शिवप्रोक्ता काञ्चीक्षेत्रप्रशस्तिः

शिवप्रोक्ता काञ्चीक्षेत्रप्रशस्तिः

(शिवरहस्यान्तर्गते उग्राख्ये) - शिवपार्तवतीसंवादे - श्रीशिव उवाच देवि काञ्चीपुरी काचिद्यत्र वेगवती नदी । तत्र वासमपेक्षन्ते नित्यं ब्रह्मादयः सुराः ॥ १॥ एकाम्रेशा(एकाम्बरा)भिधं लिङ्गं तत्रास्त्येकं मदात्मकम् । तदर्शनेन पापानि विनश्यन्ति क्षणादिव ॥ २॥ कोटितीर्थाभिधं तीर्थं तत्रास्त्येकमघापहम् । तत्रैव मज्जनादेव ब्रह्महत्या विमुच्यते ॥ ३॥ तत्र श्राद्धं विधानेन कर्तव्यं पितृमुक्तये । तर्पणीयाश्च पितरः कोटितीर्थोदकैः शुभैः ॥ ४॥ कोटितीर्थे नरः स्नात्वा सम्पूज्यैकाम्बरेश्वरम् । मुच्यते सर्वथा देवि ब्रह्महत्याऽयुतैरपि ॥ ५॥ तत्रैव मामुपाश्रित्य ऋषयो ब्रह्मवादिनः । वसन्ति बहवस्तेषां सङ्ख्या कर्तुं न शक्यते ॥ ६॥ तत्र मां प्रत्यहं विष्णुब्रह्माद्याः सुरसत्तमाः । कुर्वन्ति पूजनं भक्त्या त्रिकालं सर्वसाधनैः ॥ ७॥ प्रदोषसमये विष्णुर्मामभ्यर्च्य विधानतः । सेवां करोति सानन्दं मृदङ्गमभिवादयन् ॥ ८॥ विविधैः कुसुमैर्नूत्नैबिल्वपत्रैश्चतुर्मुखः । मामभ्यर्च्य ततः सायं तोलान्वादयते मुदा ॥ ९॥ वाग्देवी वल्लकीं धृत्वा सायमभ्यर्च्य मां शिवम् । करोति गानममलं गीतशास्त्रविशारदा ॥ १०॥ इन्द्रः सम्पूज्य मां सायं बिल्वपत्रादिभिर्मुदा । करोति वैणवं वाद्यं तत्तद्रन्ध्रनिषेवणात् ॥ ११॥ शची नृत्यं करोत्यग्रे सायमन्वहमादरात् । रम्भाद्यैरप्सरोभिश्च सहिता मम तुष्टये ॥ १२॥ लक्ष्मीः सायं समभ्यर्च्य स्वर्णवच्चामरद्वयम् । गृहीत्वा तव पार्श्वस्था भवतीमुपसेवते ॥ १३॥ देवपत्न्यस्तथाऽन्याश्च सायं सम्पूज्य मां शिवम् । विष्णुब्रह्मादिदेवानां पत्न्यो यास्तास्तु शैलजे ॥ १४॥ तव दास्यस्तनस्तास्ते सेवां कुर्वन्ति सादरम् । कामाक्षीरूपमासाद्य त्वया तत्र मनोरमे ॥ १५॥ स्थीयते सततं त्वं तु देवदेवाङ्गनार्चिता । कुबेरेण पुरा तत्र रत्नस्तम्भविराजितम् ॥ १६॥ शिवस्थानं कृतं रम्यं रत्नगोपुरराजितम् । पञ्चक्रोशमितं चक्रे (यत्र) हेमप्राकारमुत्तमम् ॥ १७॥ चक्रे प्राकारश‍ृङ्गाणि श्रेष्ठरत्नमयानि सः । स्थीयते तत्र सततं मया रत्नशिवालये ॥ १८॥ ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्ता काञ्चीक्षेत्रप्रशस्तिः ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २०। १-१८॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 20 . 1-18.. Notes: Śiva शिव describes to Pārvatī पार्वती about the Kañcīpurī काञ्चीपुरी / Kañcīkṣetra काञ्चीक्षेत्र, that is also an Abode to the Ekāmreśvara / Ekāmbareshvara Śivaliṅga एकाम्रेश्वर / एकाम्बरेश्वर शिवलिङ्ग. He tells Her about the significance of Koṭitīrtha कोटितीर्थ, especially w.r.t Pitṛtarpaṇa पितृतर्पण. Śiva शिव further tells Her about Her temple where She is worshiped as Kāmākṣī कामाक्षी. Proofread by Ruma Dewan
% Text title            : Shivaprokta Kanchikshetraprashastih
% File name             : shivaproktAkAnchIkShetraprashastiH.itx
% itxtitle              : kAnchIkShetraprashastiH shivaproktA (shivarahasyAntargatA)
% engtitle              : shivaproktA kAnchIkShetraprashastiH
% Category              : shiva, shivarahasya, tIrthakShetra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 20| 1-18||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org