शिवनामौषधम्
याज्ञवल्क्यः -
अभिनवमिदमौषधं जनानां जननविनाशकमेकमेव लोके ।
कथमपि गिरिशाभिधानरूपं शिव शिव सृष्टमिदं मनोहरं मे ॥ ५॥
शिव शिव शिव चातुरी किमेषा जनजननामयभोगनाशनाय ।
शिवपदरचनानुकूलरूपा शिवपदमेतदपूर्वमौषधं हि ॥ ६॥
रे रे जनाः पिबत शङ्करनामधेयपीयूषरूपमिदमौषधमादरेण ।
तेनैव जन्ममरणादिकरोगभोगसम्भावितोऽपि न भविष्यति सर्वदाऽपि ॥ ७॥
अहो जनास्तावदतः परं नः सर्वात्मना जन्म जरा मृतिर्वा ।
नास्त्येव सृष्टं शिवनामरूपमभूतपूर्वं परमौषधं हि ॥ ८॥
शिवशङ्करनामरूपमेतत् गिरिशेनापि न सृष्टमौषधं चेत् ।
जरया मरणेन पीडिताः स्युः जननेनापि जगत्त्रयान्तरस्थाः ॥ ९॥
जन्तुर्वाञ्छति जन्मरोगविलयं तत्कारणेच्छा परं
लोके कस्यचिदेव भूरितपसा पुण्यैरपोरैरपि ।
तत्तावद्गिरिशाभिधानमसकृत्संसेवितं भाग्यतः
तज्जन्मापनयं करोति सकृदप्यावर्तनेनापि किम् ॥ १०॥
शिवाभिधानाभिधमौषधं चेत् पीतं सकृत्सर्वरुजां विनाशम् ।
करोति तत्तुल्यमिदं विचित्रं मेने च सर्वामयनाश एव ॥ ११॥
श्रुतमपि शिवनामधेयरूपं परममिहौषधमामयप्रवाहान् ।
परिहरति विचित्रमेवमेतत् किमिति न पीतमनामयाय लोकैः ॥ १२॥
संसारामयभेषजं श्रवणमप्यारोग्यहेतुः परं
तत्तावद्गिरिशाभिधानमिति मे जिह्वाङ्गणे सर्वदा ।
नृत्यत्यादरपूर्वकं शिवकथापीयूषधारान्वितं तत्
किं मे न करिष्यतीति सकलाभीष्टप्रदं तन्मम ॥ १३॥
एकेनापि सकृत् प्रसङ्गवशतः पीतं तदेवौषधं
शर्वाणीरमणाभिधानममरान् कर्तुं प्रवृत्तं श्रुतम् ।
तद्वंश्यानखिलांस्तदीप्सिततमान् भृत्यानपीत्यद्भुतं
मन्ये शङ्करनामरूपमनघं दिव्यौषधं दुर्लभम् ॥ १४॥
निरामयोऽयं धनराशिभिः स्यात् पुत्रैः प्रपौत्रैः कमलाविलासैः ।
व्याप्तः श्रुतेनापि शिवाभिधानदिव्यौषधेनेति मतिः प्रिया मे ॥ १५॥
॥ इति शिवरहस्यान्तर्गते शिवनामौषधं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः १९। ५-१५ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 19. 5-15 ..
Proofread by Ruma Dewan