शिवपूजाविधानम्
(शिवरहस्यान्तर्गते ईश्वराख्ये)
स्कन्द उवाच ।
अथ ते सम्प्रवक्ष्यामि शिवपूजाविधिक्रमम् ।
निगमागम भेदेन पूजा प्रोक्ता मनीषिभिः ॥ १॥
पूजनं शङ्करस्यैव बहुधा परिकीर्तितम् ।
श्रुतिस्मृति समा(दा) चारतन्त्रागमविभेदतः ॥ २॥
बृहज्जाबालकाः प्रोचुः केवलं लिङ्गपूजनम् ।
पञ्चायतनपूजा हि स्मृतिप्रोक्ता मुनीश्वर ॥ ३॥
तन्त्रागमोक्तपूजा हि शिवदीक्षावतां शिवे ।
निगमागमसंयुक्ता पूजेयं कथ्यते तव ॥ ४॥
शिवप्रधानपूजेयं शिवलिङ्गैकपूजनम् ।
केवलं ते समासेन सपञ्चाक्षरसंयुतम् ॥ ५॥
प्रवक्ष्यामि यथा देव्यै प्रोक्तं विश्वेश्वरेण हि ।
कैलासशिखरासीनं देवं कामेश्वरं विभुम् ॥ ६॥
ब्रह्मोपेन्द्रमहेन्द्राद्यैर्गणैर्विद्याधरैस्तथा ।
दानवैर्मुनिभिः सिद्धैर्यक्षरक्षोगणाधिपैः ॥ ७॥
हेरम्बस्कन्दपूर्वादिगणैर्भक्त्या सुसेवितम् ।
अक्षक्रीडारसास्वादलालसं परमेश्वरम् ॥ ८॥
प्रणम्य नन्दी प्रोवाच क्रीडन्तं परमेश्वरम् ।
क्रीडतो भुवनेशस्य जगदम्बिकया सह ॥ ९॥
अक्षपाताधिकारे तु पक्षपातधियोज्झितः ।
क्रीडतः क्रमयोगेन जितं देवेन शम्भुता ॥ १०॥
अक्षप्रपाताद्देवेन प्रोक्तं नन्दिन् जितं मया ।
तदा सत्याभियोगेन तुष्टोऽहं त्वयि भक्तितः ॥ ११॥
वरो मे प्रियतां वत्स यस्ते मनसि वर्तते ।
ददामि तं न सन्देहः प्रीतेन मनसा तव ॥ १२॥
नन्दीश्वरः उवाच ।
तुष्टोऽसि यदि देवेश जगतामीश्वर प्रभो ।
वद पूजाविधानं ते (तान्) शैवान् मन्त्रान् सुदुर्लभान् ॥ १३॥
चक्राङ्गन्याससहितान् पूजाकर्मसमन्वितान् ।
शिव उवाच ।
कथयामि महाभाग त्रैलोक्येष्वपि दुर्लभान् ॥ १४॥
शैवान् सर्वमनुश्रेष्ठान् सर्वमन्त्रेषु गोपितान् ।
भक्तोऽसीति न मे किञ्चिदवाच्यं त्वयि सुव्रत ॥ १५॥
मूलमन्त्राङ्गविन्यास पूजाकर्मसमन्वितान् ।
दीक्षाभिषेकसहितानधिकारसमन्वितान् ॥ १६॥
उद्धारक्रमयोगेन सर्वकामफलप्रदान् ।
सुसमे भूप्रदेशे तु गोमयेनोपलेपिते ॥ १७॥
पुष्पप्रकरशोभाढ्ये गन्धधूपतरङ्गिते ।
विलिखेन्मातृकास्तत्र वर्गाष्टकविभेदतः ॥ १८॥
स्वरैः षोडशभिर्वर्णैः प्रथमः परिकीर्तितः ।
पञ्चपञ्चाक्षरांश्चान्यौ द्वावन्यौ चतुरक्षरौ ॥ १९॥
वर्गाष्टकं भवेदेवं ततो मन्त्रान् समुद्धरेत् ।
पञ्चमस्यतु वर्गस्य पञ्चमं प्रथमं भवेत् ॥ २०॥
षष्ठवर्गान्तिमोवर्णः प्रथमान्त्यसमान्वितः ।
द्वितीयं वर्णमाख्यातमष्टमस्याद्यमक्षरम् ॥ २१॥
प्रथमस्य तृतीयार्णसमेतं तत्तृतीयकम् ।
चतुर्थं सप्तमस्यान्त्यं द्वितीयाद्यसमन्वितम् ॥ २२॥
चतुर्थवर्णं मन्त्रस्य सप्तमाद्यं तु पञ्चमम् ।
एव पञ्चाक्षरो मन्त्रः प्रणवाद्यः षडक्षरः ॥ २३॥
यत्साधनात्तु मनुजाः शिवसायुज्यमाप्नुयुः ।
प्रणवस्तु परब्रह्मबोधकः समुदीरितः ॥ २४॥
पञ्चाक्षरमयानि स्युः पञ्चभूतानि सुव्रत ।
भूतात्मकं जगदिदं तेनास्य जगदात्मता ॥ २५॥
ऋषिरुक्तो वामदेवः पङ्क्तिश्छन्द उदाहृतम् ।
सदाशिवो देवतास्य मन्त्रस्य परिकीर्तिता ॥ २६॥
षडङ्गानि मनोर्वर्णैर्जातियुक्तानि कल्पयेत् ।
तत्पुरुषाघोरसद्योवामदेवेशसंज्ञिताः ॥ २७॥
मूलवर्णादिकान्न्यस्य त्रिषु स्थानेष्वतन्द्रितः ।
तर्जनीमध्यमान्त्यानामाङ्गुष्ठेन तथा परः ॥ २८॥
आस्यहृत्पादगुह्यादिमूर्ध्नि हस्तेषु चापरः ।
(आस्यहृत्पादगुह्यादौ मूर्ध्नि हस्तेषु चापरः ।)
प्राग्याम्यवारुणोदीच्यमध्यवक्त्रेषु पञ्चसु ॥ २९॥
ततः षडङ्गं विन्यस्येद्वक्ष्यमाणं यथाविधि ।
सर्वज्ञो नित्यतृप्तश्च बोधान्तोऽनादिरेव च ॥ ३०॥
स्वतन्त्रशक्तिश्चालुप्त शक्तिश्चानन्तशक्तियुक् ।
मूलमन्त्रेण पूर्वैश्च धाम्ने शब्दान्तगैः क्रमात् ॥ ३१॥
षडङ्गानि मनोरस्य जातियुक्तानि मन्त्रवित् ।
कुर्वीत गोलकन्यासं रक्षायै नन्दिकेश्वर ॥ ३२॥
हृदि वक्त्रांसयोरूर्वोः कचे नाभौ द्विपार्श्वयोः ।
पृष्ठे हृदि ततो मूर्ध्नि वदने नेत्रयोर्नसोः ॥ ३३॥
दोःसन्धिषु नखाग्रेषु विन्यसेत्तदनन्तरम् ।
शिरोवदनहृत्कुक्षौ ऊर्वोः पादद्वये पुनः ॥ ३४॥
हृदि वक्त्राम्बुजे कम्ठे मृगाभयकरेष्वथ ।
वक्त्रांसहृत्सु पादोरु जठरेषु न्यसेदथ ॥ ३५॥
मूलमन्त्रस्य षड्वर्णान् यथावद्देशिकोत्तमः ।
मूर्ध्नि पादोदराङ्गेषु हृदये तां पुनर्न्यसेत् ॥ ३६॥
पश्चादनेन मन्त्रेण कुर्यात्स्वं व्यापकं सुधीः ।
गोक्षीरफेनधवलं रजताद्रिसमप्रभम् ॥ ३७॥
चारुचन्द्रकलाराजज्जटामकुटमण्डितम् ।
पञ्चवक्त्रधरं शम्भुं शितिकण्ठं त्रिलोचनम् ॥ ३८॥
शार्दूलचर्मवसनं नानाभरणभूषितम् ।
दक्षोर्ध्वहस्ते परशुं तदधस्ताद्वरं करे ॥ ३९॥
वामोर्ध्वहस्ते हरितं दधानमभयं करे ।
सुप्रसन्नमुखाम्भोजं निविष्टं पद्मविष्टरे ॥ ४०॥
विष्णुब्रह्ममहेन्द्राद्यैः स्तुतं भक्त्या शिवायुतम् ।
विश्वाद्यं विश्वपुषं भावयेत् हृदि शङ्करम् ॥ ४१॥
इति ध्यात्वा गणश्रेष्ठं मानसैरर्चयेच्छिवम् ।
उपचारैः षोडशभिर्बाह्यपीठे समर्चयेत् ॥ ४२॥
पद्मं वसुदलं कृत्वा कर्णिकाकेसरोज्जवलम् ।
बहिरष्टदलद्वन्द्वं चतुरस्र समन्वितम् ॥ ४३॥
चतुर्द्वारसमायुक्ते मण्डलेऽस्मिन् प्रपूजयेत् ।
एवं पीठं समभ्यर्च्य मूर्तिं मूलेन हृद्गताम् ॥ ४४॥
आवाह्य लिङ्गे मूलेन सपुष्पेण गणोत्तम ।
पाद्यार्घ्याचमनैर्नीरैः सुपुष्पैर्वासितैस्तदा(था) ॥ ४५॥
पञ्चगन्धैःपञ्चफलैर्गवां पञ्चामृतैरपि ।
गन्धपुष्पाम्बुरत्नौधैरुत्तानैरुत्तराग्रकैः ॥ ४६॥
अन्यपुष्पैर्यथालाभं मन्त्रैरेतैर्गणोत्तम ।
हरो महेश्वरः शम्भुरुग्रो भीमः शिवस्तथा ॥ ४७॥
संसारवैद्यः सर्वज्ञ इत्याद्यैश्च नमोऽन्तकैः ।
धूपं दीपं च नैवेद्यं ताम्बूलं च ततो गण ॥ ४८॥
दद्यान्मूलेन देवाय प्रणामप्रक्रमैस्तथा ।
नीराजनं नर्तनं च पुनर्मन्त्रजपस्तथा ॥ ४९॥
आवाहितस्य हृदये पुनरुद्वासनं तथा ।
सङ्ग्रहाद्विधिरेवायं विस्तरे चेदथोत्तरे ॥ ५०॥
एवं भक्तगणोत्तमोऽत्र हि सदा लिङ्गं त्रिकालं यजन्
कालं चैकमथ द्वितीयमगजे रुद्रो भवेन्मैनके ।
तेनानुत्तमभोगसम्पदखिला प्राप्येत भूमण्डले
लिङ्गाराधन साधनैकमनसा तुष्टो विशिष्टो भवेत् ॥ ५१॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवपूजाविधानं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ४४ शिवपूजाविधानम् । १-५१॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 44 shivapUjAvidhAnam . 1-51..
Notes:
Skanda स्कन्द narrates the description of ŚivaPūjāVidhāna शिवपूजाविधान as told to Nandī नन्दी by Śiva शिव upon being requested. Śiva शिव talks about the ŚivaPañcākṣaraMantra शिवपञ्चाक्षरमन्त्र i.e. Namaḥ Śivāya नमः शिवाय while also referring to the ŚivaṢaḍakṣaraMantra शिवषडक्षरमन्त्र i.e. Om̐ Namaḥ Śivāya ओं नमः शिवाय. He mentions about the nyāsa न्यास and mapping of the Five Faces i.e. Pañcavaktra पञ्चवक्त्र with the Five Akṣara i.e. Pañcākṣara पञ्चाक्षर of the ŚivaPañcākṣaraMantra शिवपञ्चाक्षरमन्त्र Namaḥ Śivāya नमः शिवाय Viz.
Tatpuruṣa - Na-kāra तत्पुरुष - न-कार,
Aghora - Ma-kāra अघोर - दक्षिण - म-कार,
Sadyojāta - Śi-kāra सद्योजात - शि-कार,
Vāmadeva - Va-kāra वामदेव - व-कार,
Īśāna - Ya-kāra ईशान - य-कार.
Proofread by Ruma Dewan