शिवप्रोक्तं काशीमहिमावर्णनम्

शिवप्रोक्तं काशीमहिमावर्णनम्

(शिवरहस्यान्तर्गते उग्राख्ये) (शिवगौरीसंवादे) शिवः उवाच पृथिव्यां सन्ति तीर्थानि कोटिशः कमलानने । तानि सर्वाणि तीर्थानि काशीप्राप्तिकराणि च ॥ २॥ श्रीकाशीक्षेत्रभिन्नानि सन्ति तीर्थानि कोटिशः । तेषु तप्ते हि तपसि काशी सम्प्राप्यते शिवे ॥ ३॥ येन जन्मस्वनन्तेषु कृता धर्माः सहस्रधा । तेनैव लभ्यते काशी मद्रूपा मुक्तिदायिनी ॥ ४॥ न काश्या अधिकं क्षेत्रं न कुत्रापि वरानने । सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ५॥ यदेतद्विमलं लिङ्गं दृश्यतेऽद्य मदात्मकम् । एतल्लिङ्गसमं लिङ्गं न कुत्रापि वरानने ॥ ६॥ इदमेव परं ज्योतिरिदमेव परात्परम् । इदमेव मदाकारमनन्तमिदमेव हि ॥ ७॥ अनन्तवेदवेदान्तसारः सर्वो वरानने । पिण्डीभूयात्र सततं लिङ्गाकारेण तिष्ठति ॥ ८॥ निर्विकारं परं ब्रह्मलिङ्गमेतन्मनोरमे । निष्कलं निर्मलं शान्तमिदमेव न संशयः ॥ ९॥ शैवमेतन्महस्साक्षादक्षयं लिङ्गमुत्तमम् । इदं लिङ्गमनाद्यन्तं सच्चिदानन्दलक्षणम् ॥ १०॥ सर्वपुण्यफलाकारमविकारं निरञ्जनम् । लिङ्गमेतन्ममोङ्कारं मुक्तिप्रदमनुत्तमम् ॥ ११॥ गिरिजे पश्य पश्येदं लिङ्गं मङ्गलदायकम् । कथमेतत्प्रभाकूटो दिशि विश्राम्य गच्छति ॥ १२॥ वेदाः स्तुवन्ति बहुधा लिङ्गस्यास्य मदाकृतेः । माहात्म्यं मोक्षदं पुण्यं स्वस्वशक्त्या वरानने ॥ १३॥ कृतधर्माः पूतचित्ता ये तपोमूर्तयो जनाः । तेषामेवास्य लिङ्गस्य दर्शनं भवति प्रिये ॥ १४॥ यदाकदाचिद्येनेदं लिङ्गं दृष्टं मम प्रिये । तेन गर्भाशयावासदुःखं नो प्राप्यते ध्रुवम् ॥ १५॥ अस्मिल्लिङ्गे मुदा येन दत्तं बिल्वदलादिकम् । तेन दत्तानि रत्नानि कोटिशो नात्र संशयः ॥ १६॥ अस्मिल्लिङ्गे मुन्दा दत्तं येनाऽऽकल्पं मम प्रियम् । ससागरनदीतोये दत्तं तेनाखिलं प्रिये ॥ १७॥ येनात्र फलमन्यद्वा दत्तं लिङ्गे मदात्मके । तेन मेरुसमान्नानि दत्तान्येव न संशयः ॥ १८॥ एकोऽपि दत्तो येनात्र दीपस्तेन तु कोटिशः । नित्यमत्युज्ज्वला दीपा दत्तास्तेन न संशयः ॥ १९॥ एका वापि कृता येन लिङ्गस्यास्य प्रदक्षिणा । प्रदक्षिणीकृता तेन क्षोणी सर्वा न संशयः ॥ २०॥ प्रणामोऽस्य कृतो येन लिङ्गस्यैकोऽपि भक्तितः । तेनानन्ताः कृता भक्त्या प्रणामा नात्र संशयः ॥ २१॥ `लिङ्गमेतत्क्षणार्धं वा येन ध्यातं मदात्मकम् । तेन ध्यातोऽस्म्यहं साक्षाद्बहुकालं वरानने ॥ २२॥ तिलैस्त्रैयम्बकेनाग्नौ येनैकाप्याहुतिर्हुता । कोटिहोमाः कृतास्तेन श्रौताग्नौ विधिपूर्वकम् ॥ २३॥ येनैकवारं जप्तोऽत्र शैवः पञ्चाक्षरो मनुः । तेन तप्तं तपो घोरं कल्पकोट्ययुतं शिवे ॥ २४॥ येनैकवारमात्रं वा पठितं रुद्रसूक्तकम् । वेदपारायणं तेन कल्पकोट्ययुतं कृतम् ॥ २५॥ तेन वेदत्रयीपाठः कृतः कल्पावधि प्रिये । येन काश्यां स्थितं भक्त्या क्षणार्धमपि शोभने ॥ २६॥ पञ्चाग्निमध्ये तेनैव स्थितमब्दसहस्रकम् । येनेदं पूजितं लिङ्गं जलपुष्पफलादिभिः ॥ २७॥ तेनाहं पूजितः साक्षान्नित्यमब्दसहस्रकम् । दृष्टं येनेदममलं लिङ्गं विश्वेश्वराभिधम् ॥ २८॥ तेन साक्षादहं दृष्टः परमानन्दलक्षणः । येनेदं प्रणतं लिङ्गं मम विश्वेश्वराभिधम् ॥ २९॥ तेन साक्षादहं भक्त्या प्रणतः सुरवन्दितः । ज्ञानवाप्यां निमज्ज्यात्र यो मां लिङ्गस्वरूपिणम् ॥ ३०॥ यः स्मेरत् स हि मामेति स्ववंश्यैरखिलैः सह । येन स्तुतमिदं लिङ्गं मम विश्वेश्वराभिधम् ॥ ३१॥ तेन साक्षादहं देवि स्तुत एव न संशयः । येन स्पृष्टमिदं लिङ्गं मम विश्वेश्वराभिधम् ॥ ३२॥ तेन साक्षादहं देवि स्पृष्ट एव न संशयः । पूजितोऽहं महादेवो दृष्टः स्पृष्टः स्तुतो नतः ॥ ३३॥ दास्याम्यैश्वर्यमतुलं भक्तिं च परमां शिवे । उपसर्ग सहस्राणि सोढ्वा काश्यां वसन्ति ये ॥ ३४॥ तानन्तकाले संसारात्तारयिष्यामि शङ्करि । ३५.१ ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं काशीमहिमावर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २९ शिवगौरीसंवादे काशीप्रभावकथनम् । २-३५.१॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam . 2-35.1.. Notes: Śiva शिव describes to Pārvatī पार्वती about Kāśī काशी, and the merits of worshiping Him there. He mentions about the Viśveśvaraliṅga विश्वेश्वरलिङ्ग and Jñānavāpī ज्ञानवापी. Kaśī काशी harbors several ŚivaTīrthaKṣetra शिवतीर्थक्षेत्र that are outlined in ŚivaRahasyam saptāṃśaḥ शिवरहस्यं सप्तांशः. Proofread by Ruma Dewan
% Text title            : Shivaproktam Kashimahimavarnanam
% File name             : shivaproktaMkAshImahimAvarNanam.itx
% itxtitle              : kAshImahimAvarNanam shivaproktaM (shivarahasyAntargatam)
% engtitle              : shivaproktaM kAshImahimAvarNanam
% Category              : shiva, shivarahasya, tIrthakShetra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam | 2-35.1||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org