शिवनामकल्पलतालवालः

शिवनामकल्पलतालवालः

(१ शार्दूलविक्रीडित) ॐ मोक्षस्यैकनिदानमब्जनयनब्रह्मेन्द्रचन्द्रादिभि- र्देवैः प्राणपदीकृतं कलिमलप्रध्वंसि धर्माङ्कुरः । भारत्यापि सुदुर्निरूपमहिम त्रय्यन्तरे गोपितं वक्तुर्मङ्गलदं शिवेति विमलं नामैव नस्तारकम् ॥ १/१॥ (२ स्रग्धरा) आनन्त्यौदार्यसत्यादृति(दति)मृतिहृतिभिः स्वल्पसेवातितोषा- त्संकष्टोच्छित्त्युपेच्चाभय(मय)हितवचनैरुत्तमत्वाच्च शम्भुः । सेव्यो विष्णूपमन्युद्रुहिणमुनिसुतश्रीदमन्थेच्छुदेवै- र्दक्षश्रीरामवेदैरशिशुपशुवधूराक्षसैः साक्षिभिर्नः ॥ २/२॥ (३ स्रग्धरा) नाथ त्वच्छक्तितत्त्वाव्ययचरितभगव्यूहमूर्त्यङ्गसाङ्ग- प्रत्यङ्गोपाङ्गकृत्यागमभजनकलांशादिनिष्कर्षमूढाः । त्वन्नामापि त्यजामो यदि दुरितहरं सान्ववायाः कृतार्थीः केनोपायेन जायेमहि कलिहतके जन्मभाजो वयं हि (जन्मनित्यामतत्र) ॥ ३/३॥ (४ शिखरिणी) शिवेति द्वौ वर्णो परपदपतद्धंसगरुतौ तटौ संसाराब्धेः स्वविषयकबोधाङ्कुरदले । श्रुतेरन्तर्गोपायिततररहस्यब्रुवचरौ (रहस्याहृतिचरौ) घरट्टग्रावाणौ भवविटपिबीजौघदलने ॥ ४/४॥ (५ शार्दूलविक्रीडित) स्वामिन्कर्मणि कायिके न जरसा शक्तोऽस्मि नो मानसे चाञ्चल्यान्मनसो न निर्धनतया पूर्तेष्टदानादिके । तस्माद्वाचिकमेव कर्म विदुषां साध्यं विदित्वा भवन्- नाम्नमष्टशतं निरुच्य जनुषः साफल्यमीहेतमाम्(तराम्) ॥ ५/५॥ (६ आर्या) शिवनामकल्पवल्ल्याः शिवचरितानन्दकाननभवायाः । रुचिरं रत्नावालं रचये सत्पद्यरत्नवरैः ॥ ६/६॥ - - ॐ शिवाय नमः । १। (शिखरिणी) प्रकृत्या नैर्मल्यादमलगुणयोगादपि शमा- ज्जगत्याधारत्वाद्भजदमृतदानाच्च भवतः । बलादिच्छाशक्तेः प्रथितपुरि भद्रश्रव इति प्रतीतस्त्वं लिङ्गे त्रिपुरहर ! तस्मादसि शिवः ॥ १/७॥ ॐ महेश्वराय नमः । २। (वंशस्था) तवेश्वरत्वं त्रिजगद्विलक्षणं त्वमीश्वराणां महतामपीश्वरः । जगत्तिरोधानकरः श्रुतीरितः त्वं पञ्चविंशोऽपि परो महेश्वरः ॥ २/८॥ ॐ शम्भवे नमः । ३। (उपगीति) शं भावयसि च भवसे शं च भवसि चेति वा देवः । त्वं देवदारुविपिने लिङ्गे प्रथितोऽस्यतः शम्भुः ॥ ३/९॥ ॐ पिनाकिने नमः । ४। (वसन्ततिलका) नाकोऽपि येन पिहितो मुनिकण्वमूर्ध- वल्मीकवेणुजधनुस्त्रितयाग्रजन्मा । यः सप्तशीर्षफणिरूप उदारकर्मी चापस्तमावहसि नाथ ततः पिनाकी ॥ ४/१०॥ ॐ शशिशेखराय नमः । ५। (द्रुतविलम्बित) मतिमयोऽखिलजीवसमष्टिर- प्यमेथि दक्षमखे हिमर्गुर्वृथा (हिमगुथा) । इति धिया दयया विधृतस्त्वया शिरसि तेन भवान् शशिशेखरः ॥ ५/११॥ ॐ वामदेवाय नमः । ६। (शालिनी) वामार्धेन क्रीडसि त्वं त्रिलोकी- वक्राचारो वल्गुमोदोऽसि तस्मात् । विश्वोत्तीर्णः स्रष्ट्टतामप्यतीतः प्रेयानात्मा कथ्यसे वामदेवः ॥ ६/१२॥ ॐ विरूपाक्षाय नमः । ७। (गीति) विषमाणि विविधशक्तीन्यक्षीणि विलक्षणानि वाक्षाणि । हर ! हेमकूटशैले लिङ्गे व्यक्तोऽस्यतो विरूपाक्षः ॥ ७/१३॥ ॐ कपर्दिने नमः । ८। (मेघविस्फूर्हिता) नदीपूरैः शोधादथ सुरधुनीशोधनात्तत्प्रदानात्- कचग्रन्थेर्भेदोऽतिशयितगुणः स्यात्कपर्दो वराटः । तदाधारः पूरस्थगनमपि तत्पावनं तत्प्रकाश- क्षमत्वं मैरालीं प्रथयसि तनुं छागलाण्डे कपर्दीम् ॥ ८/१४॥ ॐ नीललोहिताय नमः । ९। (ललिता) नेमाङ्गनं प्रकृतिपूरुषं रवे- रन्तश्च रूपयुगवेद्वपुस्तव । वेधोऽलिकाम्बुकणतोऽरुणासिता- ज्जातः शिव त्वमिति नीललोहितः ॥ ९/१५॥ ॐ शङ्कराय नमः । १०। (पथ्यावक्त्र) कर एव सुखं धत्से भक्तानां कुरुषे च तत् । पीठे चन्द्रपुराभिख्ये नाम्ना ख्यातोऽसि शङ्करः ॥ १०/१६॥ ॐ शूलपाणये नमः । ११। (औपच्छन्दसिक) शिव तृप्तपुरस्य(स्थ) लिङ्गमध्ये प्रकटस्संस्त्रिगुणात्मकाललोकैः । शुचिशक्तिदशादिभिस्त्रिशूलं विदधत्त्वं प्रथितोऽसि शूलपाणिः ॥ ११/१७॥ ॐ खट्वाङ्गिने नमः । १२। (शम्भु) द्रुहिणस्यैकं वदनं मिथ्यावचनं दृष्ट्वा सद्यश्छिन्नम् । न ततो वेधोमरणं शम्भोः क्व पुनर्हिंसाजन्यं पापम् ॥ अथ दण्डार्थं(र्धं) वहसि त्वं तज्जनशिक्षार्थं खट्वाया वा । चरणं यत्तट्विमलं सत्त्वं प्रथितस्तेन त्वं खट्वाङ्गी ॥ १२/१८॥ ॐ विष्णुवल्लभाय नमः । १३। (वैतालीय) वितरन् हरये तपस्यते पदरेखाजनितं सुदर्शनम् । वपुरर्धमपि प्रियाय ते प्रथितस्त्वं भुवि विष्णुवल्लभः ॥ १३/१९॥ ॐ शिपिविष्टाय नमः । १४। (तोटक) पशवः परमात्मनि धीविरहात् द्विपदोऽपि नराश्च सुराः शिपयः । तदनुग्रहकृद्धृदयं प्रविशन् प्रथितोऽसि विभो शिपिविष्ट इति ॥ १४/२०॥ ॐ अम्बिकानाथाय नमः । १५। (आर्या) नाथसि हिमाचलमुमां मनसा तां नाथसेऽथ तन्नाथः । (नाथसि हिमाचलमुमां मनसा तां नाथसे तन्नाथः) । प्रकटोऽसि देविकायां लिङ्गे तेनाम्बिकानाथः ॥ १५/२१॥ ॐ श्रीकण्ठाय नमः । १६। (विद्युन्माला) क्ष्वेलं गङ्गामिन्दोर्लेखामाद्योत्थां वा कान्तिं कण्ठे । बिभ्रन्माण्डल्ये(व्ये)शे लिङ्गे विख्यातोऽसि त्वं श्रीकण्ठः ॥ १६/२२॥ ॐ भक्तवत्सलाय नमः । १७। (इन्द्रवंशा) दासानुरस्यावपसीति तर्णकान् भक्तात्मकानोदनबालकोभयम् । पोषाय गृह्णास्यथ तेषु सौहृदं पुष्णासि तस्मादसि भक्तवत्सलः ॥ १७/२३॥ ॐ भवाय नमः । १८। (उद्गीति) सत्तामात्रमधिष्ठानमुपादानमसि विश्वस्य । सलिलस्याधिष्ठात्री मूर्तिस्तव तेन विश्रुतोऽसि भवः ॥ १८/२४॥ ॐ शर्वाय नमः । १९। (उपेन्द्रवज्रा) यदेतदाभाति बहुप्रकारं जगत्तदन्ते सकलं श‍ृणासि । अधिष्ठितो मध्यमदेशलिङ्गे धरण्यधिष्ठातृतयापि शर्वः ॥ १९/२५॥ ॐ त्रिलोकीशाय नमः । २०। (आर्यागीति) ऊर्ध्वाधोमध्यभुवाम् अमरासुरमानवप्रकरनिबिडानाम् । अन्तर्यमनात् त्रिपुटी- साक्षितया शङ्कर त्रिलोकीशस्त्वम् ॥ २०/२६॥ ॐ शितिकण्ठाय नमः । २१। (अर्धाङ्गी) दधदधिगलमिन्द्रपविप्रहृतिप्रभवं कालम् । कालञ्जरैगिरिशि(शे)खरे प्रथितस्त्वं शितिकण्ठः ॥ २१/२७॥ ॐ शिवाप्रियाय नमः । २२। (प्रमाणिका) वति(मति)र्धृतिः कृतिर्बलं शरीरमिन्द्रियं मनः । समस्तमेव ते शिवा भवानतः शिवाप्रियः ॥ २२/२८॥ ॐ उग्राय नमः । २३। (मत्ता) उच्यस्यन्तर्निखिलजनानामुद्गच्छस्यप्यथ जगदूर्ध्वम् । प्रव्यक्तः सन् कनखललिङ्गे वायोरन्तर्वससि तदुग्रः ॥ २३/२९॥ ॐ कपालिने नमः । २४। (मालिनी) कमलभवकरोटिव्रातमालाधरत्वात् तदधिकबलशाली भासि कङ्कालनाथः । परशिव (परमशिव) करवीरक्षेत्रमध्यस्थ(स्य)लिङ्गे निवससि सुरवन्द्यो नामतस्त्वं कपाली ॥ २४/३०॥ ॐ कामारये नमः । २५। (कर्पूर) कर्पूरश्वेत त्वं कामेच्छोर्दूरे निष्कामाना(णा)मासन्नः । दर्पं कन्दर्पस्य प्रक्षिण्वन् विख्यातोऽभूर्लोके कामारिः ॥ २५/३१॥ ॐ अन्धकासुरसूदनाय नमः । २६। (विबुधप्रिया) लीलया जगदम्बया पिहितेषु ते नयनेष्वभू- दन्धकारत एव यः स तु भैरवेण निषूदितः । तादृशः कृपया त्वया शिव गाणपत्यमवापितः प्रेमवानपि नामतः पुनरन्धकासुरसूदनः ॥ २६/३२॥ ॐ गङ्गाधराय नमः । २७। (मालाधर) अमरतटिनी निजं बलमवेक्ष्य गवाद्भव- च्छिरसि गगनादपी(वा)पतदतीव वेगोद्धुरा । पटुतरजटाटवीमुपगता न दृष्टा क्वचित् परमशिव तां दधन्निगदितोऽसि गङ्गाधरः ॥ २७/३३॥ ॐ ललाटाक्षाय नमः । २८। (भुजगशिशुभृता) उडुशशिरविसंहर्ता प्रलयसमयसप्तार्चिः । तमुपरि नयने विभ्रद्भव भवसि ललाटाक्षः ॥ २८/३४॥ ॐ कालकालाय नमः । २९। (गुणाङ्गी) मार्कण्डेयः कालमुखाद्विमुक्तो दग्धो रुद्रः काल इति प्रसिद्धः । तुर्यां मूर्तिं बिभ्रदुमादि(धि)नाथ प्रख्यातोऽसि त्वं भुवि कालकालः ॥ २९/३५॥ ॐ कृपानिधये नमः । ३०। (शुद्धविराज्) दैतेयेषु जलन्धरादिषु स्वीयानामपकारकेष्वपि । सालोक्यादिपदानि दित्ससि त्वं ख्यातोऽसि ततः कृपानिधिः ॥ ३०/३६॥ ॐ भीमाय नमः । ३१। (शोभा) भिया वातो वाति ज्वलनदिनकरौ शक्रमृत्युप्रचेतो- (ज्वलदिनकरौ, ज्वलतिदिनकरः) मुखा देवास्त्वत्तो भयचकितहृदस्तत्पराः स्वस्वकार्ये । नभोऽधिष्ठात्री ते तनुर(रि)तिविपुला सप्तगोदावरे च प्रतीतस्त्वं लिङ्गे गिरिवरतनयानाथ तेनासि भीमः ॥ ३१/३७॥ ॐ परशुहस्ताय नमः । ३२। (कुमारललिता) अमोघचरितत्वं व्यनक्ति परशुस्ते । शिवागमवचोभिस्ततः परशुहस्तः ॥ ३२/३८॥ ॐ मृगपाणये नमः । ३३। (रुक्मवती) दारुवनस्थैस्त्वभिचरद्भिः प्रेषित एणो वेदशरीरः । याचनमुद्रा वा तव हस्ते तत्प्रथितोऽसि त्वं मृगपाणिः ॥ ३३/३९॥ ॐ जटाधराय नमः । ३४। (हरिणी) द्वि(वि)विधतनुको दक्षध्वंसे बभूविथ यः पुरा मृगमनुययावे(थै)कोऽन्यस्तु स्थितो मखमण्डपे । अखिलसरितः पारावारान् पविचतरान् घ(ध)रान् शिरसि कचतापन्नान् बिभ्रच्छ्रुतोऽसि (विभ्रन् श्रुतोसि) जटाधरः ॥ ३४/४०॥ ॐ कैलासवासिने नमः । ३५। (भुजङ्गप्रयात) हरेर्मूर्ध्नि मेरौ हिमे मन्दराद्रौ भवत्केलिभूमौ(म्यो) भवत्कर्मगम्याः(भवत्केलिगम्याः) । तदूर्ध्वं परा ज्ञानलभ्यास्ति तासु स्थितत्वेन जातोऽसि कैलासवासी ॥ ३५/४१॥ ॐ कवचिने नमः । ३६। (भ्रमरविलसिता) वर्माभावे पर(रे)शरनयनैः स्पृश्यो दृश्यो भवति हि सकलः । स्वातन्त्र्येण द्वयमपि तिरयन् दुष्प्रापत्वात्प्रभवसि कवची ॥ ३६/४२॥ ॐ कठोराय नमः । ३७। (वातोर्मी) घोरैका ते तनुरन्या शिवेति द्वे ते बिभ्रज्जगतां रक्षकोऽसि । दुष्टा जीवा दमनेनैव रक्ष्याः पूर्णत्वाद्वा कथितस्त्वं कठोरः ॥ ३७/४३॥ ॐ त्रिपुरान्तकाय नमः । ३८। (भाराक्रान्ता) स्थूलं लिङ्गं करणमिति(पि) यत्त्रयं वपुषां नृणां भक्तानां चेत्तदखिलमपि त्वमन्तयसि (त्वं मतयसि) क्षणात् । यद्वा नाथ त्रिपुरदहनादलौकिकचर्यया श्रीशैलेऽसि प्रर्थि(थि)ततनुमानिति त्रिपुरान्तकः ॥ ३८/४४॥ ॐ वृषाङ्काय नमः । ३९। (स्वागत्) त्वं गवामनयतः कुपितोऽपि प्रार्थितोऽसि सुकृतेन वृषेण । तेन तद्ध्वजरथो (तेन ध्वजरथो) वृषशैले विश्रुतोऽस्यभिधयापि (विश्रुतोऽस्यभियापि) वृषाङ्कः ॥ ३९/४५॥ ॐ वृषभारूढाय नमः । ४०। (गोवृष) नन्द्यारोहात् त्रैपुरदाहे हरिणा पृष्टे वेदाश्वानां गोवृषरूपैः समुपात्तत्वात् । धर्मज्ञानैश्वर्यविरागेषु निरूढत्वा- द्विख्यातोऽसि त्वं सुरवृन्दे वृषभारूढः ॥ ४०/४६॥ ॐ भस्मोद्धूलितविग्रहाय नमः । ४१। (पादाकुलक) स्वाङ्गे भस्म विलिम्पन्नाथ ज्ञानां (ज्ञानाङ्ग) शिरोव्रतमुपदिशसि । भूतीशाभिधतीर्थेऽपि त्वं भस्मोद्धूलितविग्रहनामा ॥ ४१/४७॥ ॐ सामप्रियाय नमः । ४२। (स्रग्विणी) चन्दनस्पर्शशीतामृतस्यन्दिनी सान्त्ववाक् सामवेदोऽथ सामानि वा । तैः प्रयुक्तैरतीवेश संप्रीयसे (सन् प्रीयसे) गीयसे तेन लोकेषु सामप्रियः ॥ ४२/४८॥ ॐ स्वरमयाय नमः । ४३। (शार्दूलललित) षड्जोदात्तमुखाः स्वरा अवयवा वेदैकवपुषः साम्बव्यञ्जनको भवान् स्वरमयी शक्तिस्तव मता । ओङ्कारावयवेषु(यववेषु) मप्रभृतयो रुद्रेश्वरशिवाः सर्वे यस्य विभूतितां विदधते सोऽसि स्वरमयः ॥ ४३/४९॥ ॐ त्रयीमूर्तये नमः । ४४। (त्रयी) साम्ब ऋग्वेदकोऽस्यागलान्तात् आ च नाभेर्यजुर्वेदरूपः । नाभिदेशादधः सामवेदः तेन तेऽभूत् त्रयीमूर्तिनाम ॥ ४४/५०॥ ॐ अनीश्वराय नमः । ४५। (विमोहा) ईश्वरत्वावधिर्यः स सर्वेश्वरः । तस्य नेशः परं त्वं ततोऽनीश्वरः ॥ ४५/५१॥ ॐ सर्वज्ञाय नमः । ४६। (सर्वज्ञ) षट्त्रिंशत्तत्त्व त्वय्येवाध्यस्ता । सर्वाधिष्ठानं तत्त्वं सर्वज्ञः ॥ ४६/५२॥ ॐ परमात्मने नमः । ४७। (तनुमध्या) अन्तर्यमयंस्त्वं भूतान्यखिलानि । भूयः कथितोऽसि श्रुत्वा परमात्मा ॥ ४७/५३॥ ॐ सोमसूर्याग्निलोचनाय नमः । ४८। (लोचन) मानसातिगं त्वां विदन्ति नो लोचनानि ते किञ्च तान्यतः । भान्तमन्वमी भास्वदादयो भान्ति सोमसूर्याग्निलोचनः ॥ ४८/५४॥। var. गमातृकायां तु भास्वदादयो लोचनानि ते मानसातिगं त्वां विदन्ति नो । भान्तमन्वमी भान्ति साम्प्रतं तेन सोमसूर्याग्निलोचनः ॥ ४८/५४॥ ॐ हविषे नमः । ४९। (दुग्ध) दुग्धमात्रस्य कुहरे यथा घृतं प्राणिमात्रस्य दहरे तथा भवान् । चेतसा संमथित एव लभ्यते हूयमानं त्वमखिलं ततो हविः ॥ ४९/५५॥ ॐ यज्ञमयाय नमः । ५०। (भुजङ्गविजृम्भित) वेदः पादो यूपो दंष्ट्रानलचयनरसनवदनस्तनूरुहधर्मकः स्रौवश्चञ्चुःसर्पिर्नासा(सो) दिवसरजनिनयनयुगः करः सवनत्रयम् । औद्गात्रान्त्रो वेदीस्कन्धश्चरणयुगलमुपनिषदः प्रवर्ग्यकचभ्रमिः वक्षोदाक्षिण्यो मन्त्रस्फिग्विविधमखकरणतनुकोऽसि यज्ञमयाभिधः ॥ ५०/५६॥ ॐ सोमाय नमः । ५१। (मत्तमयूरा) मूर्तिष्वष्टास्वीश तवेका रजनीशो ज्योतिष्टोमस्तस्य हविश्चैडेविडश्च । सौराष्ट्रस्थस्त्वं शिव गङ्गायमुनस्थो गौर्या साकं नित्यविहारीति च सोमः ॥ ५१/५७॥ ॐ पञ्चवक्त्राय नमः । ५२। (स्रग्धरा) सर्वेश ब्रह्मतत्त्वेन्द्रियविषयकलाभूतसादाख्यमूर्ति- ष्वेकैकश्येन पञ्चात्मसु तव वदनेष्वादिहीनेषु सत्सु । योऽयं सुन्दोपसुन्दासुरहनननिमित्ताप्सरस्तल्लजेक्षा प्रादुर्भावः स तद्भक्त्यतिरभसकृतेऽजायथाः पञ्चवक्त्रः ॥ ५२/५८॥ ॐ सदाशिवाय नमः । ५३। (रथोद्धता) यो विधीश्वरदृशा सदाशिवः तद्दृशापि खलु यः सदाशिवः । तस्य कालकलना क्व ते तद- स्यौपचारिकतया सदाशिवः ॥ ५३/५९॥ ॐ विश्वेश्वराय नमः । ५४। (विश्व) केवलं चिन्मयज्योतिरात्मैव काशी तेन सर्वाणि विश्वान्यतीतापि विश्वम् । तत्र वासात् परिच्छेदबुद्ध्या गृहीतः काशिकाधीश्वरोऽपीश विश्वेश्वरस्त्वम् ॥ ५४/६०॥ ॐ वीरभद्राय नमः । ५५। (वैश्वदेवी) श्रीगौर्या वीरः स्वीकृतः पुत्रबुद्ध्या क्रोधामिस्वेदोत्पादितो भद्रनामा । भद्रायोगाद्वा राजपूर्वासशाली तद्वांस्तद्रूपस्त्वं ततो वीरभद्रः ॥ ५५/६१॥ ॐ गणनाथाय नमः । ५६। (वृन्ता वृत्त) शशिकरगुणमुखसंख्यानां प्रमथतुषितमयमुख्यानाम् । अधिपतिरसि शिव कैलासे पुरि निवससि गणनाथस्त्वम् ॥ ५६/६२॥ ॐ प्रजापतये नमः । ५७। (श्येनी) अन्तरिक्षभूमिनाकसंस्थिता याः सहस्रशः सहस्रसंहि(मि)ताः । रुद्रनामिकाः प्रजाः सृजस्यतः स्थाणुनामको भवान् प्रजापतिः ॥ ५७/६३॥ ॐ हिरण्यरेतसे नमः । ५८। (इन्द्रवज्रा) त्वद्वीर्ययोगेन भवेद्धिरण्यं यद्वाग्निरूपोऽस्यथवा जलार्धे । त्यक्तेन (युक्तेन) वीर्येण बभूव हैम- (हेम-) मण्डं तदीशासि हिरण्यरेताः ॥ ५८/६४॥ ॐ दुर्धर्षाय नमः । ५९। (पणव) कैलासे शिखरिणि पौलस्त्यप्रागल्भ्यं तृणसमतां प्राप (तृणसमतामाप्राप) । एवं सत्यभिभवकारी कस्तस्मात्त्वं भवसि हि दुर्धर्षः ॥ ५९/६५॥ ॐ गिरीशाय नमः । ६०। (चित्रपदा) भूरिगुणे पदवाक्ये निष्कलुषे सुसमर्थः । पर्वतराडपि शंभो तेन मतोऽसि गिरीशः ॥ ६०/६६॥ ॐ गिरिशाय नमः । ६१। (हलमुखी) मेरुपर्वतमपि धनुर्हेतवे कृशयसितराम् । पर्वते निवससि सुखं नाथ तद्भवसि गिरिशः ॥ ६१/६७॥ ॐ अनघाय नमः । ६२। (अनघ) दुःखं नाथ न ते पापं च व्यसनम् । त्रैलोक्याधिपते तस्मादस्यनघः ॥ ६२/६८॥ ॐ भुजङ्गभूषणाय नमः । ६३। (एकरूप / अपरान्तिका) अभिचारसमर्थदारुकावनमैः प्रहितानहीन्दन् दधत् । गरुडादपि बिभ्यतस्तनौ कथितोऽसि भुजङ्गभूषणः ॥ ६३/६९॥ ॐ भर्गाय नमः । ६४। (मदलेखा) भर्ज्यन्ते दुरितानां संदोहा यदवाप्त्या । गायत्रीप्रतिपाद्यस्त्वं तस्मादसि भर्गः ॥ ६४/७०॥ ॐ गिरिधन्वने नमः । ६५। (तन्वी) वाग्विषये त्वं मरुरिव भवसि त्वां हि मनागभिदधति न वाचो दिव्यरथे वा पुरदहनविधौ वेदमयाः किल चतुरतुरङ्गाः । चक्रयुगं ते दिनरजनिकरौ बाणशरीरभृदभवदुपेन्द्रो मेरुरभूत्ते धनुरुरगपतिर्ज्याभवदीश तदसि गिरिधन्वा ॥ ६५/७१॥ ॐ गिरिप्रियाय नमः । ६६। (समानी) प्रेमभूरि ते विभाति वैदिकस्तवात्मवाचि । सर्वपर्वतेष्वपीति नामतो गिरिप्रियोऽसि ॥ ६६/७२॥ ॐ कृत्तिवाससे नमः । ६७। (चन्द्रलेखा) वाराणस्यां शिव त्वद्भक्तांस्तुदन्तं गजेन्द्रं विप्रोत्सृष्टाभिचारव्याघ्रं च शूलेन हत्वा । चर्मद्वन्द्वं तदीयं प्रावृत्य विभ्राजमानो- (ऽ)स्येकाम्रे चन्द्रलेखामौले ततः कृत्तिवासाः ॥ ६७/७३॥ ॐ पुरारातये नमः । ६८। (मन्दाकिनी) भवान् पूर्वमाभाति चन्द्रादिकात् त्रयाणां पुराणामारातिश्च वा । मुनीनां पुराणां मघोवास्ति वा ततस्त्वं पुरारातिनामासि वै ॥ ६८/७४॥। var. भवान् पूर्वमाभाति पश्चादिदं जगद्भाति यद्वा पुराणामरिः । तनोः कारणस्थूलसूक्ष्मात्मनो विनाशेन वा ते पुरारातिता ॥ ६८/७४॥ ॐ भगवते नमः । ६९। (जलोद्धतगति) पराक्रममती विरागयशसी श्रिया सह जगत्पतित्वमिति षट् । गुणा भगपदोचितास्त्वयि वस- न्त्यतः श्रुतिगिरेरितोऽसि भगवान् ॥ ६९/७५॥ ॐ प्रमथाधिपाय नमः । ७०। (उपस्थिता) मथ्नन्तितरां यदवैदिकां- स्त्वत्पारिषदाः प्रमथा मताः । तान् ईश सदा परिपालयन् भक्तैरुदितः प्रमथाधिपः ॥ ७०/७६॥ ॐ मृत्युञ्जयाय नमः । ७१। (मृत्युञ्जय) रुद्राच्युतेशब्रह्मणां कोट्यो यया गीर्णाः क्षणात् । तद्गोचरो न त्वं विभो तेनाभवो मृत्युञ्जयः ॥ ७१/७७॥ ॐ सूक्ष्मतनवे नमः । ७२। (चुडामणि) दुर्ज्ञेयमूर्तिधरोऽप्याभ्रातके प्रकटः । सूक्ष्मादपीश तनु(कृश)स्तेनासि सूक्ष्मतनुः ॥ ७२/७८॥ ॐ जगद्व्यापिने नमः । ७३। (जलधरमाला) सत्ता भानं प्रियमिति चानुस्यूतं सर्वेष्वर्थेष्वनुभवसिद्धं लोके । सच्चित्सौख्य(ख्यं) त्रयमपि यौष्माकीणं रूपं तस्माद्भवसि जगद्व्यापी (जगद्व्यापीति) ॥ ७३/७९॥ ॐ जगद्गुरुवे नमः । ७४। (अपराजिता) वटतरुनिकटे मुनीनखिलान् सुरान् कमलभवमुखान् प्रबोधनमुद्रया । उपदिशसि परं महस्तव दक्षिणा- मुखपरशिव तन्मतोऽसि जगद्गुरुः ॥ ७४/८०॥ ॐ व्योमकेशाय नमः । ७५। (मन्दाक्रान्ता) पृथ्वीपाथोज्वलनपवनव्योमरूपेषु भूते- ष्वल्पाल्पानि प्रथमगदितान्युत्तराणीशितॄणि । व्योम्नोऽपीशोऽस्यथ च गगनं कुन्तलास्ते विराजो- गङ्गाधारा वियदिव जटास्तेन च व्योमकेशः ॥ ७५/८१॥ ॐ महासेनजनकाय नमः । ७६। (महासेन) सुब्रह्मण्येन पृष्टे प्रणवपरमार्थोऽत्र क इति ब्रह्मण्यब्जेक्षणे स्वं दिशति सति कारानियमिते । आत्मा वै पुत्रनामेत्युपदिशति तौ मोचितवति त्वय्यब्जाक्षाजपुत्रैः स्तुत इति महासेनजनकः ॥ ७६/८२॥ ॐ चारुविक्रमाय नमः । ७७। (कामदा) परशिव त्वया ये निषूदिताः गजजलन्धरत्रैपुरादयः । अपुनरागमं ते पदं गता- स्तव चमत्कृतश्चारुविक्रमः ॥ ७७/८३॥। (तवचनमत्कृतश्चारुविक्रमः) ॥ ७७/८३॥ ॐ रुद्राय नमः । ७८। (अलोला) बालो धातृललटाज्जातः सन्नरुदस्त्वं सोऽरोदीद्यदरोदीदग्नित्वादपि रुद्रः । उल्लाघीकरणाद्वा निश्चिन्तीकरणाद्वा संवर्ते रोदयसि ब्रह्मादीन् इति (अपि) रुद्रः ॥ ७८/८४॥ ॐ भूतपतये नमः । ७९। (प्रमिताक्षरा) धरणीजलादिषु तथात्मगणे- ष्वनुविश्य तान्नियमयन्नटसि । अथवा पिशाचनिकरान्नटयन् भुवनावनाय ननु भूतपतिः ॥ ७९/८५॥ ॐ स्थाणवे नमः । ८०। (असम्बाधा) वृक्षाभः स्तब्धो दिवि भुवि पुर उद्दिश्य स्फारं वर्षाणि स्थिरतर उदतिष्ठस्त्वम् । ज्योतिर्लिङ्गेऽपि प्रभवति(सि) सति(शिव) नैश्चल्यात् कल्पान्ते वातैर्न चलसि तदसि स्थाणुः ॥ ८०/८६॥ ॐ अहिर्बुध्न्याय (अहये बुध्न्याय) नमः । ८१। (कुसुमितलतावेल्लिता) ब्रह्माण्डस्याधो दशशतफणो बुध्नभावं प्रयाते पाताले साधुर्वहति वसुधां सार्णवद्वीपशैलाम् । तमूर्धभ्योऽन्ते विषमयवपुः कालसङ्कर्षणाख्यो रुद्रो भूत्वेदं दहसि निखिलं सोऽस्यहिर्बुध्न्यनामा ॥ ८१/८७॥ ॐ दिगम्बराय नमः । ८२। (पञ्चचामर) महेश दारुकावने महर्षिसिद्धसेविते तदङ्गनाः पतिव्रताः परीक्षमाणया धिया । मनोभवातिशायिनीं मनोहरां दधत्तनू(नु)- मुपागतस्तदाश्रमेषु भिक्षितुं दिगम्बरः ॥ ८२/८८॥ ॐ अष्टमूर्तये नमः । ८३। (आन्दोलिका) मेदिनीं भूतमभिमन्यसे शर्व इति पाथसो भवपदेनाभिमानी । रुद्रनाम्ना तु वैश्वानरस्योग्र इति मारुतं भीम इत्यम्बरस्य । भानुमीशान इति शीतभानुं महा- देव इत्यात्मनो यज्वनो वा । मन्यसे पशुपतीभूय शम्भो जगद् व्याप्य तिष्ठन् भवस्यष्टमूर्तिः ॥ ८३/८९॥ ॐ अनेकात्मने नमः । ८४। (सावित्री) यत्किञ्चिद्ब्रह्माण्डे सर्व वै रुद्रस्तत् । सङ्ख्येयत्ताभावाद्विख्यातोऽनेकात्मा ॥ ८४/९०॥ ॐ सात्त्विकाय नमः । ८५। (अपरवक्त्र) त्वयि निवसति जन्तुरस्तिता- गुण इति तानि तव प्रयोजनम् । त्वमपि भवसि तेषु तद्वपुः परशिव तेन मतोऽसि सात्त्विकः ॥ ८५/९१॥ ॐ शुद्धविग्रहाय नमः । ८६। (पुश्पिताग्रा) घनघृतमिव सत्त्वमात्रपिण्डो न तु वपुरण्वपि ते रजस्तमोक्तम् । शिव भवसि न चैव कूटयोधी हरसि मलानिति शुद्धविग्रहस्त्वम् ॥ ८६/९२॥ ॐ शाश्वताय नमः । ८७। (ज-विपुला) पूर्वतो जगतो जनेः सर्वसंहारतः परे । वर्तमाने जगत्यपि त्वमस्येवेति शाश्वतः ॥ ८७/९३॥ ॐ खण्डपरशवे नमः । ८८। (चपला) गजासुरवधे खण्डास्तव जाताः परशवः । तदारभ्याखिलैर्देवैर्गीयसे खण्डपरशुः ॥ ८८/९४॥ ॐ अजाय नमः । ८९। (रमणी) न जनिः शिव ते तदसि त्वमजः ॥ ८९/९५॥ ॐ पाशविमोचनाय नमः । ९०। (उज्ज्वला) अभिमतिगुणपञ्चपरुर्दशत्रिचतुरयुतविंशतिपाशतः । शिवपदभजनेन विमोचयन् पशुगणमिति पाशविमोचकः ॥ ९०/९६॥ ॐ मृडाय नमः । ९१। (परन्ती) पूर्णाहुत्या त्वयि सुहिते यज्ञे पूर्णे सति सुहिते । यष्टॄन् ध्यातॄनपि सुखयस्यार्यानेतस्तदसि मृडः ॥ ९१/९७॥ ॐ पशुपतये नमः । ९२। (सुवदना) ख्यातं तन्त्रेषु पाशः पशुरथ पतिरित्येतत्त्रयमपि त्वद्रूपं नाथ जीवान्नियमयसि नुतो मुक्तांश्च कुरुषे । ग्राम्यारण्याधिपत्यं वहसि च यजमानात्माभिमतिमान् भक्तान् नेपालपीठे रमयसि निवसन्नासीः पशुपतिः ॥ ९२/९८॥ ॐ देवाय नमः । ९३। (मोद) द्युतिमोदव्यवहारात्सुरजातिष्ववतारात् । शशिमौले जगतीनामधिपत्वादपि देवः ॥ ९३/९९॥ ॐ महादेवाय नमः । ९४। (कलहंसी) गीर्वाणानामपि मधुहादीनां नमनीयः स्तवनीयस्त्वं देवः । शशिबिम्बेऽधिष्ठात्री तव मूर्ति- र्जगदाप्याययतीति महादेवः ॥ ९४/१००॥ ॐ अव्ययाय नमः । ९५। (रुचिरा) न जायसे परिणमसि प्रवर्धसे न हीयसे न च विकृतोऽसि नश्यसि । त्वमव्ययैर्दशभिरपि क्षमादिभिः परिष्कृतः परशिव तेन चाव्ययः ॥ ९५/१०१॥ ॐ हरये नमः । ९६। (प्रमुदितवदना) परशिव तव नामसङ्कीर्तनं कलिकलुषितचेतसां पावनम् । निवससि नगरे हरिश्चन्द्रके हरसि च दुरितानि स त्वं हरिः ॥ ९६/१०२॥ ॐ पूषदन्तभिदे नमः । ९७। (प्रियम्वदा) अधिमखं रदविकासपूर्वकं परिहसन्तमवलोक्य पूषणम् । शिव भवान् अकृत पिष्टभागिनं गलितदन्तमिति पूषदन्तभिद् ॥ ९७/१०३॥ ॐ अव्यग्राय नमः । ९८। (हंसश्येनी) पौलस्त्येनोन्नमनसमये कैलासाद्रे- र्ब्रह्माण्डानामपि दहनकाले संवर्ते । युद्धेष्वन्वेष्वपि बहुषु सन्तोषोद्रेका- द्देवीं पश्यन्नटसि शिव तस्मादव्यग्रः ॥ ९८/१०४॥ ॐ दक्षाध्वरहराय नमः । ९९। (कलातन्त्र) पुरा देवो दक्ष इति शिव तवैकः श्वशुरकः परो मर्त्यो दक्ष इति विटपिकन्योदरभवः । प्रचेतःपुत्रोऽखिलमखफलदातापि च भवां- स्तयोर्यज्ञौ हा व्यदलयदिति दक्षाध्वरहरः ॥ ९९/१०५॥ ॐ हराय नमः । १००। (मणिगुणनिकर) परशिव जनयसि भव इति भणितः(तदिदं) स्थिरमपि रचयसि मृडपदगणितः(गदितः) । सुचरमचरमपि चरमगुणधरः प्रहरसि जगदिदमखिलमिति हरः ॥ १००/१०६॥ ॐ भगनेत्रभिदे नमः । १०१। (भाराक्रान्ता) विष्णुब्रह्माद्यखिलदिविषद्वृते मखमण्डपे वीरं भद्रापतिमुपगतं सुरासुरमर्दनम् । कोपाटीपादरुणनयमो भगस्तमदीदृशत् तन्नेत्रे स प्रसभमभिनत्ततो भगनेत्रभित् ॥ १०१/१०७॥ ॐ अव्यक्ताय नमः । १०२। (कुटिला) साङ्ख्यो मूलप्रकृतिरिति यदाचख्यौ यत्पाराशर्यश्चिदिति गदति तत्त्वं तत्त्वम् । सामष्ट्यं चाक्षरमपि भुवि नैव व्यक्तं लिङ्गं बाणाभिधमपि शिव इत्यव्यक्तः ॥ १०२/१०८॥ ॐ सहस्राक्षाय नमः । १०३। (आनन्द) अगणितकरचरणशिरोदंष्ट्रोदयुक् प्रतिभय- माश्चर्यं युगपत्सृष्टिस्थितिलयकारि च यदवच्छेदकभेदेन । क्षेत्रे च सुवर्णाक्षे प्रथितं लिङ्गे शिव तव यद्रूपं बहुविधकर्मज्ञानेन्द्रियपरिपूर्णं तदिति सहस्राक्षः ॥ १०३/१०९॥ ॐ सहस्रपदे नमः । १०४। (प्रभद्रक) जगदवनार्थमष्टसु धृतासु मूर्तिषु स्मरहर भास्करस्य तव मूर्तिरष्टमी । गणनपथातिगाङ्घ्रिमयविश्वरूपधृक् श्रुतिगदितोऽसि शङ्कर ततः सहस्रपात् ॥ १०४/११०॥ ॐ अपवर्गप्रदाय नमः । १०५। (पृथ्वी) प्रतीकविदहंग्रहो भृतक इत्युपास्तेर्निजाद्- विधेः शिवसलोकता शिवतदात्मता सार्ष्टिताः । भवन्ति ससमीपता अमृततात्मविज्ञानतो- ऽखिलं फलमतो भवेदिति मतोऽपवर्गप्रदः ॥ १०५/१११॥ ॐ अनन्ताय नमः । १०६। (मणिमाला) नात्रेति विभो नेदानीमिति नेदं ब्रह्मेति न वाचो यत्र प्रसरन्ति । नास्त्येव गुणानामन्तो न विभूतेः शेषोऽसि धराधृत्तेन त्वमनन्तः ॥ १०६/११२॥ ॐ तारकाय नमः । १०७। (लालसा) तव पदकमले भजन्तो जनास्तारिता यत्त्व(त्व)या भवजलनिधितो महादेव ताराख्यवर्णात्मकः । प्रणवमुपदिशन् द्विजान् काशिकायां परेतानपि श्रुतिषु निगदितस्तदन्वार्थनामा भवां(भव)स्तारकः ॥ १०७/११३॥ ॐ परमेश्वराय नमः । १०८। (हरिणप्लुत, हरनर्तक) ग्रामाणां पतयोऽपि सोपपदेश्वरा भुवि भूरिश- स्तेऽपि स्वाश्रितमात्रपोषपरास्तथैव दिवौकसः । ईशानामपि चेशितासि निजाश्रिताश्रिततच्छ्रितान् सर्वानप्यवसीशता परमावधिः परमेश्वरः ॥ १०८/११४॥ - - (१ वसन्ततिलका) जानाति साम्ब तव नामरुचिं दधीचि- र्जीनाति ते पदनखाग्रबलं दशास्यः । जानाति दोर्बलपराक्रममेष मेरु- र्जानन्त्यमोघपटुबाणगतिं पुराणि ॥ १/११५॥ (२ शिखरिणी) इयं शम्भोरष्टोत्तरशतकनामार्थविवृति- र्विजातीयैरष्टोत्तरशतकवृत्तैर्विरचिता । फलं नामस्वर्थावगतिषु च भूम्नैव विदितं बहूनां वृत्तानां प्रमितिरधिकाप्यत्र फलति ॥ २/११६॥ (३ वैतालीय) इति काशिनिवासिसाग्निचित्यक्रतुकृद्भास्कररायभारती । जनुषः सफलत्वसिद्धये शिवनामाष्टशतं व्यवर्वरीत् ॥ ३/११७॥ श्रीसौराष्ट्रसोमेश्वरपादारविन्दार्पणमस्तु । Notes: Śivanāmakalpalatālavālaḥ शिवनामकल्पलतालवालः of Bhāskarācārya भास्कराचार्य gives the explanation of each of the 108 १०८ Names of Śiva शिव i.e. Śivāṣṭottaraśatanāma शिवाष्टोत्तरशतनाम. Kalpalatā कल्पलता implies a fabulous creeper granting all desires. Ālavāla आलवाल refers to a basin for water round the root of a tree. A corresponding Stotram स्तोत्रम् of these Names, i.e. ŚivāṣṭottaraśatanāmaStotram शिवाष्टोत्तरशतनामस्तोत्रम् is found in the ŚivaRahasyam Amśaḥ 7 Adhyāya 13/203-215 शिवरहस्यम् अंशः ७ अध्याय १३/२०३-२१५ and can be referred to from one of the Links given below. The Śivāṣṭottaraśatanāmāvaliḥ शिवष्टोत्तरशतनामावलिः has been collated from the ŚivāṣṭottaraśatanāmaStotram शिवाष्टोत्तरशतनामस्तोत्रम् from the ŚivaRahasyam Amśaḥ 7 शिवरहस्यम् अंशः ७, Commentary on the same by Nīlakaṇṭha Dīkṣita नीलकण्ठ दीक्षित, and the Śivanāmakalpalatālavālaḥ शिवनामकल्पलतालवालः of Bhāskarācārya भास्कराचार्य; and, can be referred to from one of the links given below. The commentary by Nīl̤akaṇṭha Dīkśita नीलकण्ठ दीक्षित mentions that this Stotram is ``said to be from'' the Skanda Purāṇa - Śaṅkara Saṃhitā - Śivarahasya Khaṇḍa स्कन्दपुराण - शङ्करसंहिता - शिवरहस्य खण्ड; however, the evidence of the same in print is pending verification. The variations in the Names found are explained in the commentaries of the respective texts. The verse numbers correspond to those used in the linked references. The `1/7' for example indicates 1st name in the nAmAvalI and 7th verse in the print especially with the commentary. The prosody Chanda-Vritta छन्द - वृत्त for each verse is given above the verse in parenthesis. Refer to the links given in the end for the rules.
% Text title            : Shivanama Kalpalata Alavalah
% File name             : shivanAmakalpalatAlavAlaH.itx
% itxtitle              : shivanAmakalpalatAlavAlaH shivAShTottarashatanAmAvalI 1 (shivarahasyAntargatA shivAya maheshvarAya shambhave)
% engtitle              : shivanAmakalpalatAlavAlaH
% Category              : aShTottarashatanAmAvalI, shiva, nAmAvalI, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : see corresponding stotram/nAmAvalI.  shivarahasyam Amsha 7 | adhyAya 13/203-215||
% Indexextra            : (Scans 1, 2, 3, 4, 5, stotram 1, 2, nAmAvalI, Commentary, Hindi, Prosody-Chanda 1, 2, 3)
% Latest update         : September 12, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org