपुराणप्रतिपाद्यः ।
इत्थं बुद्धौ ज्ञानमखण्डं स्फुरदास्ते
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ २६॥
नित्यं भक्त्या यः पठतीदं स्तवरत्नं
तस्याविद्या जन्म च नाशो लयमेतु ।
किं चात्मनं पश्यतु सत्यं निजबोधं
सर्वान् कामान् स्वं लभतां स प्रियरूपम् ॥ २७॥
इत्यानन्दनाथपादपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण
त्यागराजनाम्ना विरचितं शिवमीडेस्तवरत्नं सम्पूर्णम् ॥
Encoded by Sridhar Seshagiri