शिवप्रोक्तं काशीक्षेत्रमाहात्म्यवर्णनम्
(शिवरहस्यान्तर्गते उग्राख्ये)
(शिवपार्वतीसंवदे)
काशीवासोऽभवत्पूर्वं साक्षान्मुक्तिप्रदायकः ।
पश्य पाशुपतान्वृद्धान् भस्मरुद्राक्षभूषणान् ॥ ७३१॥
एते पाशुपताः शुद्धाः काशीं पाशुपतस्थलीम् ।
महापद्यपि घोराढ्यां (घोरायां) न त्यजिष्यन्ति
(नैव त्यक्ष्यन्ति) सुव्रताः ॥ ७३२॥
असङ्ख्येया हि ते सर्वे मल्लिङ्गार्चनतत्पराः ।
ममैवाराधनं कृत्वा तिष्ठन्त्यत्र मुमुक्षवः ॥ ७३३॥
पश्यैतान्भस्मदिग्धाङ्गान् रुद्राक्षाभरणप्रियान् ।
अनर्ध्यार्घ्यकरान्धन्यान्मन्नामस्मरणोत्सुकान् ॥ ७३४॥
महादेवेत्ति मामुच्चेर्वदतः प्रीतिपूर्वकम् ।
कथमेते समायान्ति पश्य पश्य वरानने ॥ ७३५॥
एतदुच्चरितः श्राव्यो महादेवेत्ययं ध्वनिः ।
अमृताम्मृतभूतो यः शिवे रुचिकरो मम ॥ ७३६॥
महादेवेति पीयूषं पिबन्तीव पुनः पुनः ।
पश्यं पश्य पुनः प्रीत्या महादेवेति वादिनः ॥ ७३७॥
नानादिग्भ्यः समायान्ति पश्य पाशुपतोत्तमान् ।
अर्घ्यहस्तान्महादेवेत्युच्चैरुच्चरतो मुदा ॥ ७३८॥
कथं भान्ति शुचिर्भूत्वा (पूतात्मानः कथं भान्ति)
भस्मभासितविग्रहाः ।
सर्वेऽप्येते भस्मफाला मम पारिषदाः शिवे ॥ ७३९॥
मदर्चनं विनैतेषामन्यत्कार्यं न दृश्यते ।
एते कालत्रयेऽप्येवमागत्याभ्यर्चयन्ति माम् ॥ ७४०॥
शिवे पश्य महाशैवान् मुक्तिमण्टपसंस्थितान् ।
पञ्चाक्षरजपासाक्तान् मल्लिङ्गालोकनोत्सुकान् ॥ ७४१॥
रुद्राध्यायजपासक्तान्पश्य शैवान् गिरीन्द्रजे ।
ध्यायन्ति यामजं नित्यं पश्यैतान् शैवपुङ्गवान् ॥ ७४२॥
एते नृत्यन्ति शैवेन्द्रा मामभ्यर्च्य यथाविधि ।
साष्टाङ्गं प्रणमन्त्येते शतधा पश्य तान् शिवे ॥ ७४३॥
कर्पूरदीपान्धृत्वैते नामानि शुभदानि मे ।
गायन्त्येते गानलोलं विदित्वा मामजं शिवे ॥ ७४४॥
सर्वऽप्येते नित्यतृप्ता नित्यानन्दा निरामयाः ।
ध्यायन्ति सच्चिदानन्दं मामेवैते मुदा सदा ॥ ७४५॥
मत्कथाऽऽकर्णनासक्ता निर्वाणपदवाञ्छया ।
तिष्ठन्त्यत्रानिशं देवि मामेव शरणं गताः ॥ ७४६॥
पश्य पश्य गणान्देवि भैरवादीन्विलोकय ।
सेवन्ते मामजं नित्यमनन्तविजयान्विताः ॥ ७४७॥
सर्वान्सुराधिपान्पश्य मदर्चनपरायणान् ।
पुरात्र कार्तिके मासि चतुर्दश्यां सुराः शिवे ॥ ७४८॥
सायङ्काले समागत्य पूजां कृत्वा स्थिता मुदा ।
तदा दधीचिरर्ध्याद्यैर्मामभ्यर्च्य प्रयत्नतः ॥ ७४९॥
सत्वरं गन्तुमुधुक्तः स महार्हमहास्तदा ।
तदातु मुनयः सर्वे बहवस्तेन सङ्गताः ॥ ७५०॥
गन्तुं समुद्यता देवि सम्मर्दोऽभूत्तदा बहु ।
ततः परमृषिगणाः सर्वे सम्पूज्य मां निशि ॥ ७५१॥
भक्त्या जागरणं चक्रुः शृण्वन्तो मत्कथां शिवे ।
कार्तिकस्य चतुर्दश्यां बिल्वैश्च कनकाह्वयैः ॥ ७५२॥
द्रोणपुष्पैश्च ते पूजां चक्रुर्मम महेश्वरि ।
तिलैः ससर्षपैः शुक्लैश्चक्रुः पूजां मयि प्रिये ॥ ७५३॥
कृष्णगोघृतदीपानां मह्यं सार्धं शतत्रयम् ।
दत्तं क्षीरान्नमाज्याक्तं दत्तं मह्यं वरानने ॥ ७५४॥
धूपदीपौ पुनर्दत्तौ दत्तः पुष्पाञ्जलिस्ततः ।
प्रदक्षिणनमस्कारान्कृत्वा च तदनन्तरम् ॥ ७५५॥
रात्रिर्नीता प्रयत्नेन मत्कथाश्रवणादिभिः ।
ततोऽरुणोदये जाते स्नात्वा तीर्थेऽथ भस्मना ॥ ७५६॥
त्रिपुण्ड्रधारणं कृत्वा कृत्वा रुद्राक्षधारणम् ।
सन्ध्यां समाप्य विश्वेशं समभ्यर्च्य यथाविधि ॥ ७५७॥
मद्भतान्भोजयामासुरन्नैर्नानाविधैः शुभैः ।
यः शुक्लोर्जचतुर्दश्यामुपोष्य प्रयतः शिवे ॥ ७५८॥
मामर्चयति विश्वेशं स मुक्तो भवति ध्रुवम् ।
मल्लिङ्गपूजनं पुण्यं सर्वदा सर्वकामदम् ॥ ७५९॥
ऊर्जशुक्लचतुर्दश्यां अर्चितं बहुपुण्यदम् ।
कार्तिकस्य चतुर्दश्यां सितायां मां प्रयत्नतः ॥ ७६०॥
यः पूजयति पुण्यात्मा स मुक्तो नात्र संशयः ।
इदं विश्वेश्वरं लिङ्गं साक्षान्मद्रूपमुत्तमम् ॥ ७६१॥
को वा नातिप्रयत्नेन समाराधयति प्रिये ।
अस्य लिङ्गस्य माहात्म्यं वेदैर्नज्ञायते शिवे ॥ ७६२॥
न विष्णुना ब्रह्मणा वा किं तु तज्ज्ञायते मया ।
माहात्म्यं ज्ञातुमेतस्य वेदैस्तप्तं तपः पुरा ॥ ७६३॥
विष्णुनापि तपस्तप्तं ब्रह्मणापि वरानने ।
एते तप्त्वा महाघोरं बहुकालं प्रयत्नतः ॥ ७६४॥
ततस्तत्वमविज्ञाय विरतास्तपसः शिवे ।
एतादृशमिदं लिङ्गं सर्ववेदान्तसंस्तुतम् ॥ ७६५॥
सुरासुरार्चितं लिङ्गं नानामुनिवरार्चितम् ।
मम लिङ्गमिदं देवि पूजितं भुक्तिमुक्तिदम् ॥ ७६६॥
पूजयस्वाद्य यत्नेन नवबिल्वदलादिभिः ।
अभिषेचय मल्लिङ्गं क्षीराद्यैर्भक्तिपूर्वकम् ॥ ७६७॥
ततोऽस्य कुरु लिङ्गस्य कपूराधनुलेपनम् ।
ततो मन्दारकुसुमैर्बिल्वपत्रैश्च कोटिशः ॥ ७६८॥
सम्पूज्य कुरु नैवेद्यं सघृतं क्षीरमुत्तमम् ।
कृत्वा प्रदक्षिणादीनि लिङ्गध्यानं कुरुष्व मे ॥ ७६९॥
नित्यमेतस्य लिङ्गस्य भक्ति कुरु मनोरमे ।
दृष्ट्वेदं लिङ्गममलं सर्वेऽप्यभ्यर्चयन्त्यतः ॥ ७७०॥
प्रिये त्वमपि यत्नेन कुरु मल्लिङ्गपूजनम् ।
ममापि जायते भक्तिर्मल्लिङ्गाभ्यर्चने शिवे ॥ ७७१॥
दृष्ट्वेदं लिङ्गममलं को वा नाभ्यर्चयिष्यति ।
मम प्रियतरं लिङ्गं सर्वदेवस्तुतं प्रिये ॥ ७७२॥
इदं लिङ्गं स्वप्रकाशमेतद्भासैव केवलं ।
विभाति सर्वमेतद्यद्दृश्यते सचराचरम् ॥ ७७३॥
नेदं विभासयत्यर्को न भासयति चन्द्रमाः ।
न तारका भासयन्ति विद्युतोऽपि कुतोऽनलः ॥ ७७४॥
एतादृशमिदं लिङ्ग अविकारं मदात्मकम् ।
द्रष्टव्यमर्चनीयं च ध्यातव्यं च प्रयत्नतः ॥ ७७५॥
सर्वोऽपि पुण्यकालोऽत्र काश्यां मल्लिङ्गपूजने ।
व्यतीपातादयो योगाः भवन्त्यपि वरानने ॥ ७७६॥
सादरं प्रतिगृह्णामि मद्भक्तकृतपूजनम् ॥ ७७७॥
- -
सूतः (उवाच)
इति श्रीविश्वनाथस्य श्रुत्वा वचनमम्बिका ।
भक्त्या वैश्वेश्वरं लिङ्गं पूजयामास चेश्वरी ॥ ७७८॥
ततस्तस्मिन्महालिङ्गे सर्वदेवशिखामणिः ।
उमया सह सम्प्रीतश्चकार वसतिं शिवः ॥ ७७९॥
तदेव लिङ्गमधुना ब्रह्मविष्ण्वादिभिः सुरैः ।
सर्वदा पूज्यते भक्त्या श्रीमहेशगणैरपि ॥ ७८०॥
श्रीमद्विश्वेश्वरं लिङ्गमानन्दघनमद्वयम् ।
श्रुतं स्मृतं वा दृष्टं वा भुक्तिमुक्तिप्रदं ध्रुवम् ॥ ७८१॥
श्रीमद्विश्वेश्वरं लिङ्गं प्रसङ्गादपि संश्रुतम् ।
चतुर्वर्गप्रदं विप्राः सत्यं सत्यं मयोच्यते ॥ ७८२॥
॥ इति शिवरहस्यान्तर्गते शिवपार्वतीसंवदे शिवप्रोक्तं काशीक्षेत्रमाहात्म्यवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २९ शिवगौरीसंवादे काशीप्रभावकथनम् । ७३१-७८२॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam . 731-782..
Notes:
Śiva शिव, while showing around Kāśī काशी to Pārvatī पार्वती, tells Her about the Pāśupata-s पाशुपताः who reside there while worshiping Him. He mentions about the merits of worshiping His Śivaliṅga शिवलिङ्ग in Kāśī काशी, especially during the Ūrja Śukla Caturdaśī ऊर्ज शुक्ल चतुर्दशी / Kārtika Sita Caturdaśī कार्तिक सित चतुर्दशी and that all times are benefic for worshiping His Śivaliṅga शिवलिङ्ग apart from (malefic ones like) Vyatipāta Yoga व्यतिपात योग.
Proofread by Ruma Dewan