ऋषि अगस्त्यप्रोक्तं शिवपूजासाधनानि १ स्नानकर्मशिवमन्त्रोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
मन्त्ररेतैः स्नानकर्म शिवाय विनिवेदयेत् ।
चैत्रस्नानेन भगवान् महारुद्रो विराट्पतिः ॥ १४०॥
प्रीणातु पार्वतीनाथश्चित्रसृष्टिविशारदः ।
वैशाखमासस्नानेन भगवान्गिरिजापतिः ॥ १४१॥
प्रीणातु श्रीमहादेवो विष्णुब्रह्मादिवन्दितः ।
ज्येष्ठस्नानेन भगवान्देवश्रेष्ठो महेश्वरः ॥ १४२॥
प्रीणातु शङ्करीयुक्तो नानागणनिषेवितः ।
अषाढमासस्नानेन भगवान्गिरिजापतिः ॥ १४३॥
प्रीणातु सर्वभूतात्मा सद्यो दाक्षायणीयुतः ।
नभःस्नानेन भगवान्भगनेत्रभिदीश्वरः ॥ १४४॥
प्रीणात्वार्यायुतो देवो देववर्यः सनातनः ।
नभस्यमासस्नानेन भगवान्विश्वलोचनः ॥ १४५॥
प्रीणातुः सोमः सोमात्मा विभुर्हैमवतीयुतः ।
आश्वीजमासस्नानेन भगवान्विश्वहृद्गतः ॥ १४६॥
प्रीणातु त्रिपुरारातिरीशानीप्राणनायकः ।
भगवान् कार्तिकस्नानात् सोमसूर्याग्निलोचनः ॥ १४७॥
प्रीणातु दुर्गासंयुक्तो दुर्गपातकनाशनः ।
मार्गशीर्षस्य मासीय (मासस्य) स्नानेन भगवान्भवः ॥ १४८॥
प्रीणातु सच्चिदानन्दो भवानीप्राणनायकः ।
पुष्यस्नानेन भगवान्पुष्टिदः पुरुषोत्तमः ॥ १४९॥
प्रीणातु मन्मथारातिरम्बिकाप्राणवल्लभः ।
माघस्नानेन भगवानुमाकान्तो जगत्पिता ॥ १५०॥
प्रीणातु शिवया युक्तः सर्वमङ्गलसंश्रयः ।
भगवान्फाल्गुनस्नानान्नीलकण्ठो जगत्पतिः ॥ १५१॥
प्रीणातु मङ्गलायुक्तः सर्वमङ्गलदायकः ।
मन्नामैवं समुच्चार्य प्रतिमासं प्रयत्नतः ॥ १५२॥
स्नानं यः कुरुते नित्यं स स्नानफलभाग्भवेत् । १५३.१
॥ इति शिवरहस्यान्तर्गते ऋषि अगस्त्यप्रोक्तं शिवपूजासाधनानि १ - स्नानकर्मशिवमन्त्रोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । १४०-१५३.१॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 140-153.1..
Notes:
Ṛṣi Agastya ऋषि अगस्त्य delivers Upadeśa उपदेश (to Dvija द्विज) about Śiva Nāma Mantra-s शिवनाममन्त्र pertaining to Snānakarma स्नानकर्म for each month - starting from Caitra चैत्र.
The Adhyāyaḥ 26 अध्यायः २६ has several other details about Śivapūjāsādhanāni शिवपूजासाधनानि.
Proofread by Ruma Dewan