श्रीशिवपादादिकेशान्तस्तुतिः
कल्याणं वो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-
क्रीडासंसक्तविद्याधरनिवहवधूगीतरुद्रापदानः ।
तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी-
कैलासश्शर्वनिर्वृत्यभिजनकपदस्सर्वदा पर्वतेन्द्रः ॥ १॥
यस्य प्राहुस्स्वरूपं सकलदिविषदां सारसर्वस्वयोगं
यत्येषुश्शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः ।
मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यं
सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥ २॥
आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणां
मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधारात्तधारः ।
क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वितन्वन्
घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥ ३॥
कालारातेः कराग्रे कृतवसतिरुरश्शाणशातो रिपूणां
काले काले कुलाद्रि प्रवरतनयया कल्पितस्नेहलेपः ।
पायान्नः पावकार्चिःप्रसरसखमुखः पापहन्ता नितान्तं
शूलश्श्रीपादसेवाभजनपरहृदां पालनैकान्तशीलः ॥ ४॥ भजनरसजुषां
देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार-
प्रस्तारानत्युदारान् पिपठिषुरिव यो नित्यमत्यादरेण ।
आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्गं समोदं
सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥ ५॥
कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैः
कण्ठारावैरकुण्ठैरपि भरितजगच्चक्रवालान्तरालः ।
चण्डः प्रोद्दण्डशृङ्गः ककुदकबलितोत्तुङ्गकैलासशृङ्गः
कण्ठे कालस्य वाहः शमयतु दुरितं शाश्वतः शाक्करेन्द्रः ॥ ६॥ शमयति शमलं
निर्यद्दानाम्बुधारापरिमलतरलीभूतलोलम्बपाली
झङ्गारैः शङ्कराद्रेः शिखरशतदरीः पूरयन्भूरिघोषैः ।
शार्वस्सौवर्णशैलप्रतिमपृथुवपुस्सर्वविघ्नोपहर्ता
शर्वाण्याः पूर्वसूनुस्स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः ॥ ७॥
यः पुण्यैर्देवतानां समजनि शिवयोश्श्लाघ्यवीरैकमत्यात् var वीर्यैकमत्यात्]
यन्नाम्नि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते ।
भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रौञ्चशैल-
स्संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥ ८॥
आरूढप्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गं
चेलं नीलं वसानः करतलविलसत्काण्डकोदण्डदण्डः ।
रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता
कुर्वन्नाखेटलीलां परिलसतु मनः कानने मामकीने ॥ ९॥
अम्भोजाभ्यां च रम्भारथचरणलताद्वन्द्वकुम्भीन्द्रकुम्भै-
र्बिम्बेनेन्दोश्च कम्बोरुपरि विलसता विद्रुमेणोत्पलाभ्याम् ।
अम्भोदेनापि सम्पादितमुपजनिताडम्बरं शम्बरारेः
शम्भोस्सम्भोगयोग्यं किमपि धनमिदं सम्भवेत्सम्पदे नः ॥ १०॥
वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासा-
न्वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान् ।
एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासे
शोणान् प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलैः ॥ ११॥
नृत्तारम्भेषु हस्ताहतमुरजधिमिद्धिंकृतैरत्युदारै-
श्चित्तानन्दं विधत्ते सदसि भगवतस्सन्ततं यस्स नन्दी ।
चण्डीशाद्यास्तथान्ये चतुरगुणगणप्राणितस्वामिसत्का-
रोत्कर्षोद्यत्प्रतापाः प्रमथपरिवृढास्सन्तु सन्तोषिणो नः ॥ १२॥
var रोत्कर्षोद्यत्प्रसादाः प्रमथपरिवृढाः पान्तु
मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयं
प्रत्युप्तानर्घरत्नैर्दिशि भवनैः कल्पितैर्दिक्पतीनाम् ।
उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतं
हृद्यं स्तुत्यं सुराणां मम भुवनपतेर्धाम सोमार्धमौलेः ॥ १३॥
var हृद्यं हृद्यस्तु नित्यं
स्तम्भैर्जम्भारिरत्नप्रवरविरचितैस्सम्भृतोपान्तभागं
शुम्भत्सोपानमार्गं शुचिमणिनिचयैर्गुम्भितानल्पशिल्पम् ।
कुम्भैस्सम्पूर्णशोभं शिरसि सुघटितैः शातकुम्भैरपङ्कै-
श्शम्भोस्सम्भावनीयं सकलमुनिजनैस्सर्वदा सुप्रसन्नः ॥ १४॥ जनैः स्वस्तिदं स्यात्सदो नः
न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामो
हृद्यः पादैश्चतुर्भिः कनकमणिमयैरुच्चकैरुज्ज्वलात्मा ।
वासोरत्नेन केनाप्यधिकमृदुकरेणास्त्रतो विस्मृतश्रीः- var तरेणास्तृतो
पीठः पीडाधरं नः शमयतु शिवयोस्स्वैरसंवासयोग्यः ॥ १५॥ पीडाभरं
आसीनस्याधिपीठं त्रिजगदधिपतेरङ्घ्रिपीठानुषक्तौ
पाथोजाभोगभाजौ परिमृदुलतलोल्लासिपद्माभिलेखौ ।
पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर्-
श्रेणीशोणायमानोन्नतनखदशकोद्भासमानौ समानौ ॥ १६॥
यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतु-
र्लक्ष्मीसम्भोगसौख्यं विरचयति ययोश्चापदे रूपभेदे ।
शम्भोस्सम्भावनीये पदकमलसमासङ्गतस्तुङ्गशोभे
माङ्गल्यं नस्समग्रं सकलसुखकरे नूपुरे पूरयेताम् ॥ १७॥
अङ्गे शृङ्गारयोनेस्सपदि शलभतां नेत्रवह्नौ प्रयाते
शत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमग्रे किमेतत् ।
शङ्कामित्थं नतानाममरपरिषदामन्तरं कूरयत्त-
त्सङ्घातं चारुजङ्घायुगमखिलपतेरंहसां संहरेन्नः ॥ १८॥
जानुद्वन्द्वेन मीनध्वजनृपरसमुद्रोपमानेन साकं
राजन्तौ राजरम्भाकरिकरकनकस्तम्भसम्भावनीयौ ।
ऊरू गौरी कराम्भोरुहसरससमामर्दनानन्दभाजौ-
चारू दूरीक्रियास्तां दुरितमुपचितं जन्मजन्मान्तरे नः ॥ १९॥
आमुक्तानर्घरत्नप्रकरकरपरिष्वक्तकल्याणकाञ्ची-
दाम्ना बद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टाम्बरेण ।
संवीते शैलकन्यासुचरितपरिपाकायमाणे नितम्बे
नित्यं नर्नर्तु चित्तं मम निखिलजगत्स्वामिनस्सोममौलेः ॥ २०॥
सन्ध्याकालानुरज्यद्दिनकरसरुचा कालधौतेन गाधं
व्यानद्धस्स्निग्धवर्णस्सरसमुदरबन्धेन पीतोपमेन । var स्निग्धमुग्धः
उद्दीप्रैस्स्वप्रकाशैरूपचितमहिमा मन्मथारेरुदारो
मध्यो मिथ्यार्थसध्र्यङ्मम दिशतु सदा सङ्गतिं मङ्गलानाम् ॥ २१॥
नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता-
दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती ।
श्यमा कामागमार्थप्रकथनलिपिवद्भासते या निकामं
सा मा सोमार्धमौलेस्सुखयतु सततं रोमवल्लीमतल्ली ॥ २२॥
आश्लेषेष्वद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क-
व्यासङ्गादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम् ।
दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं
वक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतन्नः ॥ २३॥
वामाङ्के विष्फुरन्त्या करतलविलसच्चारुरक्तोत्पलायाः
कान्ताया वामवक्षोरुहभरशिखरोन्मर्दनव्यग्रमेकम् ।
अन्यांस्त्रीनप्युदारान्वरपरशुमृगालङ्कृतान्सिन्धुमौले- var तानिन्दुमौले-
र्बाहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः ॥ २४॥
सन्भ्रान्तायाश्शिवायाः पतिविलयभयात्सर्वलोकोपतापा- var भिया सर्वलोकोपतापा
त्संविग्नस्यापि विष्णोः सरभसमुभयोर्वारणप्रेरणाभ्याम् ।
मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मा
सोऽयं सर्वापदां नः शमयतु निचयं नीलकण्ठस्य कण्ठः ॥ २५॥
हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री-
रुद्द्योतन्त्या नितान्तं धवलधवलया मिश्रितो दन्तकान्त्या ।
मुक्तामाणिक्यपूरव्वतिकरसदृशा तेजसा भासमान- var माणिक्यजाल
स्सद्योजातस्य दद्यादधरमणिरसौ सम्पदां सञ्चयन्नः ॥ २६॥
कर्णालङ्कारनानामणिनिकररुचां सञ्चयैरञ्चितायां
वर्ण्यायां स्वर्णपद्मोदरपरिविलसत्कर्णिकासन्निभायाम् ।
पद्धत्यां प्राणवायोः प्रणतजनहृदम्भोजवानस्यशम्भो-
र्नित्यं नश्चित्तमेतद्विरचयतु सुखेनासिकां नासिकायाम् ॥ २७॥
अत्यन्तं भासमाने रुचिरतररुचां सङ्गमात्सन्मणीना-
मुद्यच्चण्डांशुधामप्रसरनिरसनस्पष्टदृष्टापदाने ।
भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलम्बे
भक्तालीभालसज्जज्जनिमरणलिपेः कुण्डले कुण्डले ते ॥ २८॥
याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां
येषामाहुस्स्वरूपं जगति मुनिवरा देवतानां त्रयीं ताम् ।
रुद्राणीवक्त्रपङ्केरुहसततविहारोस्तुकेन्दिन्दिरेभ्य-
स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमुपरचये त्रीक्षणस्येक्षणेभ्यः ॥ २९॥
वामं वामाङ्कगाया वदनसरसिजे व्यावलद्वल्लभाया
व्यानम्नेष्वन्यदन्यत्पुनरलिकभवं वीतनिश्शेषरौक्ष्यम् ।
भूयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणे
दक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयन्नः ॥ ३०॥
यस्मिन्नधेन्दुमुग्धद्युतितिमिरतिरस्कारनिस्तन्द्रकान्तौ var धुतिनिचय
काश्मीरक्षोदसङ्कल्पितमिव रुचिरं चित्रकं भाति नेत्रम् ।
तस्मिन्नुल्लीलचिल्लीनटवरतरुणीलास्यरङ्गायमाणे
कालारेर्भालदेशे विहरतु हृदयं वीतचिन्तान्तरन्नः ॥ ३१॥
स्वामिन् गङ्गामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्तीं
धन्यां कन्यां खरांशोश्शिरसि वहति किन्वेष कारुण्यशाली ।
इत्थं शङ्कां जनानां जनयदतिघनं कैशिकं कालमेघ-
च्छायं भूयादुदारं त्रिपुरविजयिनः श्रेयसे भूयसेनः ॥ ३२॥
शृङ्गाराकल्पयोग्यैश्शिखरिवरसुतासत्सखीहस्तलूनै-
स्सूनैराबद्धमालावलिपरिविलसत्सौरभाकृष्टभृङ्गम् ।
तुङ्गं माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रशृङ्गं
सङ्घन्नः सङ्कटानां विघटयतु सदा काङ्कटीकं किरीटम् ॥ ३३॥
वक्राकारः कलङ्की जडतनुरहमप्यङ्घ्रिसेवानुभावा-
दुत्तंसत्वं प्रयातस्सुलभतरघृणास्यन्दिनश्चन्द्रमौलेः ।
तत्सेवन्तां जनौघाश्शिवमिति निजयावस्थयापि ब्रुवाणं var निजयावस्थयैव
वन्दे देवस्य शम्भोर्मकुटसुघटितं मुग्धपीयूषभानुम् ॥ ३४॥
कान्त्या सम्फुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराजन्
वृत्ताकारो वितन्वन्मुहुरपि च परां निर्वृतिं पादभाजाम् ।
सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमानः पुरारेः
श्वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः ॥ ३५॥
दिव्याकल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां
रुद्राणीसत्सखीनामतितरलकटाक्षाञ्चलैरञ्चितानाम् । var सखीनां मदतरल
उद्वेल्लद्बाहुवल्लीविलसनसमये चामरान्दोलनीना-
मुद्भूतः कङ्कणालीवलयकलकलो वारयेदापदो नः ॥ ३६॥
स्वर्गौकस्सुन्दरीणां सुललितवपुषां स्वामिसेवापराणां
वल्गद्भूषाणि वक्त्राम्बुजपरिविगलन्मुग्धगीतामृतानि ।
नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक-
प्रत्युद्यत्प्रीतिमाद्यत्प्रथमनटनटीदत्तसम्भावनानि ॥ ३७॥
स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्मञ्जुवीणा-
स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम् ।
नानारागादिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं
गानं वीणामहर्षेः कलमतिललितं कर्णपूरायतान्नः ॥ ३८॥
चेतो जातप्रमोदं सपदि विदधति प्राणिनां वाणिनीनां
पाणिद्वन्द्वाग्रकूजत्सुललितविलसत्स्वर्णतालानुकूला ।
var पाणिद्वन्द्वाग्रजाग्रत्सुललितरणितस्वर्ण
स्वीयारावेण पाथोधररवपटुना नादयन्तीं मयूरीं
मायूरी मन्दभावं मणिमुरजभवा मार्जना मार्जयेन्नः ॥ ३९॥
देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्य-
स्साध्येभ्यश्चारणेभ्यो मनुजपशुलसज्जातिकीटादिकेभ्यः । var पशुपतज्जाति
श्रीकैलासप्ररूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्य-
स्सर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ॥ ४०॥
इत्थं ध्यायन् प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः var ध्यन्नित्थं
किं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामस्समासात् ।
सम्पज्जातं समग्रं सदसि बहुमतिं सर्वलोकप्रियत्वं
सम्प्राप्यायुश्शतान्ते पदमयति परब्रह्मणो मन्मथारेः ॥ ४१॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ
श्रीशिवपादादिकेशान्तवर्णनस्तोत्रं सम्पूर्णम् ॥
Encoded by Rajnarayanan C K krajnara at gmail.com
Proofread by Rajnarayanan C K, PSA Easwaran psaeaswaran at gmail.com