शिवप्रोक्तं बिल्ववैभववर्णनम्
(शिवरहस्यान्तर्गते भीमाख्ये)
- शिवपार्वतीसंवादे -
शिवः (उवाच)
मम नेत्रसमुद्भूतो मार्ताण्डश्चण्डविक्रमः ॥ ११.२॥
सर्वेषां तेजसो राशिरीशानात्मक एव सः ।
चतुर्दशलोकोत्थतमोनाशाय कल्पितः ॥ १२॥
चन्द्रोऽप्योषधिराट् क्लृप्तो मम सव्योरुनेत्रकः ।
अतिभालतलोद्भूतनयनो लोकदाहकृत् ॥ १३॥
न तु पापविनाशाय कल्पितः कश्चनामरः ।
तदर्थं चिन्तयित्वाहमसृक्षं बिल्वमेव हि ॥ १४॥
मम प्रियकरो नित्यं तरुराजोऽयमीश्वरि ।
यथा त्वयि सदा प्रीतिर्बिल्वेऽप्यस्मिन्सदा मम ॥ १५॥
मद्रूपो वृक्षराजोऽयं वृक्षाणां पतिरस्म्यहम् ।
रुद्रगीतोऽहमीशानि पापभेदाय सृष्टवान् ॥ १६॥
बहु च ब्राह्मणेनोक्तो ज्योतिर्बिल्वेति पार्वति ।
यतो मदक्षिसम्भूत आदित्यः समजायत ॥ १७॥
बिल्वो ममाक्षसम्भूत उभयोर्जनकस्त्वहम् ।
सोमस्याप्यस्मि जनकः सर्वेषां श्रुतिचोदितः ॥ १८॥
ब्रह्मणो जनकश्चाहं विष्णोरिन्द्रस्य पार्वति ।
मत्तो यतोऽभवद्बिल्व आदित्योऽपि महेश्वरि ॥ १९॥
वेदेऽपि यजुषोभागे प्रोक्त आदित्यसोदरः ।
तमोनाशाय सृष्टोऽयमादित्यस्तपतां वरः ॥ २०॥
पापनाशाय सृष्टोऽयं बिल्वो भूतलमाश्रितः ।
पापानां पापिनां वापि दर्शनार्चनतः स्वयम् ॥ २१॥
पापं हरति वृक्षोऽसौ दर्शनस्पर्शनार्चनैः ।
त्रिदळं बिल्वपत्रं च त्रिगुणात्मकमेव हि ॥ २२॥
ब्रह्मा विष्णुश्च रुद्रश्च वृक्ष(बिल्व)पत्रत्रये स्थिताः ।
तस्मादयं वृक्षराजो मत्प्रियः पापनाशकः ॥ २३॥
सर्वेषां सर्वपापानि नाशयत्येव कृत्स्नशः ।
यथा तमोगुणं कृत्स्नं नाशयेद्दिवि संस्थितः ॥ २४॥
तथा भूमिगतो बिल्वः पापनाशाय शङ्करि ।
लोकानां पापनाशार्थं समानीतो मयाम्बिके ॥ २५॥
कैलासमौलितो बिल्वपत्रेणार्चन्तु मां जनाः ।
इत्येवं कृपया पापान् दृष्ट्वा नरकदुःखितान् ॥ २६॥
असङ्ख्यान्मानवांश्चापि मुनीनपि महेश्वरि ।
लोकपालानुतापेन समानीतो भुवं प्रति ॥ २७॥
अर्चन्ति मां सुकृतिनो बिल्वपत्रैस्त्रिशाखकैः ।
कोमलैर्वा परिम्लानैः शुष्कैः पर्युषितैरपि ॥ २८॥
तेन मुक्तिं प्रयान्त्येते बिल्वैर्लिङ्गार्चनेन मे ।
बिल्वपत्रार्चनाभावे मम पूजैव निष्फला ॥ २९॥
सर्वोपचारक्लृप्तापि बिल्वपत्रविवर्जिता ।
तस्माद्द्द्बिल्वार्चनेनैव सर्वेषां मुक्तिदोह्यहम् ॥ ३०॥
धन्यः पूजयते बिल्वैर्धन्यो मामभिवीक्ष्यते ।
नाधन्यः कीर्तयेन्मां हि पूजने तस्य का कथा ॥ ३१॥
यो बिल्वपत्रं सङ्गृह्य रक्षति प्रीतमानसः ।
मत्पूजार्थं महादेवि शुष्कं पर्युषितं तु वा ॥ ३२॥
त्रिपत्रमेकपत्रं वा पातयेल्लिङ्गमस्तके ।
तेन स्ववंशगैः सर्वैर्मदग्रे क्रीडते गणः ॥ ३३॥
एकेनापि च बिल्वेन सकृत्सम्पूजयेद्धि माम् ।
स मुक्तो मोचयेदन्यानिति विद्धि महेश्वरि ॥ ३४॥
सर्वपुण्यात्प्रियतरं पत्रैर्वा परमेश्वरि ।
बिल्वपत्रैः सदा देवि यथा प्रियतरो गुहः ॥ ३५॥
तथा बिल्वार्चनेनैव सर्वेषां मुदितोऽस्म्यहम् ।
कृतानन्तमहापापोऽप्यनायासेन मुच्यते ॥ ३६॥
बिल्वपत्रैश्च सम्पूज्य मल्लिङ्गमभिवीक्ष्यते ।
प्रातः सङ्गवमध्याह्ने सायाह्नेऽपि प्रदोषके ॥ ३७॥
सोमवारे चतुर्दश्यां पर्वस्वपि विशेषतः ।
बिल्वपत्रैः समभ्यर्च्य सर्वसिद्धिं लभेन्नरः ॥ ३८॥
मम प्रियतरो भूयाद्ब्रह्मतत्वं च विन्दति ।
सुवृत्तो वापि दुर्वृत्तो बिल्वैरभ्यर्च्य मां शिवे ॥ ३९॥
स सर्वपूज्यो भवति स तपस्वी मुनिः स्वयम् ।
सर्वतीर्थेषु सुस्नातः सर्वयज्ञेषु दीक्षितः ॥ ४०॥
स च सर्वमहानन्दकृत्तमो हृत्तमो मम ।
यो बिल्वपत्रशतकैः सहस्त्रैरपि लक्षकैः ॥ ४१॥
कोटिभिर्बिल्वपत्राणां समर्चनकरो भवेत् ।
स एव धन्यो मान्यो मे गणेन्द्रो रजताचले ॥ ४२॥
यो बिल्वं पोषयेद्भक्त्या जलदानादिभिः शिवे ।
स च वंशयुतो देवि भवेत्सर्वगणाग्रणीः ॥ ४३॥
बिल्वपत्रैर्बिल्वमूले लिङ्गमभ्यर्चितं मम ।
तेन त्रैलोक्यलिङ्गानि पूजितानि न संशयः ॥ ४४॥
बिल्ववनकर्ता बिल्ववन्दनतत्पराः ।
बिल्वलिङ्गेन संसक्ता बिल्वदर्शनतत्पराः ॥ ४५॥
प्रातरुत्थाय यो बिल्वं प्रयाति प्रीतिपूर्वकम् ।
स कृतानल्पपापोऽपि मुच्यते तेऽपि मुक्तिगाः ॥ ४६॥
भस्म धृत्वैव बिल्वानां सर्वमेव समाचरेत् ।
बिल्वयुक्तं वनं धन्यं तत्सङ्गाद्वृक्षजातयः ॥ ४७॥
वल्लीगुल्मादयः सर्वे मम लोके वसन्त्यपि ।
स्थावरत्वं परित्यज्य भवन्ति गणपोत्तमाः ॥ ४८॥
बिल्वस्यैवानुषङ्गेण शाम्भवस्याङ्गसङ्गवत् ।
बिल्वपत्रार्चनकरौ धन्यौ कण्टकनुन्नकौ ॥ ४९॥
शङ्खचक्रादि चिह्नैस्ते भवन्ति पृथिवी भुजः ।
बिल्वमूले प्रजप्तो यो मन्त्रः कोटिगिणो भवेत् ॥ ५०॥
शाम्भवं भोजयेद्देवि बिल्वमूले विशेषतः ।
स दरिद्रोऽपि सम्पन्नो भवत्येव न संशयः ॥ ५१॥
पादौ प्रक्षाल्य नत्वाथ भस्मधारणपूर्वकम् ।
मन्त्रमेनं समुच्चार्य बिल्ववृक्षं समारुहेत् ॥ ५२॥
नमस्ते बिल्ववृक्षाय नवारुणदलाय च ।
पत्रं ते शिवपूजार्थं गृह्णाम्यद्य क्षमस्व मे ॥ ५३॥
इति प्रार्थ्य महावृक्षं गृह्णीयात्पत्रमेव हि ।
उत्तराग्रेण पत्रेण पूजनीयोऽहमेव हि ॥ ५४॥
किं पुनःर्बहुनोक्तेन बिल्वपत्रं मम प्रियम् ॥ ५५॥
॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं बिल्ववैभववर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः १३ । ११.२-५५॥
- .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 13 . 11.2-55..
Notes:
Śiva शिव describes to Pārvatī पार्वती about the origin of Bilvataru बिल्वतरु and merits of worshiping Him with Bilvapatra बिल्वपत्र especially at the Bilvamūla बिल्वमूल and taking care of Bilvavṛkṣa बिल्ववृक्ष. He mentions about the worship especially during Somavāra सोमवार and Caturdaśī चतुर्दशी.
Proofread by Ruma Dewan