शिवमीडेस्तवः
वैलक्षण्यं धामसु यस्य त्रिषु सिद्धं
भोग्याद्भोक्तुर्भोगत एवं त्रिविधाच्च ।
यस्माच्छ्रत्या नास्ति च कश्चिद् व्यतिरिक्त-
स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ १॥
एको ध्येयस्त्वात्मतयेति हि वेदान्ते
योऽन्यत्सर्वं श्रूयत एवं सन्त्यज्य ।
सर्वव्यापी भाति च भगवान् यो देव-
स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ २॥
आकाशोयं स्याद्यदि दहरोनानन्दः
कोह्येवान्यात्प्राणभृदत्र गतप्राण्यात् ।
भूमानन्दः प्रत्यगभिन्नः सकलात्मा
तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३॥
आदित्यान्तर्यामिणमोश्वरमात्मेच्छु-
र्गायत्र्यैवानन्यमिहान्वहमाराध्य ।
प्राप्नोत्याराद्विष्णुपदं तच्छिवसंज्ञं
तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ४॥
दुःखस्यान्तमभीप्सव एनं सद्रूपं
ब्रह्माभिख्यं स्वात्मतया हृदि यं मत्वा ।
मुक्तिं यान्तीत्यत्र तु नान्योस्ति च पन्था
तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ५॥
सत्यज्ञानानन्तरसोस्त्यपि चास्थूलो
ह्रस्वोजो योऽणुत्वविहीनो न च दीर्घः ।
अद्वैतात्मकपूर्णशिवो यो ब्रह्माख्य-
स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ६॥
ध्यातृध्यानध्येयभिदां यः परिहत्य
स्वस्थो भूत्वा केवल एकः परिशिष्टः ।
स्वानन्यत्वं पश्यति यज्ञस्समभक्त-
स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ७॥
यस्यैवैकम्पादममुं वै भुवनाख्यं
त्यक्त्वा नानाकारतयैवत्रिभिरन्यैः ।
ऐक्यं लब्ध्वा भाति च योगी क्रमशोऽस्मिन्
तं चिन्मात्रं साक्षिणमेकं शिवमीडे । ८॥
सर्वात्मस्थं स्वात्मतया सम्प्रतिपन्न-
स्स्वास्थ्यं वै तत्सर्वतया च प्रतिपन्नः ।
पूर्णानन्दो मादृगनन्तः पुरुषस्स्या-
त्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ९॥
सर्वज्ञत्वं मायिकमीशे सन्त्यक्त्वा
किञ्चिज्ज्ञत्वं तद्वदमुष्मिन्नपि जीवे ।
चिन्मात्रैकं पश्यति योगी लक्षणया
तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ १०॥
सर्वज्ञोऽपि स्वाधिकहीनः सकलज्ञः
किञ्चिज्ज्ञोऽपि स्वयमिहहीनः किञ्चिज्ज्ञः ।
ज्ञानाज्ञानाभ्यामपि चान्यः परमात्मा
तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ११॥
ओङ्कारार्थो हंसरहस्यः परिपूर्णः
प्रत्यग्रूपो भाति च पञ्चाक्षरगम्यः ।
ईशस्सोऽस्मीत्येव समाध्या विदितस्स्या-
त्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ १२॥
शैवागम्यो वैष्णवगम्यश्शिव एकः
सर्वैरव्यैर्वेदमतस्थैर्न च शैवाद्-
वैतध्यातृभिरेव तु सङ्गम्य-
स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ १३॥
ज्योतिर्लिङ्गं स्वात्मनि दृष्ट्वा देहादीन्
लोकान् हित्वाऽखण्डमनन्तं परिपश्यन् ।
जीवन्मुक्तोहङ्कृतहीनश्शिवयोगी
तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ १४॥
नित्यं शान्तं निर्गुणमार्यं निखिलस्थं
दीपाकारं सद्गुरुतोऽयं मुद्रिकया ।
दृष्ट्वा नित्याभ्यासवशाद्यः परिपूर्ण-
स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ १५॥
अक्षिण्येनं दक्षिण ईशं शशितुल्यं यं
व्योम्न्येकीकृत्य शिवेतं परमे च ।
सर्वात्मानस्संसृतिपाशादिह मुक्ता-
स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ १६॥
दृश्यो देहो नायमहं सत्सुखमात्रं
चिद्रूपोऽस्मीत्यैक्यमुपेत्योपरि येन ।
संसारोत्थ शोकमनन्तं विजहाति
तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ १७॥
आकाशादीन् भूतविकारानपलाप्य
स्वाधिष्ठानं शेषितमस्मीत्यचिरेण ।
ज्ञात्वा युक्त्या मुञ्चति चान्या इह वाच-
स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ १८॥
ज्ञाते यस्मिन् सर्वविदं स्याद्विदितं स्या-
दज्ञातेस्मिन् नैव समस्तं विदितं स्यात् ।
नानुध्यायाद्यद्विदसत्सबहुशब्दां-
स्तं चिन्मात्रं साक्षिणमेकं शिवमीडै ॥ १९॥
वाचं त्यक्त्वा सद्गुरुवक्त्राच्छुतिवाक्याद्-
वक्तारं यं प्रत्यगमिख्यं परिपूर्णम् ।
लोकातीतं नैव विजानन् भवभाव-
स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ २०॥
यो वै भूमा यस्सुखरूपः परमात्मा
द्यावापृथ्वी चापि यदन्तर्गुणहीनः ।
प्राणप्राणो देह इहाहम्पदलक्ष्य-
स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ २१॥
प्रागोङ्कारं षोडशधैव प्रविभज्य
स्वत्वेनास्तान् भागचतुष्कं तुर्याशन् ।
सम्यक्पश्यंस्तत्र चतुर्थं पदमेनं
तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ २२॥
यस्मिन्नोतं प्रोतमितीत्थं जगदेत-
त्तात्पर्येणैवोपनिषद्भिः प्रतिपाद्यम् ।
सोहं नान्यः कश्चन मन्तो विदुरेवं
तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ २३॥
अव्यक्तादप्यस्ति परो यः पुरुषोऽन्ते
यस्मिन्नेतत्कल्पितमन्यैः श्रुतिहीनैः ।
ज्योतीरुपं भेदविहीनं परमार्थं
तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ २४॥
तत्त्वं त्वं तत्सोऽहमहं सोऽस्म्यखिलात्मे-
त्यैक्यं विद्वानत्र विदित्वा विमलात्मा ।
स्वात्मारामोऽखण्डरसात्मा श्रुतिसिद्ध-
स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ २५॥
द्युभ्वादीनामायतनं यस्सकलाना-
मात्मैतेषां प्राणभृतामप्यखिलात्मा ।
जीवेभ्योऽन्योऽप्यत्र यदन्ये न च जीवा-
स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ २६॥
आनन्दो हि स्यात्प्रचुरोऽयं मयहन्तः
पुच्छब्रह्मेत्याहुरसत्तच्छ्रुतिहानेः ।
नायं जीवः पञ्चमकोशोऽतीतत्वा-
त्तं चिमात्रं साक्षिणमेकं शिवमीडे ॥ २७॥
कौक्षेयाग्निर्नैव च वैश्वानरशब्दो
भूताग्निर्वानापि तदीयो न च देवः ।
शारीरो वा नासितु विमलः कूटस्थ-
स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ २८॥
जीवाजीवावत्र शरीरे वसतो द्वा-
वेको भुङ्क्ते कर्मफलं यस्त्वितरोऽस्मात् ।
ईशोऽनश्नन् पाययतीतरवाक्ये यं
तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ २९॥
छान्दोग्ये हि श्रूयत एवं तत्सत्यं
तत्त्वं पुत्रायारुणिवाक्यं निरवद्यम् ।
तन्निष्ठस्यात्र तथा मुक्त्युपदेशा-
त्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३०॥
अव्यक्तस्येवेक्षति कर्मानुपपत्ते-
स्साङ्ख्योक्तस्याशब्दतयापि च जाड्येन ।
न ज्ञेयत्वं यस्य तु नोक्तानुपपत्ति-
स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३१॥
लीलारूपा कवदेषा खलु सृष्टिस्त्व-
मीशस्यास्यां नैव फलं परितृप्तस्य ।
कर्मापेक्षं ज्ञानिषु लोके विषमत्वं
तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३२॥
औदासीन्यं वास्तवमात्मनि संसिद्धं
स्रष्टुत्वादिशक्तिगधर्मोप्युपपन्नः ।
नाव्यक्तादेरित्युपदेशादसकृद्वै
तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३३॥
जीवस्यैवोत्क्रान्तिरमुष्माद्गतिरेर्न
लोकं प्रत्युष्यागतिरन्यस्य तु भूम्नः ।
निश्चेष्टत्वान्नापि च बुद्धेर्जडताया-
स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३४॥
संज्ञामूर्त्योः क्लृप्तिरधीशस्य हि कर्म
त्रेधैकैकां कुर्वत एवं श्रुतिशब्दात् ।
यस्माजीवोऽनन्य इतीहाभ्युपगम्य-
स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३५॥
भूतैर्जीवोनन्तरदेहप्रतिपत्तौ
रंहत्येवं कर्मफलानामुपभुक्त्यै ।
रेतस्सिग्योगोथ भविष्यत्यह यस्मा-
त्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३६॥
विद्याभेदो वेद्यभिदाप श्रुतिशीर्षै-
र्नैवोच्येत प्राकृतदृष्टेस्सगुणा स्यात् ।
अन्या शैवी निर्गुणरूपा यदधीना
तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३७॥
कार्योत्कर्षात्सर्वपदार्थे शिवदृष्टिस्तं
वान्तेस्मिश्छास्ति च शास्त्रं सदयं यम् ।
विन्नो वेदोत्कर्षयनन्यप्यपकर्षं
तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३८॥
भूमानन्दस्सैन्धवतुल्यस्त्वविनाशः
कूटस्थात्मा ह्यक्षररूपो क्षरगम्यः ।
यस्य ब्रह्मक्षत्रमपि स्यादशनार्थ
तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ३९॥
पुरुषस्यास्मिन्वागपि चित्ते चित्तं च
प्राणे प्राणस्तेजसि तेजो विदुषोऽस्मिन् ।
यद्रूपं तदेहायोगेपरिलीनं
तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ४०॥
न्यूनाधिक्यं नोत्तरदक्षिणसंज्ञाभ्या-
मुत्क्रान्तस्याप्यत्र विदुस्स्यादयनाभ्याम् ।
भित्वादित्यं गच्छति सिद्धं ब्रह्मस्थं
तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ४१॥
उत्पत्त्यादिव्याहृतिवर्जं त्वणिमादि-
स्यादैश्वर्यं मुक्तभवानां विदुषां च ।
नावर्तन्ते लोकमिमं ते खलु शब्दा-
त्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ ४२॥
इति ज्ञानवासिष्ठे चतुर्थपादे षष्ठाध्याये शिवमीडेस्तवः सम्पूर्णः ।
Proofread by Mohan Chettoor