महादेवप्रोक्तं शिवनाममर्मोपदेशम्

महादेवप्रोक्तं शिवनाममर्मोपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) - शिवपार्तवतीसंवादे - पार्वत्युवाच । भगवन् श्रीमहादेव सर्वलोकशिवङ्कर । १९८.२ अद्यैकं प्रष्टुमिच्छामि तद्वदस्व कृपानिधे । अष्टोत्तरसहस्रं तु नाम्नामुक्तं त्वया पुरा ॥ १९९॥ तानि नामानि मुख्यानि मुक्तिदानि न संशयः । तत्राप्यत्युत्तमं नाम किमस्त्येकं वदस्व मे ॥ २००॥ यन्नामजपमात्रेण मुक्तिर्हस्तगता भवेत् । महादेव उवाच । शिव इत्यस्ति यन्नाम तद्धि नामोत्तमोत्तमम् ॥ २०१॥ तदेव परमं ब्रह्म तदेवाहं वरानने । शिवनामस्वरूपेण व्यक्त ब्रह्माहमेव हि ॥ २०२॥ शिवनामाहमेवेति विजानीहि यथार्थतः । तदव्यक्तं परं ब्रह्म वेदान्तप्रतिपादितम् ॥ २०३॥ तत्तदेव विजानीहि शिव इत्यक्षरद्वयम् । इदं व्युत्पत्तिरहितं शिवनाम निरञ्जनम् ॥ २०४॥ निराकारं परं ब्रह्म नैतस्माद्ब्रह्म विद्यते । उपासितव्यमेतद्धि ब्रह्मेत्यन्वहमादरात् ॥ २०५॥ शिव इत्यक्षराकारमक्षरं ब्रह्म शाश्वतम् । नमःपूर्वं यकारान्तं ब्रह्मेदं चाद्य पूज्यते ॥ २०६॥ ब्रह्मस्वरूपमाप्नोति ब्रह्मविद्ब्राह्मणो जनः । एवमेतद्ब्रह्मतत्त्वं यो विजानाति तत्त्वतः ॥ २०७॥ स ब्रह्मविदिति ज्ञेयस्तदन्यो ब्रह्म (वि) तन्न हि । ब्रह्मकोशं चतुर्जालं यं मृत्युर्नावपश्यति ॥ २०८॥ तदाप्यतीत्य प्राप्नोति ब्रह्म ब्रह्मविदीदृशम् । एवमुक्ता महाविद्या ब्रह्मविद्या मयाधुना ॥ २०९॥ गोपनीया प्रयत्नेन नाख्येया यस्यकस्य चित् । इयं हि परमा विद्या मोक्षविद्येति गीयते ॥ २१०॥ नातः परं मोक्षविद्या सर्वस्वमियमेव हि । तारकं ब्रह्म परमं शिव इत्यक्षरद्वयम् ॥ २११॥ नैतस्मादपरं किश्चित्तारकं ब्रह्म सर्वथा । इदमेव परं ब्रह्म काश्यां मल्लिङ्गधारिणाम् ॥ २१२॥ अन्तकालोपरक्तानां मया देव्युपदिश्यते । मल्लिङ्गमिति तज्ज्ञेयं केवलं भस्मधारणम् ॥ २१३॥ रुद्राक्षधारणं तद्वत्केवलं लिङ्गपूजनम् । पञ्चाक्षरं जपेन्नित्यं रुद्राध्यायं जपेत्तथा ॥ २१४॥ सोमवारव्रते निष्ठा मत्कथाश्रवणे रतिः । इमानि मम लिङ्गानि येषामव्यभिचारतः ॥ २१५॥ तेभ्य एव पर ब्रह्म मया देव्युपदिश्यते । इदं यत्तारकं ब्रह्म शिवनामाभिधं शिवे ॥ २१७॥ एतस्मिन्ब्रह्मणि श्रद्धा न विना मदनुग्रहम् । अनन्तपुण्यपूतात्मा मदनुग्रहसंयुतः ॥ २१७॥ तारकं ब्रह्म परममिदं मत्वाधितिष्ठति । सर्वथा दीप्यते देवि न यस्मिन्मदनुग्रहः ॥ २१८॥ न तस्यात्र ब्रह्मबुद्धिर्जन्मकोट्यर्बुदैरपि । ब्रह्मबुद्धिः न यस्यात्र म संसारी भविष्यति ॥ २१९॥ पुनः पुनः स संसारी नरकं चाधिगच्छति । मदर्थं कोटिशो धर्माः कृता येनमुहुर्मुहुः ॥ २२०॥ तस्यात्र भवति श्रद्धा ब्रह्मबुद्धिश्च जायते । परं ब्रह्मेदमेवेति यो जानाति विशेषतः ॥ २२१॥ स न संसारभाग्भूयो भविष्यति वरानने । अनेककल्पपर्यन्तं तपस्तप्तं भवेद्यदि ॥ २२२॥ तदा ब्रह्मेदमेवेति विजानाति विशेषतः । अनेककल्पपर्यन्तं यदि मल्लिङ्गधृग्भवेत् ॥ २२३॥ तदा ब्रह्मेदमेवेति विजानाति विशेषतः । ब्रह्मविद्यामिमां देवि योऽन्यथा भावयिष्यति ॥ २२४॥ ब्रह्मविद्येयमधुना तुभ्यमुक्ता मया शिवे । न मयोक्ता पुरान्यस्मै सत्यं सत्यं न संशयः ॥ २२५॥ त्वयाप्यत्यन्तभक्ताय ब्रह्मविद्येयमुत्तमा । वक्तव्यातिविनीताय नान्यस्मै तु कदाचन ॥ २२६॥ विद्येयं गोपनीयैव प्रयत्नेन वरानने । यतो मोक्षप्रदा विद्या सेयमेवेति मन्महे ॥ २२७॥ त्वमत्यन्तप्रियासीति मोक्षविद्येयमम्बिके । तुभ्यमुक्ता मया प्रीत्या गोपनीयापि वस्तुतः ॥ २२८॥ - - गौतम उवाच इत्युक्तां परमां विद्यामिमां ज्ञात्वा तदा शिवा । आचख्यौ स्वकुमाराय षण्मुखाय शिवाज्ञया ॥ २२९॥ आचख्यौ नन्दिकेशाय कुमारो गिरिजाज्ञया । अगस्त्याय समाचख्यौ स कुमारज्ञया ततः ॥ २३०॥ अगस्त्यो मह्यमाचख्यौ नन्दिकेशाज्ञया ततः । युष्मभ्यमुक्ता विद्येयं प्रसङ्गादधुना मया ॥ २३१॥ इयं तु परमा विद्या दुर्लभा मोक्षदा द्विजाः । गोपनीया प्रयत्नेन ध्यातव्या च प्रयत्नतः ॥ २३२॥ सदाशिवशिवेत्येव शिवनामानुकीर्तनम् । कर्तव्यमतियत्नेन मुक्तिकामैरहर्निशम् ॥ २३३॥ यस्यास्त्यविकला बुद्धिः शिवनामानुकीर्तने । तस्मिन्ननुग्रहोस्स्त्येव महादेवस्य सन्ततम् ॥ २३४॥ शङ्करानुगृहीतानां शिवनामानुकीर्तनम्(ने) । भक्तिर्भवति नान्येषां सत्यं सत्यं न संशयः ॥ २३५॥ शिवेति नाम विमलं येन सादरमुच्यते । तेन घोरतरस्तूर्णं तीर्णः संसारसागरः ॥ २३६॥ शिवनामाग्निनेवायं घोरसंसारसागरः । शुष्यते तत्र सहसा नान्यदस्त्येव शोषकम् ॥ २३७॥ ॥ इति शिवरहस्यान्तर्गते महादेवप्रोक्तं शिवनाममर्मोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २३। १९८-२३७॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 23 . 198-237.. Notes: Pārvatī पार्वती requests Mahādeva महादेव that even though He had previously revealed His AṣṭottaraSahasranāma अष्टोत्तरसहस्रनाम of which all of the Names are capable of bestowing liberation; yet, She wishes to know about That One Name that brings about Mukti मुक्ति with japa जपalone. Mahādeva महादेव delivers Upadeśa उपदेश about the Core Meaning of His DvyakṣaraNāma Śiva द्वयक्षरनाम शिव as being the Nirākāra Parama Brahma निराकार परम ब्रह्म as expounded in the Vedanta वेदान्त. The Name Śiva शिव is Akṣarākāra AkṣaraBrahma अक्षराकार अक्षरब्रह्म. The same is recited as Namaḥ Śivāya नमः शिवाय. He mentions thus about the japa जप of Pañcākṣara पञ्चाक्षर and Rudrādhyāya रुद्राध्याय. The DvyakṣaraNāma Śiva द्वयक्षरनाम शिव is Tāraka Brahma तारक ब्रह्म; and that this knowledge is the MahāVidyā महाविद्या, ParamāVidyā परमाविद्या, MokṣapradāVidyā मोक्षप्रदाविद्या and BrahmaVidyā ब्रह्मविद्या. Mahādeva महादेव explains that He Himself initiates select-devotees to this Name; and that the inclination to worship Him thus arises only with His Grace - Śivānugraha शिवानुग्रह. Ṛṣi Gautama ऋषि गौतम shares that this ParamāVidyā परमाविद्या was understood by Śivā शिवा, and with due instruction from Mahādeva महादेव the same was passed on by Her to Her Son Ṣaṇmukha षण्मुख who further passed it on to Nandikeśa नन्दिकेश. It was subsequently passed on to Ṛṣi Agastya ऋषि अगस्त्य who expounded it to him (Ṛṣi Gautama ऋषि गौतम). He iterates that those who recite the Śiva Nāma शिव नाम with much devotion, continually receive Mahādevānugraha महादेवानुग्रह; and that Śiva Nāma शिव नाम is such a Fire that dries up the GhoraSaṁsāraSāgara घोरसंसारसागर with such intensity that nothing else remains (to be dried further). ṚṣiGautamaproktaṃ ŚivaNāmaMarmopadeśam ऋषिगौतमप्रोक्तं शिवनाममर्मोपदेशम् can be referred to in one of the links given below. The link to the above mentioned ŚivĀṣṭottaraSahasranāma शिवाष्टोत्तरसहस्रनाम is also given below. Proofread by Ruma Dewan
% Text title            : Mahadevaproktam Shivanamamarmopadesham
% File name             : mahAdevaproktaMshivanAmamarmopadesham.itx
% itxtitle              : shivanAmamarmopadesham mahAdevaproktaM (shivarahasyAntargatam)
% engtitle              : mahAdevaproktaM shivanAmamarmopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 23| 198-237||
% Indexextra            : (Scan, gautamaproktam, shiva108nAma, saharanAma)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org