नन्दिकेशप्रोक्तं शिवपूजामहिमकथनम्
महेश्वरः सर्वसुरोत्तमोऽयमनामयोऽयं जगदीश्वरोऽयम् ।
मृत्युञ्जयोऽयं मदनान्तकोऽयं कालान्तकोऽयं मम भागधेयम् ॥ १॥
अस्माकमाराध्यतमं प्रकृष्टं विश्वेश्वरश्रीचरणारविन्दम् ।
आनन्दकन्दं तदिदं प्रमोदं ददातु मन्दं स्मृतमप्यमन्दम् ॥ २॥
वन्दे मुहुर्दैवतसार्वभौमं सोमावतंसं गरलावतंसम् ।
तमेव वेदान्तगणाः स्तुवन्ति तमेव देवं शरणं प्रपद्ये ॥ ३॥
यदा कदाचित् हृदयारविन्दे महेश्वरश्रीचरणारविन्दे ।
क्षणं चरन्तो यदि चिन्तयन्ति तदा कृतान्तस्य पदं न यान्ति ॥ ४॥
यः कालकालः श्रुतिषु प्रसिद्धः तं कालकालं प्रणमन्ति सन्तः ।
ते तावदन्ते न कृतान्तभीतिं प्रयान्ति यान्त्येव शिवं प्रसन्नम् ॥ ५॥
न चायमन्यामरतुल्यरूपो यतो विरूपाक्ष इति प्रसिद्धः ।
को वा विरूपाक्षसमक्षमेति विना विरूपाक्षकटाक्षलेशम् ॥ ६॥
धर्मेरपारैरलमेव यागैः दानैरपारैरलमेव योगैः ।
तपोभिरुग्रैरलमेव किं तैः तं कालकालं कलयानुवेलम् ॥ ७॥
एकं नवं बिल्वदलं शिवाय समर्पित तत्तुलनां प्रयाति ।
धर्मोऽपि को वा तदुमासह यस्वरूपदानेऽपि समर्थमेव ॥ ८॥
खण्डानि पत्राण्यपि चन्द्रमौलिः छिन्नानि पुष्पाण्यपि लीलया वा ।
क्षिप्तानि गृह्णाति शुभं ददाति मुक्तिं ददाति प्रतिभूः म धर्मे ॥ ९॥
किमश्वमेधादिकयागवृन्दैः न ते शिवाराधनपुण्यराशेः ।
लेशोऽस्ति यः सूक्ष्मतरो नितान्तं तेनापि तुल्या न भवन्ति ते तु ॥ १०॥
किमुत्तमाश्वार्बुददानसङ्घैः न ते शिवाराधनपुण्यराशेः ।
लेशोऽस्ति यः सूक्ष्मतरो नितान्तं तेनापि तुल्या न भवन्ति ते तु ॥ ११॥
किं काञ्चनाभ्यर्चितकन्यकानां दानैरपारैरनुवामरं वा ।
ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ १२॥
सस्यादिपम्पूर्णमहीप्रदानैः किं तैरनन्तैरपि तानि तानि ।
ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ १३॥
वनानि सान्द्राणि विनिर्मितानि किं तान्यनन्तान्यपि सन्ततानि ।
ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ १४॥
किमन्नदानैरमितैर्विचित्रैः घृतादिसद्द्रव्यसमन्वितैर्वा ।
ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ १५॥
गोक्षीरपूर्णामितकुम्भदानेः धनप्रदानश्च फलप्रदानेः ।
ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ १६॥
विचित्रवस्त्राभरणार्बुदानां दानैरपारोदककुम्भदानैः ।
ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ १७॥
सुगन्धपुष्पामलमालिकानां दानैरपारैरपि किं फलं स्यात् ।
ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ १८॥
लिङ्गे प्रदत्तं कुसुमं फलं वा दलं जलं वा तदुमामहायः ।
गृह्णाति तेनैव ददाति भाग्यमनन्तमन्ते स ददाति मुक्तिम् ॥ १९॥
दुर्वाङ्कुरैर्वा शिवलिङ्गरूपं सम्पूज्य भक्त्या प्रणमन्ति ये ते ।
तीर्त्वैव संसारमहाम्बुधिं तं प्रयान्ति सन्तः खलु कालकालम् ॥ २०॥
लिङ्गे यदल्पं फलमम्बु वान्यत् दत्तं तदेवामितपुण्यहेतुः ।
न तेन तुल्यं जगतीतलेऽस्मिन् शुभावहं पापविनाशहेतुः ॥ २१॥
शिवाय यः प्रत्यहमादरेण दत्वा जलं बिल्वदलानि दद्यात् ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ २२॥
शिवाय दद्याद्यदि मुष्टिमात्रं भक्त्या यदन्नं घृतलेशयुक्तम् ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ २३॥
दीपं महेशाय घृताभिषिक्तं सद्वर्तिकायुक्तमपि प्रदद्यात् ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ २४॥
धूपं महेशाय घृतेन सिक्तं ददाति यः प्रत्यहमादरेण ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ २५॥
क्षीरप्रदानं गिरिशाय भक्त्या करोति यः प्रत्यहमादरेण ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ २६॥
दधिप्रदानं गिरिशाय भक्ताः कुर्वन्ति ये प्रत्यहमादरेण ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ २७॥
घृतप्रदानं गिरिशाय भक्त्या करोति यः प्रत्यहमादरेण ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ २८॥
सिताप्रदानं गिरिशाय भक्त्या करोति यः प्रत्यहमादरेण ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ २९॥
फलप्रदानानि मृडाय भक्ताः कुर्वन्ति ये प्रत्यहमादरेण ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ३०॥
मधुप्रदानानि भवाय भक्तया करोति यः प्रत्यहमादरेण ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ३१॥
ताम्बूलदानं गिरिशाय भक्त्या करोति यः प्रत्यहमादरेण ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ३२॥
एलालवङ्गादिकमादरेण ददाति यः प्रत्यहमीश्वराय ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ३३॥
ददाति यो दर्पणमीश्वराय मनोहरं प्रत्यहमादरेण ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ३४॥
करोति यश्चामखीजनेन वातप्रसारं गिरिशाय नित्यम् ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ३५॥
छत्रप्रदानं नियमेन नित्यं करोति यः सर्वसुरोत्तमाय ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ३६॥
ध्वजप्रदानं गिरिशाय नित्यं करोति यः प्रत्यहमादरेण ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ३७॥
नाट्यप्रदानं गिरिशाय नित्यं करोति यः प्रत्यहमादरेण ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ३८॥
तूर्यप्रदानं गिरिशाय नित्यं करोति यः प्रत्यहमादरेण ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ३९॥
सम्मार्जनं शङ्करमन्दिरस्य करोति यः प्रत्यहमादरेण ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ४०॥
दीपावलीं शङ्करमन्दिरेषु करोति यः प्रत्यहमादरेण ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ४१॥
दुकूलदानं गिरिशाय भक्त्या करोति यः प्रत्यहमादरेण ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ४२॥
करोति यः पुष्पवितानदानं भक्त्या महेशाय विशेषकाले ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ४३॥
वसन्तकाले नवचन्दनेन करोति लिङ्गेष्वनुलेपनानि ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ४४॥
दध्यन्नदानेन करोति पूजां नित्यं महेशाय तु सोपदंशम् ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ४५॥
क्षीरान्नदानेन करोति पूजां नित्यं महेशाय तु सोपदंशम् ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ४६॥
घृतान्नदानेन करोति पूजां नित्यं महेशाय तु सोपदंशम् ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ४७॥
मध्वन्नदानेन करोति पूजां नित्यं महेशाय तु सोपदंशम् ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ४८॥
महेशनैवेद्यविशेषदानैः यः शङ्करं तोषयति प्रयत्नात् ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ४९॥
महेशदत्तैर्वसनेर्धनैर्वा यः शङ्करं तोषयति प्रयत्नात् ।
तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ ५०॥
किं लिङ्गार्चनपुण्यतुल्यमनघं पुण्यं श्रुतं तद्यतः
पुण्यानामपि पुण्यमुत्तमतमं तत्सर्वपुण्यालयम् ।
तन्मृत्युञ्जयतोषकारणमिति ज्ञातं तदेवोत्तमं
तद्वेदान्तशिरोमणिश्रुतिमतं किं तेन तुल्यं सुराः ॥ ५१॥
(रे रे सुराः) शिवपदाम्बुजपूजनेन तुल्यं न पुण्यमतुलं तदपारपुण्यैः ।
साध्यं तदेव सुकरं करवीरपुष्पैः दूर्वाङ्कुरैरपि कृतं वितनोति मुक्तिम् ॥ ५२॥
विश्वासः शिवपूजनेऽप्यगणितैः पुण्यैः परं जायते
जातस्याप्यनुवर्तनं बहुतरैः पुण्याब्धिभिर्जायते ।
तत्पूजाकरणेन पुण्यनिधयः प्राप्ताः समस्ताः सदा
कल्याणाम्बुधयोऽप्यपारविभवाः प्राप्ताः परार्धाधिकाः ॥ ५३॥
कामं कायविशोषणाय मुनिभिः तसं तपः किं ततो
लिङ्गाराधनमन्तरेण मरणे भोगस्य मुक्तेरपि ।
वार्ता नेत्यवधारणं श्रुतिगणैः लिङ्गार्चनं कामदं
सर्वेषामपि निश्चितं तदितरत् सर्वं तुषान्वेषणम् ॥ ५४॥
एकं बिल्वदलं नवं शिथिलमप्यम्लानमप्यल्पम-
प्यत्यल्पं शिवलिङ्गभागनिहितं हन्त्रापदम्भोनिधीन् ।
कल्याणाम्बुधिपङ्क्तिमप्यनुदिनं तावत्करोत्यन्वहं
मोदाम्भोधिविवर्धनं च बहुधा मुक्तिं तनोत्यन्ततः ॥ ५५॥
-सत्यं सत्यमिहोच्यते सुरगणाः सत्यं पुनः सर्वथा-
प्युद्धुत्याशु भुजद्वयं शपथमप्यम्बापदाम्भोरुहे । -
कृत्वा शङ्करचारुचारुचरणाम्भोजेऽपि लिङ्गार्चन
सर्वाभीष्टदमेव तेन सदृशं पुण्यं न लोकत्रये ॥ ५६॥
एतल्लिङ्गसमर्चनं मुनिजनाशास्यं रहस्यं परं
वक्तव्यं शिवपूजनोत्सवरसाविर्भावतुष्टाय तु ।
इष्टायामितपुण्यकीर्तिविभवाकाराय हाराय त-
न्नान्यस्मै शिवनिन्दकाय शपथः शम्भोः प्रभोः पादयोः ॥ ५७॥
॥ इति शिवरहस्यान्तर्गते नन्दिकेशप्रोक्तं शिवपूजामहिमकथनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २८। ३-५९ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 28. 3-59 ..
Proofread by Ruma Dewan