ऋषिगौतमप्रोक्तं शिवनाममर्मोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
तेनैवोच्चार्यते भक्त्या शिवनाम शिवप्रदम् ।
कृतानि रत्नदानानि सत्पात्रे येन भूरिशः ॥ १८२॥
तेनैवोच्चार्यते भक्त्या शिवनाम शिवप्रदम् ।
कृतानि हेमदानानि सत्पात्रे येन भूरिशः ॥ १८३॥
तेनैवोच्चार्यते भक्त्या शिवनाम शिवप्रदम् ।
कृतानि कन्यादानानि सत्पात्रे येन भूरिशः ॥ १८४॥
तेनैवोच्चार्यते भक्त्या शिवनाम शिवप्रदम् ।
कृतानि गजदानानि सत्पात्रे येन भूरिशः ॥ १८५॥
तेनैवोच्चार्यते भक्त्या शिवनाम शिवप्रदम् ।
कृतानि गोप्रदानानि सत्पात्रे येन भूरिशः ॥ १८५॥
तेनैवोच्चार्यते भक्त्या शिवनाम शिवप्रदम् ।
शिवपञ्चाक्षरी विद्या ब्रह्मविद्येति गीयते ॥ १८७॥
सा विद्या शिवरूपैव मुक्तिदा जपतां नृणाम् ।
विद्यानामुत्तमा विद्या वेदविद्येति गीयते ॥ १८८॥
तत्रापि वेदविद्यायां श्रीरुद्राध्यायमुत्तमम् ।
तत्राप्यत्युत्तमा विद्या शिवपञ्चाक्षरात्मिका ॥ १८९॥
सैव विद्या महाविद्या मोक्षविद्येति गीयते ।
लोकानां प्रलये प्राप्ते लोका वेदे लयं गताः ॥ १९०॥
ततः सर्वेऽपि वेदास्ते रुद्राध्याये लयं गताः ।
रुद्राध्यायो लयं प्राप्तः शिवपञ्चाक्षरे ततः ॥ १९१॥
शिवपञ्चाक्षरः शुद्धो न कुत्रापि विलीयते ।
शिवपञ्चाक्षरो नाम ब्रह्मविद्येति कथ्यते ॥ १९२॥
न परब्रह्मणो नाशः कदाचिदपि वस्तुतः ।
परम्ब्रह्मेति विज्ञेयं शिव इत्यक्षरद्वयम् ॥ १९३॥
तद्ब्रह्मेति विदित्वैव तदुपास्यं मुमुक्षुभिः ।
तद्धि ब्रह्मेत्युपासीत भवति ब्रह्मवांस्ततः ॥ १९४॥
ब्रह्मवान्ब्रह्मविद्भूत्वा ब्रह्मभूतो हि जायते ।
पञ्चाक्षरात्मकं ब्रह्म ज्ञेयं ब्रह्मेति वैदिकैः ॥ १९५॥
न तद्ब्रह्मेदि विज्ञाय प्राप्नोति नरकं ध्रुवम
अव्यक्तं परमं ब्रह्म शिव इत्यक्षरद्वयम् ॥ १९६॥
तदेव सर्ववेदान्तैः प्रतिपाद्य न संशयः । १९७.१
॥ इति शिवरहस्यान्तर्गते ऋषिगौतमप्रोक्तं शिवनाममर्मोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २३। १८२-१९७.१॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 23 . 182-197.1..
Notes:
Ṛṣi Gautama ऋषि गौतम delivers Upadeśa उपदेश about the merits of reciting the ŚivaNāma शिवनाम with devotion. He mentions that the Śiva Pañcākṣarī Vidyā शिव पञ्चाक्षरी विद्या is indeed BrahmaVidyā ब्रह्मविद्या.
He further elaborates that amongst all Vidyā-s, VedaVidyā वेदविद्या is the best; and among the Veda-s वेदाः, there is the magnificent Rudrādhyāya रुद्राध्याय in which is mentioned the Supreme Śiva Pañcākṣarī Vidyā शिव पञ्चाक्षरी विद्या - and that is known as the MahāVidyā महाविद्या and the MokṣaVidyā मोक्षविद्या. While the worlds merge into the Veda-s वेदाः, the latter merge into Rudrādhyāya रुद्राध्याय - which itself merges into the Śiva Pañcākṣara शिव पञ्चाक्षर - which is Pure and does not merge into anything.
Ṛṣi Gautama ऋषि गौतम explains that Śiva Pañcākṣara शिव पञ्चाक्षर is the Eternal Brahma ब्रह्म; and the two syllabled name (DvayakṣaraNāma द्वयक्षरनाम) ``Śiva शिव'' is the Unmanifest (Avyakta) Parama Brahma अव्यक्त परम ब्रह्म.
In later part of the chapter, Ṛṣi Gautama ऋषि गौतम shares that this ParamāVidyā परमाविद्या was understood by Śivā शिवा, and with due instruction from Mahādeva महादेव the same was passed on by Her to Her Son Ṣaṇmukha षण्मुख who further passed it on to Nandikeśa नन्दिकेश. It was subsequently passed on to Ṛṣi Agastya ऋषि अगस्त्य who expounded it to him (Ṛṣi Gautama ऋषि गौतम).
Mahādevaproktaṃ ŚivaNāmaMarmopadeśam महादेवप्रोक्तं शिवनाममर्मोपदेशम् can be referred to in one of the links given below.
Proofread by Ruma Dewan