शिवप्रोक्तं काशीस्थित मुक्तिमण्डपमाहात्म्यम्
- शिवपार्वतीसंवादे -
श्रीपार्वत्युवाच -
विश्वेश्वराखिलाराध्य सर्वज्ञ करुणानिधे ।
क्व मुक्तिमण्डपस्थानां तत्प्रमाणं कियन्मतम् ॥ १॥
मुक्तिमण्डपसंज्ञापि कथमस्याभवच्छुभा ।
एतत्सर्वं विशेषेण श्रेतुमिच्छामि शङ्कर ॥ २॥
श्रीसदाशिव उवाच -
अति कष्टमिदं पृष्टमिदानीं वरवर्णिनि ।
मुक्तिमण्डपमाहात्म्यं शृणु वक्ष्ये मनोहरम् ॥ ३॥
यत्र ज्योतिर्मयं लिङ्गं मम विश्वेश्वराभिधम् ।
तत्रास्ति रत्नप्रसादःसर्वलोकमनोहरः ॥ ४॥
तत्प्रसादप्रभासङ्गैर्दिशः प्रतिदिशास्तथा ।
अत्यूर्ध्वलोकास्सर्वेऽपि दीपिताः समलङ्कृताः ॥ ५॥
प्रासादोऽपि सरत्नाढ्यो लिङ्गाकारो विराजते ।
तन्मूलमग्रभागो वा न केनापि च दृश्यते ॥ ६॥
अनर्ध्यरत्नमालाभिः सर्वदालङ्कृताः शुभाः ।
मुक्तामालापरिवृतो मूलभागोऽस्य सर्वदा ॥ ७॥
प्रासाददिव्यरत्नानि रात्रौ दीपा इवाम्बिके ।
तिष्ठन्त्यत्यन्तरम्याणि नेत्रोत्सवकराणि च ॥ ८॥
कदाचिदप्यन्धकारसम्बन्धस्तत्त सर्वदा(था) ।
नास्त्येव रत्नदीपौघसम्बन्धेन वरानने ॥ ९॥
सहस्ररत्नशृङ्गाणां राजते तत्र सर्वदा ।
लिङ्गाकाराणि शृङ्गाणि शुद्धान्यप्रतिमानि च ॥ १०॥
तेजः पुञ्जमिवाभाति प्रासादः सर्वदा शुभे ।
रत्नपुञ्जमयः प्रीतिं सन्तनोति निरन्तरम् ॥ ११॥
राशीकृतमहारत्नप्रभेयमिति धीःसदा ।
सर्वेषां भवतिस्पष्टं तत्प्रासादावलोकनात् ॥ १२॥
विलाससदनं रम्यं मम तादृशमम्बिके ।
नान्यत्र दृश्यते भव्यं नित्योत्साहकरं परम् ॥ १३॥
सहस्रकोटिगणपैरत्युग्रैरुद्यतायुधैः ।
वीरैः संरक्ष्यते नित्यं प्रासादो विमलो मम ॥ १४॥
श्राव्यो दुन्दुभिनिर्ह्रादो जायते तत्र सर्वदा ।
गायन्ति गायका नित्यं शिवनामानि सादरम् ॥ १५॥
नृत्यन्ति नर्तकाश्चात्र चित्रनृत्यविशारदाः ।
मन्दारपुष्पसञ्छन्नो रत्नतोरणसंवृतः ॥ १६॥
नित्यानन्दकरो भव्यः सर्वमङ्गलसंश्रयः ।
दैवैराराधितो नित्यं ध्यातच सकलैः सुरैः ॥ १७॥
तत्प्रासादसमालोके प्रासादो नैव दृश्यते ।
सर्वेषां मुक्तिदो नित्यं दर्शनादेव सर्वथा ॥ १८॥
तत्र लिङ्गं ममास्त्येकं रम्यं विश्वेश्वराभिधम् ।
तत्प्रभावो न देवैश्च शक्यते ज्ञातुमम्बिके ॥ १९॥
तल्लिङ्गतत्त्वममलैर्वेदैरपि न निश्चितम् ।
तत्स्वरूपं कथं ज्ञेयं तदन्यैरल्पबुद्धिभिः ॥ २०॥
वेदैरपि यथाशक्ति तदेव प्रतिपाद्यते ।
तदेवोपास्यमखिलैस्तदेवाभीष्टदायकम् ॥ २१॥
तदनिर्देश्यममलमप्रमेयमनामयम् ।
निष्कलङ्क निराकारं तदेव हि निरञ्जनम् ॥ २२॥
तदेव निधनेत्यादिमन्त्रवेद्यं यथात्मकम् ।
दर्शनादेव सर्वेषां मोक्षदं तत्सनातनम् ॥ २३॥
अनेककालमत्युग्रं तपः कुर्वन्ति सादरम् ।
विश्वेश्वराभिधं लिङ्गं द्रष्टुमेव मनीषिभिः ॥ २४॥
अनेककल्पपर्यन्तमुपविश्य मयापि वा ।
प्रभावस्तस्य लिङ्गस्य वक्तव्यः कथमम्बिके ॥ २५॥
कदाचिदपि तल्लिङ्गं न दृष्टं येन सर्वदा ।
न तस्य मुक्तिस्तत्सत्यं सत्यं सत्यं न संशयः ॥ २६॥
यदर्शनार्थं मुनयः कुर्वन्ति बहुधा तपः ।
तद्धि वैश्वेश्वरं लिङ्गं द्रष्टव्यं बहुयत्नतः ॥ २७॥
यन्नपश्यन्ति मुनयो यन्न पश्यन्ति देवताः ।
यन्न जानन्ति वेदाश्च तल्लिङ्गं प्रेक्ष्यमन्वहम् ॥ २८॥
द्वित्राण्यतीव रम्याणि बिल्वपत्राणि सादरम् ।
येनार्पितानि तल्लिङ्गे तेन मुक्तिरवाप्यते ॥ २९॥
अभिषिच्य विधानेन यो मां बिल्वदलैर्मुदा ।
पूजयिष्यति पुण्यात्मा स मोक्षमधिगच्छति ॥ ३०॥
मद्भक्तेन मयि प्रेम्णा पत्रं वा फलमेव वा ।
दत्तं स्वोपहृतं यत्तु तद्ग्रहिष्यामि सादरम् ॥ ३१॥
एकं बिल्वदलं रम्यं मद्भक्तेनार्पितं मयि ।
अनन्ताघहरं नूनं सत्यमेवोच्यते मया ॥ ३२॥
मद्भक्तोऽपि स विज्ञेयः सर्वभावेन सर्वदा ।
सर्वं विहाय मामेव भजते यः सदा मुदा ॥ ३३॥
विभूतिरुद्राक्षपरो लिङ्गमेवार्चयन्मुदा ।
मामेव शरणं प्राप्तो यःस एव मम प्रियः ॥ ३४॥
महापाशुपताः शुद्धामहाशैवाश्च सर्वदा ।
मामर्चयन्ति मामेव शरणं प्राप्नुवन्ति च ॥ ३५॥
मद्भक्तवर्यैः सततं मदर्चनपरायणैः ।
अविमुक्तमिदं क्षेत्रमाश्रित्य स्थीयते मुदा ॥ ३६॥
शैवैः पाशुपतैः शुद्धैर्मल्लिङ्गं पूज्यते सदा ।
तैरेव कृतपूजापि गृह्यते सादरं मया ॥ ३७॥
पत्रं फलं वा पुष्पं वा जलं वा स्वार्जितं शुभम् ।
मद्भक्तेनार्पितं मह्यमनन्तायोपकल्पते ॥ ३८॥
पत्रेणाप्यर्चितं लिङ्गं मोक्षदं सर्वदेहिनाम् ।
विश्वेश्वराभिधं तत्तु तत्प्रासादेऽधितिष्ठति ॥ ३९॥
तत्प्रासादवरस्यैव दक्षिणादिशि भासुरम् ।
रम्यं मणिमयं स्थानमेकं तिष्ठति पापहम् ॥ ४०॥
तत्सहस्रमणिस्तम्भैरुत्तमैरुन्नतैः शुभैः ।
रञ्जितं राजितैःशृङ्गैर्हेमशृङ्गश्च राजितम् ॥ ४१॥
क्वचित्स्फटिकशृङ्गौघैर्लिङ्गाकारैर्मनोहरैः ।
स्थानं तद्राजते देवि नेत्रोत्सवकरं सदा ॥ ४२॥
तप्तालकाश्चतुष्षष्टिकोटि प्रथम नायकाः ।
उदायुधा महावीरा मम प्रियकराः सदा ॥ ४३॥
तस्मिन्नेव महास्थाने शैवास्तप्तालकाज्ञया ।
उपविश्यातिसन्तुष्टास्तिष्टन्ति शिवपूजकाः ॥ ४४॥
सादरं भस्मदिग्धाङ्गा रुद्राक्षाभरणप्रियाः ।
रुद्रसूक्तजपासक्तास्तिष्ठन्ति विमलाशयाः ॥ ४५॥
शैवं महामुनिं(मनुं) नित्यं सर्वपापौघशामकम् ।
जपतः सततं सन्तो वसन्त्यत्यन्तमादरात् ॥ ४६॥
शुद्धान्तः करणैस्तत्र जप्तःशैवैर्महामनुः ।
शैवो मोक्षप्रदो नूनं भवत्येव न संशयः ॥ ४७॥
एकदाप्यत्र शैवेन जप्यः शैवो मनुर्मुदा ।
अनन्तगुणितो नूनं पापदावाग्निशामकः ॥ ४८॥
शैवो मनुःस्वतः शुद्धः पापतूलादि नाशकः ।
सोऽप्यत्र जप्तः शैवेन्द्रै सर्वाभीष्टप्रदो ध्रुवम् ॥ ४९॥
शैव एव महामन्त्रो जप्यः पञ्चाक्षरः परः ।
शैवैर्मोक्षार्थिभिर्नित्यं मन्त्रवल्लिङ्गपूजकैः ॥ ५०॥
तन्मध्ये कर्णिकारा रत्नराजिविराजिता ।
अत्युन्नता वेदिकैका तिष्ठति प्रियदर्शना ॥ ५१॥
तन्मध्ये येक(चैक) काश्मीरमणिराजितमानसं(सनम्) ।
स्थितं तदुपरि स्पष्टमुपविष्टं मया पुरा ॥ ५२॥
तदानीमागता काचिदिन्ढुबिम्बनिभानना ।
विशालपद्मपत्राभनयना नयनप्रिया ॥ ५३॥
मन्दारमालाममलामम्लानां मधुपावृताम् ।
धृत्वा पद्माभहस्तेन क्षौमाम्बरविराजिता ॥ ५४॥
सा मां दृष्ट्वानतग्रीवा प्रणम्य मुहुरादरात् ।
बिल्वैर्मन्दारपुष्पैश्च चक्रे पूजां यथाविधि ॥ ५५॥
पूजयित्वा ततः सा मां कृताञ्जलिपुटा तदा ।
इदमेव वचः प्राह स्तोत्रैः स्तुत्वाह्यनेकधा ॥ ५६॥
महेशदिव्यस्थानानि सन्ति काश्यामनेकधा ।
किमत्र रोचते नित्यं वसतिस्तव शङ्कर ॥ ५७॥
विशेषः कोऽत्र देवेश सर्वस्थानविलक्षणः ।
किमस्ति तत्त्वमेतस्य वद सर्वं विशेषतः ॥ ५८॥
पृष्टोऽहमेवं सुभगे तया तदनु सादरम् ।
उत्तरं दत्तवानस्मि तमे(दे)व शृणु सादरम् ॥ ५९॥
काशीयं सर्वलोकेभ्यो मम प्रियकराऽनघे ।
तत्राप्यन्तर्गृहन्नाम क्षेत्रं रुचिकरं मम ॥ ६०॥
तन्मध्यगमिदं रम्यं स्थानं प्रियतरं मम ।
तत्तु लिङ्गमयं यस्मात्तत्रप्रीतिर्ममानघे ॥ ६१॥
याथत्र वसतिर्नित्यं तथा नान्यत्र शोभने ।
अनिशं प्रीतिरत्रैव मम तिष्ठत्यनामये ॥ ६२॥
किञ्च काश्यां मृतान् सर्वान् शिवदेहान् शिवार्चकान् ।
शिवैकशरणानत्र समानीय ततः परम् ॥ ६३॥
एतत्सिह्मासने सम्यगुपविश्य यथा सुखम् ।
ममाङ्के विमले शुद्धे शैवं संवेश्य सादरम् ॥ ६४॥
शैवायात्यन्तशुद्धाय मुक्त्यर्थं तदनन्तरम् ।
शैवः पञ्चाक्षरो मन्त्रो मयाह्यत्रोपदिश्यते ॥ ६५॥
मुक्तिमण्डपसंज्ञास्य स्थानस्य श्रुतिसम्मता ।
यतो मया मनुःशैवो मोक्षायात्रैव दीयते ॥ ६६॥
- -
इदमेव महत्स्थानं मुक्तिमण्टपसंज्ञकम् ।
यत्रोपदिश्यते मन्त्रः शैवानां मुक्तिकाङ्क्षिणाम् ॥ १०३॥
अनन्यशरणानां तु मद्भक्तानामघापहम् ।
ततः प्रविश्यधर्मात्मा महाशैवाश्रयं सदा ॥ १०४॥
मुक्तिमण्टपमत्यन्तसुखं प्राप्य द्विजोत्तमः ।
ततो ममान्तिकं प्राप्य चकाराभ्यर्चनं मुदा ॥ १०५॥
ममैव लिङ्गे विमले मुक्तिदे वेदसंस्तुते ।
ततः प्रणम्य बहुधा स्तुत्वा स्तोत्रैरनेकधा ॥ १०६॥
चकार नृत्यं बहुधा सादरं भक्तिपूर्वकम् ।
उपविश्य ततोऽत्रैव जप्त्वा मन्त्रं शिवात्मकम् ॥ १०७॥
ततोऽन्तर्गृहयात्रादि कृत्वा भक्तिपुरःसरम् ।
ज्ञानवापीतटे रम्ये निराहारो जितेन्द्रियः ॥ १०८॥
चकारोग्रं तपःसम्यङ्मुक्तयर्थं शैवपुङ्गवः ।
शिवैकनिरतो नित्यं षट्सहस्रयुगावधि ॥ १०९॥
मन्त्राधिराजममलं जप्त्वा पापौघनाशनम् ।
ततः शरीरं विजहौ ज्ञानवापीतटे शुभे ॥ ११०॥
लिङ्गपूजां प्रकुर्वाणो वदन् शिव शिवेति च ।
ततो ममाङ्क संविश्य ममैवानुग्रहाद् द्विजः ॥ १११॥
मन्त्राधिराजममलं जपन् पापौघनाशनम् ।
शैवं प्राप्यमहामन्त्रं मोक्षं सम्प्राप्य शोभते ॥ ११२॥
इत्युक्ता सा मनोरम्या मुक्तिमण्टपदेवता ।
ययौ स्व सदनं रम्यमम्बिके वरवर्णिनि ॥ ११३॥
ये मुक्तिमण्टपमनघ्यमनन्यलम्यं सम्प्राप्य शैवमनुमप्यतिपुण्यलभ्यम् ।
सम्पूजयन्ति शिवमेकमुपास्यमीशं ते सर्वथा मुनिवराः शिवमाप्नुवन्ति ॥ ११४॥
॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं काशीस्थितं मुक्तिमण्डपमाहात्म्यं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ७ । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 7 . vAvRRittashlokAH ..
Notes:
Śiva शिव details to Parvatī पार्वती, about the eminence of the Muktīmaṇḍapa मुक्तिमण्डप near Jñānavāpī ज्ञानवापी at Viśveśvara Jyotirliṅga Sthāna विश्वेश्वर ज्योतिर्लिङ्ग स्थान in Kaśī काशी.
Kaśī काशी harbors several ŚivaTīrthaKṣetra शिवतीर्थक्षेत्र that are outlined in ŚivaRahasyam saptāṃśaḥ शिवरहस्यं सप्तांशः.
Proofread by Ruma Dewan