नन्दिकेशप्रोक्तं शिवनामामृतम्महिमवर्णनम्

नन्दिकेशप्रोक्तं शिवनामामृतम्महिमवर्णनम्

हे विश्वेश्वर हे महेश्वर महादेवेति नामामृतं पीत्वा पीनतनुस्तनोति मुहुरप्यावर्तनं तस्य यः । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ १॥ हे कैलासनिवास हे पशुपते पाहीति नामामृतं पीत्वा पीनतनुस्तनोति मुहुरप्यावर्तनं तस्य यः । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ २॥ हे गौरीकुचकुम्भिकुम्भविलसत्काश्मीरधारारस- श्रीपुञ्जर्जितपादपद्म भगवन् पाहीति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ ३॥ हे गौरीरमणारुणाचलपते हे शङ्कराराधन- व्यासक्तामरभूरुहोत्तमतम स्वामिन्नितीशार्चनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ ४॥ हे श्रीशैलपते मुहुः पशुपते हे शैलकन्यापते हे कामान्तक हे पुरान्तक इति स्मृत्वैव यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ ५॥ हे काशीपुरनायकाश्रितशिवाचारव्रतप्रापक- व्यापारप्रियपालकाव भगवन्नित्येव यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ ६॥ श्रीमन्मेरुशरासनोरुशिखरस्फारप्रभामण्डल- व्यासक्तामलगण्डमण्डलतल त्राहीति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ ७॥ हे मृत्युञ्जय हे सदाशिव शिवावामाङ्ग शङ्ग प्रभो हे शम्भो वृषभध्वजातिदयया पाहीति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ ८॥ हे विश्वाधिक भाललोचन चिरासारोरुसंसारजा- पारक्लेशनिशाविनाश दयया पाहीति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ ९॥ शम्भो मे जननी त्वमेव जनको भ्राता सखा मित्रमि- त्यालस्येन विना बदत्यनुदिनं भक्त्याऽपि यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ १०॥ भो भर्ग त्रिपुरान्तक त्रिनयन श्रीनीलकण्ठ प्रभो शम्भो मारहरामरप्रवर मां पाहीति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ ११॥ त्वत्पादाम्बुरुहार्चनेन विजयो भाग्यानि मे जीवनं जीवातुश्च तदेव मे शिव शिव त्राहीति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ १२॥ प्राणिप्राणनकारणप्रवण मां प्राणप्रयाणक्षणे प्रक्षीणं शिवनामधेयसुधया पाहीति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ १३॥ स्वामिन्नन्नपते धनाधिपपते दुःखाब्धिमग्नं मुहुः लग्नं पापगणेन भग्नमनसं पाहीति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ १४॥ मामेकं शरणागतं शरणदानन्दप्रदानोद्यत स्वाधीनं कुरु लिङ्गपूजनरतं पाहीति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ १५॥ काश्यामेव सितत्रिपुण्ड्रनिटिलो रुद्राक्षकण्ठो मुहुः श्री वीरेश्वरलिङ्गपूजनरतं पाहीति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ १६॥ रुद्राक्षामितभस्मरूषिततनुः विश्वेश्वराराधनं कृत्वा शङ्कर चन्द्रशेखर महादेवेति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ १७॥ कृत्वा सोदकबिल्वकोमलदलैः विश्वेश्वराराधनं जप्त्वा शङ्करनाम जीवनपरित्यागाय यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ १८॥ शम्भोर्लिङ्गसमर्चनोत्तरमयं घोरान्तरायैर्विना देहो यातु लयं ममेति मनसा निश्चित्य यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ १९॥ यो वृन्दारकवृन्दवन्दितलसत्पादारविन्दार्चकं दीनं मामव शङ्कर स्मरहर व्याहारकृन्नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ २०॥ ॥ इति शिवरहस्यान्तर्गते नन्दिकेशप्रोक्तं शिवनामामृतम्महिमवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४२। ६८-८७ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 42. 68-87 .. Proofread by Ruma Dewan
% Text title            : Nandikeshaproktam Shivanamamritam Mahimavarnanam
% File name             : shivanAmAmRRitammahimavarNanaMnandikeshaproktam.itx
% itxtitle              : shivanAmAmRitamahimavarNanaM nandikeshaproktam (shivarahasyAntargatam)
% engtitle              : shivanAmAmRitammahimavarNanaM nandikeshaproktam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 42| 68-87 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org