ऋषि अगस्त्यप्रोक्तं शिवपूजासाधनानि ५ शिवार्चने गोचरानुसारपूजोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
अगस्त्यः (उवाच)
मीनकर्कटयोर्मध्ये जलधारां महेश्वरे ।
यः कल्पयेदविच्छिन्नां स मोक्षमधिगच्छति ॥ २२९॥
शिवं मकरसङ्क्रान्तौ दुग्धाद्यैः प्रस्थसम्मितैः ।
अभिषिच्य प्रयत्नेन शुद्धैरपि जलैर्नवैः ॥ २३०॥
भस्म बिल्वादिभिः सम्यक् पूजयित्वा महेश्वरम् ।
सङ्कल्पपूर्वं यत्नेन नैवेद्यं तु प्रकल्पयेत् ॥ २३१॥
शतप्रस्थमितः कृष्णैः श्वेतैर्वा क्षालितैस्तिलैः ।
पूजनीयस्ततो भक्त्या लिङ्गरूपी सदाशिवः ॥ २३२॥
सिह्मादिष्वपि सङ्क्रान्तिष्वेवमेव सदाशिवः ।
पूजनीयो महादेवो विषुवेष्वयनेष्वपि ॥ २३३॥
युगादिष्वपि सम्पूज्यो मन्वादिष्वपि शङ्करः ।
एवमेव शिवः पूज्यो ग्रहणे चन्द्रसूर्ययोः ॥ २३४॥
एवं यः कुरुते भक्त्या लिङ्गपूजां महेश्वरे ।
स महापातकेभ्योऽपि मुच्यते नात्र संशयः ॥ २३५॥
तिलैः पूजां प्रयत्नेन स्वस्वाञ्जलिमितैः सदा ।
यः करोति स पापेभ्यः सर्वेभ्योऽपि विमुच्यते ॥ २३६॥
एवमेव महादेवं यो नित्यं श्वेतसर्षपैः ।
भक्त्या सम्पूजयेद्विप्रः स पापेभ्यो विमुच्यते ॥ २३७॥
॥ इति शिवरहस्यान्तर्गते ऋषि अगस्त्यप्रोक्तं शिवपूजासाधनानि ५ - शिवार्चने गोचरानुसारपूजोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । २२९-२३७॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 229-237..
Notes:
Ṛṣi Agastya ऋषि अगस्त्य; after delivering Upadeśa उपदेश (to Dvija द्विज) about offering of the Ghṛtakambalam घृतकम्बलम् with respect to worship of Śiva शिव, continues to outline the offerings in accordance with Astronomical/Celestial Transits and Alignments. These include Mīnakarkaṭayormadhye mInakarkaTayormadhye (Solar Transit between Pisces and Cancer); Makara Saṅkrānti मकर सङ्क्रान्ति; Siṃha etc. Saṅkrānti-s सिंहादि सङ्क्रान्तयः; Viṣuva विषुव (Equinoxes) and Grahaṇa ग्रहण (Eclipses).
Ghṛtakambalam घृतकम्बलम् offering was previously specified for Māgha māsa माघ मास at night of commencement of Māgha Pūrṇimā माघ पूर्णिमा; and finds a detailed mention in the Adhyāyaḥ 26 अध्यायः २६ of ŚivaRahasyam Saptamāṁśaḥ शिवरहस्यम् सप्तमांशः and in the Kāmika Āgama कामिक आगम.
The Adhyāyaḥ 26 अध्यायः २६ of ŚivaRahasyam Saptamāṁśaḥ शिवरहस्यम् सप्तमांशः has several other details about Śivapūjāsādhanāni शिवपूजासाधनानि.
Proofread by Ruma Dewan