शिवरहस्यश्रवणफलकथनम्
(शिवरहस्यान्तर्गते ईशाख्ये)
- जैगीषव्यस्कन्दसंवादे -
स्कन्द उवाच ।
शमायनतपोधनाः शिवपदाब्जसद्भावनाः
सनन्दनसनातनभृगुवसिष्ठबोधायनाः ।
शिवार्चकजनावनाः शिवकथाश्रवात्पावना
भवन्तु मम हृज्जना भवपदाब्जसंसेवनाः ॥ ४५॥
तुरङ्गमातङ्गशताङ्गधात्रीं
पवित्रपात्रं प्रददाति गां वसु ।
सत्रातिरात्रैर्यजते स वेदा-
नधीयते तीर्थजलाप्लुतः सः ॥ ४६॥
ततोऽधिकं पुण्यमवाप्य मोदते
किन्नाकपृष्ठं सुकृतामथौकः ।
सदाशिवस्यास्य रहस्यसंश्रवात्
कैलासमौलौ निवसन् गणो भवेत् ॥ ४७॥
साङ्ख्यव्याख्यान सौख्यप्रदमदमहिमासङ्ख्यहेतौ न जीवे
योगो रोगैक भोगो भवति जनिमतां रागदो नो विरागः ।
सञ्जायेत भवेषु भाग्यजनुषां वैराग्यभाग्योदयः
आरोग्यं खलु शङ्कराङ्घ्रिभजनाच्छेवैः परं लभ्यते ॥ ४८॥
कायं सायमुमासहायचरणाम्भोजार्चनाज्जायते
सापायं न उपायसाध्यगदयुक् कोऽयं न जानात्यमुम् ।
हायं पापमवश्यमव्ययमजं शान्तं तुरीयं शिवं
ध्यात्वा हृत्कमले वसैव नियतं कैलासवासादरः ॥ ४९॥
श्रीकण्ठरत्नाडिसुजम्बुकेश-
जप्येशमध्यार्जुनकुम्भघोणे ।
श्वेते वने ब्रह्मवने च काञ्च्यां
श्रीकालहस्तावरुणाचले वा ॥ ५०॥
वृद्धाचले वाऽभ्रसभा सुगोनगे
श्रुतीवने सेतुवरे सुपुण्ये ।
हालास्यके वेणुवने च ताम्रा-
कवेरजागाङ्गसुनर्मदारे ॥ ५१॥
गोदावरी कृष्णभवा च यामुना-
तुङ्गासु सम्भेदवरे च मज्जनः ।
असावथात्राप्यविमुक्तवास-
योग्यः शिवप्रीततनुर्भवेत ॥ ५२॥
भक्तोऽविमुक्तेऽपि वसन्नथेश-
कृपा वशाद्वासमहो लभेत ।
कैलासवासोऽप्यविमुक्तवासिभिः
प्राप्येत शम्भोः किल भक्तियोगैः ॥ ५३॥
ये शङ्करास्यकमलान्निगमागमान्त्य-
पुष्पोत्थसुन्दरमरन्दरसेऽर्थवादम् ।
ते मन्वते खलु नराः खरवानरादि-
गर्भेषु जारजभवा नवदुःखभाजः ॥ ५४॥
शिवरहस्यमिदं शिववर्णितं
यदि सकृत्पठते भुवि भक्तितः ।
नाऽवद्यमेषु भविता भववीक्षणेन
भावेषु घोरभवजं विभवं भजेन्न ॥ ५५॥
यस्तूर्ध्वपुण्ड्रमलिके विदधन्नलीकं-
नालीकजासनशतं निरये पचेत् सः ।
यो विष्णुसाम्यकधिया हृदये भवेद्यो-
विश्वाधिविश्वगणयोनिषु सम्भवेत्सः ॥ ५६॥
भस्मत्रिपुण्ड्ररहितः शिवलिङ्गमत्र-
सम्पूजनोज्झितमतिः श्रुणुयाद्रहस्यम् ।
शैवं विनिन्दति न नन्दति बुद्धिपूर्वं
बौद्धेषु जायति चिरं निरयागतोऽपि ॥ ५७॥
योऽर्थाशया शिवरहस्यमिदं त्वशैवे
संश्राव्य भव्यपदवीं न स जातु विन्देत् ।
लालामुखे च निरये कृमिभुक् स तिष्ठेत्
विष्ठासु निष्ठुरकशाग्रविकीर्णदेहः ॥ ५८॥
तस्मात्परं शिवरहस्यमिदं महार्थं
श्राव्यं शिवार्चकजनैर्द्विजशाम्भवेभ्यः ।
भस्माक्षधारिभिरहर्निशमेतदेव
पाठ्यं महेशमतिभिर्यतिभिश्च नित्यम् ॥ ५९॥
गोभूहिरण्यकनकाम्बररौप्यकूप्य
धान्यैधनैर्गजतुरङ्गवरैस्तथान्यैः ।
सम्पूजयेद्गृहवरैर्वरशाम्भवं यः
धन्योऽथ शम्भुगणपः स शिवं यजेच्च ॥ ६०॥
प्रत्यंशं परिपूज्य शाम्भववरं चैतस्य संवाचकं
भावान् भोज्य सुभोज्यषड्रसवरैः स्रक्चन्द्रनाद्यर्हणैः ।
ताम्बूलैर्वरगोसुदक्षिणधनैर्योवा सहस्रं शतं
एकं वा दश वा सुशाम्भववरान् विश्वेशसन्तुष्टये ॥ ६१॥
तस्मै प्रसन्नसुमुखः प्रभवेन्महेशो
विघ्नेशषण्मुखसमं प्रविभावयेत्तम् ।
वित्तर्धिधान्यधनभूमिगवाश्वसङ्घ-
मातङ्गपुत्रसुकलत्रयुतं करोति ॥ ६२॥
प्राज्यं राज्यमुमापतिः प्रति दिशेत्प्रासादमत्युज्ज्वलं
योगं भोगमपि प्रसादसुमुखो भक्तेषु मुक्तिं तथा ।
शक्तिं भुक्तिममुत्र पुत्रसहितं पारुष्यहीनं वचः
आयुष्यं प्रददाति पुष्यति परं जोघुष्यते तद्यशः ॥ ६३॥
ये वै लिखन्ति सुमुखा मखजातपुण्यं
ते वै लभन्ति च लभन्ति महेन्द्रलेखाः ।
ते सन्मुखाः शिवगृहस्य रहस्यतारं
ते षण्मुखोपमधियो न हि दुःखभाजः ॥ ६४॥
योऽस्याक्षरश्रवणकृत् क्षरयत्यघौघं
सुश्लोक एव स भवेत् किल श्लोकपाठी ।
अध्यायमात्रपठनश्रवणाद्विमुक्तः
योऽस्यार्थविप्रतिपदं स भवेद्विमुक्तः ॥ ६५॥
भिन्ना ये हृदयेन दुःखनिकरैः सन्ना जराद्यैर्गदैः
अन्नानां पतिमीश्वरं च जगतां शीघ्रं प्रसन्नं कुरु ।
कैलासाचलवासमोदसुमनस्यार्थाय काशीं व्रज
दैवैर्भूसुरसत्तमैश्च गणपैर्युक्तो विमुक्तिं व्रज ॥ ६६॥
यल्लाभान्नपरं च लाभमधिकं हृल्लासमन्यन्मुने
उल्लासाय मनः स्वसन्निभकथासाम्यं न चोल्लस्यति ॥ ६७॥
नयामि शिवपूजनैर्दिवसमीशतोऽन्यं सुरं
न यामि शरणान्तरं प्रविजहामि पापं सदा ।
भजामि शिवमन्वहं प्रति यजामि यज्ञैरहं
प्रयामि मनसा हरं प्रति हरामि चित्तं सदा ॥ ६८॥
॥ इति शिवरहस्यान्तर्गते शिवरहस्यश्रवणफलकथनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । ३६ फलश्रवणकथनम् । ४५-६८ ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . 36 phalashravaNakathanam . 45-68 ..
Notes:
Skanda स्कन्द details to Jaigīṣavya जैगीषव्य about the merits of reading and/or listening to The ŚivaRahasyam शिवरहस्यम्.
Proofread by Ruma Dewan