शिवप्रोक्तं विश्वेश्वरज्योतिर्लिङ्गार्चनोपदेशम्

शिवप्रोक्तं विश्वेश्वरज्योतिर्लिङ्गार्चनोपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) श्रीशिवः (उवाच) पूज्यते ध्यायते नित्यं लिङ्गं विश्वेश्वराभिधम् । वेदोपनिषदां सारो लिङ्गरूपमुपाश्रितः ॥ २२५॥ विश्वेश्वराभिधं प्राप्य काश्यां तिष्ठति सर्वदा । विश्वेश्वराख्या जिह्वाग्रे चित्ते विश्वेश्वरस्मृतिः ॥ २२६॥ विश्वेश्वरार्चनं हस्ते यस्य तस्य न यातनाः । विश्वेश्वरं विलासेनाप्येकदा वीक्ष्य सादरम् ॥ २२७॥ न बिभेति यमाग्रेऽपि कृतपापोऽपि सर्वथा । यल्लिङ्गं पार्वती भक्त्या बिल्वैःसम्पूज्य सादरम् ॥ २२८॥ मुदिताभूत्तदेवेदं लिङ्गं विश्वेश्वराभिधम् । यागदानादिधर्माणां फलं यल्लिङ्गदर्शनम् ॥ २२९॥ तदेवेदं परं ज्योतिर्लिङ्गं विश्वेश्वराभिधम् । यद्विश्वेश्वरलिङ्गस्य दर्शनं यमतर्जनम् ॥ २३०॥ तद्विश्वेश्वरलिङ्गस्य त्यागो न महतां मतः । यद्विश्वेश्वरलिङ्गस्य दर्शनं पापकर्षणम् ॥ २३१॥ तद्विश्वेश्वरलिङ्गस्य त्यागो न महतां मतः । यद्विश्वेश्वरलिङ्गस्य भजनं मोक्षसाधनम् ॥ २३२॥ तद्विश्वेश्वरलिङ्गस्य त्यागो न महतां मतः । स एव वाजपेयादिसर्वयागफलाश्रयः ॥ २३३॥ यः प्रेक्षते हि विश्वेशं चक्षुषा पक्ष्मपातिना । स एव गजदानादिमहादानविचक्षणः ॥ २३४॥ यो दद्याद्बिल्वजं पत्रं लिङ्गं विश्वेश्वराभिधे । स एव सर्वधर्माणां तपसामपि संश्रयः ॥ २३५॥ यो व्योमकेशं विश्वेशं सविश्वासमुपाश्रयेत् । तावद्दुगर्जत्यघकुलं कृतान्तश्च भटैस्सह ॥ २३६॥ यावन्नाभ्यर्च्यते भक्त्या लिङ्गं विश्वेश्वराभिधम् । तावत्तिष्ठति मर्त्येषु घोरसंसारश‍ृङ्खला ॥ २३७॥ यावन्नाभ्यर्चितं भक्त्या लिङ्गं विश्वेश्वराभिधम् । तावद्दुःखानि सर्वाणि भुज्यन्ते मनुजैः सदा ॥ २३८॥ यावन्नाभ्यर्चितं भक्त्या लिङ्गं विश्वेश्वराभिधम् । तावन्मरणसन्त्रासस्तावज्जन्मभयं महत् ॥ २३९॥ यावन्नाभ्यर्चितं भक्त्या लिङ्गं विश्वेश्वराभिधम् । ताद्दुर्भगता तावन्नानारोगोद्भवं भयम् ॥ २४०॥ ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं विश्वेश्वरज्योतिर्लिङ्गार्चनोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २९ शिवगौरीसंवादे काशीप्रभावकथनम् । २२५-२४०॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam . 225-240.. Notes: Śiva शिव describes about the merits of worshiping the Viśveśvara Jyotirliṅga / Viśveśvaraliṅga विश्वेश्वरज्योतिर्लिङ्ग / विश्वेश्वरलिङ्ग at Kāśī काशी. Proofread by Ruma Dewan
% Text title            : Shivaproktam Vishveshvarajyotirlingarchanopadesham
% File name             : shivaproktaMvishveshvarajyotirlingArchanopadesham.itx
% itxtitle              : vishveshvarajyotirliNgArchanopadesham shivaproktaM (shivarahasyAntargatam)
% engtitle              : shivaproktaM vishveshvarajyotirlingArchanopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam | 225-240||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org