शिवसंहिता १
१. अथ प्रथमोऽध्यायः ।
चक्षुर्भ्यां दोरुरोभिश्च वाचा च हृदये न च ।
रामं स्मरामि भक्तानां भजमानं मनोरथान् ॥ १॥
वेत्तारं रामकामानां वक्तारं शृण्वतां सताम् ।
लक्ष्मीवन्तं लसल्लक्ष्मीजातं लक्ष्मणमाश्रये ॥ २॥
रामारामरहस्यानि सद्भाव्यानि प्रकुर्वते ।
तिरस्कुर्वत आमुक्तेर्युक्तोञ्जलिर्हनूमते ॥ ३॥
कैलाशे मेरुसङ्काशे नानारत्नविभूषिते ।
नानागुल्मलतास्तोमद्रुमराजिविराजिते ॥ ४॥
सर्वदासुखमासीनौ नाना ख्यानककोविदौ ।
सर्वज्ञौ सर्वलोकेशौ पार्वती परमेश्वरौ ॥ ५॥
दृष्ट्वा वसन्तसमयं कामुकोत्सववर्द्धनम् ।
कदाचित्कौतुकाविष्टौ चक्रातेरसवत्कथाः ॥ ६॥
तत्रोमा सोमतिलकं रमासखसखं शिवम् ।
प्रसादसुमुखं वीक्ष्य पप्रच्छ प्रियमादरात् ॥ ७॥
कस्य वसन्तकालेस्मिन् विशेषेण सुखोत्तरा ।
विहाराहाररुचिरा भवेयुर्भुवनेश्वर ॥ ८॥
अनयादपि सुखोत्तुङ्गारङ्गासङ्गकराः सताम् ।
कस्य ते स्युः कथयतां पश्यतां शृण्वतामपि ॥ ९॥
त्रैलोक्ये दृश्यते कोपि प्रसिद्धो गुणराशिभिः ।
मन्तव्यः सर्वमन्तव्यैः पुण्यश्लोकशिरोमणे ॥ १०॥
शरण्यः सर्वशक्तीनां दिव्यानां परमं पदम् ।
नित्यतारुण्य कारुण्य कलाकोषश्च कः पुमान ॥ ११॥
सर्वदेवशिरोधार्य पादपद्मरजाश्च कः ।
तवापि सम्मतः सर्वगुणैः कल्याणकारकैः ॥ १२॥
दिव्यानेकावरोधः कः कश्चैव प्रियदर्शनः ।
दिव्यस्थानगणः कः स्याद्दिव्योद्यानविहारकृत् ॥ १३॥
दिव्यपरिजनोपेतो दिव्यानेकपरिच्छेदः ।
नित्यभोगसमृद्धः कः कश्चकाममनोहरः ॥ १४॥
श्रुते च कीर्तिते ध्याते यस्मिन्कान्तधियापि चेत् ।
साध्वीधर्मो न लुप्येत न दुष्येत स्वयम्वरा ॥ १५॥
सर्वाधिकारता कस्य सेवादौ च गुणोन्मुखी ।
सर्वलक्षणसम्पन्नो निर्धूताशेषकल्मषः ॥ १६॥
ध्यातुं ममापि योग्यः कस्तवापि च महेश्वर ।
आवाभ्यां जगत्पूज्याभ्यां पूजनीयपदाम्बुजः ॥ १७॥
कथ्यतां यदि रोचेत दोषो यद्यथ नापतेत् ।
सगुणः कालकर्मश्चेन्मध्वास्वादश्च पुष्कलः ॥ १८॥
क्षन्तव्यो तिक्रमोह्येष गुणग्रस्तमनस्तया ।
मम चापल्ययुक्तायाः पालितायाः मुहुर्मुहुः ॥ १९॥
श्रुत्वेति पार्वती वाक्यं दयमानमना मनुः ।
उवाच चारुचतुरः कथाहारो हरो मृदुः ॥ २०॥
साधुसाध्वीमहाभागे भावज्ञे प्राणवल्लभे ।
इष्टं पृष्टं त्वयागुप्तं गुणैः पुष्टममायिकैः ॥ २१॥
त्वयापृष्टं विषमपि वर्ण्यमेव मयाभवेत् ।
अमृतं तु कुतो नस्या दास्वाद्यं मम पार्वति ॥ २२॥
सामान्येन त्वया पृष्टं विशेषेणोच्यते मया ।
अभ्यर्णकर्णमार्गेण वर्ण्यमाकर्ण्यतां त्वया ॥ २३॥
श्रोतव्येषु बहुष्वत्र वक्तव्येषु बहुष्वपि ।
श्राव्यं वाच्यं च तद्धि स्याद्व्यद्धि सारतमं भवेत् ॥ २४॥
अत्यन्तगोपनीयं यत्त्वयि तत्तन्न गोप्यते ।
ईश्वराणां रहस्यन्तु प्रकाश्यं क्वचिदेव हि ॥ २५॥
यस्त्वया पृच्छ्यते भूमा दिव्यचेष्टागुणाकरः ।
हृदि मे वर्तते ह्येष गूढो वेदेष्वपि प्रभुः ॥ २६॥
तस्यानन्तानि नामानि दिव्यानि चरितानि च ।
भव्या विभूतयो दिव्याः परिवारास्त्वनेकशः ॥ २७॥
भोगस्थानानि नित्यानि पवित्राणि बहूनि च ।
विचित्राणि च भोग्यानि भोगोपकरणानि च ॥ २८॥
स च सीतापतिः श्रीमान् जडजीवविलक्षणः ।
वेदवेदान्तसर्वार्थो योगिनां परमागतिः ॥ २९॥
एष एव भवेद्भर्ता सर्वेषां सुरसुभ्रुवाम् ।
सुरासुरनराणां च ममोपास्यश्च हैमनि ॥ ३०॥
एतस्मिन्कीर्तिते ध्याते श्रुते वाप्यर्चिते श्रिते ।
पातिव्रत्यक्षयो नैव सतीनामपिजायते ॥ ३१॥
प्रश्नोप्येष तवैतस्मिन् पर्यवसन्नः स्वभावतः ।
आत्मनामात्मा हीशाने सर्वेषां गिरिजेऽमले ॥ ३२॥
स एव स्वेच्छयायोध्यामध्यासीनो वरानने ।
दिव्योद्यानरतो दीव्यन् रामाख्यानो विधीयते ॥ ३३॥
सोऽस्मिन्वसन्तसमये विहरन् हरते हठात् ।
चेतसामपि चेतांसि मदनं मदनस्य च ॥ ३४॥
शारदादिविलासस्तु तस्यैव मधुरोन्नते ।
आनन्दसम्पदः सर्वा भवन्ति सुखसङ्गिनाम् ॥ ३५॥
पार्वत्याः प्रभो रामः पुत्रो दशरथस्य तु ।
श्रूयते हि मनुष्येषु भाग्याधिक्यात् प्रथाङ्गतः ॥ ३६॥
कथं स वेदवेद्यः स्यात् वेदाज्ञानिघ्न आत्मवान् ।
कर्मभिश्चापल्यमानो सौ पादचारी बहुश्रुतः ॥ ३७॥
कथंवा नरतामाया दामयावद्यदूषिताम् ।
वेदान्तवेद्यविभवः स्वतन्त्रः पुरुषोत्तमः ॥ ३८॥
अंशत्वं चावतारत्वं विष्णोरस्य प्रसिद्धति ।
स्वयत्वं कथमस्य स्यादिति मे संशयों हृदि ॥ ३९॥
क्षन्तव्यः सगुणैर्वाक्यैः सर्वज्ञोपि प्रशासने ।
यत्रैव सरसो भावस्तत्रैवायं मनोज्वरः ॥ ४०॥
इति श्रुत्वाप्रिया माह सर्वज्ञो भगवान् शिवः ।
बहुकृत्व इदं तत्त्वं निर्णीतं ते पुरा मया ॥ ४१॥
पिष्टस्य पेषणं देवि किं चिकीर्षसि भामिनि ।
सङ्क्षिप्य वच्मि ते भूयो दृढं स्वहृदि धारय ॥ ४२॥
अवतारास्तु बहवः कला अंशा विभूतयः ।
रामो धनुर्धरः साक्षात् सर्वेशो भगवान्स्वयम् ॥ ४३॥
पार्वत्युवाच-
भव शङ्कर रम्याङ्गो रामः कस्मादुपायतः ।
सद्यो हृद्यवरुद्ध्येत नापसर्पेत्ततोऽचलः ॥ ४४॥
श्रीशिवोवाच-
साधु पृष्टं त्वया साध्वि हर्षोत्कर्षकरं मम ।
तवाप्येतन्महानन्दवर्द्धनं श्रवणादिभिः ॥ ४५॥
सर्वाकर्षणकर्मास्य सद्यः प्रत्युपकारकम् ।
मधुरं मृदुलं चैव शृणु वच्मि तव प्रिये ॥ ४६॥
अत्र ते संहितां दिव्यामिति हासतया स्थिताम् ।
वर्णयामि वरारोहे भवारोहणकारणम् ॥ ४७॥
निरुक्तिलक्षणा ह्येषा संहिता गुणविस्तृता ।
अस्यां हि भगवान् साक्षात् काम्यमूर्तिः प्रकाश्यते ॥ ४८॥
श्रुतिलक्ष्मणसंवादो निर्विवादोऽत्र दृश्यते ।
मारुतागस्त्यसंवादमस्यामेव निशामय ॥ ४९॥
आस्वा दितगुणग्रामः श्रीरामो मधुरोज्वलः ।
यत्र सद्योऽवरुध्येत शृङ्गारो नव मूर्तिमान् ॥ ५०॥
संहितां सहिता सा त्वं शृण्वतां श्रवणोत्सवाम् ।
सौभाग्यं यत्र सीताया गुणोत्कर्षश्च कथ्यते ॥ ५१॥
ससीतालक्ष्मणो रामः साऽयोध्या सपुरःसरः ।
सर्वदा शृण्वतां भद्रे पुण्यश्रवणकीर्तनः ॥ ५२॥
संवाद उच्यते तावद्धनूमत्कुम्भजन्मनः ।
नाना मनोरमा यत्र कथा रामगुणाश्रयाः ॥ ५३॥
अगस्त्यो भगवान्सर्वब्रह्मर्षि वृन्दवन्दितः ।
कदाचित्तीर्थ यात्रायां गन्धमादनमासदत् ॥ ५४॥
श्रीरामस्मरणानन्दी महाभागवतोत्तमः ।
हनुमान् मतिमान् यत्र वरीवर्ति सदा गिरौ ॥ ५५॥
यत्रापङ्कान्यपङ्कानि सरांसि च सरोरुहैः ।
सरिन्निर्झरकुण्डाश्च देवकन्या निषेवितः ॥ ५६॥
नानाद्रुमलतापुष्प फलभारधरास्पृशः ।
कदल्यः सफला यत्र भानु भानुनिवर्तनाः ॥ ५७॥
कदलीवनमित्येव विश्रुतं यज्जगत्त्रये ।
स च यत्राप्सरोवृन्दैः रामनाट्यान्यधिश्रिताः ॥ ५८॥
आज्ञया रामचन्द्रस्य ता देव्योऽत्र हनूमते ।
श्रावयन्ति स्वगीतानि गन्धर्व्यश्च सुशृण्वते ॥ ५९॥
प्रार्थितो रामभद्रोत्र जीवितं चिरमर्पयत् ।
हनूमते कथा श्रोतुं दृष्टुञ्चास्य च नर्तनम् ॥ ६०॥
यत्रासीनो हनूमांस्तु गीतनृत्यानि सुभ्रुवाम् ।
शृण्वन् रामगुणाङ्कानि प्रेमाश्रूणि विमुञ्चति ॥ ६१॥
यानि यानि रहस्यानि रामान्तः पुरजानि सः ।
कार यन्तानि तानीह देवीभिर्मुदमश्नुते ॥ ६२॥
रम्यं महद्वनं दृष्ट्वा स पुष्पफलसङ्कुलम् ।
गिरिञ्च गिरिषु श्रेष्ठ मुवाचाव्याजगिर्गुरुः ॥ ६३॥
हे शिष्याः पर्वतं ह्येतं नाना निर्झरनादितम् ।
नाना द्रुमलताकीर्णं नाना पुष्पफलानतम् ॥ ६४॥
कदली वनमेतच्च दृष्ट्वा हृष्यति मे मनः ।
पुण्यान् जलाशयानेतान् पुण्यपक्षिरुतान्यपि ॥ ६५॥
शृण्वतो मे मनः कामं रामाक्रामतीवसः ।
किञ्चित्कालमिहस्थातु मास्थां मे मनुते मनः ॥ ६६॥
तानि तानि च सर्वाणि हरन्ते मे मनोवलात् ।
यानि यानीह लोकेषु श्रीरामोद्दीपनानि च ॥ ६७॥
प्रसङ्गो यत्र रामस्य रामतीर्थपुराणि च ।
तत्रैव मन्मनोत्यर्थं प्रीतिमेति निरन्तरम् ॥ ६८॥
लोकनाथमहं रामं नित्यं सन्निहितं हृदि ।
अर्चामीहेति मे चित्तं विषक्तं फलपुष्पकैः ॥ ६९॥
अत्र कश्चिन्महान् लाभो भवेदिति भुजोक्षि च ।
स्यन्दते मन्मनः कामं रामं सूचयतीहमे ॥ ७०॥
स्थाप्यतां नु करण्डानि वृष्यो दण्डाऽजिनानि च ।
आह्नियन्तां च पुष्पाणि मधुराणि फलानि च ॥ ७१॥
समिधश्च स्वहोमार्हाः प्रबोध्यन्तां हविर्भुजः ।
प्रक्षाल्यन्तां शिलाः शुभ्रा रामाराधनतिप्रियाः ॥ ७२॥
स्नानानि च विधीयन्तां रामो चित्ते निधीयताम् ।
जप्यतां राममन्त्राश्च तर्प्यतां पितृदेवताः ॥ ७३॥
स श्रीमानर्च्यतां चात्र वैभवैः सुलभैरिह ।
सर्व साधारणं ह्येतत्पार्वतीयं फलादिकम् ॥ ७४॥
देशं कालं च वित्तं च शुभानि च शुभां दशाम् ।
प्राप्य नार्चति यो रामं श्वयोनिं स हि गच्छति ॥ ७५॥
इत्युक्ता मुनिना शिष्याश्चक्रुः सर्वं तदादरात् ।
भक्त्या रामस्य दास्येन गुरोश्च ध्वनिमागता ॥ ७६॥
ततः स्वयमगस्त्योपि सस्नौ दिव्ये सरिद्धृदे ।
रामसन्ध्या मुपास्यासौ चक्रे रामस्य पूजनम् ॥ ७७॥
तुष्टाव च जगौ रामं ननर्तास्यपुरो मुनिः ।
प्रेमसभिन्नसर्वाङ्गो हर्षपूरितमानसः ॥ ७८॥
तस्य शिष्यसमेतस्य रामसङ्गीतमद्भुतम् ।
शुश्राव रामदासोऽसौ वायुसूनुस्ततोऽमृतम् ॥ ७९॥
शीघ्रमेवागतस्तत्र लब्ध जीवातुरात्मनः ।
फलपुष्पार्पकः श्रीमान् हनूमानंशुमत्प्रभुः ॥ ८०॥
दृष्ट्वातान् रामभक्ताँस्तु ब्राह्मणान्वेदवित्तमान् ।
दण्डवत्प्रणनामासौ तुष्टाव च मुदाप्लुतः ॥ ८१॥
इन्द्रादिदेवभक्तेभ्यो ब्रह्मभक्तोऽधिको गुणैः ।
शिवभक्ताधिको विष्णुभक्तः शास्त्रेषु गीयते ॥ ८२॥
सर्वेभ्यो विष्णुभक्तेभ्यो रामभक्तो विशिष्यते ।
रामादन्यपरो ध्येयो नास्तीति जगतां प्रभुः ॥ ८३॥
तस्माद्रामस्य ये भक्तास्ते नमस्याः शुभार्थिभिः ।
हनुमत्प्रमुखैरीशैः कृतो नान्यैरनीश्वरैः ॥ ८४॥
तैःसोऽथ मुनिभिः पृष्ठो रामकीर्तनहर्षितः ।
हनुमान् रामभक्तानामग्रगण्यो निराशिषाम् ॥ ८५॥
को भवान् रामभक्तेभ्यो भक्तिदातेव दृश्यते ।
देवो वा मानुषो वाथ वानरः किन्नरो परः ॥ ८६॥
नात्र गतिर्मनुष्याणां यक्षाणां विषये गिरौ ।
त्वं तु देवः शिवः साक्षाद्भासि नो भगवानिति ॥ ८७॥
एतन्मुनिवचो विद्वान् श्रुत्वोवाच कपीश्वरः ।
जातितो वानरश्चास्मि हनुमान्नाम विश्रुतम् ॥ ८८॥
धर्मतो रामदासोस्मि कर्मतस्तत्कथारतः ।
बन्धुमान् रामभक्तेभ्यो भोगतस्तत्प्रसादभाक् ॥ ८९॥
सीतायास्तु प्रसादेन सर्वा मुक्त्यादिसिद्धयः ।
नित्यं मामनुवर्तन्ते रागाभावेपि कीलिताः ॥ ९०॥
रामस्य च प्रसादेन कल्पकल्पानुजीविता ।
तद्गुणामृतपानाय लव्धं विप्रा मया द्वयम् ॥ ९१॥
स्वेच्छाचारोऽपि सर्वत्र तिष्ठामीह च नित्यदा ।
रामभावानुभावादिवर्द्धने कदलीवने ॥ ९२॥
किन्नरीनिकराऽऽगीत रामगीतश्रुतिप्रियः ।
ब्रह्मचारी समज्ञेऽपि किन्नरीणां दिवानिशम् ॥ ९३॥
रामोद्देशाच्च किन्नर्यो रामगीतैरुपासते ।
स्थितं मां मानुषागम्ये स्वर्गसन्धौ निराकुले ॥ ९४॥
इह गन्धर्वपतय आगत्य समये स्वके ।
श्रावयन्ति चरित्राणि गीत्वा वै रावणद्विषः ॥ ९५॥
रासो रामस्य श्रृङ्गारः प्राचुर्य्यात्किन्नरीगणैः ।
मयानुक्रियमाणोपि स एवेति विविच्यते ॥ ९६॥
मयानुकार्यमाणोपि रामरामानुभावतः ।
साक्षादानन्दनो रासो राकास्वप्यनुभूयते ॥ ९७॥
गन्धर्वाराममाधुर्यसौन्दर्यादि गुणोच्छ्रितम् ।
श्रुत्वावः सङ्गताः शीघ्रं युष्माभिः सामगातृभिः ॥ ९८॥
सोऽहं रामगुणात्सामगान्धर्व रसिकः सदा ।
वर्ते सर्वम्परित्यज्य ततोन्यद्विरसंयतः ॥ ९९॥
युष्मानप्यहं पृच्छामि वर्णाश्रम विभागतः ।
कृत मद्यकुलं श्रेष्ठाद्योतमानं प्रकाश्यताम् ॥ १००॥
इत्युक्ता मुनयस्तेन प्रोचुः प्रीतिमनस्तया ।
रामदत्तसुधास्वादलब्धं पवननन्दनम् ॥ १०१॥
सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् ।
कुम्भयोनेर्मुनेः शिष्या ब्रह्मचारिव्रताश्रिताः ॥ १०२॥
पीतो येन महाम्भोधिर्हतो वातापि रिल्वलः ।
भूमेः सारूप्यमानोतो विन्ध्यश्च गिरिराडसौ ॥ १०३॥
मैत्रावरुणिरित्येव गीतो लोकत्रयेण यः ।
कुम्भजन्मेति मर्त्येषु सिद्धेष्वगस्त्य उच्यते ॥ १०४॥
सोऽयं सर्वमुनिश्रेष्ठो रामागमविधिर्महान् ।
रामभक्तिसुधाम्भोधिजन्मेन्दुर्द्वितीयोऽमलः ॥ १०५॥
इति तेषां वचस्तथ्यं श्रुत्वा वायुसुतस्त्वरी ।
पपाताङ्घ्रियुगे तस्य कुम्भयोनेस्तपोनिधेः ॥ १०६॥
रामप्राण इति प्रेम्णा कुम्भजन्मापि मारुतेः ।
न्यपतत्पादयोमूर्ध्ना लोक नाथ समोपि सन् ॥ १०७॥
अन्योन्येनानुरागेण रामभक्तिकृतेन तौ ।
आलिङ्ग्य तस्थतुः सिद्धौ चिरेण द्रुतचेतसौ ॥ १०८॥
निषिञ्चेतां च गात्राणि प्रेम्णांसामृतधारया ।
तप्तानुक्लिन्न सर्वाङ्गौ व्ययुज्येतां न तौ जनौ ॥ १०९॥
अन्योन्यदर्शनाश्लेषजाताह्लादमहत्तया ।
अन्योन्यं स्तोतुकामौ च सन्नवाचौ परन्तु तो ॥ ११०॥
रामभक्ति सुधापूर्ण रत्नाकरमहोदधी ।
अन्यैः स्तुतौ तदा भक्तैर्मुनीश्वर कपीश्वरौ ॥ १११॥
तयोरुपरि पुष्पौघा दिव्याः पेतुर्मनोरमाः ।
धन्ये यन्धरणीपुण्या यदेतत्पादपांशुभिः ॥ ११२॥
जातोत्सवैस्तु तौ देवैरस्तूयेतां गतस्मयैः ।
रामदेवपदाम्भोजभ्रमरो मधुरश्वरौ ॥ ११३॥
मन्दं तत्वागतप्रज्ञावुपविष्टौ शिलातले ।
नभस्वत्कुम्भजन्मानौ जजल्पतुरुभौ कवी ॥ ११४॥
पूतः पतितजातोपि पादपद्मपरागतः ।
तवाहं पतनान्मूर्ध्नि रामभक्ति सुधाम्बुधेः ॥ ११५॥
यस्त्वं मयामहाभाग चिरेणाकाङ्क्षितागमः ।
आगतोस्याश्रमं पूतीकर्तुम्मेऽगस्त्य सत्पते ॥ ११६॥
दुर्लभोस्मिन्सदा विष्णुदाससाधुसमागमः ।
तत्रापि श्रीरमानाथ रामाश्रयसमागमः ॥ ११७॥
श्रीरामो रामभक्तश्च द्वावेवेह प्रियौ मम ।
प्रधानस्त्वन्तु तेषां यन्नाथेनासि मम प्रभो ॥ ११८॥
नारदात्सनकादिभ्यः शम्भोरपि वृहस्पते ।
पाराशर्याच्छुकाच्चापि ज्यायानसि निजैर्गुणैः ॥ ११९॥
ज्ञात्वा विद्वन्सतां सङ्गमदीर्घं दीर्घदर्शिनाम् ।
पूजाप्रश्नप्रणामैश्च तत्त्वं जिज्ञास्यमेव यत् ॥ १२०॥
नाना वादाः पुराणेषु संहितासु स्मृतिष्वपि ।
वेदेष्वपि च काव्येषु प्राकृताप्राकृतेष्वपि ॥ १२१॥
मुष्टामुष्टि च शास्त्रेषु पण्डितैः सज्यते परः ।
युक्तयस्तेषु दृश्यन्ते सर्वेष्वपि च सर्वशः ॥ १२२॥
न पदार्थ पराभूतिः स्वरूपेण परेण च ।
क्रियते तदभिवादो वादिभिः किं तु दुष्यते ॥ १२३॥
तस्मात्परात्परं ज्ञानं सम्प्रदायाद्विशोधयेत् ।
विज्ञायस्वधियाधीरैः सम्पाद्यं प्रतिपत्तिभिः ॥ १२४॥
सोऽहं तत्त्वं परं ज्ञानं प्रेप्सुश्च परमात्मनः ।
परस्या देवतायाश्च ध्यानं कालगुणान्वितम् ॥ १२५॥
इत्युक्त्वा पावमानिः सःकृताञ्जलिरमुं मुनिम् ।
उपतस्थे गुरुं गौरि ! गौरवाद्गुण यन्त्रितः ॥ १२६॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमेपटले
साधुसमागम प्रकाशनो नाम प्रथमोऽध्यायः १॥
२. अथ द्वितीयोऽध्यायः ।
श्रीशिवोवाच-
एतद्वायुभुवो वाक्यं श्रुत्वा वेदविदाम्वरः ।
अगस्त्यो भगवांस्तं च सस्मितं वाक्यमब्रवीत् ॥ १॥
अगस्त्य उवाच-
त्वं मां परीक्षसे विद्वन् स्वतः सर्वार्थवित्तमः ।
अज्ञातं विद्यते किं ते ज्ञेयं ज्ञेयेषु वस्तुषु ॥ २॥
सर्वोत्कर्षोपयुक्तोऽहं सत्यो सौ पवनात्मज ।
राममन्त्र प्रभावोऽयं त्वया मे परिचीयताम् ॥ ३॥
मत्तस्त्वं सर्वथा श्रेष्ठस्त्वत्तः श्रेष्ठो न चापरः ।
त्वत्त एव परिज्ञातुं तत्त्वमिच्छामि यत्परम् ॥ ४॥
सर्वथा द्वारभूतं ते वक्तुं मद्वाक्यमुत्तरम् ।
आञ्जनेय भव त्वेतद्रामदूत महामते ॥ ५॥
हिरण्यगर्भो भगवान् सर्वेषां हि पितामहः ।
पद्मनाभसुतः श्रीमान् भक्तानां प्रथमो गुरुः ॥ ६॥
प्रमाणं मूलभूतं नो वेदाख्यं यच्चतुर्विधम् ।
तद्यस्य वदनाम्भोज भ्रमरायितमादितः ॥ ७॥
तस्य हिरण्यगर्भस्य साक्षात्कथयतो मुखात् ।
पुरा कल्पेमयाप्ये तत्तत्त्वं चित्ते समाहितम् ॥ ८॥
नान्यद्रामात्परं तत्त्वं कौशल्यानन्दवर्द्धनात् ।
जानकीवल्लभात्कालत्रिके देशेषुदृश्यते ॥ ९॥
न श्रीरामव्रतादन्यद् व्रतं सर्वार्थसाधनम् ।
न रामाराधनादन्यो यज्ञो वेदेषु दृश्यते ॥ १०॥
नान्योमन्त्रः परो राममन्त्रात्षडक्षरादपि ।
सूर्यशक्तिशिवादीनां मन्त्रा हीनतराः स्फुटम् ॥ ११॥
चत्वारोपि महावेदा नैतत्तुल्याः फलादिभिः ।
का कथास्मृतिशास्त्राणां पुराणानां च पावने ॥ १२॥
रामनाम्ना समं नान्यं नाम विष्णोः शिवस्य च ।
कान्येषां तु कथा नाम्नां सत्यं सत्यमिहोच्यते ॥ १३॥
रामनाम्ना शिवः काश्यां भूत्वा पूतः शिवः स्वयम् ।
स निस्तारयते जीवराशीन्काशीश्वरः सदा ॥ १४॥
रामपादोदकान्नान्यत्पावनं पतितावलेः ।
रामोच्छिष्टं यदन्नं स्यात्पावये दखिलं तुतत् ॥ १५॥
रामश्चापि पुरस्तस्य पतिर्लक्ष्म्या इवाच्युतः ।
अन्यः पतिर्व्रुवाणोयः पतितः सहि गर्हितः ॥ १६॥
अयोध्यापतिरेव स्यात्पतीनां पतिरीश्वरः ।
अन्याषां मथुरादीनां रामांशाः पतयो यतः ॥ १७॥
भोगस्थानं परायोध्या लीलास्थानं त्वियं भुवि ।
भोगलीला पती रामो निरङ्कुशविभूतिकः ॥ १८॥
द्विभुजो जानकीजानिः सदा सर्वत्र शोभते ।
भक्तेच्छातो भवेदेष वैकुण्ठेतु चतुर्भुजः ॥ १९॥
परं साधारणं रूपं नित्यं द्विभुजमेव तत् ।
परमं रस सम्पन्नं ध्येयं योगविदां सदा ॥ २०॥
भोगस्थानानि यावन्ति लीलास्थानानि यानि च ।
तानि सर्वाणि तस्यैव पुरा व्याप्यानि सर्वशः ॥ २१॥
सवाह्याभ्यन्तरः कृत्स्न आनन्दरसशब्दितः ।
मधूदधिरिवापारो राम एव परः पुमान् ॥ २२॥
आसीनं तमयोध्यायां सहस्त्र स्तम्भमण्डिते ।
मण्डपे रत्नसंज्ञे च जानक्या सह राघवम् ॥ २३॥
मत्स्यः कूर्मः किरिर्नैको नारसिंहोप्यनेकधा ।
वैकुण्ठोपि हयग्रीवो हरिर्वामनकेशवौ ॥ २४॥
यज्ञ नारायणो धर्मपुत्रो नरवरोपि सः ।
देवकीनन्दः कृष्णो वासुदेवो बलोपि च ॥ २५॥
पृष्णिगर्भो मधून्माथी गोविन्दो माधवोपि च ।
वासुदेवः परोनन्तः सङ्कर्षण इलापतिः ॥ २६॥
प्रद्युम्नोप्यनिरुद्धश्च व्यूहा सर्वेपि सर्वदा ।
रामं सहोपतिष्ठन्ते रामादेशव्यवस्थिताः ॥ २७॥
एतैरन्यैश्च संसेव्यो रामो नाम महेश्वरः ।
तेषामैश्वर्यदातृत्वान्मूलत्वात्ते निरीश्वराः ॥ २८॥
इन्द्र नामा स इन्द्राणां पतिः साक्षी गतिः प्रभुः ।
विष्णुः स्वयं सविष्णूनां पतिर्वेदान्तकृद्विभुः ॥ २९॥
ब्रह्मा स ब्रह्मणां कर्ता प्रजापतिपतिगर्ति ।
रुद्राणां स पती रुद्रो रुद्रकोटिनियामकः ॥ ३०॥
चन्द्रादित्य सहस्त्राणि रुद्र कोटि शतानि च ।
इन्द्रकोटि सहस्राणि विष्णु कोटि शतानि च ॥ ३१॥
ब्रह्मकोटि सहस्त्राणि दुर्गाकोटि शतानि च ।
महाभैरवकल्पानि कोट्यर्वुदशतानि च ॥ ३२॥
अवतार सहस्त्राणि भक्त कोटि शतानि च ।
गन्धर्वानां सहस्त्राणि देव कोटिशतानि च ॥ ३३॥
वेदाः पुराण शास्त्राणि तीर्थ कोटि शतानि च ।
देवब्रह्ममहर्षीणां कोटि कोटि शतानि च ।
सततं यं निषेवन्ते स श्रीराम इतीरितः ॥ ३४॥
निर्मत्सरैश्च विद्वद्भिर्मन्त्रार्थप्रयतैरपि ।
जातान्येतानि रामांशात्प्रोच्यन्ते ब्रह्मवादिभिः ॥ ३५॥
यं वेदान्त विदो ब्रह्म वदन्ति ब्रह्मवादिनः ।
परमात्मेति च योगीन्द्रा भक्तास्तु भगवानिति ॥ ३६॥
यज्ञो विष्णुरिति स्पष्टमृत्विजो ब्रुवते बुधाः ।
स्वभावकालकर्मादि शब्द वाच्यं तु हैतुकाः ॥ ३७॥
भोगेनासौ स्वतः पूर्णो दाता भगगुणस्य च ।
स्वतो वाप्तसमस्तर्द्धी रामकामवरप्रदः ॥ ३८॥
ज्ञानशक्तिबलैश्वर्य वीर्यतेजांस्य शेषतः ।
भगशब्द निमित्तानि विना हेयैर्गुणादिभिः ॥ ३९॥
तस्यानन्तगुणस्यापि षडेवामी महागुणाः ।
एतव्याप्या गुणा अन्ये येपि स्युः पुरुषोत्तमे ।
सर्वजन्मस्थितिध्वंसहेतू रामो निरङ्कुशः ॥ ४०॥
सङ्कल्प सिद्ध सर्वार्थः पूर्णोभयविभूतिकः ।
सीतापि सदृशी तेन वयोरूपगुणादिभिः ॥ ४१॥
द्वादशाब्द वयोयुक्ता नित्यानन्द विधायनी
तरुणीसैवरूपेण श्यामा श्रृङ्गार संश्रया ॥ ४२॥
गौराङ्गी पीतवसना नीलरक्तशिवांवरा ।
सर्वेश्वरी सदाराध्या भुक्तिमुक्तिवरप्रदा ॥ ४३॥
नित्यं रामानुकूलैव चित्ररूप प्रदर्शिनी ।
षोडशाब्दपरिच्छिन्नवयः सोपि भयापहः ॥ ४४॥
पीतवासा घनश्यामः शिखात्रय शिखण्डकः ।
काक पक्षयुगी श्रीमान् पञ्चखण्डशिखण्डकः ॥ ४५॥
मुक्ताफललसन्नासः स्वतः स्मितशुभाननः ।
पीतवक्षा महाबाहुः क्षीणमध्यमनोहरः ॥ ४६॥
नित्योत्सव स्वभावश्च नित्य कौतुक पोषकः ।
सर्वविद्यागुणाम्भोधिर्नित्यनिर्धूतदूषणः ॥ ४७॥
रक्तपद्मविशालाक्षो रत्नदन्तोऽरुणाधरः ।
गान्धर्वे च भुवि श्रेष्ठो नारीगणमनोरमः ॥ ४८॥
गन्धर्वराजप्रतिमो मुक्तोत्तमविभूषणः ।
रसज्ञः स्वजनानन्दी विलासी विलसत्प्रभः ॥ ४९॥
स्वच्छन्दगोऽपि धर्मार्थे रतः स्मरविवर्द्धनः ।
दाता भोक्ताऽविता साक्षी दयासिन्धुः सुरागवान् ॥ ५०॥
अकोपनः क्षमाशीलो लीलारञ्जितसज्जनः ।
सुन्दरेन्दुः शुभाचारी मुग्धेन्द्रो मधुरस्वरः ॥ ५१॥
कृतज्ञः कृतिवान्काव्यज्ञानामिन्द्रः कलानिधिः ।
गम्भीरः स्थिरधीः प्राज्ञः सुस्निग्धमधुरस्वरः ॥ ५२॥
स्थिरस्नेहः सुचातुर्यः धैर्यादिगुणसागरः ।
सौकुमार्यसरः श्रीमान् लक्ष्मीवांल्लक्षणान्वितः ॥ ५३॥
वज्रसंहननो भव्यः सौगन्धस्फुरितद्युतिः ।
वाग्मी सकलशास्त्राणामाख्याताऽमृतभाषणः ॥ ५४॥
सर्व प्राणिरुतज्ञः सः सर्व प्राणमनोहरः ।
सर्वोपास्यः प्रसन्नात्मा सर्वरक्षा विभुस्स्वराट् ॥ ५५॥
सर्वाभयप्रदः सर्वकामितार्थ विधायकः ।
भक्तानुपक्षको दक्षो गुणदोषस्वरूपवित् ॥ ५६॥
वह्नीषु भोगपत्नीषु दक्षिणो दयितोऽनघः ।
सर्वशृङ्गारसम्पन्नः सर्वनायकनायकः ॥ ५७॥
सर्वानन्दमयः सर्वानन्दसन्दोहदायकः ।
किङ्किणीनूपुरारावैर्मुग्धस्त्रीमुखमारुतैः ॥ ५८॥
वीणामृदङ्ग झञ्झाद्यैर्वादितैर्ललनायुतैः ।
सारिकाशुकसन्नादैः कोकिला भ्रमरारुतैः ॥ ५९॥
वन्दिस्तुतिगुणैस्स्तोत्रपाठे सारस कूजितैः ।
प्रबुद्धः कोशलापालवालो ध्येयः सुधीजनैः ॥ ६०॥
नाना सुगन्धमालादीन् मर्द्दनो मदिरेक्षणः ।
सतीष्वपि विशालासु रत्नप्रासादपङ्क्तिषु ॥ ६१॥
नाना सीमान्तरम्यासु नानाभोगवतीषु च ।
नाना चित्र सुगन्धेषु सुप्तो मोहनमन्दिरे ॥ ६२॥
नाना शकुनि सङ्गीते वातायनविभाविते ।
उपागम्य वयस्यै स राजवंश्यैर्मनोहरः ॥ ६३॥
सेव्यमानः शुभालापैः नानोपायनपाणिभिः ।
उद्बुद्धः पद्मपत्राक्षः किचिदालस्यजृम्भितः ।
जगन्नाथसुतः सद्भिः स्मर्तव्यः स शुभार्थिभिः ॥ ६४॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमपटले
श्रीरामरहस्य परस्वरूप गुणविभूति प्रकाशनो नाम द्वितीयोऽध्यायः २॥
३. अथ तृतीयोऽध्यायः ।
शिवोवाच-
कुम्भयोनिर्मुनी रामरहस्यं मरुतः सुते ।
प्रेम्णा शृण्वति तत्प्रीत्या प्रोवाच परमोत्तमम् ॥ १॥
मातुरन्तः पुरं पश्चात्प्रविष्टः सानुजानुगः ।
स्वामम्बां हर्षयन्रामः पञ्चाब्दिक इवार्भकः ॥ २॥
मात्रा चोत्सङ्ग आरोप्य कृतपादाभिवन्दनः ।
लालितो मधुरालापैश्चुंविताननचन्द्रमाः ॥ ३॥
लव्ध्वाशीः खण्डलड्डुकैर्भोजितो ललितालकः ।
वद्धचूडश्चलाक्षोऽसौ धारितांवरभूषणः ॥ ४॥
मात्रा पृष्टः परं भाव्यं तस्या अन्ते पपाठ सः ।
अग्राहितधनुर्वाणो लुलुण्ठ च महीतले ॥ ५॥
नृत्येति स तया मात्रा उक्तः खण्डितभाषणः ।
ननर्त स महीपालनन्दनो जननन्दनः ॥ ६॥
प्रसन्ना जननी वत्समुत्थाप्यालिङ्ग्य चानघम् ।
आनन्दाश्रुसुधालेशैः सिषिञ्चे हृदये प्रियम् ॥ ७॥
क्रीडितुं गन्तुकामोऽयं भीषतो भयदर्शनैः ।
अरुदत् कुपितो मातुर्भाण्डभेदं चकार च ॥ ८॥
अपराध्यन् गृहारामद्रुमभङ्गेन बालकः ।
मात्रानुधावितो वद्धुं न लब्धोऽनिलचञ्चलः ॥ ९॥
दूरेस्थितो भयं त्यक्त्वा बालो मातरमेव सः ।
भीषयामास भीतिघ्नो राजन्योऽहमिति ब्रुवन् ॥ १०॥
कोसौ मां भीषयेल्लोके हन्याद्वामितविक्रमः ।
रामं दाशरथिं शूरं समाजार्जितपादुकम् ॥ ११॥
तं हन्यामहमेवाजाव वश्यंहि धृतायुधः ।
बहवोपि मया सिंहा वराहाश्च निषूदिताः ॥ १२॥
तस्मान्मातः कृपाणीं मे तूणीरं धनुरुत्तमम् ।
चर्म चारु च शीघ्रं त्वं देहि दासोस्मि ते सदा ॥ १३॥
चोरयित्वा बलाद्वाहं नेष्याम्यायुधमन्यथा ।
रक्षस्व गौरवं मातर्वदामि तव किङ्करः ॥ १४॥
एवं वहु विधां वाचं वदन्प्रौढ इवात्मजः ।
आश्वासितः शनैर्मात्रा सत्यासत्यवचोमृतैः ॥ १५॥
वत्स वत्स चिरं जीव धनुर्वाणौ गृहाण भोः ।
प्रियं पुत्रं न वध्नामि सत्यं मन्यस्व मे वचः ॥ १६॥
क्रीडित्वा शीघ्रमेहीति वाक्यं मातुर्निशम्य सः ।
उपेत्याङ्घ्रियुगे लुण्ठंल्लब्धकामो मुदान्वितः ॥ १७॥
अञ्जनाञ्जितचार्वक्षो नाशामौक्तिकमोहनः ।
किङ्किणी नूपुरारावश्चारु चूडश्च चञ्चलः ॥ १८॥
पीतांवरेण सूक्ष्मेण वेष्टितोऽलकशोभितः ।
चारुचापलसत्पाणिः पीतवासोऽयुगच्छविः ॥ १९॥
गजराजगतिर्मुग्धो नवहास्यप्रियान्सखीन् ।
हासयन् कीडयन् भ्रान्त्या योधयन्नभयन्मिथः ॥ २०॥
एवं पौरशिशून्सर्वान् मोहयन्मधुरस्वनैः ।
वस्त्रालङ्कारदानैश्च त्यक्त रागक्रियानसौ ॥ २१॥
क्रीडामृगगणांश्चासौ जातिपक्षिगणानपि ।
पश्यन् शृण्वन् गिरस्तेषां चित्राश्चित्रवचा स्वयम् ॥ २२॥
निस्ससार पितुः पादौ दृष्टुं रामः सहानुगः ।
मोहयन्जननीद्वारस्थितान् स्थिररतीन् जनान् ॥ २३॥
पूजयन्जनकेनासो दृष्टो हृष्टतनुत्वचा ।
अङ्कारोपित एवाशु चुचुंवे चारुलोचनम् ॥ २४॥
हृदालीढं सुतं चासौ मोक्तुं प्राण इवाशयी ।
शक्रोतिस्म निधिं प्राप्य कदर्य इव तत्पिता ॥ २५॥
पितुरङ्कगतो राम इन्द्र नीलमणिप्रभः ।
नाना लङ्काररम्याङ्ग इन्द्रकाम इवास्फुरत् ॥ २६॥
वसन्ताङ्कगतः काम इव रामो रराज वा ।
जनकाङ्कस्थितो रामो मोहयामास मोहनात् ॥ २७॥
सभ्यानां हृदये रामो विष्णोर्वक्षसि कौस्तुभः ।
स्थितो नाद्यापि भाराय नीरागाय च कल्पते ॥ २८॥
हितानि शिक्षितः पित्रा प्रत्यगृह्णात् कृताञ्जलिः ।
उत्थाय च नमश्चके रामो वालोपि धर्मवाट् ॥ २९॥
पुत्रमुद्दिश्य राजेन्द्रश्चके दानानि भूरिशः ।
न हि तस्य प्रियः पुत्रादन्योस्ति भुवनत्रये ॥ ३०॥
आज्ञया पितुराचार्यागारं रामो जगाम ह ।
समेतः सखिभिर्वालेरध्येतुं सकलाः कलाः ॥ ३१॥
वेदमन्त्रपवित्रैस्तु सिच्यमानो जलेरसो ।
विप्रैः क्षिप्रतपः सिद्धैर्गीयमानैश्च गायकैः ॥ ३२॥
अर्थं यशस्तथात्मानं निवेद्य गुरवेर्भकः ।
जग्राहेव निऽजं न्यासं वाङ्मयं निखिलं गुरोः ॥ ३३॥
उत्तमर्णोभिरामोऽसावर्थमानादिभिर्गुरोः ।
निषिद्धोपि महाराजसूनुत्वान्मृदुलत्वतः ॥ ३४॥
गुरोर्गाश्चा रयामास गोपराजसुतप्रभः ।
आहरत्समिधोप्यस्य वा रिपुष्पकुशादिकान् ॥ ३५॥
आदेशाच्च गुरोः रामः सरयूतीरमास्थितः ।
सानुजः ससखः सौम्यक्रीडासाधनसंयुतः ॥ ३६॥
द्वन्द्वशः योधयामास मल्लैर्मल्लान् मृगैर्मृगान् ।
मेषैर्मेषांश्च तत्रासौ पक्षिभिः पक्षिणस्तथा ॥ ३७॥
स्वयं रङ्गे च चिक्रीड़े भ्रातृभिः सखिभिस्सह ।
पश्यतां सिद्धसङ्घानां पुष्पवागभिः पूजितः ॥ ३८॥
हासं नाना विधन्तत्र भाँडसंज्ञैः सहस्त्रकैः ।
कारयन् गायकैर्गीतैः शुश्राव स्वमप्यसौ ॥ ३९॥
स्नानार्थमागता नद्यां नाना पौरजनस्त्रियः ।
मुमूर्छुः सहसा रामं दृष्ट्वा लोकदृगुत्सवम् ॥ ४०॥
गीयमानगुणो मुग्धो मुग्धाभिश्चललोचनः ।
त्याजिताभिरयं रामो नीतोहृन्नेत्र मन्दिरे ॥ ४१॥
नौभिस्ततो जलक्रीडां चक्रे च क्रीतरङ्गिताम् ।
प्लवनैर्धावनै स्तीरेषून्मज्जन निमज्जनैः ॥ ४२॥
व्युत्प्रोङ्क्ष्य कुड्मलैर्वारि जातानां कन्दुकैश्चलः ।
वस्त्रापहरणैस्तासां नग्ना नग्न कियेक्षकः ॥ ४३॥
प्रविकीर्णाद्रकेशोऽसौ गन्धर्वार्भकसन्निभः ।
अधस्तीरतरोस्तिष्ठन् मोहयामास नागरीः ॥ ४४॥
रन्तु कामोथ रामोसावा रामान् प्रविवेश तैः ।
राजवंश्यैर्वयस्यैश्च साकं कीडाविचक्षणैः ॥ ४५॥
वेश्या नटी नटैश्चापि भाँडैर्गायकनायकैः ।
सामन्तैस्सेवकैश्चापि सेव्यमानो नृपात्मजः ॥ ४६॥
क्रीडन्मनोभिरामायां सङ्गीतागमकोविदः ।
नद्योश्च सङ्गमे तत्र विजहार वनेक्षकः ॥ ४७॥
सरय्वास्तीरमासाद्य विल्वोद्यामं हरिंस्तथा ।
दृष्ट्वा तत्र रमित्वा च तमसावनमाविशत् ॥ ४८॥
विहार वनमागम्य केलिकुञ्जं च गह्वरम् ।
रेमे तत्र चिरं रामः स्वैरामार्पितविग्रहैः ॥ ४९॥
स्वकुन्डे जानकीकुण्डे नन्दिग्रामे च राघवः ।
स्थित्वा भुक्त्वा च स्वादूनि रमाकेलिवनं ययौ ॥ ५०॥
कारयित्वा नदीक्रीडां कुमारः कौतुकादिह ।
गतो वेदश्रवां दिव्यामापगामथ गोमतीम् ॥ ५१॥
प्रविवेश व्रजं तत्र गोपी गोपमहोत्सवः ।
दधीनि वुभुजे रामो मधुराणि फलानि च ॥ ५२॥
एकान्ते गोमती तीरे गोपकन्या मनोरमाः ।
रसार्त्ताः रमयामासू रामो रमयतांवरः ॥ ५३॥
वनाद्वनं व्रजन्वीरो वीरवालैस्सहानुगैः ।
क्रीड़ास्थानं ततो गत्वा शस्त्रास्त्रैर्विजहार सः ॥ ५४॥
गोप्रताराख्य तीर्थेऽथ रासस्थलमनुत्तमम् ।
दृष्ट्वा विहृत्य तत्रासौ स्वर्गद्वारमुपागमत् ॥ ५५॥
चन्द्र धर्महरिन्तत्र गुप्तविष्णुहरिं तथा ।
दृष्ट्वा सम्पूज्य रामोऽसौ क्षीरसागर दक्षिणे ॥ ५६॥
शिवं सरस्वतीं तत्र यक्षराजं च मारुतम् ।
सप्तसागरके तस्माल्लोकोत्तरं समर्चितम् ॥ ५७॥
ऐरावत कुलोद्भूतं नाम शत्रुञ्जयं गजम् ।
आरुद्य नगरं रामः प्राविशन्नगरोत्सवः ॥ ५८॥
मत्तेभसदृशं ह्यश्वं रथं स्वर्णपरिस्कृतम् ।
मेघनद्धं मृगैर्युक्तं गज सावकसंयुतम् ॥ ५९॥
आरुह्य व्यहरद्रामो वीथ्यां वीथ्यां च नूतनः ।
नरयानं नरं चापि विमानं मधुराश्रयः ॥ ६०॥
पद्म्यां पद्मविसालाक्षः प्राविशच्च गृहं गृहम् ।
यथाभावं यथारूपं यथा योग्यञ्च सुन्दरः ॥ ६१॥
आनन्दयन्नरान्नारीरपि रामो नरार्भकः ।
वालक्रीडनकैः सर्वैरत्नस्वर्ण विनिर्मितैः ॥ ६२॥
वैहारिकं दधानोसो वेषं सङ्क्रीडसम्मुदे ।
सर्वेष्वपि समाजेषु सर्वास्वपि क्रियासु च ॥ ६३॥
सर्वेषामपि सर्वेषु गृहेषूवपवनेषु च ।
दृष्टो मनोहरन्सर्वै रामो राजीवलोचनः ॥ ६४॥
रामादन्यः प्रियस्तासां प्रजानां नाभवत्पुरि ।
वाचयन्तं पुराणानि श्रृण्वन्तं च क्वचित् क्वचित् ॥ ६५॥
अभ्यसन्तं च वेदान्तं योगं साख्यं क्रियां च ताम् ।
ददन्तं क्वापि देयानि गृहह्णन्तं परतः क्वचित् ॥ ६६॥
शयानं विवदन्तं च गायन्तं क्वचिदेव च ।
भुञ्जानमुपतिष्ठन्तं नृत्यन्तं कचिदायतम् ॥ ६७॥
हसन्तं हासयन्तं च प्रासादाग्रनिवासिनम् ।
क्वचित्साधु समाजस्थं मल्लगोष्ठ्यां स्थितं क्वचित् ॥ ६८॥
पुण्यस्त्री सेवितं क्वापि विप्रवर्य्य समावृतम् ।
आरामे विहरन्तं च क्रीडन्तं सरयूजले ॥ ६९॥
आयान्तं पथि गच्छन्तं पश्यन्तं चतुरङ्गमान् ।
ध्यायन्तं च जपन्तं च पृच्छन्तं कुशलानि च ॥ ७०॥
अटन्तं मृगयायां वा गजशिक्षापरायणम् ।
अश्वशिक्षापरं पक्षिवृन्दपाठनपण्डितम् ॥ ७१॥
वासोलङ्कार रत्नानि धारयन्तं च मोहनम् ।
काव्यालङ्कार नाट्यादिव्याख्याननिरतं क्वचित् ॥ ७२॥
मातुरन्तः पुरे व्याप्तं वालक्रीडाविशारदम् ।
हर्षयन्तं नवैर्वालभाषितैः पितरं पुनः ॥ ७३॥
हृष्टं क्वापि स्थितं मौनान्मात्रा पित्रात्र सज्जनैः ।
तैरनुनीयमानं च सेव्यमानं च सोदरैः ॥ ७४॥
रुष्टाननुनयन्तं तान् वासोलङ्कारदापनैः ।
रत्नमण्डपमध्यस्थं नाना लक्ष्मीनिषेवितम् ॥ ७५॥
सीताशोभितवामाङ्गं नाना शृङ्गारवर्द्धनम् ।
नाना रसमयीं लीलां कारयन्तं सखीगणैः ॥ ७६॥
आनन्दयन्तमेवान्यान्नानान्दोलनलालितम् ।
नाना रागरसास्वादसक्तं भक्तहितोद्यतम् ॥ ७७॥
वीणावादन तत्त्वज्ञं नाना गीतकथोत्सवम् ।
दिव्यैर्गन्धैश्च वासोभिरासवैः शुचिभिः पुनः ॥ ७८॥
ताम्बूलैश्च सुधापानैः प्रीणयन्तं प्रियां च ताम् ।
सर्वत्र चित्ररूपाणि विभ्रन्तं च स्वयेच्छया ॥ ७९॥
पश्यन्ति स्म जना रामं स्वे स्वे पार्श्वे स्थितं पुनः ।
सभा नाम सुकीर्तिर्या तस्यामासीनमुन्नतेः ॥ ८०॥
राजासने महाराज नाना नेपथ्य शोभितम् ।
नर वानर कोटीनां कोटिभिः परिवारितम् ॥ ८१॥
यक्ष राक्षस गन्धर्व सिद्ध किन्नर कोटिभिः ।
देव दानव दैत्याद्यैर्वन्दितं वन्दिभिः पुनः ॥ ८२॥
महाराजाधिराजेन्द्रं रामं पश्यन्ति सज्जनाः ।
ऋषिकोटिस्तुतं वेदब्रह्मरुद्रादिपूजितम् ॥ ८३॥
प्रसन्नं ददतं तेभ्यस्तं तं कामं मनोगतम् ।
ध्यायेद्देवं च देवं तमेकान्तिजनवत्सलम् ॥ ८४॥
अयोध्यापुरनेतारं रामं भेत्तारमंहसाम् ।
नाना ध्यानानि रामस्य मयोक्तानि यथामति ॥ ८५॥
एवं समीर सूनो ते श्रोतुकामेन यत्परम् ।
रासलीलां त्वया पूर्वं स्तावितां तामथो वद ॥ ८६॥
अनुग्राह्य स्त्वयाद्याहं रसमय्या त्वपूर्वया ।
विद्याविनिमयोप्यऽत्र विद्वत्सुविदुषां स्फुटः ।
अर्थाग्राह्येषु तत्वेषु तत्त्वग्राह्यमिति श्रुतम् ॥ ८७॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमपटले
रामरहस्ये नानाध्यानप्रकाशनो नाम तृतीयोऽध्यायः ३॥
४. अथ चतुर्थोऽध्यायः ।
श्रीशिव उवाच-
इत्यगस्त्येन मुनिना प्रार्थितः पवनात्मजः ।
सर्व राम रहस्येषु स्वतन्त्रश्च ससाद ह ॥ १॥
श्रुत्वा मुनिमुखाद्रामध्यानं मङ्गलमायतम् ।
दण्डवत्प्रणतोभूत्वा प्राह तं पवनात्मजः ॥ २॥
जाते श्रोत्रे पवित्रे त्वन्मुखचन्द्र सुधाद्रवात् ।
पूता वागपि मे भूयादिति तत्पुनरुच्यते ॥ ३॥
श्रोता प्रायो भवामीह वक्तातु क्वचिदेव हि ।
त्वयि श्रोतर्य्यहं किं स्यां व्याख्यातापि भवद्गिराम् ॥ ४॥
दुर्लभारामदासा हि रामभक्तिः सुदुर्लभा ।
भृशं सुमथितात्सिन्धोर्लक्ष्मीरेकैव निर्गता ॥ ५॥
एकतः सकला लक्ष्मी भक्तीरामस्य चैकतः ।
ना दीयमाना जनैर्ग्राह्या भक्तिर्लक्ष्मी न वा चला ॥ ६॥
सर्वो लक्ष्मी कटाक्षैकविलासो विभवो हरेः ।
कथ्यते सकलैर्लोकैस्तेनासौ परमेश्वरः ॥ ७॥
सर्वलक्ष्मीमयी सीता सर्वसिद्धिनिधीश्वरी ।
सर्वानन्दमयी सीता सर्वारोगविवर्द्धिनी ॥ ८॥
साध्वी पुण्यप्रिया पत्नी सर्वपत्नीति सिद्धति ।
सर्वेषामीश्वराणां तु स एव परमेश्वरः ॥ ९॥
श्रुति स्मृति पुराणादि सिद्धाहीश्वरता मुने ।
अङ्गीक्रियत एवात्र ब्रह्मादीनामपीश्वरैः ॥ १०॥
मत्स्यकूर्म वराहाणां कुतो न नृहरेरपि ।
शौरेस्त्रिविक्रमस्यापि वैकुण्ठस्याऽच्युतस्य च ॥ ११॥
प्रद्युम्नस्याऽनिरुद्धस्य विष्णोर्नारायणस्य च ।
श्वेतद्वीपपतेर्जिष्णोः सङ्कर्षणगणेशयोः ॥ १२॥
हयग्रीवस्य गोविन्दः माधवाम्भोधिशायिनाम् ।
वामनाधोक्षजादीनां हृषीकेशामृतेशयोः ॥ १३॥
हेतुवादकरैर्मन्दैरन्यथैवोपपद्यते ।
प्रत्यक्षं श्रुतिसिद्धं यन्महत्वं मृति नाशनम् ॥ १४॥
किन्तु तेषु न मे प्रीतिर्नचद्वैष्यो मृषा नदृक् ।
स्वभाव एव नित्योयमीदृशो विधिगोचरः ॥ १५॥
कुतो ब्रह्मादिषु प्रीतिः खण्डितात्मगुणेषु यत् ।
देवासूर्यापरावृत्तेदुर्गादिषु तु किं पुनः ॥ १६॥
मत्स्यादिभिरभेदोवा भेदो वास्ततिरत्ययः ।
तैस्तैरंशांशि भावो वा प्रमाणानुभवेन च ॥ १७॥
किं तैरेकान्तभावस्य रामभक्तिसुधोदधेः ।
ब्रह्मचर्य व्रतस्यापि रामे केलिरतस्य मे ॥ १८॥
पुराणे क्वचिदंशत्वं रामस्यापि श्रुतं च यत् ।
अन्याभिसन्धिकं तत्तु मूलमानविरोधतः ॥ १९॥
नहि तेन विना शून्यं रामेण परमं पदम् ।
लीलाभि व्यक्तितात्पर्थादवतारकृतिश्रुते ॥ २०॥
अवतारित्वमस्यैव रामस्याप्यवतारता ।
आदित्यवद्विरोधोऽत्र न स्वरूपभिदा क्वचित् ॥ २१॥
एकस्मिन्नेव रामे तु कौशल्योत्सङ्गलालिते ।
सीतापतौ मम प्रीतिरविच्छिन्ना स्वभावजा ॥ २२॥
एकान्तिरामभक्तस्य सन्निधाने हनुमतः ।
वक्तुं प्रवर्तते वाणीं श्रोत्रमन्यस्य तूद्यति ॥ २३॥
सीता समाधिका भार्या विष्णोरपि सुदुर्लभा ।
सर्वशृङ्गारसम्पन्ना मत्स्यादीनां तु दुःश्रवा ॥ २४॥
पुरी विष्णोरपि स्फीता नास्त्ययोध्या समाधिका ।
मत्स्यादीनां तु यद्वारिवनमात्रनिवासिता ॥ २५॥
नित्यानित्यविभूतिर्या चक्रनाभीवदृष्यते ।
सीतायोध्यापती रामस्तेभ्योऽधिकतमोऽस्त्यतः ॥ २६॥
सरय्वा सदृशीमन्यां नाहं पश्यामि चापगाम् ।
यावै वेदद्रवोद्भूता रामाराममनोरमा ॥ २७॥
तयोरतिश्रमं या तु नाशयन्ती रतिप्रदा ।
चित्रवारिजजातानि दर्शयन्त्युत्पलानि च ॥ २८॥
पिता दशरथादन्यो धन्यो न भुवनत्रये ।
यो वै रामवियोगे तु प्राणानपि जिहासति ॥ २६॥
कौशल्यासदृशी माता न भूता न भविष्यति ।
या पुत्रभवसम्भूतै रामं प्रियसुतं शुभैः ॥ ३०॥
नचलक्ष्मण शत्रुघ्नभरतैस्सदृशापरे ।
समये भ्रातृभोगार्थं स्वान्स्वान्भोगान्त्यजन्ति च ॥ ३१॥
साकेतोपवनेभ्योपि नाधिकानि समानि च ।
अन्यानिनन्दनादीनि वनानि पृथिवीदिवोः ॥ ३२॥
एषुराम प्रिया पद्भ्यां मालाकारीव गच्छति ।
वैदेही विभ्रती येषां मालां पुष्पमयीं नवाम् ॥ ३३॥
सर्वयोषिद्गुणश्रेष्ठाः सर्वाः साकेतयोषितः ।
त्यजन्त्यागारकार्याणि यास्तद्गीतकृतोत्सवाः ॥ ३४॥
सत्यनामाप्रजा धन्या या राममुखदर्शनात् ।
तुच्छी कुर्वन्ति मुक्त्यादि पुरुषार्थं चतुष्टयम् ॥ ३५॥
वासो येषामयोध्याया रोमो मित्रं सुहृद्गुरुः ।
तद्गीतानि मुखे येषां तेभ्यः किन्न ददौ विधिः ॥ ३६॥
योपि स्वप्ने वदेद्रामं सम्भ्रमस्खलनादिषु ।
तस्य पादरजो मे तु मूर्द्धानमधिरोहतु ॥ ३७॥
रामादन्यं परं श्रेष्ठं यो वे पाण्डित्यमात्रतः ।
सन्तप्तहृदयस्तस्य जिह्वां छिन्द्यामहं मुने ॥ ३८॥
रामं दृष्ट्वापि यो मूढ़ो ददृक्षेदपरं शुभम् ।
नील्या तस्याक्षिणी कोपादञ्जयेयं कृतागसः ॥ ३९॥
क्रूरं पश्येच्चयोरामं सौम्यं वन्धुशताधिकम् ।
रेणुकाम्मुष्टि मस्यापि क्षिपाम्यक्ष्णि दुरात्मनः ॥ ४०॥
यस्तु रामं न पश्येत यं च रामो न पश्यति ।
गर्हितः सर्वलोकेषु पतितः पापजीवनः ॥ ४१॥
न मे रामो न तस्याहमिति यस्य दृढ़ा मतिः ।
स म्लेक्षो नापरो लोकेर्भूमेर्भारो महत्तरः ॥ ४२॥
रामप्रीत्यैव सर्वेषु प्रीतिसिद्धिः सुरेष्वपि ।
मत्स्यादिष्ववतारेषु गोपालगुणगौरवात् ॥ ४३॥
यावद्रामेरतिर्येषां न स्याद्गौरवशालिनाम् ।
तावत्तेषां तु वैफल्यमर्चनस्तवनादिषु ॥ ४४॥
द्वैपत्यलोकनाथोसौ श्वानं दृष्ट्वा प्रकुप्यते ।
एकपत्यं ततो विद्वानाश्रित्य शरणं व्रजेत् ॥ ४७॥
तस्य लोकप्रधानस्य प्रकोपात्प्रभवन्ति किम् ।
क्षुद्रा देवाः फलं दातुमिन्द्रायाः कर्मयोनयः ॥ ४८॥
हीनैः साम्यं तु रामस्य दत्तं पापविमोहितैः ।
आत्मानर्थोपचाराय तत्स्याद्धालाहलं यथा ॥ ४९॥
मधुरे भोजनेपुंसोविषवद्भोजने मलम् ।
मलं स्यादन्यदेवानां सेवनं फल वाञ्छया ॥ ५०॥
तस्मादनन्यसेवी सन्सर्वकामपराङ्मुखः ।
जितेद्रियमनःकायोरामं ध्यायेदनन्यधीः ॥ ५१॥
अत्र नान्योऽधिकारी स्याद्रामरामाश्रये रसे ।
उक्त लक्षण एव स्यान्निन्दा मत्सरवर्जितः ॥ ५२॥
न नारी पुरुषो नापि न षण्डो न च पण्डितः ।
न मूर्खो न च मध्यस्थो न शूद्रो न द्विजोपि सन् ॥ ५३॥
किं त्वप्राकृतमेव स्वं देहेन्द्रियविलक्षणम् ।
अनुसन्धाय सन्द्याद्राम केलिमनोबुधः ॥ ५४॥
त्वां च मां च नमस्कृत्य विश्वक्सेनं गणेश्वरम् ।
गुरूनप्यमलप्राज्ञान्ध्यायेद्रामं रहस्थितः ॥ ५५॥
रामं प्रणम्य सीतां च सखीस्तस्या महत्तराः ।
अयोध्यां सरयूं चापि वनान्युपवनानि च ॥ ५६॥
मत्तनागेन्द्ररूपं तं यक्षराजं प्रणम्य च ।
क्षीरसागरतीरस्थं शिवं गौरीं गणाधिपम् ॥ ५७॥
ध्यायेच्छृङ्गारसंसक्तं कामरूपं कलाश्रयम् ।
सीतादिश्रीसहस्राणां वृन्दमध्ये विहारिणम् ॥ ५८॥
षोडशाब्दवयोरूपं महामुग्ध मनोहरम् ।
चञ्चलं शीलसम्पन्नं गम्भीरं चतुरं पुनः ॥ ५९॥
देव्या सम्प्रार्थितो ह्येवं सीतयामृतशीतया ।
समूहैश्च सखीनां तु प्रणुन्ननूनशीलया ॥ ६०॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां रामरहस्ये पञ्चमपटले
रामध्यान प्रकाशनोनाम चतुर्थोऽध्यायः ४॥
५. अथ पञ्चमोऽध्यायः ।
पार्वत्युवाच-
कथं सम्प्रार्थितो देव्या देवो दाशरथिः पते ।
केन वा हेतुना किं वा चकार चतुरोत्तरः ॥ १॥
श्रीशिव उवाच-
अगस्त्यश्रोतरि प्रीत्या सीतावाक्यानि मारुतिः ।
प्रसन्नहृदयः प्रोचे भक्त्या स्वादसमुद्यतः ॥ २॥
यावन्ति मानुषे लोके सुखानि सम्भवन्ति च ।
निरवद्यानि सर्वाणि तानि भुक्तानि ते मया ॥ ३॥
स्वप्ने भ्रमेपि वा दुःखं नान्वभूवं भुवः सुता ।
प्राप्य प्राणपतिं हित्वा दयमानमनोरमम् ॥ ४॥
दुर्लभं यन्मनुष्याणां देवानामपि यत्सुखम् ।
तत्सुखं देहि मे कान्त नितान्तसुभगप्रिय ॥ ५॥
रूपमेताः प्रसंशन्ति स्त्रियः पुंसोखिलाः स्वतः ।
न विद्या न कुलं नापि दाक्ष्यं शौर्यं पराक्रमम् ॥ ६॥
रूप सौन्दर्य माधुर्य चातुर्य स्थिरतादयः ।
सौकुमार्यं च सौगन्ध्यं त्वयि सर्वे गुणाः स्फुटाः ॥ ७॥
चकवर्ति कुलोत्तंसो हंसचिन्हदुकूलवान् ।
विद्याविनयसम्पन्नः शौर्यवीर्यपराक्रमी ॥ ८॥
गन्धर्वशास्त्रनिपुणः कामशास्त्रविशारदः ।
वदान्यो दर्शनीयश्च नित्यः स्वाधीनयौवनः ॥ ९॥
कलासु कुशलोऽक्लेशस्वभावः स्मितभाषणः ।
कोमलः पेशलः साधुवत्सलोऽकश्मलाशयः ॥ १०॥
कौशलेशसुतः श्रीमान् कौशल्येयो गुणाम्बुधिः ।
नान्योस्ति त्रिषुलोकेषु सर्वभूतहिते रतः ॥ ११॥
पद्मपत्रविशालाक्षः पीनवक्षा महाभुजः ।
नानाऽऽनन्दसन्दोहः सन्निवेषसुवेशधृक् ॥ १२॥
सर्व एवोपयुक्तास्ते गुणाः सर्वत्र सर्वदा ।
नार्थवाक्यं भवेदेषां सर्व लोकहितप्रियाः ॥ २३॥
तथापि दैहिका एव गुणाः लोकविलक्षणाः ।
तवानन्तसुखस्याऽपि सौख्यसम्म्पत्तिहेतवः ॥ १४॥
शृङ्गारे च निदानानि मध्योत्तरविभावुकाः ।
नारीमात्रप्रियाः पुंसां दृष्टिचित्तापहारिणः ॥ १५॥
यद्दृष्टं यच्छ्रुतं भुक्तं पीतं च नितरान्तु तत् ।
वैरस्याय भवेदारान्नव्यान्वेषी यतोयतः ॥ १६॥
त्वं तु नैव तथा भूतो विभ्रद्वैभवमुत्तमम् ।
नित्यनव्यः सदा भव्यो दृष्टो भुक्तः श्रुतोप्यतः ॥ १७॥
पूर्णभाग्यस्य ते गेहेऽनन्तभूतिरतः परम् ।
सहस्त्रैर्गुरुनारीणां पौरस्त्रीणां च मानद ॥ १८॥
सहस्त्रैर्गृहदासीनां कार्याणां च सहस्त्रकैः ।
द्रष्टुं सम्भाषितुं चेश न शक्योसि निशास्वपि ॥ १९॥
तस्मादेकान्तवासेन नित्योज्वलपरेण च ।
योग्यस्त्रीपरिवारेण भवितव्यं त्वया प्रिय ॥ २०॥
आसामपि मनांस्येवं योषितां तव सुन्दर ।
एकान्ते रन्तुकामानां ज्ञातुमर्हसिसुव्रत ॥ २१॥
राज्यम्पितैव ते कुर्वन् प्रजापाल्यं करोति हि ।
न ते भारो भवेत्सोपि कीडाकालो वुभुक्षतः ॥ २२॥
वहिश्वर इव प्राणः पितुस्त्वं सुखभुक् सदा ।
न निषिध्येद्वने क्रीडां यूनां यद्विकृतिं विदन् ॥ २३॥
जीवत्पितृक एवेह न रामारामभुग्यदि ।
मृते तस्मिन्नसौ नाके निरयेन भविष्यति ॥ २४॥
इति प्रियाः प्रियावाचः श्रुत्वोवाच प्रियः प्रियाम् ।
देवि चित्ते ममाप्येवं वर्तते यत्त्वत्योदितम् ॥ २५॥
गृहेषु गृहकृत्यानामानन्त्याद्गृहमेधिनाम् ।
क्वावकाशः सुखं भोक्तुं वीचिस्थानामिवाम्बुधेः ॥ २६॥
लौकिका वैदिका धर्मा उक्ता ये गृहवासिनाम् ।
त्यागे तेषां तु पातित्यं सिद्धौ कामविरोधिता ॥ २७॥
तस्मादारामवासेन कामान्काममनोगतान् ।
रसज्ञया त्वया भोक्ष्ये प्रियया शाश्वतीः समाः ॥ २८॥
वनवासीति तेनेमे लोकास्त्वां कथयन्तु च ।
तेनैव जनसंवाधो निवर्तेत यतस्ततः ॥ २९॥
माता पिता सुहृद् भ्राता पुत्रश्च यः सखास्वसा ।
स्वस्रेयः श्वसुरः श्वस्रूः सहायाः मित्रवां धवाः ॥ ३०॥
धर्मार्थसाध काह्येते न कामबलवर्द्धनः ।
भार्यैका तु तथाभूता कामानन्दविवर्द्धिनी ॥ ३१॥
जीवने मरणे या हि भर्तारमनुगच्छति ।
तस्या अन्यो न वै बन्धुः पत्युरापद्विनाशनात् ॥ ३२॥
औपपत्ये सुखाभासे परलोकविरोधिनि ।
सज्जन्ते सज्जना नैव सर्व लोकहितैषिणः ॥ ३३॥
भार्यैकैव गतिस्तेषां सन्तानानन्दकारिणाम् ।
नहि जारजवंशोत्र विद्वद्भिस्तु प्रशस्यते ॥ ३४॥
जारसेवाकुलस्त्रीणां कुलधर्मविलोपिनी ।
स्त्रिया सर्वात्मना त्याज्यो जारस्तस्मादघौघकृत् ॥ ३५॥
अहं त्वत्सदृशीमन्यां न पश्यामि महीतले ।
एकपत्नीव्रतं तस्माद्भुवि प्रथितमादितः ॥ ३६॥
त्वं तु लोकोत्तराकारामृताचारामृतैषिणी ।
रूपशीलत्रयोवित्तकलाभिरनुगामिनी ॥ ३७॥
किन्न त्वामनुवर्तेयं चित्ररूपप्रदर्शिनीम् ।
नित्यानुकूल संसर्गात्स्वभावामपि मैथिलि ॥ ३८॥
यूनो मनः स्त्रियामेव रागादेव प्रवर्तते ।
रूपस्वभावसेवाभिः कुतो न त्वयि मन्मनः ॥ ३९॥
न त्वादृशी पूर्णभाग्या मादृशो न महीतले ।
यत्नात्तु लभ्यते पुंसां पूर्णानन्दप्रवर्तिनी ॥ ४०॥
इति प्रियां प्रियां वार्ता कृत्वा लोकपतेःसुतः ।
स्वतन्त्रः सर्वकृत्येषु जगाम स्ववनानि सः ॥ ४१॥
अशोकवनिकान्तेषु प्राविशत्सह सीतया ।
अत्येति कल्पकल्पाद्धि प्रेयस्याह्लादनक्रमैः ॥ ४२॥
दुःप्रवेशा जनानां सा देवानामपि वाटिका ।
रामस्य पुरुषेन्द्रस्य सम्भोगारम्भकारणात् ॥ ४३॥
नैतादृशी सुरेन्द्रस्य नागेन्द्रवरुणस्य च ।
न कुवेरस्य नान्येषां देवानां रतिवाटिका ॥ ४४॥
न नागानां न दैत्यानां न च दानवरक्षसाम् ।
तत्तुल्या वनिका विष्णोर्वैकुण्ठेपि न विद्यते ॥ ४५॥
दुःखैक भाजनानां तु मनुष्याणां कुतस्तराम् ।
यस्याःस्मरण मात्रेण नृॠणां शोको विनश्यति ॥ ४६॥
मत्तनागेन्द्ररूपेण पुण्यलोकविनायकः ।
आदेशाद्रामचन्द्रस्य तां रक्षति स यक्षराट् ॥ ४७॥
विस्तीर्णा सरयूतीरे नीरनीरजशोभिता ।
मत्तकोकिलसङ्घुष्टा हंससारसनादिता ॥ ४८॥
मत्तालिकुलगुञ्जारोश्रोत्रानन्दमदोत्सवा ।
मयूरारावनृत्याद्यैः कामशालेव शोभते ॥ ४९॥
निर्वैरमृगशावाद्यैर्वालक्रीडास्थलीव सा ।
सारिका शुकदात्यूहप्रमुखैर्वहु पक्षिभिः ॥ ५०॥
विहारागारवन्याढ्यशालावच्च विनादिता ।
स्रवन्मधुमरन्दाद्यैर्पानशालेव पिच्छिला ॥ ५१॥
प्रकाशैः पुष्पजातीनां राकेवासौ दिवानिशम् ।
परागपटलैर्व्योम वितानवरशीतला ॥ ५२॥
चलत्पल्लववल्लीभिर्नृत्यशालेवशोभिता ।
फलैर्नानाविधैः स्वर्गमुक्तिभूमिरिवास्थिता ॥ ५३॥
तमालाकुलवीथीभिर्दिवसेऽपिकुहूरिव ।
जपाचम्पकपुष्पाद्यैरक्तासन्ध्येव शोभते ॥ ५४॥
इष्टकोपलरत्नाद्यैर्वहुमध्यमहीतला ।
जलयन्त्रप्रणालीभिः प्राविडिव विभाविता ॥ ५५॥
नानानिलयलालित्य हृदि कुण्डविकल्पिता ।
वल्लीजालपरिच्छिन्ना मुक्तकेशेव भामिनी ॥ ५६॥
नानागह्वरगम्भीरा नानार्थेव सुविस्तृता ।
नाना महीरुहारोहा विष्णोर्भक्तिरिव स्थिता ॥ ५७॥
नाना शाद्वलसञ्छिन्ना नभसेव महीव सा ।
प्रफुल्लानेककुमुदो शारदीद्योरिवोद्यता ॥ ५८॥
मायेव शंवरस्यैषा कालनेमेरिवायता ।
ऐन्द्रजालिकराजस्य विश्वकर्तुर्मयस्य वा ॥ ५९॥
गन्धर्वशावरादीनां मायामयमहीरुहैः ।
वाटिका रामचन्द्रस्य त्रिलोक्यां प्रथिता मुने ॥ ६०॥
हिमाद्रिमृगपक्ष्मादिकृतास्तरणचित्रिता ।
क्वचित्क्वचित्प्रदेशे सा सीताहेतोरिति श्रुते ॥ ६१॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमपटले
रामरहस्ये अशोकवनिका प्रवेश तद्गुण प्रकाशनो नाम पञ्चमोऽध्यायः ५॥
६. अथ षष्ठोऽध्यायः ।
शिव उवाच-
हनुमान् मुनि हंसाय राजहंससुतस्य ताम् ।
रामस्यवक्तुमारेभे वनकेलिमलौकिकीम् ॥ १॥
श्रीहनुमानुवाच-
प्रविश्यचास्थितं राममशोकवनिकां प्रियाः ।
योषितोऽन्वविशन्नैका रूपयौवन शोभनाः ॥ २॥
योगिनां सिद्धयस्तज्जाः सिद्धं योगदशा इव ।
योगिन्यस्ता प्रवीणाश्च सङ्गीतादिविशारदाः ॥ ३॥
महार्हा प्रमदा नार्यो दिव्यांवरविभूषणाः ।
मुग्धा सिद्धाश्च सस्निग्धा राजन्याः प्रमदोत्तमाः ॥ ४॥
वैश्याः शूद्राश्च शुचयस्तपोऽभ्यासतपोदिताः ।
योग्या एव भवन्त्यस्थ साकाङ्क्षा द्देवकन्यकाः ॥ ५॥
निसर्गसुन्दरोऽप्यस्य मधुरः पेशलः स्वतः ।
तत्रासीद्योषितां मध्ये जगन्मोहनमोहनः ॥ ६॥
सीताप्यास तथा रूपारूपि राजमनः प्रिया ।
आश्विनेसरसीवैषा पक्षिपद्मादि शोभिनी ॥ ७॥
आह्लादिनी तु दम्पत्योरशोकवनिकैवसा ।
तस्यां च दम्पती एवं नेत्रोत्सवतया स्थितौ ॥ ८॥
एकनेत्रं तयोरासीन्मिथोरूपवशीकृतम् ।
वनश्रिया हृतं चान्यद्विरोधोपि तयोरभृत् ॥ ९॥
मञ्जीरकिङ्किणीक्वाणे श्रोत्रमासीत्तयोर्मिथः ।
आरेभे भृङ्गजातीनां श्रोत्रमन्यच्च सुस्थिरम् ॥ १०॥
भृङ्गरावस्तिरोधत्तेद् गीतवादित्रघोषणम् ।
मञ्जीरनूपुरारावैः रामाणां सतिरोहितम् ॥ ११॥
रामाणां कोकिलानाञ्च भूमिभूमिरुहाश्रया ।
ज्ञातानि तु कुलान्यसन्नान्य एषां भिदा विदौ ॥ १२॥
हरिद्वर्णापि सा भूमिःशाद्वलैरुपरिस्थितैः ।
रक्ता पादतलच्छाया सङ्गादास तु योषिताम् ॥ १३॥
तत्र रामः प्रियैर्वाक्यैरामामाह्लादः यच्छनैः ।
वनिकां दर्शयामास सिंहगामीभगामिनीम् ॥ १४॥
सर्वरक्तमिवाभाति पश्यतो मे तवाधरम् ।
जपादिसुतरां सीते रक्तं तन्मे मनस्त्वयि ॥ १५॥
विल्वं प्रियतरं मह्यमानादिकफलेष्वपि ।
तव स्तनतुलां लेशं यद्विभर्ति यशस्विनि ॥ १६॥
हन्तुं मृगान्न जायेत मनो मे मिथिलोद्भवे ।
तेषु त्वन्नेत्रसादृश्यं किञ्चिद्भावयतो वने ॥ १७॥
देवि विंवाधरायास्ते स्मृतेस्तु मम युज्यते ।
यदा स्वादयतो द्राक्षाः पक्वाः सद्य उपाहृताः ॥ १८॥
कान्तिगन्धिंलवायोगादङ्गानां तव जानकि ।
केतकी केतकीत्येव ख्यातिं जाता सकण्टका ॥ १९॥
मयापि भ्रमरेणैव त्यक्तश्चम्पक उद्रजाः ।
तवाङ्गकान्तिगन्धानामनुग्राणां निषेवनात् ॥ २०॥
अग्नेस्त्वं गर्भभूतासि जातरूपं तु तस्य त्विट् ।
कथमङ्गोपमानं स्याद्गौराङ्गी तव जानकि ॥ २१॥
भवदायतनत्वाङ्घ्रिकमलेषु तपस्विनी ।
महत्वं न स्वतस्तेषु पद्ममालिनि भूसुते ॥ २२॥
तारुण्यमार्दवं नापि पल्लवेषु नवेष्वपि ।
किन्तु ते पदयोरेव तदेव द्वयमङ्गने ॥ २३॥
रुषाक्षामशरीरत्वान्मध्यं सिंहस्य यत्कृशम् ।
नैति मध्येन ते तौल्यं स्वभादणुना प्रिये ॥ २४॥
वेणीं विलोक्य ते तापो यः पापस्य विजायते ।
हालाहलन्तु नागस्य स एवान्तकसन्निभम् ॥ २५॥
मणिं वेणीमुखे दृष्ट्वा नागोपि विदधे मणिम् ।
तथात्वे भीषयन्नेष सर्वैरपि निहन्यते ॥ २६॥
गुणाधिक्यवती द्वैष्यात्प्रेयसी स्यात्कलङ्कितः ।
त्वद्वक्त्रस्य गुणेर्ष्यायाश्चन्द्रवद्विगुणोजनः ॥ २७॥
तवोरूगुणपुष्कल्यादीक्षितात्कैदलीगता ।
निः सारत्वं जगद्भूतं सारभूते जलाश्रयाः ॥ २८॥
श्रोणी ते सौख्यसौधस्य निःश्रेणी मम शोभने ।
यत्र स्थितस्य मे स्वर्गो भूमेर्गत इवेयते ॥ २९॥
दक्षिणस्ते भुजो मुक्तिर्मुक्तिर्वामोपि वामदृक् ।
तयोरन्तर्गतस्याथ किं मे दुर्लभमुत्तमम् ॥ ३०॥
वल्यः पुष्पमुचो भीरु नित्यं त्वामनुकुर्वते ।
वावदूकां प्रसङ्गे तु नानावादमरुत्सु च ॥ ३१॥
या विद्रुमलता युक्ता विमुक्तालतिकाश्च ताः ।
पद्मरागलसन्मुक्तां मुक्तात्वामनुसंश्रिता ॥ ३२॥
ये ये ते स्मारका वृत्ता ते तेऽतीव प्रिया मम ।
यथाऽयं दाडिमः सुभ्रु सुदत्यास्तव भूमिभूः ॥ ३३॥
सीते ते गुणमात्राया योगाद्योग्या भवन्त्यमी ।
मीना मृगा खगा वापि लता वा वनितापशुः ॥ ३४॥
यथायं गजराजः श्रीराज्ञां भूतिविभूषणः ।
गत्या ते स्वीकृतो लेशान्मैथिलेशसुते यतः ॥ ३५॥
चन्दनाचलसम्बन्धी वायुः सर्वस्तुतोप्यसौ ।
न ते श्वासानिलेनात्र तुलामायान्मुनिस्तुते ॥ ३६॥
कर्पूरः करभोरु त्वद्धासत्रासादिवातुरः ।
उड्डीयते कृताभीति रप्यतीव शुचिस्मिते ॥ ३७॥
सोऽनुभवितुमेवाहं जानाम्यङ्गचयं तव ।
न वा वर्णयितुं सीते जाने जातु जनेडिते ॥ ३८॥
अन्योन्यं तौ च सन्यस्य पीनयोरंशयोर्भुजे ।
चेरतुर्वनराजीषुकामिनौ द्वौ ततः परम् ॥ ३९॥
कोकिलौ सारसौहंसौ दात्यूहो भ्रमरौ शुकौ ।
सारिको खञ्जनौ मीनौ कोकौ पारावतौ यथा ॥ ४०॥
तथा तौ सरसौ स्वैरमधुपानमदोद्धतौ ।
निविडाशे वने तस्मिन्वीथ्यां वीथ्यां विजर्हतुः ॥ ४१॥
दृश्यते न यदा क्वापि रामो रामामनोहरः ।
निकुञ्जेन निलीयैव किं हि कुर्यादिति प्रिया ॥ ४२॥
तदा नाथेति वादिन्यां प्रेयस्यां प्रणयी पुनः ।
अयमस्मि पुरस्तेहमितियात्यपरोक्षताम् ॥ ४३॥
प्रयस्यापि न ते नासौ दृश्यते यदि रुद्यते ।
भिद्यते हृदयं तर्हि प्रत्यक्षाशु ततोऽभवत् ॥ ४४॥
गृहित्वा च तरोः शाखे तोलयन्तौ तनू निजे ।
पुष्पाणिपातयन्तौ तौ प्रेयसौ शिरसा मिथः ॥ ४५॥
सहास्यं नेत्रयोर्लास्यं कटाक्षैरिह तेनतुः ।
मुग्धत्वान्मधुमत्तत्वात्कामित्वाच्च व्यपत्रपौ ॥ ४६॥
कर्णोत्तं सान्प्रकुर्वन्ते कर्णिकारैश्च तौ मिथः ।
पूरयन्तौ च सत्पुष्पैर्वक्रस्निग्धासितान्कचान् ॥ ४७॥
माले निर्माय पुष्पैस्तौ धारयन्तौ मिथः प्रियो ।
रेमतुः पुष्पश्य्यायां लतागेहे गुरुस्मरौ ॥ ४८॥
उन्नमय्य प्रियां मध्ये हस्तागम्ये फलादिके ।
ग्राहयन्हास्यकृन्मोक्तुमिच्छति न तां लताम् ॥ ४६॥
श्रमस्वेदमुखीं बालां प्रेयसीं सदयोदधिः ।
पौष्येण व्यजनेनासौ वी जयन्हसति प्रियः ॥ ५०॥
मन्दं मन्दं चलत्यग्रे व्यूहन्शाखा लता अपि ।
लताजालप्रसक्तां तां मोचयंश्च हसत्यसौ ॥ ५१॥
पुष्पैर्वृतैः प्रिया शुष्कैर्विद्धपादा भवेत्ततः ।
शोधयन्पद्धतिं तस्याः पादौ च स्पृशति प्रियः ॥ ५२॥
नामध्येयानि वृक्षाणामेकैकस्य च पृच्छति ।
प्रिया तस्यै प्रियस्तानि कथयन्नति वर्तते ॥ ५३॥
वहत्यारोप्यपृष्ठेन वनवीथीप्रदर्शकः ।
मृद्वीं मृदुः मृदुः प्रेयान्हस्तेन भूरुह प्रियाम् ॥ ५४॥
मालतीपुष्पमालातु खेदयेदतिधारणे ।
ततोमृदुलमप्येनं नासौ सीता लघीयसी ॥ ५५॥
उपविश्य च शाखायाः शाद्वले च शिलातले ।
प्रियाङ्के च प्रियालंव्य करं पत्युश्च गच्छति ॥ ५६॥
भीता भ्रमरसञ्चारात्पीताम्बरसमावृता ।
आश्लिष्य मैथिली बाला कान्तं गच्छति काननम् ॥ ५७॥
भीषितावानरेणेहरोषिता च प्रिया सती ।
सा तं निःसारयामास कान्तं चालिङ्ग्य काननात् ॥ ५८॥
सीता न कोकिला शाखा सीता सन्नापि मोहिता ।
अस्मदीयेति सीताया वाण्या पठति वै शुकः ॥ ५९॥
यत्र यत्र वने सीता शावलालनगर्धिनी ।
तत्र तत्र मृगा मृग्याः शावा अप्यनुदुद्रुवुः ॥ ६०॥
अनुपस्थितदासीकां सीतां काननदेवताः ।
परिचेरुः प्रियैर्वाक्यैर्मत्तैर्नृत्यैश्च लोचनैः ॥ ६१॥
पुष्पपल्लवसछिन्नशाखास्वीयां समाहिता ।
इन्द्राणीं मोहयामास देवोद्यानविहारिणीम् ॥ ६२॥
वामावामपुरः पृष्ठा सन्नासन्नैव जानकी ।
मोहयन्ती वने दृष्टा कान्तेनापि चला चला ॥ ६३॥
सञ्चरन्ती वने सीता लीलानिर्झरनादिनी ।
सौदामिनीं स्वयाकान्त्या मोहयामास भामिनी ॥ ६४॥
नृत्यन्तं शिखिनं दृष्ट्वा नर्तयन्तीं प्रियं स्वयम् ।
अनुचक्रे मयूरीं सा बाला लीलानुजीविनी ॥ ६५॥
गृहीतकमलादोर्भ्यां सा सीतारण्यवासिनीम् ।
समुद्रमथनोद्भूतां लक्ष्मीं देवीं जिगीषया ॥ ६६॥
हंसीश्च सारसीश्चैव रममाणाः प्रियैः सह ।
कान्तानुमोदिता सीताऽप्यन्वधावजिधृक्षया ॥ ६७॥
व्याजनिद्रौ च सुप्तौ तौ कयाप्याल्या प्रबोधितौ ।
प्रकुप्य सहसा तस्यै हसन्तौ तौ प्रसेदतुः ॥ ६८॥
दूरोज्झित सखी यूथौ लीलार्थकृतविग्रहौ ।
सीतारामौ वनेऽव्येव विहरन्तौ सदा स्थितो ॥ ६९॥
किं चिद्धास्याय च प्रेयान् सुप्तः कुञ्जेऽरुणां शुकः ।
निःससार शनैस्तस्मादज्ञातप्रिययांशुकात् ॥ ७०॥
कस्याश्चिद्रूपमास्थाय बालायाः प्रिय एव सः ।
चिन्वन्पुष्पाणि सस्मेर आजगाम प्रियान्तिके ॥ ७१॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमपटले
रामरासे वनप्रदर्शन प्रकाशनो नाम षष्ठोऽध्यायः ६॥
७. अथ सप्तमोऽध्यायः ।
गौर्य्युवाच-
इयं भगवतस्तस्य लीला रामस्य सुन्दरी ।
पूर्वं त्वया कुतो नोक्ता श्रुतौ रामायणस्य च ॥ १॥
श्रीशिव उवाच-
ईदृशी गोप्यते लीला सदा मुनिजनैर्जनैः ।
अर्थकामपरः सर्वो नास्य भक्तिधनो यतः ॥ २॥
अत्र केवलभक्तस्य नान्येषामधिकारिता ।
ऐश्वर्य श्रवणे तेषां भक्तस्योभययोग्यता ॥ ३॥
ऐश्वर्यश्रवणे तस्य भक्तिः पूर्वं त्वपेक्षिता ।
माधुर्यश्रवणे त्वद्य पूर्णापत्ती विलोक्यते ॥ ४॥
पूर्णैश्वर्यबुधस्यापि माधुर्यश्रवणं विना ।
भक्तिर्नजायते पूर्णा शुष्कज्ञानं तु निष्फलम् ॥ ५॥
अत्यर्थप्रियरामस्य निष्कामस्य च गौरिसा ।
रामः सीताप्रियोपि स्यादत्यर्थप्रियसज्जनः ॥ ६॥
अगस्त्यो ज्ञानभक्तिभ्यामधिकारद्वयान्वितः ।
हनूमान्केवलो भक्तो माधुर्यचरिताश्रयः ॥ ७॥
सर्वाधिकारिता लोके रामायणकथा श्रुतौ ।
तत्र सञ्जातशुद्धीनामत्र स्यादधिकारिता ॥ ८॥
रामायणस्य कृत्स्नस्य वक्ता तु भगवान्स्वयम् ।
ब्रह्मा चतुर्मुखश्चान्ये तस्योच्छिष्ट भुजःप्रिये ॥ ९॥
अनन्तत्वेपि कोट्यानां शतेनास्य प्रपञ्चनम् ।
रामायणस्य बुध्यर्थं कृतं तेन विजानता ॥ १०॥
तथेह वाङ्मयं सर्वं निमग्नं गगने यथा ।
अम्बुमात्रं यथा सिन्धौ देव मात्रं यथा हरौ ॥ ११॥
अर्थमात्रं यथा भूमौ मन्त्रमात्रं यथा श्रुतौ ।
नाममात्रं तथा नाम्नि रामेति विदिते विभौ ॥ १२॥
यथा सर्वः प्रपञ्चोयं प्रकृतौ विकृतैः कृतः ।
नहि देवोपि च शक्नोति श्रोतुं रामायणं समम् ॥ १३॥
एकदेशेन सर्वोपि प्रपञ्चः क्रियते विभोः ।
विशिष्टं चरितं तस्य पृष्टं यन्मुनिभूभुजा ॥ १४॥
अञ्जनानन्दनस्तस्मै जगादगदतां वरः ।
प्रिया पादाम्बुजे स्पृष्टा सोवाच प्रियरूपिणी ॥ १५॥
चिरात् प्राणेश्वरः सोऽयं सुप्तो राज्ञि प्रबोध्यताम् ।
इत्युक्ता जानकी देवी तयेमां प्रति वक्ति सा ॥ १६॥
श्रान्तो वनविहारेण नेत्रहारेण भूरिणा ।
सुकुमारतरः सुप्तो निद्रायां च कथञ्चन ॥ १७॥
प्राणेप्सितः कथं सोयं मयाद्य प्रतिबोध्यताम् ।
उन्निद्रः स विकुप्येन् मे चक्रवर्तिसुतः प्रियः ॥ १८॥
नष्टश्रान्तिर्गतालस्यः स्वयमेव प्रबुध्यते ।
आली सा सीतयेत्युक्ता वीणावाणीमुवाचताम् ॥ १९॥
देवित्वदाज्ञया देवं सन्ध्याकाल उपस्थिते ।
एनं प्रबोधयाम्येवगीतैर्वीणादिवादनैः ॥ २०॥
प्रबुद्धोपि न कुप्येद्धि स्वायुष्कामो युवा सुखी ।
इति बालाभिरालीभिर्गीतेषु मधुरेष्वपि ॥ २१॥
प्रवृत्तेषु जजागार नासीत्तत्र न नायकः ।
यदा मुग्धाभिराकृष्टे पीते वस्त्रे न किञ्चन ॥ २२॥
शय्या शून्यैव सन्दृष्ट्वा पुष्पा दृश्यत खेदिनी ।
ततो दुःखतरं प्रापुर्योषित्सङ्घाः सहस्रशः ॥ २३॥
पुष्पाण्यैकैकशस्तस्याः प्रियार्थे समसोधयन् ।
परितो मृगयामासुर्वने विस्तृत गह्वरे ॥ २४॥
वृक्षं वृक्षं च पृच्छन्त्यो वभ्रमुर्वनराजिषु ।
कश्चिन् मुग्धास्तदामुग्धा अपराः प्रतितूचे रे ॥ २५॥
किमर्थं मृग्यतेऽन्यत्र मृग्यमाणोपि दुर्ल्लभः ।
मुग्धो राजेन्द्रसूनुस्तु कञ्चुकीषु निगूहितः ॥ २६॥
मृग्यता किल कञ्चुक्यो मुक्ता वः कुचमण्डलात् ।
मल्लिका शोभिते यद्वा धम्मिल्ले च स्वके स्वके ॥ २७॥
वनञ्च मृग्यतामाशु भृङ्गै नियतसोन्यथा ।
नेत्रेषु हृदयेष्वाराद्रं भारम्येषु चोरुषु ॥ २८॥
हारेषु कुण्डलादौ च केयूरकटकादिषु ।
लभ्येत सोधिकः प्रेयानञ्जनासञ्जनीषु च ॥ २९॥
नैकाकी स वने तिष्ठेद् भीरुभीरुः सुखैधितः ।
प्रेयो वा कुत्र चित्स्वाङ्गे गोपितो रसलुब्धया ॥ ३०॥
योगिन्या मोहितो वापि ते उभे इह तिष्ठतः ।
प्रयोविश्लेशसन्तप्तां सीतां तासु सखीषु च ॥ ३१॥
प्रावोचन्मुह्यमानाषु कर्णे कापि च योगि नी ।
अयमेव सखीवेषो दक्षिणे दक्षिणश्छली ॥ ३२॥
दयिते दपितं विद्धि वद मा मा हरार्चिते ।
इत्यज्ञाततया सीता शिक्षिता निपुणा हिताः ॥ ३३॥
वियुज्यान्वेष्यतां स्वामी सख्या सर्वाभिरन्यगः ।
ततस्ता द्वन्द्वशो याताः प्रेयसः पदवीमनु ॥ ३४॥
यया लभ्यः प्रियो नः स्यात्तस्या एवेति निश्चिता ।
सीतापि सह योगिन्या मूर्खेव प्रययौ वनम् ॥ ३५॥
विस्मिता चरितैस्तस्य कोपशान्तिसमन्विता ।
ज्ञातात्मदयिताचारां सीतामास्वासितां तया ॥ ३६॥
प्रियो रूपवतीं सम्यक कृत्वा कौतुक केलये ।
सखीभ्यो दर्शयामास प्रियोयमिति वादिनी ॥ ३७॥
लब्धो मया ममैवैष नान्यस्या इति योगिनी ।
ततः सर्वाभिरागत्य प्रियो दृष्टो न जानकी ॥ ३८॥
इतिपूर्वैव सीतेति कल्पिता प्रियकारणात् ।
ततः सङ्गमयामासुस्तयाकान्तमिवावने ॥ ३९॥
योगिनी प्रापितज्ञाना गूढागूढसुचिस्मिता ।
मिथो ज्ञातस्वरूपौ तौ मिथोदर्शन हर्षितौ ॥ ४०॥
हर्षयामासतुः कान्तौ सखीरत्यर्थमीक्षणैः ।
एतद्वां मिथुनं नित्यं पश्येम क्षेमयोगकृत् ॥ ४१॥
इत्थमेव चिरं जीवादित्याशानः परं प्रियो ।
नैतद्विधिं विधातापि विधातुं विभुरेव सः ॥ ४२॥
य दीदं तेन सृष्टं स्यात्सृज्येतान्यदपीदृशम् ।
यन्मायामयमेवेदं मिथ्या न मिथुनं ततः ॥ ४३॥
आविरास्तेति पूर्णान्नो भाग्याद्भूमितलोपरि ।
इति प्रौढ़ा वचोभङ्गीतरङ्गितदृशौ प्रियौ ॥ ४४॥
निकुञ्जे तु लतागेहे स्वागातामागतानुगौ ।
स्वां स्वां स्रजं तु गुम्फन्तु रामणीयकरञ्जिताम् ॥ ४५॥
इत्युक्त्वारमणौ रन्तुमेकान्तकृतकेतनौ ।
अगम्यं कुञ्जमासाद्य स्थितौ स्मेरमुखाम्बुजौ ॥ ४६॥
विपरीते समारब्धे सुरते तत्र विभ्रतौ ।
विपरीते निजेरूपे तयोरासीत्स्मरोत्सवः ॥ ४७॥
ततः सखीसमाजेषु मधुरान्मधुरं मृदु ।
प्रावर्तत च सङ्गीतं ताभ्यामपि च सुश्रुतम् ॥ ४८॥
निवर्त्य च स्वसङ्गीतं काभिश्चिद्धनिताःसह ।
शुश्रुविरे रहस्यानि वचांसि तु तयोरपि ॥ ४९॥
कथम्प्रिय स्त्रियावेषाच्छन्नो भिन्नहृदा त्वया ।
वाणीरूपपटिम्ना च ज्ञातोहं शिवमोहनः ॥ ५०॥
भवत्यामपि पश्यन्त्यां पटोदन्तर्हितस्त्वहम् ।
निश्चक्रामाबुधे तस्मान्मन्येथास्त्वं पटोः पटुम् ॥ ५१॥
वञ्चनेन पटीयांस्त्वं भवितुं नार्हसि प्रिय ।
स्रीत्वेपि तेजसा स्पष्टो मया ज्ञातोसि भूरिणा ॥ ५२॥
पटीयसीं तु मामेव प्रिय वेषविचेष्टितैः ।
मन्यस्व मधुरापाङ्गीं मधुमत्तविलोचनाम् ॥ ५३॥
साहं मुग्धा जडा बाला ज्ञातश्वेताशिता च या ।
चकाराकाशमाकाशादधस्ताच्चोपरिक्षितिम् ।
(चकाराधः क्षितेर्व्योम व्योम्नोऽधस्ताद्भुवस्तलम् ॥ वा. पा.)॥ ५४॥
नेदं तव विशालाक्षि ममरूपावधारणे ।
कौशलं किन्तु योगिन्या कस्याश्चित्सुहृदस्त्वयि ॥ ५५॥
मुग्धा एव भवन्तीह सुखिन्यो नतु पण्डिताः ।
स्त्रियस्तस्मादहं प्रायोमुग्धापि तव हर्षिणी ॥ ५६॥
पूजामानविलोपो हि पण्डितायाः सुदुःसहः ।
मूर्खा स्वीयापमानाद्धिपत्या नैव विरुध्यते ॥ ५७॥
मूर्खयोषित्सहस्त्रेण क्रीडन्ति गृहमेधिनः ।
योषित्सुकुशलामेकां गृहमेधीयकर्मसु ॥ ५८॥
दास्येवाहं भविष्यामि मूर्खेत्यर्थ विलोपिनी ।
विदुष्यास्तेतु भाविन्याः कस्याश्चिद्गृहमेधिनः ॥ ५९॥
रुष्टा वदसिमामेवं प्राणेभ्योऽपि गरीयसी ।
अत्रैव तव मुग्धत्वं स्फुटमेवमवेक्ष्यते ॥ ६०॥
रुष्टा चेत्किं करिष्यामि तवा न्यामभिकाङ्क्षतः ।
धमार्थचतुरां पत्नीं मूर्खाहं तु व्यपेक्षिता ॥ ६१॥
त्वमेव समयं प्राप्य भविष्या विदुषीतमा ।
अर्थोपधायक मौढ्यंस्वीकृतं गुणवद्बुधे ॥ ६२॥
प्रेयसः करमुत्क्षिप्य चण्डीं किं चित्सिक्षणा ।
अपसृत्य च सा किं चिद्रुरोदभयकातरा ॥ ६३॥
पश्यन्तीमृग बालेवशपन्ती विपरीतवत् ।
किं चित्कालं प्रियेणासावन्वभूयति भूरिदा ॥ ६४॥
सङ्गस्तदैव ते कार्यो यदाऽहं विदुषीतमा ।
भविष्यामि न मूर्खायाः सङ्गो रागाय ते भवेत् ॥ ६५॥
केनविघ्नितकामस्त्वं बद्धशक्तिश्च केन वा ।
येन त्वं पण्डितां पत्नीं नाभि गच्छसि सम्प्रति ॥ ६६॥
यथन्य स्त्रीप्रसङ्गोऽसौ स्वप्नादावपि दुर्लभः ।
तर्ह्येवं स्त्री विवेकोयं कान्तत्वां कुत आगतः ॥ ६७॥
गन्धर्वामरनागानां राज्ञां शूद्रविशामपि ।
कन्यास्तव विशालाक्ष्यो योगिन्यः परमा अपि ॥ ६८॥
सर्वा वात्स्यायनी विद्या विनीताः स्वादुपण्डिताः ।
याः सन्तीहमनस्ताभिर्हृतं ते चलचेतसः ॥ ६९॥
इत ऊर्ध्वं हृतस्वान्तो गतातङ्को रमस्व च ।
आभिराभीरकन्याभिरन्याभिरनिशं प्रिय ॥ ७०॥
भग्नेचित्ते क्रियत् कालं भिन्ने पात्रे जलादिवत् ।
सुखं तिष्ठेत्ततस्त्वत्त औदासीन्यं वरं मम ॥ ७१॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमेपटले
रामरहस्ये वनकेलि प्रकाशनोनाम सप्तमोऽध्यायः ७॥
८. अथ अष्टमोऽध्यायः ।
श्रीशिव उवाच-
सर्वप्राणिप्रियस्यैव रामस्यानुनयाश्रयाः ।
वाचः पल्लवयन्नाह प्रेमाम्भोधिर्मरुत्सुतः ॥ १॥
उक्तं हास्यविनोदाय वाक्यं हासाय तं प्रियः ।
मत्वा चोपससादाऽसौ वैदेहीं सुमनःप्रियाम् ॥ २॥
दोर्भ्यामादाय मृद्वीं तां वक्षसाश्लिष्य चोचिवान् ।
सौदामिनीमिवाम्भोदे स्फुरन्तीमुरसि प्रियः ॥ ३॥
हास्यायैव मयैतत्ते वाक्यमुक्तं हि तेषिणी ।
पादौस्पृशामि ते भीरु माखिद खेदनाशिनी ॥ ४॥
त्वं तु मे कल्पवल्लीव भृङ्गराजापि तस्य यत् ।
नोपेक्ष्यान्या न चापेक्ष्या यथा वा कण्टकारिणा ॥ ५॥
नित्या त्वं पद्मिनी नारी पद्मगन्धिनि पद्मदृक् ।
अन्या नालीव नो कन्या मान्यालेर्मम चासमा ॥ ६॥
पूर्णाचन्द्रमसो ज्योत्स्ना चकोरस्यामृतप्रदा ।
रामस्यमे सदा श्यामे त्वमेव किल कामधुक् ॥ ७॥
कलेव कमले वान्याप्यस्तीति विदितं तु मे ।
ममापि हृदये किं ते वसतीति दृशङ्गता ॥ ८॥
हासानामनभिज्ञां त्वां योहं वाले जहास यत् ।
सोहमेव भवाम्यज्ञस्तन्मे त्वं क्षन्तुमर्हसि ॥ ९॥
रम्भागर्भसमं चेतो योषायाः प्रियजोषणात् ।
तुल्यं खादिरगर्भेण पुंसश्चित्तमपेक्षितम् ॥ १०॥
नवनीत समस्येव चित्तस्य मम रूपिणी ।
त्वं हि वन्हिशिखेवासि कथं धीरेण भूयते ॥ ११॥
तवस्पर्शादिजं भुक्त्वा सुखं त्वन्यत्र दुर्लभम् ।
विरज्येत कथं विद्वान्मादृङ् मानिनि जातुचित् ॥ १२॥
नामाऽपि तव मां रामे घूर्णयेत्त्वं कुतो न तु ।
गन्धस्तवाङ्गसम्बन्धी वघ्नीयात्त्वं कुतो न माम् ॥ १३॥
आभूषणस्वनस्ते त्वां प्रत्युद्गन्तुं मनः स्विनि ।
चेष्टयेन्मां कुतो न त्वं लौहं चुम्बकवत् पुनः ॥ १४॥
रोमाञ्चये पुरेणीदृक् त्वद्वस्त्राभरणानि माम् ।
साक्षात्वं न कुतो वक्रकेशि क्लेशविनाशिनी ॥ १५॥
भवत्संवन्धियत्किञ्चिद्दृष्टं वा यदि कर्णि तम् ।
हर्षं वर्षमिवात्यर्थं कुर्यात्त्वं न कुतः शुभे ॥ १६॥
न त्वां मूर्खेति जानामि सर्वज्ञानवतीं प्रिये ।
किन्तु स्त्रीदोंषराहित्यं त्वय्ये वेति स्वभावतः ॥ १७॥
कौटिल्यं यस्य नास्तीति व्रते मूर्खेतितं जनः ।
न स्वार्थकुशलो धूर्तो वञ्चनीयोऽमुना जनः ॥ १८॥
त्वयानुमी (नी)यमानो यो रागोऽन्यासु प्रसङ्गतः ।
स त्वय्येवेति निश्चित्य सुखमास्स्व रमस्व च ॥ १९॥
मद्भिन्नपुरुषागम्ये रहस्येकाकिनीं स्थिताम् ।
त्वां मां चान्याभिचारेण सेवेरन्का इमा विना ॥ २०॥
सर्व स्त्रीपुरुषौघानामहं स्वामीतिनिश्चयात् ।
मम सर्वेश्वरस्यापि स्वामिन्येषा त्व मे वहि ॥ २१॥
शिक्षायां गुण एवस्यान्न दोषो दोषनाशिनी ।
न पुनः करवाणीत्थं वाणीं श्रुत्वा तवेदृशीम् ॥ २२॥
ममकोपोय मुत्सिक्तदुग्धवज्जलसेवनात् ।
सीते तव मुखाम्भोजदर्शनादुपशाम्यति ॥ २३॥
तिरोधीयेत सङ्कोचे मुखेन्दोस्तव जानकि ।
आनन्दाव्धिर्म एधेत तवास्मितविधूदये ॥ २४॥
न त्वां हातुं मनाग्बुद्धया कीर्तिरात्मवता यथा ।
अनन्या त्वं मया सीते चन्द्रेणेव च चन्द्रिका ॥ २५॥
एवं साममुखैर्वाक्यैः कान्तेनागदिता सती ।
ऊचे स्मेरमुखी सीता गाढ़ं माधुर्य्यभाषिणी ॥ २६॥
कदा रुष्टा त्वया दृष्टा प्रेयोहं प्रियवादिनी ।
भ्रान्त्यैवाद्यानुनीतास्मि किङ्करोमितथापि ते ॥ २७॥
रोष्टुत्विष्ट न जानामि कथं स्त्रीभिस्तु रुष्यते ।
कदा वा शिक्षितोमानो मया नाम प्रियस्त्रिया ॥ २८॥
दृष्टं दंशेनयन्मर्म नेत्रे च सुमनोरजः ।
यातं तेन मयारोषाच्छप्तं चा रुदितं प्रिय ॥ २९॥
त्वयामे पण्डितेनापि न ज्ञाता मर्मवेदना ।
नाहं पृष्टा न च स्पृष्टा कामान्धेन त्वया रहः ॥ ३०॥
तस्योपरि पुनर्मूर्खां मामवादीरनाथवत् ।
निजचातुर्य्यमेव त्वं व्यञ्जयन् विहसन्नपि ॥ ३१॥
स्वदारेष्व स्वदारेषु रन्तुं जातमनोरथः ।
मया किं प्रतिषिध्येथाः स्वामी सर्वेषु वस्तुषु ॥ ३२॥
बव्हीनामेव नारीणां भोक्ता जानामि सर्वथा ।
गुणदोषान्न चैकस्यास्तस्यामेव स्थिरस्पृहः ॥ ३३॥
गुणोद्रेकवती या तु बव्हीनां वरयोषिताम् ।
एकस्यामेव तस्यां चेद्गुणज्ञो रमते ततः ॥ ३४॥
श्रुतं चन्द्रमसैकै वरोहिणीवर रोहणी ।
नित्यं सम्भुज्यतेऽन्यासु विद्यमाना स्वपीतिमे ॥ ३५॥
विष्णोर्लक्ष्मीः शिवस्योमा वासवस्य शची सती ।
पुष्पेषोश्च रतिः सौम्या सर्वेषामपि सर्वदा ॥ ३६॥
एकैका श्रयते पत्नी धर्मकामार्थवर्द्धिनी ।
शृङ्गारे सर्वथा धर्माविरोधो न च सम्मतः ॥ ३७॥
नारी वेषोभवान्यादृक् तादृशी तव सुन्दरी ।
अर्हत्यर्द्धासनेस्थातुं नाहं हीनागुणैः शुभैः ॥ ३८॥
माला तव भविष्यामि वैजयन्ती मनोरमा ।
पादुके वा प्रिया काञ्ची नूपूरौ पदिकोथवा ॥ ३९॥
उत्तरीयोत्तरीये वा (कटिवस्त्रोत्तरीये वा)कुण्डले कटकाबुत ।
छत्रं वा व्यजनं वापि पर्य्यङ्कः प्रच्छदोथवा ॥ ४०॥
केयूरौ मुद्रिका वापि चामरौ चषकोथवा ।
भृङ्गारो मुकरो वापि गन्धो वा सुरभिस्तव ॥ ४१॥
अङ्गसंयोग एवास्तां येन केनापि हेतुना ।
अन्तर न सहिष्येहं वारिशैत्यादिवद्विभो ॥ ४२॥
दर्शनान्नापयास्यामि सेवक्येव सती सती ।
साम्यं तेन भजिष्येहमेषामेऽस्तु परास्थितिः ॥ ४३॥
पालिता जनकेनाहमिति तेनास्मि जानकी ।
अज्ञातज्ञातगोत्रादिर्भित्वा भूतलमुत्थिता ॥ ४४॥
त्वं तु मूर्द्धाभिषिक्तानां राजन्यानां कुलोद्भवः ।
आवयोरन्त र दीर्घं तेनास्मि तव दासिका ॥ ४५॥
सीता भूत्वा परं त्वेतन्नोपासे चापरां स्त्रियम् ।
इति व्रतं न हास्यामि दास्याएतन्न मामकम् ॥ ४६॥
तस्मात्तुभ्यं नमाम्येषाह जातांऽजलिरुज्वला ।
दासीमेव निजां सीतां दासोस्मीति तु मा वद ॥ ४७॥
इति चोक्तवतीं कान्तां श्रान्तास्मीति पुनर्वदाम् ।
स्वभास्मेरमुखः प्रयान्पुनः स्मेरो जगाद सः ॥ ४८॥
सर्वे रुच्चै प्रकारैस्त्वं तुल्यैवासि मया प्रिये ।
अधिक्येऽपि न दोषोस्ति यस्मान्मे स्तोत्रमेव तत् ॥ ४९॥
अन्योन्यं स्वाम्यदास्यादिः प्रीतः परमपोषकः ।
नित्यं स्याद्दम्पतीनां तु स्वाङ्गानामिव सेवनम् ॥ ५०॥
एतत्संवादमित्थं तौ कृत्वान्यत्र च जग्मतुः ।
सुमनांस्यवचिन्वन्तौ सीताभिर्ददृशे पुरः ॥ ५१॥
चतुःसरां स्रजं पृष्टे सृजन्कान्तोप्यऽदृश्यत् ।
मालापुष्प विशालेयं मालास्सृष्टा मयेति च ॥ ५२॥
सङ्गता दम्पतीभ्यां ता वदन्त्यः प्रमदोत्तमाः ॥ ५३॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां रामरहस्ये पञ्चमपटले
दम्पत्योर्मिथः प्रेमप्रकाशनो नामाष्टमोऽध्यायः ८॥
९. अथ नवमोऽध्यायः ।
श्रीशिव उवाच-
श्रृण्वन् राम रहस्यानि प्रसीदन्मुनिसत्तमः ।
तत्प्रीत्यतिशयेनैव सन्नुनोद पुनः कपिम् ॥ १॥
सार्द्धं सर्वाभिरालीभिर्वनमाली युतानिमा ।
रामो रामप्रिया चोपाविशत्साद्वलसंस्तरे ॥ २॥
स्वया प्रीत्या सखीभिश्चयोगिन्याथ कयापिच ।
प्रेर्य्यमाणः प्रियां रामश्चक्रे शृङ्गारशोभिताम् ॥ ३॥
चक्रे प्रणयिनं तद्वत्सीतापि प्रणयादमुम ।
सवर्वाङ्गसुन्दरमपि स्वभावादति सुन्दरम् ॥ ४॥
अन्योन्यं सह चर्योपि शृङ्गारै रतिभूषिता ।
आसन्नासन्नतरुणा रामोत्सव बुभुक्षया ॥ ५॥
अन्धांसि सीधुकल्पानि विविधानि वहूनि च ।
शुद्धैश्च साधुभिस्तस्योपाहृतानि च किङ्करैः ॥ ६॥
रामोथ बुभुजे प्रीत्या पश्चात्सीता सखीगणैः ।
दास्यो बुभुजिरे पश्चाद्यथा तोषं यथारुचि ॥ ७॥
समं हि भुङ्क्तेश्रीरामः सीतया सर्वदा सुधीः ।
एकस्थाल्यां महाप्रेम्णा दम्पती स्नेहगुम्फितौ ॥ ८॥
कर्पूरै लालवङ्गाद्यैर्भव्यास्ताम्बूलवीटिकाः ।
ददुः कान्ताय रामाय सीताया अपि चालिकाः ॥ ९॥
स्वयं च चर्वयामासुः प्रमदा मुदिता भृशम् ।
चामरव्यजनादी निपक्षिक्रीडनकानि च ॥ १०॥
तयोश्च प्रेयसोः प्रीत्यै दधुर्दीर्घविलोचनाः ।
रहस्ये हास्यवाक्यानि वदन्त्योऽन्या उपस्थिताः ॥ ११॥
पादसंवाहनादीनि तयोर्वन्यविहारिणोः ।
चक्रुश्चक्रनितंवाश्च काश्चित्कञ्जविलोचनाः ॥ १२॥
पुष्पमण्डपपर्यङ्कशायिनो रतिशायिनोः ।
श्रृङ्गारमपिनोः (शृङ्गारकृतयोः)काश्चित्सञ्जगुर्मधु रन्तयोः ॥ १३॥
तयोश्च परितः काश्चित् वीणावादनतत्पराः ।
स्थिताश्च सुषुपुः काश्चित्काश्चित्कुञ्जगृहेषु च ॥ १४॥
वंशीवेणुमृदङ्गादिवाद्यपाटवपारगाः ।
आसेदुश्चेन्दुवदनास्तयो राजकुमारयोः ॥ १५॥
सर्वासु च स्थितास्वेव कोटिशो वनितास्वथ ।
आदित्योन्तर्हितः किम्वा वरवध्वार्गुरुह्निया ॥ १६॥
सर्वा जजगरुः सोयं काले बाला उपस्थिते ।
निर्मला विमले व्योम्नि दातुं रात्रि सुखं तयोः ॥ १७॥
आनन्दयन्कुमुद्वत्योश्चकोर चतुरप्रियः ।
इन्दुश्चोदैच्च सन्ध्याया विन्दुः किं वदने स्थितः ॥ १८॥
अण्डः किं कीर्त्तिहंसस्य यशः पिण्डीकृतं नुकिम् ।
यूनो सीता मुखच्छाया किंवा व्योमसरस्यसौ ॥ १९॥
पुण्डरीकं रमाया वा क्रीडाहंसो विधेश्चकिम् ।
क्रीडाकन्दुक एवासौ कामवध्वारतेर्विधुः ॥ २०॥
शुद्धं सतां मनो वापि भक्त्या शुभ्रीभवद्धरेः ।
रन्तुं मनोरथो वापि धरित्रीजनिरामयोः ॥ २१॥
अत्यर्थं हास्य शीलायाः सीतायाश्च प्रियेण किम् ।
एष हास्यरसो लोके शोकामयविनाशनः ॥ २२॥
नवनीतमयः पिण्डो मन्थनादुदधेर्गतः ।
सर्वसाधारणो व्योमगङ्गायां विधिना धृतः ॥ २३॥
शृङ्गारपुरुषस्यार्थविधात्रा विहितं यशः ।
गुटिका पारदस्यैषा चन्द्रनाम्ना प्रसिध्यति ॥ २४॥
सीतारामरहस्यानि द्रष्टुं किं वामलोचनम् ।
आविष्कृतं विरेजेह पुंसा पूर्णशशिच्छलात् ॥ २५॥
रिरंसू भूसुतारामो चन्द्रकान्तिच्छटाच्छलात् ।
ज्ञात्वा वेधा दधच्छैत्यं कर्पूरं विकसत्यसौ ॥ २६॥
कर्पूरदीपिकैवैषा चन्द्रनाम्नी प्रकाशते ।
देवैर्व्यक्तीकृता रात्रौराम रासं निरीक्षितुम् ॥ २७॥
एवं सख्यः शशाङ्कं ता दृष्ट्वोत्प्रैक्षत सस्मिताः ।
सीताया वदनं चापि विलोक्य जहृषुर्भृशम् ॥ २८॥
मल्लिका मालतीयूथ्यो जात्योपि कुसुमैरलम् ।
प्रकाशं व्यदधन् कान्तं हर्षयन्त्य इव स्त्रियः ॥ २९॥
कुमुदिन्योमुदम्प्रापुः सङ्कोचापायनिर्वृताः ।
कामुक्य इव भर्त्तारं दृष्ट्वा चन्द्रविकस्वराः ॥ ३०॥
वायुर्ववौ सुखस्पर्शो घ्राणप्राणोऽथ मन्थरः ।
गीतः शिलीमुखैर्मत्तोमातङ्ग इव सम्भ्रमन् ॥ ३१॥
तुमुलं रुरुवुर्लीलाः पतङ्गा विरुधादिषु ।
आयान्त्याः किमु यामिन्या नूपुराद्याः प्रियं प्रति ॥ ३२॥
यामिका इव कामस्य सारसाः किल चुक्रुशुः ।
अश्रूयन्त नदीनादाः कामदुन्दुभयः किमु ॥ ३३॥
स्तुत्वा कामं गता मौनं मयूरा इव वन्दिनः ।
विश्रामं पक्षिणोयाता व्याहृत्य वणिजो यथा ॥ ३४॥
निद्रां गताः प्रजा रात्रिं शान्तिमिन्द्रियवृत्तयः ।
विद्यां प्राप्येव वोधेन्दोरुदये च महत्यपि ॥ ३५॥
पूर्वं विज्ञापितो देवो रन्तुं रमयितुं च सः ।
सीतया भीतया देव्यारन्तुं चक्रे मनो निशि ॥ ३६॥
रात्रिं रासगुणोपेतां देवीनां च मनांसि सः ।
विलोक्य रमणीरामो रन्तुं चित्तं दधे प्रभुः ॥ ३७॥
बुध्वा बुधिं विभोस्तस्य रामस्यामलरूपिणः ।
प्रादुर्भूयोपतस्थे तं रन्तुकामा मनोभवः ॥ ३८॥
आलोक्योपस्थितं कामं रामो वाक्यमथाब्रवीत् ।
विधेहि क्रीडतः काम कामं मे मनसेप्सितम् ॥ ३९॥
यूनां च युवतीनां च लोके यत्सुखमुत्तरम् ।
तत्सर्वं भोक्तुमिच्छामि भोजयन्नपि योषितः ॥ ४०॥
साहाय्यं कुरु मे तत्र मानिनी मानवर्द्धन ।
न त्वां प्रार्थयते कोपि स्वाभाविकमरिन्दम ॥ ४१॥
कामोराम मथोवा च स्वामिनं निजकामिनम् ।
क्षन्तुं यदिकृतान् मन्तून्भया शक्ष्यसि साम्प्रतम् ॥ ४२॥
ततस्तेऽच्युतसाचिव्यं कुर्वन् केलिकलासु च ।
वैचित्राणि सुखानान्ते दद्यां देव त्वयाहृतः ॥ ४३॥
अहं शृङ्गारनामा ते आदिसर्गज आत्मजः ।
मोहयन्नपि भूतानि वर्त्तेहं तव वर्त्मनि ॥ ४४॥
नान्यस्त्वद्भवितुंयोग्यः शृङ्गारस्याश्रयोमम ।
शृङ्गारी तु त्वमेवेह नित्यः शाश्वतिकोऽजरः ॥ ४५॥
नान्योधारयितुं त्वत्तः शक्तोस्ति त्रिदशेष्वपि ।
कामनामानमग्निं श्रयाशंसुदुःसहम् ॥ ४६॥
श्रृङ्गारः केवलो न स्यात्केवलो वा वरः पुमान् ।
शृङ्गार्येव पुमर्थः स्याद्रसस्थिति रितीर्यते ॥ ४७॥
एवं विज्ञापितात्मानं मीनकेतुं मनोभवम् ।
मैथिलीवल्लभो राम आह कामजनाश्रयः ॥ ४८॥
क्षंस्ये सर्वाणि चागांसि तानि यानि कृतानि ते ।
नागांस्येव भविष्यन्ति मत्प्रीत्येकफलानि चेत् ॥ ४९॥
निर्भयम्मयि सर्वासुदेवीषु च रिरंसुषु ।
प्रवर्त्तस्व मयाज्ञप्तो मल्लीलाद्मुपकारकः ॥ ५०॥
वसन्तोपि शरच्चात्र प्रेयांसि कुरुतां मम ।
सर्वेपि तव एवात्र कुर्वन्तुस्वगणैरपि ॥ ५१॥
एवमाज्ञां विभोस्तस्य लब्धमीनध्वजस्तदा ।
रिरंसोर्मुमुदेऽव्यर्थं वसन्तेन सम वने ॥ ५२॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां रामरहस्ये पञ्चमेपटले
कामवरप्रकाशो नाम नवमोऽध्यायः ९॥
१०. अथ दशमोऽध्यायः ।
श्रीशिव उवाच-
पञ्चबाणोथ वाणैस्वैर्शाणोत्तीर्णैर्हसन्नसौ ।
राजाधिराजराजेन्द्रकुमारं समताडयत् ॥ १॥
कथं सामन्तशूरोऽसौ वालासु मृदुलास्वपि ।
प्रजहाराप्रहार्यासु कौशलेयवधुष्विति ॥ २॥
कोकिलाश्च वसन्तश्च शूरंवाला प्रहारिणम् ।
अप्रशस्य स्वकैदोषैः स्वैर्गुणैरन्वमोदयन् ॥ ३॥
दृष्ट्वा कान्ताः स्त्रियः कान्तमत्यन्तमधुराकृतिम् ।
अतिक्रम्य प्रियं चापि भोक्तुमैच्छन्पृथक् पृथक् ॥ ४॥
काचित् कान्तकराम्भोजं गाढं जग्राह कामुकी ।
काचित् पीतपटं चास्य हारङ्काचिद्विशङ्किनी ॥ ५॥
तर्जन्या तर्जयत्काचिद्विप्रलब्धा स्ववञ्चकम् ।
मुखाम्भोजं चुचुंवास्य चन्द्राख्या चतुरा सखी ॥ ६॥
चन्द्रिका वज्रकल्पेन तस्योरोजेन रागिनी ।
जघानोरःस्थलं स्थूलं गजमौक्तिकभूषितम् ॥ ७॥
प्रेयसः करमाधत्ते कुचे चन्द्रकला मृदौ ।
चन्द्रा कान्तकपोलं स्वकपोलेन त्वयोजयत् ॥ ८॥
चन्द्रकान्ताऽननं तस्य निर्निमेषेक्षणा सती ।
मुक्ताललितनासाग्रम्पपौपीयूषवर्षि च ॥ ९॥
कर्णे जजाप सा चन्द्रमुखी निर्यङ्मुखेक्षणा ।
ईर्ष्ययन्तीतरा नारीर्हर्षयन्ती मनोस्य च ॥ १०॥
चन्द्रचूडा निजां वेणीं दर्शयन्ती जहास तम् ।
सुगन्धिनी सुखस्पर्शदोर्मूलेनाऽववोधिनी ॥ ११॥
चरी च चरणौ तस्य पस्पर्शोत्तमवर्णिनी ।
चञ्चुश्चिबुकमस्याथ कोमलाङ्गुलिचालनैः ॥ १२॥
कान्ते पश्यति चार्वङ्गी शिथिलां कटिमेखलाम् ।
जृम्भमाणा च कारास्य कामवेगेन पीड़िता ॥ १३॥
नेत्राञ्चलैश्चला कान्तं चालयन्ती रतिस्थलम् ।
कञ्चुकीं सा मुमोचाशु घर्मव्याजेन सा पुनः ॥ १४॥
चकम्पे कामरोषेण खेला कान्तकृतेन च ।
चारुका स्वेदविन्दुं श्रीर्दृष्टातेन भवद्भृशम् ॥ १५॥
भुजौ कान्तस्य पश्यन्ती चारु नेत्राभवज्जडा ।
वक्षो विलोक्य रामस्यामूर्छच्च चारुमोदिनी ॥ १६॥
काकपक्षौ च कान्तस्य स्पृशन्ती चारुदायिका ।
रोमाञ्चिताप्यभूद्दीर्घौ स्निग्धौ भ्रमरसन्निभौ ॥ १७॥
त्वमेव पुरुषस्त्वन्ये त्वदायत्तगुणश्रियः ।
इति चारुमती चारु वाक्यमुक्त्वालिलिङ्ग तम् ॥ १८॥
यदि निर्वापयत्येव कामाग्निं पुरुषस्ततः ।
नोचेदस्य कथैवैषेत्यूचे चारुसुलोचना ॥ १९॥
उदासीनमपि त्वां तु का त्यजेदिह नायिका ।
इति चार्वाश्रया वाणी वाणशाणिमनोभवा ॥ २०॥
त्यजन्तं त्यजते लोको भजन्तं भजते न वा ।
अर्थी तूभौ भजेतेति चूडा सस्मितमब्रवीत् ॥ २१॥
पुमांश्चेद्वनितां योग्यां न त्यजेदितरो यथा ।
वेश्यावद्वनिता चेति चारिकावचनं मृदु ॥ २२॥
त्यजन्नपि स्वया तृप्त्या नाहं त्यक्तुं भवामि ह ।
उपाकृष्य च नाथेति चराचारोचयद्वचः ॥ २३॥
दुस्त्याज्या स्वकथापीह कथं स्यादेष सुत्यजः ।
प्राणा अपि प्रिया नेति व्याजहार चरालिका ॥ २४॥
आनन्दाश्रुकलापीह रुद्धकण्ठाविलेक्षणा ।
ययातिवद्विलोकन्तं कान्तं राजीवलोचनम् ॥ २५॥
अन्तरं न सहिष्येहमक्षिपक्ष्मजमप्यणु ।
पश्यन्ती ललिते नेत्रे अस्येत्यूचे चरालिका ॥ २६॥
मुग्धे माव्यवधेहि त्वं पश्यन्त्यामेति वल्लभम् ।
निर्गच्छेदन्यथा प्राणः एतच्चिता जगाद च ॥ २७॥
सर्वस्यास्य जनस्यैकः कामं पूरियितुं क्षमः ।
कथं स्यान्नायकोऽप्येष इत्यस्या अपरं वचः ॥ २८॥
एकोप्येष जनस्यास्य कामं पूरयितुं क्षमः ।
स्यादेवेत्यब्रवीच्चित्तचरी नामसखी श्रियः ॥ २९॥
आज्ञाचेद्दयितस्यास्य सर्वकामवरेश्वरी ।
सर्वान्कामान् विदध्यां तद्रूपेणास्मि वशी कृता ॥ ३०॥
एतच्चिन्तामणेर्वाक्यं श्रुत्वा चेतयती सखी ।
एतत्कार्यमनेनैव विधेयमिति चागदत् ॥ ३१॥
एक एव यथैषोहं तथैकैव कुतो न भोः ।
विधेः सृष्टौ मनःकान्ता चेदिकेति जगाद च ॥ ३२॥
एकस्या अपि चाश्नन्त्याः कामानस्य मनोहितान् ।
पर्याप्ता न तथा ते स्युश्चेतस्या इति सद्वचः ॥ ३३॥
विरक्ता अपि सर्वत्र विद्वां सस्त्वितरत्र च ।
अनुरक्ता इहैकस्मिन्निति चेतावचोऽमृतम् ॥ ३४॥
राजा वा राजपुत्रो वा नैकार्थमिह जायते ।
अयं तु सर्वलोकार्थमस्तीति चतुराभिधा ॥ ३५॥
कस्या वा भाग्यमेवं स्यात्पूर्णमीदृग्ययैकया ।
भुज्येतायमिति व्यक्तं वरायावचनं वरम् ॥ ३६॥
सख्यः पादरजो स्पृश्य भूरि भूरि तरादपि ।
भोग्याद्योग्याच्च देवीनां लब्धं चेदिति चम्पिका ॥ ३७॥
पत्पङ्कजरजोपीदृग् लब्धो याभिः स एव चेत् ।
भाग्यं तासामनिर्वाच्यमित्यब्रूतेह चम्पदा ॥ ३८॥
निर्व्याजो नो वसन्तोऽयं कान्तश्चम्पा वयन्त्विह ।
वासयाम वनं सर्वमेतच्चम्पावदत्सखी ॥ ३९॥
कान्तो भक्तानु कम्प्येव निष्कम्पः कवि भूरिदः ।
कम्पयन्नः कथं सख्य इति चम्पी वचो गुरु ॥ ४०॥
मयि सन्निहितायां किं विभर्त्ति चम्पकस्रजम् ।
किशोरोयं मनश्चौर इति चम्पकरोचिका ॥ ४१॥
अस्मिन्नचञ्चला लक्ष्मी रूपसौन्दर्यमोहिता ।
स्वं नामेदं ददौ मह्यं चञ्चलेतीति चञ्चला ॥ ४२॥
एतद्रूपतरङ्गेषु सोन्मज्जननिमज्जनैः ।
दोलावच्चपलास्मीति तन्नाम्नी चपलेतिच ॥ ४३॥
पीतांवरवदेतस्मिन्मदङ्गं प्रति रञ्जति ।
ततश्चोलाभिधास्मीति चोलाया वचनं मृदु ॥ ४४॥
ज्ञेयो यमेव लोकेर्थो हृद्यो विषय एष वै ।
चिदेतद्विषयैवेति चिदानाम्नी सखी श्रियः ॥ ४५॥
चित्तं जानेहमेवास्य गम्भीरं जलधेरपि ।
मुग्धा यूयं न जानीध्वमेतश्चित्तप्रकाशिका ॥ ४६॥
नार्यो वास्य विजानीयुरेतच्चित्तं ततः कुतः ।
वेदानामेतदाख्याने प्रामाण्यमिति चन्द्रिका ॥ ४७॥
एष एव विजानीत एतच्चित्तं सुदुर्भिदम् ।
सर्पःसर्पगतिं वेत्ति चण्डी वाक्यमकण्टकम् ॥ ४८॥
सर्वेषामेव चेतांसि साक्षाद्वेत्ति मनोभवः ।
नाकामोदृश्यते कश्चिदेतच्चम्पटिकावचः ॥ ४९॥
एतदर्पितसत्कामा (चेतस्का)अकामा अपि साधवः ।
यत्कामस्याप्ययं काम एषा चाण्टाचपेटिका ॥ ५०॥
सन्तं वा सन्तमेतस्मिन्दोषं याविष्करोति चेत् ।
तस्या मूर्द्धनि दण्डः (मूर्ध्निमदङ्घ्रिः)स्यादित्यूचे चण्डदण्डिका ॥ ५१॥
दोषा अपि गुणा एव प्रियस्यास्य गरीयसः ।
इन्दोरिन्दोश्शुभस्येति विमलं विमलावचः ॥ ५२॥
एतत्पादाम्बुजं यस्याः करयोर्हृदि वर्तते ।
सैव स्यात्कमला नाम्नी नारीति कमलावचः ॥ ५३॥
एनच्छुश्रूषणे यूयं वार्त्तासु च विशारदाः ।
नाहं तथा विधास्मीति वाला वालेति भाषिणी ॥ ५४॥
कामार्त्तापि रतिं कालं नेच्छामीच्छानुगाविना ।
तस्मात्कालेति वर्त्तेहं कान्तं कालेति भाषणम् ॥ ५५॥
मा मल्ला प्रियरङ्गेषु तवास्तीति प्रभाषणात् ।
स्त्रीणां मा मल्लिकास्मीति शास्ता मामल्लिकाभणेत् ॥ ५६॥
सर्वेषु प्रियकार्येषु मलञ्चेन्न क्षमे यतः ।
ततः सर्वेऽमलेत्याहुर्मामेषा मलसंज्ञिता ॥ ५७॥
नीरक्षीरवदेतस्मिन् सर्वं यद्विभजाम्यहम् ।
मरालीव भवामीतो मरालीति वभाण च ॥ ५८॥
भवाम्याश्लेष काले यन्मालावद्दयितोरसि ।
प्रियो मां मालिकेत्याह मालिकेति पपाठ च ॥ ५९॥
दृष्ट्वा त्वामेव मोदः स्यान्मम मोदेति मामयम् ।
सर्वेषु व्यवहारेषु ब्रूते मोदेत्यभाषत ॥ ६०॥
मृगस्येवाक्षिणीयन्मे प्रेयः प्रीतिप्रदे ततः ।
तेनोक्ताहं मृगाक्षीति मृगाक्षीति विचक्षणा ॥ ६१॥
सीताया माधवस्यास्यापूर्वोत्सवतयास्मि तत् ।
तेनाहं माधवीत्युक्ता माधवी मधुरं वचः ॥ ६२॥
लोकानन्दप्रदस्यापि मुदंश्चित्रा यतोऽस्य च ।
भूयो भूयो भवामीति मुदाख्याहं मुदेति च ॥ ६३॥
सर्वलोकैक मोहस्य सीतैकप्रिययोषितः ।
मोहोऽस्यास्मीति मोहेति मोहा वाक्यममत्सरम् ॥ ६४॥
देवस्यास्याज्ञया यास्मि सर्वमोहप्रदेत्यहम् ।
मोहप्रदा प्रियेणोक्ता इति मोहप्रदावचः ॥ ६५॥
मन्दं वच्मि च गच्छामि भुञ्जे मन्दोदरीत्यहम् ।
कान्तेनोक्ताऽस्मि मन्दाहमिति मन्दाऽमदंवचः ॥ ६६॥
विचित्राणि च कार्य्याणि दर्शयन्ती पदे पदे ।
यत्तेनोक्तास्मि कान्तेन मायेत्युक्तं च मायया ॥ ६७॥
यद्यद्गुह्यं प्रियस्यापि न स्फुरेत्तस्य तस्य च ।
प्रकाशिकेति मेधाहमिति मेधावचः प्रियम् ॥ ६८॥
नान्यैः प्रीणामि भोग्यैस्तु विनोरुवरमण्डनैः ।
प्रियोरुमण्डने मेरु मण्डनेत्युरुमण्डना ॥ ६९॥
दृष्टमद्रूपभौमेन दृष्टिदोषविशङ्किना ।
मण्डिताहमनेनेति मण्डिताख्येति मण्डिता ॥ ७०॥
वात्सायनादिशास्त्राणां ज्ञानानुष्ठानशिक्षणैः ।
पण्डितेत्यमुनोक्तेति पण्डिताख्येति पण्डिता ॥ ७१॥
पश्ये द्यावन्नायं मां तु तावन्नद्रुत दृग्भवेत् ।
ततः प्रेमेति चास्येति प्रेमा प्रेम विभावनी ॥ ७२॥
परेषामपि सर्वेषामीशेत्यस्य निदेशतः ।
परेशाभिधयास्मीति परेशा सत्यसंज्ञिता ॥ ७३॥
अस्यातीवरहस्येषु येषां वै तत्त्वदर्शनम् ।
तत्पापनाशिनीतीति मामूचे पापनाशिनी ॥ ७४॥
सारयामि प्रियामस्य स्वयं चैनं सरामि यत् ।
सारिकाहास्मि तेनेति सारिकाख्यावचः शुचि ॥ ७५॥
शाटिका वत्प्रियोऽङ्गे मां धत्ते स्वाङ्गेषु यद्रहः ।
तेनास्मि शाटिकाख्येति शाटिका सुखवाटिका ॥ ७६॥
एवं शारा शुभाकारा वारिजा वारिजानना ।
वरदाऽभयदा भीता गामिनी मन्दगामिनी ॥ ७७॥
व्यापिका वेदिका वेदा वोधिका विबुधापरा ।
धिषणा धरिका धीरा प्रमदा च धरा वरा ॥ ७८॥
जनिका जामिनी जंवा जङ्गती जगमा ।
जना समाजेषु मिथः स्त्रीणां स्वं स्वं भावमवादिषुः ॥ ७९॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां रामरहस्ये पञ्चमेपटले
स्वंस्वंसौभाग्य प्रकाशनो नाम दशमोऽध्यायः १०॥
११. अथ एकादशोऽध्यायः ।
श्रीशिवओवाच-
अथ यूथ सहस्राणि स्त्रीणामादाय चत्वरे ।
रामः प्रवर्तयामास रासं नामविलासकम् ॥ १॥
स्वयं गन्धर्वराजस्य किशोरेण समच्छविः ।
रामः सङ्गीतचुञ्चूनां राजा भोक्ता शिरोमणिः ॥ २॥
मध्ये रासं विरेजेऽलं चन्द्रो सौ च नभस्यति ।
ताराणामिव नारीणां सर्वासां चमनोहरः ॥ ३॥
कर्ता कारयिता भोक्ता द्रष्टा स्वामी च सर्वशः ।
यूषा यूथ सहस्त्राणां रासानां च स्वयंविभुः ॥ ४॥
विचित्रैरुचितैर्वाद्यैर्गी तैर्नानाविधैरपि ।
रागैः कालोचित्तेः सर्वैर्नारीकण्ठविजृम्भितैः ॥ ५॥
रम्यैः सप्तस्वरैः सर्वमूर्च्छनाग्रामरञ्जितैः ।
देशीतालैस्तथा मार्गतालैः पात्रगुणादिभिः ॥ ६॥
नृत्यैर्नैकविधैः तासामङ्गलावण्यशोभितैः ।
भूषणैर्वसनैर्नैकैश्चेष्टिताभिनयैरपि ॥ ७॥
प्रवर्तमान एतस्मिन् रासे रामामनोरमे ।
मुमूर्छुः सर्वभूतानि सानन्दानि महीतले ॥ ८॥
नद्यो निष्पन्दवेगाश्च प्रशवश्च सरीसृपाः ।
निश्चेष्टा अभवन् सर्वे मुक्ता इव निरामयाः ॥ ९॥
नो चेलुः किञ्चिदाकाशे विमानानि दिवौकसाम् ।
मोक्षो योगसमाधीनां शिवताण्डवविद्रुतः ॥ १०॥
ववृषुः सुमनांसीमा रामस्योपरि भूरिशः ।
कङ्कुमान् स्त्रक्तिलकाश्च भूषावस्त्राणि देवताः ॥ ११॥
देवदुन्दुभयोर्नेदुर्हर्षगम्भीरनिस्वनाः ।
जयनादाश्च भक्तानां मुक्तानामपि सर्वतः ॥ १२॥
सीताराम समाजानां तत्तद्गुणनिदर्शनाः ।
अश्रूयन्त कृताः सिद्धैः स्तवाः स्तवकसन्निभाः ॥ १३॥
गन्धर्वाप्सरसः सर्वास्सङ्गीतार्थकृतोद्यमाः ।
आसन्नासन्नभूमीका रामप्रेक्षाण्यपेक्षिणः ॥ १४॥
श्रुत्वा सङ्गीत सौन्दर्यं केचिद्देवास्तु मूर्च्छिताः ।
कैश्चिद्दृश्येत नैवासौ रामो रामा समाजगुः ॥ १५॥
सर्वैश्चराचरैस्तस्य सुखमेवान्वभूयत ।
नैषां दॄक् पथगः सोऽभूद्रामो रामायुताश्रितः ॥ १६॥
शुद्धैः सिद्धैश्च देवैश्च नृत्यन् गायँश्च गापयन् ।
द्रष्टुं शक्यो हरिस्तत्र रासकेलौ रसाशनः ॥ १७॥
युञ्जानै योगभिर्युक्तैः सिद्धैश्च सनकादिभिः ।
महा भागवतैर्ब्रह्मचारिवृन्दवरैरपि ॥ १८॥
धारणादिव्यनेत्रेण दृष्ट्वा रासोऽन्वभूयत ।
अकाम्यत च योषात्वं सिद्धिस्तन्न विनाऽस्य यत् ॥ १९॥
नेदृग्विधं सुखं रामादन्यः पुन्नामलाङ्क्षितः ।
भुङ्क्तेऽभुङ्क्त च भोक्ता वा पृथिव्यां दिवि वा विभुः ॥ २०॥
विचित्रा राम रासस्य कथा लोकमनोरमा ।
विस्तीर्णा गुणविस्तारैः पुण्या हृद्यतमाः सताम् ॥ २१॥
सर्वासामविशेषेण स्त्रीणां प्रेम स्व आत्मनि ।
विजानञ्जानकीजानिर्योगमायां समाविशत् ॥ २२॥
एकधाथद्विधात्रेधाचतुर्धा त्वथ पञ्चधा ।
षड्धा सप्ताष्टधा भूयो नवधा दशधा पुनः ॥ २३॥
द्वादशैकादशात्माथ त्रिचतुर्दशधा पुनः ।
व्यष्ट पञ्चदशात्माथ सप्ताष्टदशधा पुनः ॥ २४॥
ऊनविंशैकविंशात्मा रामो सा वास सन् विभुः ।
शतात्माथ सहस्त्रात्माऽनन्तात्मा च ततः परम् ॥ २५॥
एक एव स्वया शक्त्या प्रत्यभाद्वनितासु सः ।
द्वेधात्रेधादिभेदोऽयं नत्वस्य रसभङ्गकृत् ॥ २६॥
सौभाग्यातिशयत्वंहि प्रत्येकं तस्य योषिताम् ।
कस्या अपि भृशं न स्यात्तस्योभयत्र दर्शने ॥ २७॥
एकैकां प्रति चैकैको भुजवन्धं मिथश्च सः ।
चकार कारयामास लीलानन्तभुगीश्वरः ॥ २८॥
एवं तासां च तेषां च परस्परसुखैषिणाम् ।
रामाणामथ रामाणामचिन्त्यं सुखमैधत ॥ २९॥
दोर्दण्डावन्धनृत्येन प्रस्विन्नमुखपङ्कजाः ।
अन्योन्यं कान्तिसम्भेदात्ते च ताश्च चकाशिरे ॥ ३०॥
स्वेदाङ्गरागगन्धैस्ताः सेव्यमानाः प्रियाः प्रियाः ।
न ग्लानिं न श्रमं भेजुर्भुजिष्य (भुजिष्या)भुजभूषणाः ॥ ३१॥
मर्मरैर्वरवस्त्राणां भूषावलिस्वनैरपि ।
मुखासवसुगन्धैश्च पाणिस्पर्शैः प्रियस्य च ॥ ३२॥
वंशी मृदङ्गवीणादिध्वनैर्गानकलादिभिः ।
मुखस्पर्शसमीरेण स्वस्यात्मनश्च दर्शनैः
(सुखस्पर्शाशरीरेण स्वस्यान्यस्य च दर्शनैः)॥ ३३॥
स्तवैरात्मगुणाभासैर्यौवनागमकौशलैः ।
कामोन्मादैः प्रमादैश्च हासैर्लास्यैः परस्य च ॥ ३४॥
गातुमुत्सहिरे नर्तुं द्विगुणं च हरिप्रियाः ।
सिन्धुवद्ववृधे तासामानन्दोप ह्युतरत्र च ॥ ३५॥
गायन्ती गापयन्ती चनृत्यन्ति नर्तयन्ति च ।
सुखस्यास्य विरामं तु रामाकापि न चेच्छति ॥ ३६॥
चकाङ्क्षे न क्षयं रात्रेश्चन्द्रास्तगमनं न च ।
नोदयं च रवेः काचित्काश्चिन्नो जगतीलयम् ॥ ३७॥
कुत्रयं कुक्कुटादीनां मुग्धानैच्छदनातुरा ।
कालचक्रस्य चलनं कापिनोऽचललोचना ॥ ३८॥
अनीश्वरं जगत्कापि कामयामास कामिनी ।
कान्तमेवेश्वरत्वेन चकमेऽमललोचना ॥ ३९॥
काचिदस्य महेशस्य प्रसादं प्रमदैच्छत ।
निश्शेषं कर्मनाशञ्च रामा काचिदचीकमत् ॥ ४०॥
भाग्यस्याक्षीण भावञ्च काचित्काप्यजरामरम् ।
सुखस्यास्यैव काचित्तु नित्यत्वं च नितम्विनी ॥ ४१॥
अधिकाय सुखायातोप्याकाशेन्दीवराय मे ।
नमोस्त्वित्यब्रवीत्काचित् खञ्जनाक्षीवरस्तनी ॥ ४२॥
धन्यायोध्या वनं चैषा सरोजा च सरोजिनी ।
विलासा ईदृशा यत्र सेव्यन्ते सुरदुर्लभाः ॥ ४३॥
धन्योयं रमणो येन क्रियते सफलं वयः ।
इच्छानुरूपविभवैर्वि दूरैस्तु दिवौकसाम् ॥ ४४॥
धन्यास्यांवा च कौशल्या धन्यः पङ्क्तिरथः पिता ।
ययोरेषसुतः श्रीमांल्लोकोत्तरवयोगुणः ॥ ४५॥
तावद्धन्यावयं लोके याभिर्लव्धः प्रियोह्ययम् ।
सख्यसेवादि रस्याश्च सीताया अतुलश्रियाः ।
(सख्यमेव सुस्वामिन्या सीताया अतुलश्रियः) ॥ ४६॥
अस्याभाग्यं महादेवो ब्रह्मा च चतुराननः ।
अनन्तो नागराजश्च सहस्रवदनः स्वराट् ॥ ४७॥
वशिष्ठाद्या महाभागा वाल्मीकिर्भगवानृषिः ।
अन्येऽपि मुनियो वक्तुं शक्ता न प्रभवो वयम् ॥ ४८॥
यथायं दयितोस्मासु तथेयं दयितास्य च ।
कृपासौशील्यवात्सल्य सौहार्दादिसुधोदधिः ॥ ४९॥
एवं कान्ताज्ञया कान्तं कान्तस्य चाज्ञया प्रियाम् ।
गायन्ति स्मभिथः पात्राः सख्यश्च सहजा अपि ॥ ५०॥
पूर्णः पूर्णतरोप्येवमानन्दैरुत्तरोत्तरैः ।
अनेनैवसुखेनासौ रामः पूर्णतमोऽभवत् ॥ ५१॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां श्रीरामरहस्ये पञ्चमपटले
रासविलास प्रकाशनो नामैकादशोऽध्यायः ११॥
१२. अथ द्वादशोऽध्यायः ।
श्रीशिवोवाच-
एषसाधारणो रासोऽकारि प्राणप्रियेण च ।
सर्वैरालिगणैः स्वैरं सङ्गीतादिपरायणैः ॥ १॥
अस्मिन्सीतासुहृत्वेऽपि तासु सर्वासु भामिनी ।
मानं जग्राहसौभाग्यसीमेति प्रमदेति च ॥ २॥
अदीना मौनमासृत्य मीनखञ्जनलोचना ।
स्वाधीनं कान्तमत्यन्तं जानात्येवावृणोत्तनुम् ॥ ३॥
सीता संरम्भवेगेन वालभावकृतेन च ।
सख्या कयापि चानीता भ्रान्तिं कौतुकमीक्षितुम् ॥ ४॥
सङ्गीतानन्दसन्दोहमग्नो मैनाकवत्प्रियः ।
प्रियां न ज्ञातवान् रुष्टां रामो लक्ष्मीमिवोद्धतः ॥ ५॥
त्यक्त्वा प्रियोत्सवं नित्यं प्रियोत्सवपरम्पराम् ।
न ज्ञाता निर्गतातेन प्रिया बुद्धिरिवोत्तमा ॥ ६॥
रूपमाधुर्य्यसौन्दर्य्यलावण्यातिशयादसौ ।
सर्वा रामा अतिक्रम्य श्यामाः श्यामा रति प्रिया ॥ ७॥
अद्यैवेषा न तेनापि सम्यक् परिचितेत्यतः ।
दिदृक्षा पूर्यते नास्य रिरंसापि प्रियस्य च ॥ ८॥
शून्यं तया विनात्मानं मुधैवाव्ययरूपिणम् ।
विभाव्य व्यलपद्रामो रामाधीनाऽखिलस्थितिः ॥ ९॥
गता सिद्धिरिव क्वासौ योगिनी मम मुह्यतः ।
विद्येवाभ्यासशून्यस्या दातुर्लक्ष्मीरिवायता ॥ १०॥
सञ्जीवनीव गीर्वाण गुरोर्दैत्यगुरोरपि ।
सीधुकुम्भीव नागस्य केन मेऽपहृताथ सा ॥ ११॥
दिशः शून्याश्च पश्यामि तथा चन्द्रिकयेव च ।
वेपन्ते मम गात्राणि मुखं च परिशुष्यति ॥ १२॥
कादम्बिनीव शस्यानि मम गात्राणि जानकी ।
सिञ्चेत्ततोऽद्य जीवेयं कृषिकार इव श्वसन् ॥ १३॥
यस्याः सिद्ध्यास्मि सिद्धोऽहं मत् सिद्ध्यात्वखिलं जगत् ।
सिद्धिप्रदायाः सिद्ध्या च सिद्धिर्धर्मार्थसम्पदाम् ॥ १४॥
तासां सिद्ध्या सुराः सिद्धा (तस्याः सिद्ध्या देवकार्यं)
स्तत्सिद्ध्या सिद्धिभाद्धरिः ।
तां तन्वीं तु विना सर्वं शून्यमेवावशिष्यते ॥ १५॥
तया मत्पार्श्ववर्तिन्या सिद्ध्या सीतेति ख्यातया ।
न विष्णुं गणयाम्येव न जिष्णुं न फणीश्वरम् ॥ १६॥
नाग्निं सदाशिवं नापि ब्रह्माणं नाकनायकम् ।
नापो न वायुमाकाशं न यमं वरुणं न च ॥ १७॥
न चन्द्रं न रविं देवं कुबेरं न विधिन्न च ।
न योगसिद्धिसङ्घातन्नेलां द्वीपवतीमपि ॥ १८॥
न मयास्ति समः कश्चित्सीता यस्य मनोरमा ।
न च मत्तोऽधिकः कश्चिदीश्वरेश्वरसेवितात् ॥ १९॥
सर्वेश्वरीश्वराराध्यो ययाऽहं किल्ल ताम्विना ।
अद्याञ्जलिजलप्रायसुखैश्वर्यो भवामि च ॥ २०॥
कामं च तृणवन्मन्ये सरतिं युवनायकम् ।
यया पद्मविशालाक्ष्या वैदेह्या भुवनश्रिया ॥ २१॥
क्वासौ प्राणार्गला देवी क्वासौ सञ्जीविनीमम ।
सा मे क्व स्वामिनी श्यामा वामोरूर्वामलोचना ॥ २२॥
द्वादश वार्षिकी गौरी चित्ररूपप्रदर्शिनी ।
शृङ्गारार्णवसारज्ञा शृङ्गाराम्भोधिवर्द्धिनी ॥ २३॥
अचिन्त्यैश्वर्यभोक्तृ च मत्तमातङ्गगामिनी ।
आह्लादिनी पराचिन्त्यरूपसौन्दर्यशालिनी ॥ २४॥
पीताम्बरा कदाप्येषा नीलाम्वरसितांवरा ।
कौसुम्भरक्तशाटीका चित्रांवरविभूषणा ॥ २५॥
विभ्रती कमले पाण्योर्लालयन्ती च सारिकाः ।
पाठयन्ती शुकान् रम्यान् क्रीडयन्ती मृगार्भकान् ॥ २६॥
पश्यन्ती मुद्रिकारत्नेष्वात्मप्रतिफलानि च ।
सुस्मेरा स्मयमाना च लज्जमानान्यदर्शनैः ॥ २७॥
खेलन्ती कन्दुकास्फालैर्दर्शयन्ती गतिं लघुम् ।
वारयन्ती मुखाम्भोजभ्रमरान्भ्रमदान्मृगान् ॥ २८॥
मुक्तालकमुखी मुक्तांस्तानेव वदनच्छदान् ।
रुषापसारयन्ती च शपन्तीव च सम्भ्रमात् ॥ २९॥
मामुदिश्य च कुर्वन्ती नानाभावमनोरथान् ।
उद्बुद्धध्यानभाग्येन मया सीताऽद्य दृश्यताम् ॥ ३०॥
स्फुरन्ती हृदयाम्भोजे नृत्यन्तीव पुनः पुनः ।
मदविह्वलवामाक्षी स्खलन्तीव पदे पदे ॥ ३१॥
धम्मिल्लमल्लिका पातैर्ज्ञातपद्धति विभ्रमा ।
प्रविशन्तीव नेत्रे मे हरन्तीव धियं च सा ॥ ३२॥
वन्यान् प्रकाशयन्तीह त्रैलोक्यं च स्वया रुचा ।
आश्चर्याण्या वहन्ती स्वैरूपविभ्रमचाटुभिः ॥ ३३॥
त्याजयन्तीव कर्माणि देहगेहो चितानि च ।
मम जितेन्द्रियस्यापि वशयन्तीन्द्रियाणि च ॥ ३४॥
हर्षयन्ती सखीवृन्दं चन्दयन्ती सुचेतसा ।
वर्द्धयन्ती निजानन्दं चान्द्रीव श्रीरपाम्पतिम् ॥ ३५॥
वाणैरिव मनोजस्य कटाक्षैरसितैः शितैः ।
निसर्गगर्वसिद्धैस्स्वैः विद्धयन्ती कुमेधसः ॥ ३६॥
अद्यैवाविर्भवत्वारात्सङ्कल्पादिह सिद्धिवत् ।
मुक्तस्य मम वैदेही चित्रानन्दमयी मुहुः ॥ ३७॥
चन्द्रे मम प्रिया क्वास्ते कमले विमले क्व सा ।
पद्मे कृष्णे बुधे भद्रे कीर्तिदे ब्रूत तां प्रियाम् ॥ ३८॥
शान्ते विशारदे ज्ञाने प्रकीर्तिधृतवल्लभाम् ।
मम दर्शयत क्षिप्रं श्यामां जनकनन्दिनीम् ॥ ३९॥
एवं पृष्टासु सर्वासु सखीष्वेका तु योगिनी ।
प्राह प्रियं प्रियानेह प्रिया ते प्रकृतिं गता ॥ ४०॥
दुदर्शागह्वरे देवी प्रविष्टेष्टविधायिनी ।
जानामि तव दत्तेन दिव्येन ज्ञानचक्षुषा ॥ ४१॥
त्वयि प्रणयरोषेण भ्रमजन्येन भामिनी ।
जाता रहसि भ्रान्त्या च मानिनी गजगामिनी ॥ ४२॥
नाहं तत्र गमिष्यामि सा मां जानाति जानकी ।
भेदज्ञा सर्वकार्याणां योगिनीति मनोरमा ॥ ४३॥
दर्शयिष्यामि वैदेहीं प्रियां ते रहसि स्थिताम् ।
उपायं च वदिष्यामि प्रिया येनानुनीयताम् ॥ ४४॥
कामोयं कोकिलो भूत्वा वसन्ताऽनुगतः पुनः ।
पञ्चमेन स्वरेणासौ गीयतां त्वत्प्रियान्तिके ॥ ४५॥
त्वद्गानश्रवणेनासावात्मानं दर्शयिष्यति ।
अनुनेतुमसौ शक्या ततः स्याद्भवतः प्रिया ॥ ४६॥
योगिनीकथितो मार्ग इति तस्मिन् कृते सति ।
देवीदर्शितरूपाभृत् तत्कृत्या शान्तदुष्कृता ॥ ४७॥
तस्यामेवं स्थितायान्तु कृत्वा चित्तं प्रियेऽचलम् ।
तस्या अनुनये काचित्कोविदामृतभाषिणी ॥ ४८॥
कर्तुम्प्रियप्रियं तस्याः समीपमगमत्सखी ।
विनीता प्रणता भूत्वा प्रियञ्चोचे प्रियादपि ॥ ४९॥
दुर्लभो मानुषो देहो जन्मोत्तममिहापि च ।
तत्रापि दुर्लभं भाग्यं भोग्यञ्च प्रथमं त्रयः ॥ ५०॥
निष्प्रतिद्वन्द्वितारोग्ये देशस्थाने नमन् प्रिये ।
कान्तः स्त्रिया नमस्कार्यः सर्वसद्गुणसागरः ॥ ५१॥
सहायाः सुहृदोप्यत्र दुष्प्रापाः संहिता किल ।
दुर्लभे जीविते नृणां सुखस्पर्शोऽतिदुर्लभः ॥ ५२॥
चिन्ता हेतुसहस्त्राणि दुःखहेतुशतानि च ।
प्राप्नुवन्ति सदाजीवं सुखं तेषु न लभ्यते ॥ ५३॥
कर्मभि भ्राम्यमाणानां प्राणिनां प्रियसङ्गमः ।
दुर्लभः सखि जानासि विशिष्याहं वदामि किम् ॥ ५४॥
अयोनिसखि ते जन्म सर्वतीर्थगणस्थले ।
सीते परमधर्मज्ञो ज्ञानज्येष्ठः पितापि ते ॥ ५५॥
कान्तस्त्रैलोक्यतिलको यस्य नामामृतद्रवम् ।
कीर्तिः सकलतीर्थानां तीर्थभूता सनातनी ॥ ५६॥
अयोध्या च महारम्या दिव्योद्यानवनादिभिः ।
सरोजैः सा सरिच्छ्रेष्ठा प्रासादाः प्रमदाप्रियाः ॥ ५७॥
वयो द्वादशवर्षोत्थं रूपं सर्वमनोहरम् ।
सर्वं तव वशे शुभ्रु भोग्यं भाग्यं च सुन्दरम् ॥ ५८॥
सख्यः सर्वगुणोपेतास्तवैव वशगाः स्थिताः ।
रूपलावण्यसौभाग्यसम्पन्ना भुवि दुर्लभाः ॥ ५९॥
त्रैलोक्ययौवते श्रेष्ठाः सर्वे ते गुणराशयः ।
ये वाल्मीकि मुखैश्श्रेष्ठैर्गीयन्ते कविभिर्मुहुः ॥ ६०॥
यावन्तः सुखसम्पत्तिहेतवो गुणसेतवः ।
दृश्यन्ते तव वामाक्षि सर्वेतेऽप्रमिताः किल ॥ ६१॥
यावन्तः सुखविघ्नाः स्युरेकं मानं विना न ते ।
सन्ति रोषभवं देवि सत्यमेतद्ब्रवीमिते ॥ ६२॥
प्रियादपि प्रियोमानः सखि ते प्रिय दर्शने ।
यात्वम्पृष्ठ प्रदाकान्ते यन्मानं भजसेरहः ॥ ६३॥
श्रीमती सीतासख्युवाच-
अज्ञात्वात्वमभिप्रायं व्रूषे पण्डितमानिनी ।
विश्वस्यानित्यतायत्त्वं गन्धोप्यस्या न तस्यहि ॥ ६४॥
इयं भूमिसुता नित्या सीता विश्व विलक्षणा ।
नास्त्यस्याः सुखविच्छेदो न मानो न च मत्सरः ॥ ६५॥
किं रुष्टा किन्तु सन्तुष्टा प्रियध्यानामृतेन यत् ।
उपयोगिनि तस्येतः प्रियं ध्यायतिराहसे ॥ ६६॥
एवं स्थिते तु दम्पत्योः प्रीतियोगेऽनयोर्नवे ।
विन्दुं पातयितुं किं ते सङ्कल्पोऽस्ति हठव्रते ॥ ६७॥
इत्युक्ता तु प्रिया सख्या प्रियस्यापि सखी प्रियम् ।
गत्वो वाच प्रियाकिन्ते मन्येतेतिवचोमम ॥ ६८॥
अन्याप्यागत्यचो वाच पादौसीते स्पृशामिते ।
एष किं ध्यानकालोऽस्ति लीला काले विलासिनि ॥ ६९॥
रत्नं हस्तगतं त्यक्त्वा काचं तु भजते यथा ।
तथा त्वं सेवसे सीते परोच्चं लघुमस्फुटम् ॥ ७०॥
नानेन प्रीयतेप्रेयान् नेदं जानाति च प्रियः ।
स दुःखी त्वद्वियोगेन क्रियते च भृशं प्रिये ॥ ७१॥
विना तेन प्रियेण त्वमप्येषा सुखिनी न च ।
ध्यानं त्वितरथा तस्य कथं स्यात् कलभाषिणि ॥ ७२॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां रामरहस्ये पञ्चमपटले
मानप्रकाशनोनाम द्वादशोऽध्यायः १२॥
१३. अथ त्रयोदशोऽध्यायः ।
श्रीशिवोवाच-
श्रुत्वा स्मितमुखी सीता सख्यु वाचा मृतामृतम् ।
सीताभिप्रायमादाय प्रत्युत्तर विचक्षणा ॥ १॥
नत्वं जानासि मर्माणि देव्या देवस्य चेतरा ।
दूत्यौ चित्यं यशः प्राप्तुं मध्यं वध्वागता परम् ॥ २॥
एषा प्राणप्रिया तस्य यस्यायोऽत्र च तिष्ठति ।
विज्ञातुं न तदन्येषां शक्यं वर्ष शतैरपि ॥ ३॥
प्रियसख्युवाच-
ज्ञात्वा राजकुमारी त्वं मुग्धां भेदयितुं सखि ।
भर्त्रासन्धयितुं नासि मानलाभेन मानिनी ॥ ४॥
मानभङ्गेन यो मानो लब्धः स्वार्थवशेन तु ।
स ह्युपहास एव स्यान्मानवोधृसमागमे ॥ ५॥
योद्धुं किं प्रषितासित्वं नेतुं दण्डेन वश्यताम् ।
एषा यज्जीवदानेन प्रसाध्या शनकैर्भवेत् ॥ ६॥
सेवयैव प्रसीदन्ति कविता वनिता लताः ।
देवतामहिषी धेनुर्नचदण्डेन दूतिके ॥ ७॥
उपायास्त्रय एव स्युर्दूतद्वारा प्रयोजिताः ।
चतुर्थं तु स्वयं स्वामी प्रयुङ्क्तेऽथ विभुर्नवा ॥ ८॥
कोऽत्र प्रसङ्ग एतेषामुपायानां मनीषिणि ।
ईदृशीं ते कथां श्रोतुं न क्षमा क्षितिनन्दिनी ॥ ९॥
विधेयानां तु दासानां स्वामिसन्देशपालनम् ।
धर्मः किलमतो मुख्य आदेशस्थिरचेतसाम् ॥ १०॥
रोषमाना समर्थापि प्रिया रुष्टा त्वदिच्छया ।
गच्छ प्रेषय दण्डं स दृष्टव्यो विषये मया ॥ ११॥
नमस्तुभ्यं प्रवीणासि या हत्यायै प्रियामिमाम् ।
श्रावयसि त्वं भद्राणि मद्भद्राय केवलम् ॥ १२॥
दौत्यं कर्तुं समुद्युक्तादोषादोषाद्विभेषि च ।
लिप्सुश्चातुर्यादस्या अनुनयादहो ॥ १३॥
त्वं तु यस्याः सखीसेयं शतं वर्षाणिरुष्यतु ।
नाहं दौत्यं करोमितो यामित्वं सुखिनीभव ॥ १४॥
तथा त्वेऽप्ययथात्वेपि न हानितव गम्यताम् ।
नान्याधीनानयोः प्रीति स्त्वयासाध्यं न किञ्चन ॥ १५॥
श्रोतव्यं न वचस्तासां यासां तु कलहः प्रियः ।
चित्तं न कोमलं यासां प्रियं कुर्युः कियत्तुताः ॥ १६॥
स्वामिसिद्धि विरुद्धं यच्छ्रोतव्यं नहि तद्वचः ।
शतंवक्त व्यमेवास्य कार्यं साधयता परम् ॥ १७॥
प्रियाया मुखपद्मोत्थां सुधां पातुसमुत्सहे ।
ज्ञायता मैकमत्यत्वं मयाप्यत्राल्प संविदा ॥ १८॥
मैत्रीसंवाद सख्यानि विवाहादि च लौकिकम् ।
समयोरेव लोकेस्मिन्नस्युर्विषमयोरपि ॥ १९॥
त्वं सखित्वं कथम्प्राप्ता हीनास्याः समधर्मकम् ।
ऐ कमत्यं च संवादं मुखरेवद वां कथम् ॥ २०॥
यथात्वं लोकनाथस्य याता सख्यं वरं तथा ।
अस्याः सर्व महेश्वर्या इतोऽहमपिमानदे ॥ २१॥
कोऽयमुत्थाप्यतेगेहे विरोधाख्यो महानलः ।
क्रीडता वालकेनैव यस्त्वयापि सुदुःशमः ॥ २२॥
एकात्म प्राणमनसोः साधारण पदार्थयो ।
का वार्तास्ति विरोधस्य तेजस्तेजस्विनोखि च ॥ २३॥
इदमेव पुरस्कृत्य तिरस्कृत्य रुषं च ह ।
समेत्वेषा प्रियेणाद्य गीयतां मङ्गलानि च ॥ २४॥
नास्त्येवामङ्गलं देव्या विश्लेषोपि प्रियेण न ।
युष्माकं दृष्टिदोषेण प्रतीतो विरहोऽनयोः ॥ २५॥
उत्थाप्येतः प्रियातर्हि यद्येवं प्रियसन्मुखे ।
आयात्वास्तृतपुष्पेण यथा चन्दनसेकिना ॥ २६॥
का लज्जा कोभिमानो वा प्रियेऽभिमुखसर्पणे ।
दुष्टोपि कण्टकैःपन्था सीतायाः शुभ एव यत् ॥ २७॥
एवं वार्त्ताभिरत्येति कालो वाले वृथा तु ते ।
एहि सार्द्धं मया त्वद्य तवैव क्रियतां प्रियम् ॥ २८॥
एषामुग्धा प्रियो मुग्धो जानीतो न च किञ्चन ।
युष्माभिरेव मध्ये तु रच्यन्ते वचनानि च ॥ २९॥
पश्य मुद्रा प्रियस्येयं प्रेषिता प्रमदे तव ।
तेन मध्ये कृता नैषा विश्वासः क्रियतामिह ॥ ३०॥
प्रियस्य मुषिता मुद्रा त्वयेयं वञ्चनप्रिये ।
एनां नेत्रेदयिष्यामि प्रियाय प्रियकारिणी ॥ ३१॥
लेखो ह्येष प्रियस्यैव करकौशलसूचकः ।
प्रचीयतां त्वया पूर्वं वाचयित्वा विधीयताम् ॥ ३२॥
त्वयैवलेखयित्वा सुच्छलेन छलकारिणि ।
दर्शयितव्य एषोपिय आनीतः प्रियाय मे ॥ ३३॥
महत्कुल प्रसूताया अस्याः छद्मपरापुरः ।
अहो प्रत्युत्तरं तस्मै कथं दासी प्रदास्यति ॥ ३४॥
अन्या त्वत्सोदरी तस्मै सन्देशं कथयिष्यति ।
भेको यत्र न तत्रासौ देवो वर्षति किं नहि ॥ ३५॥
मत्तुल्योत्तमवंश्या चेन्न यास्यत्यसतीव सा ।
आत्ममानपरो नान्यां कान्तोपि प्रेषयिष्यति ॥ ३६॥
निर्भयाभिरसौप्रेयान् युष्माभिरुपभुज्यताम् ।
सौन्दर्य्यादिप्रसङ्गोपि भविष्यति कदापि तु ॥ ३७॥
उपस्थितस्य च त्यागादनुपस्थितकल्पनात् ।
धीरस्य धीमतोपि स्याच्छोको दुःसह आधिजः ॥ ३८॥
भोग्यान्युत्तमयोग्यानि पुष्कलान्यमलानि च ।
वनेष्वप्यनुधावन्ति भाग्यवन्तं निरामयम् ॥ ३९॥
यद्भाग्यं भव्यभोगेषु तन्त्रं तन्त्रविदो विदुः ।
तद्विरोधोऽवशिष्येत किन्न किञ्चिदनीप्सितम् ॥ ४०॥
भाग्यंह्य कृत्रिमं यत्रगुणाः कल्पमहीरुहाः ।
नित्याः सन्ति विरोधोऽत्र स्याच्चेत्तद न वस्थितिः ॥ ४१॥
भोक्तृऽभावेगुणाः सर्वे कल्याणाअपि शाश्वताः ।
भाग्यं चैकाकिनोपि स्युर्वृथाऽरण्य द्रुमादिवत् ॥ ४२॥
निर्व्यपेक्ष्यं भवत्यस्याः स्वामिन्या भाग्यमुत्तमम् ।
भाग्यानुगमवत्येव भोग्यमित्यवदम्पुरा ॥ ४३॥
आत्मनैवात्मनोभोगाः सिध्यन्तीतिमनोभवाः ।
यदिब्रूते ततोमन्येमान्यं वाक्यं तवेत्यहम् ॥ ४४॥
कैवल्यस्य पुमर्थत्वं वेदान्ता निगदन्ति यत् ।
सा किं प्रतारणा पुंसो नित्यानन्दमभिप्सितः ॥ ४५॥
एषैव स्वामिनीत्यत्र प्रष्ठव्याशपथै रहः ।
रामप्राणप्रियावाच्यं तच्च मन्यध्वमञ्जसा ॥ ४६॥
अत्यन्तकोमलेत्येषा श्रोतुं वक्तुं च न क्षमा ।
जयं पराजयं वापि तत्त्ववादेषु कर्कशे ॥ ४७॥
निष्कृपं कृष्यते रत्यै मृदुलेति प्रियेतिच ।
मुग्धेति दयिते नैषा नवयौवनशालिना ॥ ४८॥
एतस्या मार्दवं दृष्ट्वा निष्ठुरोप्यति निष्ठुरात् ।
मृदोरपि मृदुर्भूत्वा भीतो स भजतेत्विमाम् ॥ ४९॥
एवं चेदमृदुत्वस्य दोषत्वात्तु स हेयता ।
मार्दवस्य गुणत्वाच्च स्वभावाद्भजनीयता ॥ ५०॥
पद्मिनी पद्मबन्धौ तु तपत्येवातपं सती ।
भजन्ती स्वगुणानेव स्वभावं न च मुञ्चति ॥ ५१॥
अस्वभावप्रयुक्तः किं मानः किंवा स्वभावजः ।
दृश्यते मृगवच्चन्द्रत्विष्यतेऽस्यां मृगीदृशि ॥ ५२॥
कुदृष्टिदोषलक्ष्मेदं चन्द्रबिम्बेऽतिसुन्दरे ।
अस्यां सुन्दरसीमायां मानस्त्वदृष्टिदोषजः ॥ ५३॥
दृष्टिदोष विनाशार्थं लक्ष्मेन्दौ विधिना धृतम् ।
अभावभावपुष्ट्यै च मानोऽस्यां विनिवेशितः ॥ ५४॥
विधेर्विधानमस्यां वाऽन्यस्यां वा सुप्रतिष्ठितम् ।
अपहर्तुं विधिर्नान्य इत्युपायो निरर्थकः ॥ ५५॥
यत्नविधिर्विधेरेव साध्योपायानुशासनम् ।
व्यर्थं न स्यात्तवाप्येष दोषः स्यादन्यथा बुधे ॥ ५६॥
साध्यसाधनभेदानामानन्त्यादबुधस्य तु ।
भ्रान्त्योपायो वृथापि स्यादिति ज्ञात्वा विरम्म्यताम् ॥ ५७॥
दम्पत्योरेवमन्योन्यं ज्ञात्वाशयमसंशयम् ।
उक्तिप्रत्युक्तिसन्दर्भोऽकार्यालीभिरिहोभयोः ॥ ५८॥
निवृत्य प्रियमेवामूरनुनेतुमिमां स्त्रियः ।
उत्थापयांवभूबुस्तं प्रियासंश्लेषलालसम् ॥ ५९॥
प्रियोपि प्रहसंस्तासु काभिश्चित्तु सहोत्सुकः ।
कन्दुकैः क्रीडयन् क्रीडन् प्रियादर्शनमभ्यगात् ॥ ६०॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमपटले
रामरहस्ये उक्तिप्रतियुक्ति प्रकाशनोनाम त्रयोदशोऽध्यायः १३॥
१४. अथ चतुर्दशोऽध्यायः ।
शनैः शनैर्गतस्तस्याः समीपं प्रणयी मुखम् ।
लीनमीनयुगं चन्द्रबिम्बमिव ददर्श सः ॥ १॥
नवां पुष्पकृतां मालामाधायासौ प्रियोरसि ।
अञ्जलिं च हृदिन्यस्य पुरोस्या उपतस्थिवान् ॥ २॥
आघ्राय रमणी तस्या गन्धं ध्यानपरापिसा ।
उत्तस्थौ सुस्थिरस्नेहा ध्यानस्तिमितलोचना ॥ ३॥
पुरः प्रेक्ष्य प्रियं प्रेम्णा रूपयौवनशोभनम् ।
आलिङ्ग्य निर्वृत्तिं मुग्धा जगाम विपुलेक्षणा ॥ ४॥
गाढमालिङ्ग्य रामेण रामा श्रीरुचिरानना ।
लालिताश्वासिताभूयो भूयः पादादिचुम्बनैः ॥ ५॥
जय जयेति रामाणामुत्थितो मधुरो ध्वनिः ।
हर्षश्च परमो गौरि तवानुनयन यथा ॥ ६॥
दिव्यानन्तविभूतेर्हि पूर्णानन्दमहोदधेः ।
लीलैषा रामचन्द्रस्य गौरि कल्पलता सताम् ॥ ७॥
पश्यन्प्रियां प्रियो नैव तृप्तस्तृप्तिप्रदोप्यसौ ।
प्रियापि प्रियमाधुर्यं पायं पायं पिपासिता ॥ ८॥
प्रियः प्रियाङ्गेषु च पुष्पवर्षीं निर्मञ्छनं गच्छति च प्रियायाः ।
रक्षां च मन्त्रौषधियन्त्रतन्त्रैश्चकार शृङ्गाररसायनज्ञः ॥ ९॥
मृद्वासने तां विनिवेश्य कान्तां मुग्धां मनोहारिनवाभिरूपाम् ।
स्मेराननां चामरपिच्छ गुच्छच्छत्रादिभिश्चोपचचार कान्तः ॥ १०॥
ननर्त्त कान्तापुर आत्मनाथो जगौ च तस्या गुणरूपभावान् ।
ददौ सखिभ्यो मणिभूषणानि प्रियः प्रियायां प्रणयी प्रवीणः ॥ ११॥
तामात्मदेवीं परदेवतेति श्रीरूपलावण्यवयःप्रधानैः ।
धर्मैर्विनिश्चित्य निराकृतान्यः कान्तां शिषेवे शरदां शतानि ॥ १२॥
प्रियाङ्घ्रिपङ्केरुहयावकानि कपोलपाल्योः कुचमण्डले च ।
चकार कान्तः किलचक्रवर्ती मनःप्रियायाः
नवपत्रभङ्गी (किलचक्रवर्ती) ॥ १३॥
सीमन्त पूर्तिं नवमौक्तिकाद्यैः सीमन्तिनीसङ्घशिरोमणेः सः ।
रामो रमण्या विरचय्य वेणीं चकारचातुर्यचमत्कृतिं च ॥ १४॥
समञ्जयामास शुभाञ्जनेन प्रियाक्षिणी प्रेम कणेक्षिणी सः ।
ववन्ध सूत्रं मणिजं प्रियायामपि प्रवेकं मणिभूषणञ्च ॥ १५॥
हेमाम्बुजे नीलमणीन्द्रनाले रत्नेन्द्र पत्रे मणिकर्णिके च ।
सङ्ग्राहयित्वा करयोः प्रियां स्वां नीराजयामास कराङ्गुलीयैः ॥ १६॥
निर्माय पुष्पैः मदनं स तस्मिन्नारोहयामास विदेहपुत्रीम् ।
सर्वस्वभूतामखिलाण्डलक्ष्मीं लक्ष्म्याश्च लक्ष्मी प्रिय आश्रयञ्च ॥ १७॥
यस्याः कटाक्षेण नृदेवपुत्रः सर्वावताराधिपरूपलक्ष्मीम् ।
भुञ्जान एवेश्वरमौलिरत्न नीराजिताङ्घ्रिद्वयपीठपादः ॥ १८॥
लब्ध्वाधिकानन्दपरम्पराको नाकादि लोकेश्वरगीतकीर्तिः ।
आह्लादिनीन्तामकुतोकुतोभीराह्लादयेदेष शिवामिवाहम् ॥ १९॥
सीताङ्ग सौन्दर्यसुधैकपान व्यर्थीकृतानन्तविभूतिभोगः ।
यत्सेवते प्राकृतवत् प्रियां तच्चित्रं रसास्वादविशेषसिद्ध्यै ॥ २०॥
प्रियापि ताभिः पटुशिक्षितासौ शुश्रूषते स्वामिनमात्मनस्तम् ।
आह्लादयन्ती प्रियवाक्यमुख्यैर्नानाविभावैरनुभावभावैः ॥ २१॥
सखीव दासीव मनोरमापि प्रिय प्रियाण्येव निरन्तराणि ।
प्रदर्शयन्ती निजचेष्टितैस्सा जहारहृद्याहृदयं प्रियस्य ॥ २२॥
प्रेखास्वनेकासु मणीन्द्रमुक्ताप्रसूनवासैः समलङ्कृतासु ।
प्रियं समारोप्य सखी समेता जगौ स्वयं सा परिलालयन्ती ॥ २३॥
कुलाङ्गनापि प्रति शिक्षितापि प्रियानुरागातिशयेकवश्या ।
नटीव देवीव च किन्नरीव सखीव नाथस्य ननर्त चाग्रे ॥ २४॥
मुग्धापिलज्जातिभरेण नम्रा स्तुता प्रियेणात्मवशे स्थितेन ।
रम्यातिरम्याङ्गलता प्रियस्य हृद्यातिहृद्या हृदयं विवेश ॥ २५॥
कदाचिदात्मानमनन्तहासविलासहासैर्विवृतानुभावा ।
जुगोप तास्वेव सखीषु सीता भीतेव चानूनमनात्मतन्त्रा ॥ २६॥
प्रियानुभावादुपवीणयन्ती प्रियं प्रियेभ्यो नितरां प्रिया सा ।
गन्धर्व विस्मापनमात्मदेवी वीणापनेऽनुत्तममुत्तम श्रीः ॥ २७॥
वभार वाला व्यजनं कदाचित्प्रियातपत्रं मणिपादुके च ।
कदापि वालव्यजनं सरत्नं प्रियस्य ताम्बूल करण्डकं च ॥ २८॥
संवाहयन्ती मृदुपादपद्मे सुप्तस्य पुष्पास्तरणे प्रियस्य ।
पादौ कठोरावितिसा प्रियापि लोष्टौकरावित्यभिकम्पतेस्म ॥ २९॥
कराङ्गुलीयार्पितरत्न दीपैर्नीराजयामास मनोरमा सा ।
संवीजयन्ती व्यजनेन वाला सरत्नदण्डेन तु रामचन्द्रम् ॥ ३०॥
प्रिया प्रियान्नं प्रियमाशयन्ती जगाम तृप्तिं क्षुधयाप पुष्टी ।
प्रियाय भोजिन्यपि भोजयत्री प्रियानुभावानुभवैकतृप्ता ॥ ३१॥
प्रियाय ताम्बूलमुपाहरन्ती लवङ्गकर्पूरसुधादिरम्यम् ।
विनाप तेना रुणपल्लवोष्ठी सारागरञ्जिद्धृदया ससीता ॥ ३२॥
उत्तारयन्ती जनदोषदृष्टिं निर्मञ्छनं तस्य च सा भजन्ती ।
रत्याख्य दोषं दधती स्वयं च प्रीत्यारुहत्तद्धृतयंविशालम् ॥ ३३॥
पतिव्रतायाः पतिपादसेवाऽनिशं परोधर्म इहाप्यमुत्र ।
इति प्रिया प्रेयसि दासधर्मं गतानु भावातिशयाच्च किन्तु ॥ ३४॥
दाम्पत्यमेतज्जगतोऽनयोस्तु भिन्नं न सादृश्यमुपैति तेन ।
अप्राकृतत्वादनयोः रसानामप्युन्नतिच्छन्नचितो कदाचित् ॥ ३५॥
क्षणे क्षणे पूर्ववदेतयोर्यद्रूपं नवीनं भवतीप्सितं तत् ।
परस्परं वर्द्धयति प्रवृद्धैर्भावैः स्वभावादभिलाष एव ॥ ३६॥
निरङ्कुशैश्वर्यसुखं तयोर्यन्माधुर्यमप्येवममेयमेव ।
तदेव वैरस्य निराकृदित्थं रसोऽनयोनित्यममेयमेव ॥ ३७॥
अदृष्टसीतः क्षणमप्यनिन्द्यो विशीर्णसर्वावयवो भवेद्यत् ।
नैतादृशीं स्नेहपरम्परातो न्यत्रास्ति तेनायमनन्तभावः ॥ ३८॥
विश्लेष भीतिर्महती च तस्यास्तस्यास्ति यत्तेनरतेर्विरामः ।
नास्त्येव विश्लेषभीतेर्निमित्तं स्वाभाविकी शक्तिरचिन्त्यमाया ॥ ३९॥
आनन्दसन्दोह भवप्रमादस्वाधीनमज्ञानमुतास्य किञ्चित् ।
सङ्कल्प एवोक्त रसानुकूलो नित्योपि लीलामृतयस्य नेतुः ॥ ४०॥
आनन्दिनी नाथमनाथनाथं सीता स्वनाथं मधुरैर्वचोभिः ।
वाणीव वीणेव च कोकिलेव सोद्यानमेवाभिमुखीकरोति ॥ ४१॥
गम्भीरभावास्मित सुन्दरभ्रूविक्षेपणैर्नर्तयति प्रियं सा ।
विश्रामयत्यात्मकराभिमर्षै रोमाञ्चितं चन्दन चन्द्रशीतैः ॥ ४२॥
प्रियाकरस्पर्शसुखानुभूत्या तिरस्कृताऽन्यानुभवस्तयाऽसौ ।
अङ्गानि कण्डूयति कोमलानि गन्धानुलेपग्लपितान्यकाले ॥ ४३॥
सैरन्ध्रिकादर्शितकेशवेषा केशान्प्रियस्याथ विशोध्य पुष्पैः ।
तान् पूरयद्येन दृगौचितीज्ञा नाना विचारैर्हृदयेन सार्द्धम् ॥ ४४॥
शलाकयास्य स्वयमेव नेत्रे प्रियाञ्जयत्येजपदेणनेत्री ।
राजीवपत्रायतनेत्रमेनं मीनध्वजाध्यक्षमपाररूपम् ॥ ४५॥
विलेपयन्ती नवकुङ्कुमेन प्रियाङ्घ्रियुग्मं कुशलासकम्पम् ।
प्रियानुरक्तं हृदयं तु तेन चकार पादारुणतारहारम् ॥ ४६॥
कराङ्गुलीयात्मनखप्रभाभिः स्वतश्चरक्तौ चरणौ प्रियस्य ।
नवाविलिप्ता विति मूढ़चित्ता विलिप्य भूयोपि ममार्ज बाला ॥ ४७॥
एकद्विनेत्रैश्च चतुः षडश्वैर्गजैश्चषण्डैर्दशभिश्च रुद्रैः ।
क्रमेण साकं रमणेन रामा रेमे सहस्त्रैरपि कन्दुकैः सा ॥ ४८॥
एवञ्च तस्या रमणेन साकं लीला रसाविष्टहृदि प्रसन्नाः ।
गन्धर्वकन्या प्रमुखास्तदाल्येऽप्यारेभिरे गान मृदङ्गनादान् ॥ ४९॥
पुष्प प्रकाशाधिक सौकुमार्या लावण्यरूपातिशयानुभूतेः ।
अङ्गानि तस्या शिशिराः शिषेवे प्रस्विन्नपूर्णेन्दुमनोज्ञ मुख्याः ॥ ५०॥
तस्यास्खलन्त्या रसरंहसैव रङ्गाङ्गणं रस्यतमं वभूव ।
मुक्तैर्धमिल्लोत्तममल्लिपुष्पैर्मुक्ताभिरङ्गाभरणच्युताभिः ॥ ५१॥
भुजैः सहस्त्रेरूपलक्षितेव व्यलोकि सा कन्दुक केलिकाले ।
सदा सदारामनिकुञ्ज कामा प्रियेण चान्यैर्द्विभुजैव देवी ॥ ५२॥
पराजिता विद्युत आत्मकान्त्या यतस्ततः केलिषु लाघवैश्च ।
तयाहि राम प्रियया मनोज्ञश्रिया ह्रिया त्यक्तधिया रसाय ॥ ५३॥
मिथः स्वमाधुर्य्यसुधैक पानव्यापोहितैश्वर्य्यगुणानुसन्धी ।
दिनानि तौनिन्यतुरेकचित्तौ नवौ प्रियौ कन्दुक लीलयैव ॥ ५४॥
लीलारसास्वादुविभङ्गशङ्की पुष्पाणि देवोऽन्नजदेतयोस्तु ।
हृष्टोपिनावर्षदितो दिदृक्षुर्नास्तौच्च तौ कामवशी कृतात्मा ॥ ५५॥
ते चोत्पतन्तोऽथ पतन्तारान्नालोपरिष्टात् कमलप्रयाताः ।
तस्याः कराघातसुजातवेगास्तेनुर्दिवोनर्तककौतुकानि ॥ ५६॥
श्यामाः सिताः पङ्कजपाटलाश्च सीताकटाक्षा विजयन्त एव ।
प्रेयोमुखप्रेक्षणदक्षिणास्ते तेषाञ्च पातोत्पतनोन्त्सुकाश्च ॥ ५७॥
तद्दर्शनोद्भूत सुखाव्धिवेगात् तत्ताण्डवाडंवरहर्षतोऽपि ।
जातानि सीताविशदास्मितानि सेव्यानि शीतांशुकलाधिकानि ॥ ५८॥
रोमञ्चितापि प्रियदर्शनेन स्वस्ताश्रुलेशाप्युरुकम्पनापि ।
चस्खाल सीता नच कन्दुकोत्थक्रीडारसस्यानुभवाद्भवार्चा ॥ ५९॥
मञ्जीरनादैः श्रवणे प्रियस्य पीयूषसारैः प्रतिपूरयन्ती ।
भूषात्विषा नाशयदन्धकारं लोकाश्रितं सम्प्रति रामरामा ॥ ६०॥
झणत्कृतैः कन्दुककङ्कणानां निराकृता राममनोरमायाः ।
नशेकुरासादपि तु मिलिन्दा मुखाम्बुजं चिन्मकरन्दपूर्णम् ॥ ६१॥
स्रस्तं शिरस्तः परिधाय वस्त्रं स्रस्तं पुनर्धारयितुं हि यावत् ।
देवीमनः सङ्कुरु तेहि तावच्चालिङ्ग्य सस्नेहमुवाच रामाम् ॥ ६२॥
अलं प्रिये कन्दुकलेलयाते विरोधिनीयं सुकुमारतायाः ।
प्रसूनहासादपि हासशीले रसानुकूलेन सुमध्यमासि ॥ ६३॥
निधाय रामो ललनां निजाङ्के ममार्ज तस्या वदनारविन्दम् ।
विहार जाताम्बुकणाधिशोभि स्वेदार्द्रदिव्यं तिलकैकयुक्तम् ॥ ६४॥
सवीजयामास सखीभिरस्या अङ्गानि रङ्गोत्तररूपभाजि ।
विलेपयच्छ्रीहरिचन्दननेन स्वामी स्वयं शीतविसर्गनेत्रः ॥ ६५॥
प्रियः करस्पर्शदृगन्तपातसुधाभिषेकैरधिशीतलेयम् ।
यथा तथा चन्दनचन्द्रिकाद्यैरभून्न वैदेहसुतामितश्रीः ॥ ६६॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमपटले
श्रीरामरहस्ये कन्दुकलीला प्रकाशनो नाम चतुर्दशोऽध्यायः १४॥
१५. अथ पञ्चदशोऽध्यायः ।
श्रीशिवोवाच-
तयोनर्नायकयोरेवं सम्प्रसन्नात्मनोर्मुदा ।
आसीनयोर्महारत्नपीठं सीता तदीशयोः ॥ १॥
गन्धर्व्यस्तत्र सङ्गीतकोविदा नवयौवनाः ।
आरेभिरे तदाज्ञप्ता रासं नानारसायनम् ॥ २॥
तिस्रः कोट्यस्तु सीतायाः सख्यः सर्वाङ्गशोभनाः ।
द्वे कोटी रामचन्द्रस्य सख्यो गन्धर्ववंशजाः ॥ ३॥
एवं गन्धर्वजातीनां सखीनां पञ्च कोटयः ।
पाद्मेपिते शिवे सूक्ताहिमाद्रितनये मया ॥ ४॥
गन्धर्व्यो रामचन्द्रस्य सर्वोपकरणानि च ।
किन्नर्यो गोपिका यक्ष्यो मानुष्योऽपि सहस्रशः ॥ ५॥
सीताया एव विज्ञेयं सर्वमेतद्रसावहम् ।
सीतासर्वरसास्वाद सर्वं प्राधान्यभागिनी ॥ ६॥
तयात्मीयतया देव्या रामाराधन रामया ।
आरम्भितोरहस्ताभी रासो रामाभिरामदः ॥ ७॥
अर्द्धं रसः स्त्रियां पुंसि रसोर्द्धञ्च विनिश्चितः ।
पूर्णस्तयोस्तु सम्बन्धेरसस्यैषा परास्थितिः ॥ ८॥
सर्वरसकदम्बोऽयं रासो नाम श्रियः कृते ।
कृतस्त्वया कृतिज्ञान कृतिराजशिरोमणे ॥ ९॥
अङ्गस्पर्शकरग्राहमुखासवनिषेवणैः ।
लब्धवर्णाः भवेमाद्य तव लोकमनोरम ॥ १०॥
त्वां चेमां नर्त्तयिष्यामो यदा पूर्णस्तदा रसः ।
सङ्कोचे पूर्णता नास्ति रहस्ये हि विभाव्यताम् ॥ ११॥
यदि त्वं क्षमसे मन्तुम्प्रेमावेशभवान्बहून् ।
ततस्त्वं लप्स्यसे स्वादं रसानां रस वित्प्रभो ॥ १२॥
रसेशो रसपानज्ञो रसकृद्रसपोषकः ।
दमीक्षमी दयालुश्च चित्तरञ्जनचन्द्रमाः ॥ १३॥
रूपयौवनमाधुर्य्यसौन्दर्य्यादिगुणोदधिः ।
वदान्यः साभिलाषञ्च निर्भरो विगतज्वरः ॥ १४॥
कामशास्त्रप्रवीणश्च गन्धर्वागमपण्डितः ।
स्मितपूर्वाभिभाषी च धनधान्यसम्मृद्धिमान् ॥ १५॥
निरामयो निरालस्यो वलीयारिमर्दनः ।
रम्याङ्गो रम्यदेशस्थो रम्यवस्तु निषेवकः ॥ १६॥
अकोपनो गुणालोची दोषानालोचनः स्त्रियः ।
मृदुलो मधुरालापी सानुरागदृगञ्चलः ॥ १७॥
इत्यादयो गुणा ज्ञेया नायकेन्द्रस्य नित्यदाः ।
एवं भूतो रसं भोक्तुं शक्तो भोजयितुं च सः ॥ १८॥
एवं स प्रार्थितस्ताभिः सर्वनायकलक्षणः ।
लक्ष्मणानुचरो रामो रामाभी रसलालसः ॥ १९॥
नीतः पञ्चशिखोत्तंसो मयूरायित कुण्डलः ।
रासमण्डलमध्यस्थो रेजे पूजितसज्जनः ॥ २०॥
वनमाली विशालाक्षः पीतवासा घनद्युतिः ।
अरालभृकुटी काकपक्षकान्तकपोलकः ॥ २१॥
गन्धर्वराजकन्दर्पदर्पदोषहरच्छविः ।
अल्पमध्यो महाबाहुः सर्वसौन्दर्यसङ्ग्रहः ॥ २२॥
सर्वकामकलाभिज्ञो दिव्यनारीमनोहरः ।
सर्वशक्तिबलप्रज्ञो गुणग्राही क्षमानिधिः ॥ २३॥
व्यलोकि स महाराजमहाराजसुतो युवा ।
सर्वाभिर्जीवनत्वेन लोकरञ्जनरञ्जनः ॥ २४॥
ततस्ताभिर्महारासो नानारङ्गतरङ्गितः ।
उत्थितो मोहयामासत्रैलोक्यं मधुरोन्नतः ॥ २५॥
अशोकवनिकामध्ये सरोजानिलसेविते ।
नानापुष्परसामोदे रत्नभूमिविभूषिते ॥ २६॥
रासोभूद्रसिकानन्दविलासावलिवर्द्धनः ।
नानासङ्गीतसम्भूतो गीतो वायुसुतेन यः ॥ २७॥
व्यचुम्वद्रसिको वक्तृचन्द्रबिम्बरसः श्रुतिम् ।
कस्याश्चिन्नत्यसंरक्तमुद्गतं स्तनमण्डलम् ॥ २८॥
ममर्द मुदितो वैरिमर्द्दनो मधुमर्द्दनः ।
जग्राहपाणिना पाणिं कस्याश्चित्कामकम्पितम् ॥ २९॥
कामाभिपीड़ितं पूर्वं रामः पश्चादपीडयत् ।
कस्याश्चित्स्वोरसा रम्यवक्षो वक्षोजकर्कशम् ॥ ३०॥
गीयमानः स गन्धर्वकिन्नरीकोटिभिर्मुदा ।
ललितं लालितालापो ललनायुतयूथपः ॥ ३१॥
रमयामास रामास्ता रामो रमयतां वरः ।
रम्योऽनुभूयमानोऽप्य पूर्व एव वपुःश्रिया ॥ ३२॥
दिव्यगन्धानुलिप्ताङ्गो दिव्याभरणभूषितः ।
जगौ समधुरं प्रेम्णा साकं ताभिः प्रियाप्रियः ॥ ३३॥
रञ्जयन् रमणी रामो महामन्मथमन्मथः ।
ननर्त्तानेकधा सुष्टु सङ्गीतागमकोविदः ॥ ३४॥
ब्रह्मानन्दान् परित्यज्य स स्वयं भगवानपि ।
सेवते विषयानन्दानेवं भूमिगतोऽव्ययः ॥ ३५॥
नानारसावहैर्नानाक्ष्वेलवाक्यैर्मनोरमाः ।
हासयन् भासयन् दन्तपङ्क्तिदीप्त्या दिगन्तरम् ॥ ३६॥
जहासाम्बुजरम्यास्यो नानावर्णविचक्षणः ।
नर्तयन्नागरी रामो गापयन् गुणिनांवरः ॥ ३७॥
तासां गीतैश्च नृत्यैश्च हावैर्भावैः कटाक्षितैः ।
प्रसन्नः परमोदाररूपश्रीरमयं ददौ ॥ ३८॥
श्रीरामं रमयामास रामा राममनोरमाः ।
हासालिङ्गनसम्भाषासम्प्रसन्नप्रियेक्षणः ॥ ३६॥
रञ्जिता जीवलोकस्य धर्मस्य परिरक्षिता ।
रक्षिता स्वस्य वित्तस्य स्वजनस्य प्रपालकः ॥ ४०॥
एष राजाधिराजेन्द्रकुमारो धनदाधिकः ।
इन्द्रादिलोकपालेशो दैत्यदानवदर्पहा ॥ ४१॥
सर्वसामन्तसेव्याङ्घ्रिः सर्वज्ञः सर्वसंश्रयः ।
अनादिनिधनो धाता विधाता परमो विभुः ॥ ४२॥
इत्येनं ललना सङ्घा आश्रयन्ते सुखप्रदाः ।
विहारेषु तदज्ञानात् तेषामीशानुधाविनाम् ॥ ४३॥
किन्तु रूपगुणोत्कर्षाद्यौवनारम्भरञ्जितात् ।
माधुर्यातिशयादस्य प्रणयादनुकम्पनात् ॥ ४४॥
सर्वभोगक्षमायोगादीक्षणाच्च मनोरमात् ।
स्मितपूर्वाभिभाषायाः सौन्दर्योपचयादपि ॥ ४५॥
लावण्यात्सौकुमार्याच्च सौगन्धानुभवात्पुनः ।
ललितेभ्यो विहारेभ्यः कुञ्जकेलिरसाद्भृशम् ॥ ४६॥
मुग्धामादकपानेन त्रपाभीतिं विना कृताः ।
तमुपालेभिरे वालाः प्रेयांसं तु निरागसम् ॥ ४७॥
अहो धूर्त्त शठ व्याजमनोरञ्जनकोविद ।
अन्यां त्वं भजसे भीरो दत्वा मह्यं दिनात्ययम् ॥ ४८॥
याहि तामेव सेवस्व शुष्कां सिथिलयोनिकाम् ।
लम्बोदरीं विवर्णोष्टीं स्थूलकेशीं पतत्कुचाम् ॥ ४९॥
अङ्गसङ्गो न ते कार्यो यदन्यासङ्गदूषितः ।
मीनगन्धाङ्गगन्धिन्या कथं त्वं स्ववशीकृतः ॥ ५०॥
रम्योपि रसिकस्त्याज्यः संस्पृष्टोऽशुचिना यदि ।
मन्त्रो म्लेक्षमुखोद्गीर्णो द्विजैर्ग्राह्यो न जातुचित् ॥ ५१॥
सुन्दरेन्द्र इति त्यक्तुं शक्यस्त्वं न मयादपि ।
अन्याशक्त इति प्रेम्णा न संस्पृष्टुमपीप्ससे ॥ ५२॥
काञ्चः काञ्चनसंसर्गी गुन्जाविद्रुमयोगिनी ।
वज्रस्पर्द्धी च काश्मीरो मर्मछिन्दन्ति ते मम ॥ ५३॥
अन्या त्वद्योगिनी रामा गर्वपर्वतवल्लरी ।
यथादुःखाकरी भूरि तथा त्वं सुखदो न नः ॥ ५४॥
भाग्यं तस्या उदेत्याशु यामालिङ्गितुमिच्छसि ।
नीलमुद्गरनीलाभ्यां दोर्भ्यामङ्गं प्रसार्य च ॥ ५५॥
एकैकस्मिन्नपि प्रेयो गुणो दोषशतान्यपि ।
निमज्जेयुर्यथा क्षीरसिन्धौ यादांसि निर्मले ॥ ५६॥
निसङ्ख्यास्ते तु कल्याणगुणाः कल्याण यत्त्वयि ।
स्वल्पो दोषः कदाचित्यः पीयूषांशौ शशादिवत् ॥ ५७॥
गुणानेव ग्रहीष्यामो दोषं भोजयितुर्न ते ।
भृङ्ग्यो गन्धानिवाम्भोजराशेः कण्टकिनोप्य ये ॥ ५८॥
एकोपि गुणिनं दोषो विद्वांसं समुपीडयेत् ।
सुधां चेन्दुं तिरस्कृत्य रत्नाकरमिवानलः ॥ ५९॥
नायमन्यानुरागः स्याद्दोषः कल्पित एव यत् ।
अन्यस्या गुण एवासावन्यस्या मर्म कृन्तनः ॥ ६०॥
यो यस्याः प्रतिकूलः स्याद्गुणोप्यगुण एव सः ।
कुमुदिन्या यथा भानूदयोप्यनुदयप्रियः ॥ ६१॥
नित्यनिर्दोष एवासि त्वं त्वत्सङ्गोऽनहं कृतिः ।
यासां संसर्गतो (जो)दोषस्ता वयं तु विखण्डिताः ॥ ६२॥
स्त्रीत्वप्रयुक्तदोषाणां यत्किञ्चित्स्त्रीप्रसङ्गिषु ।
संसर्गोऽवर्जनीयः स्यात्स्पर्शोऽश्नत्शूद्रतामिव ॥ ६३॥
दोषेभ्यो गुणकैवल्य कामेन त्वयि का स्त्रियः ।
सर्वा एव परित्याज्याः स्वानन्दैकभुजोऽरुजा ॥ ६४॥
नेकापीहावशिष्येत प्राणादपि गरीयसी ।
सा तुल्या स्त्रीसहस्त्रेण तस्याः प्रीतिर्निवर्त्यताम् ॥ ६५॥
यदि योषाप्रसङ्गोत्थ आनन्दस्तेऽसुखत्यजः ।
दक्षिणेन त्वया भाव्यं नानानन्दरसैषिण्णा ॥ ६६॥
एकस्या एक एव स्यादानन्दः कमितुः स्त्रियाः ।
स्नेहं वर्त्त्यैकया दीपो भुङ्क्ते ह्येकगुणं प्रभो ॥ ६७॥
नेत्रानन्द करो न स्यादिन्दुर्द्वये ककलः किल ।
तमस्तोमनिराशाय नापि सर्वकलो यथा ॥ ६८॥
चन्द्रोपि द्विकलत्वेन वृद्ध्यौन्मुख्येन वा भुवि ।
वन्द्यो नैककलस्तद्वदेकश्रीश्च भवानपि ॥ ६९॥
स्वयं पूर्णतमोप्यव्धिरादत्ते परितो नदीः ।
रमयत्याश्रयत्येकः षड्जादिश्रुतिमूर्छनाः ॥ ७०॥
तन्त्र्येकयापि तन्त्रीशो वीणां वादयितुं न ताम् ।
क्षमो हर्षेण तद्वत्त्वं मुदं भोक्तु प्रियैकया ॥ ७१॥
पादैः स हन्यमानोपि तस्यास्त्वं सम्प्रसीदसि ।
पूज्यमानोपि पुष्पौघैर्भीषयस्येव नः सदा ॥ ७२॥
क्षान्तं वैषम्यमस्माभिर्दासीभिस्ते निसर्गतः ।
समं सर्वत्र दैवं तु कथमेतत्सहिष्यते ॥ ७३॥
न त्वं विभेषि देवात्तन्मुखामोदमधुव्रतः ।
मदाघूर्णितनेत्रत्वान्नापि पश्यसि तद्वलम् ॥ ७४॥
तस्या भाग्यादनार्यायाः दैवं दुर्बल मस्तिकिम् ।
तस्या एवानुकूलं वा दुर्बलाभिर्विरुध्यते ॥ ७५॥
कटाक्षैकलवालंविदैवं ते देवतार्चित ।
त्वद्दोर्वल्ली मिलिन्दीनां न वलं च विरोधि तत् ॥ ७६॥
यस्मै त्वमेवरुष्टश्चेत्तस्यात्मापि प्रणस्यति ।
कोस्यान्यो रक्षको लोके विभ्यंस्त्वत्तोभयप्रदात् ॥ ७७॥
सिद्ध्यापि हि स्वतस्त्यक्तः कर्कशोदयया भवान् ।
भवता च वयं त्यक्ता अस्माभिश्च मृतेर्भयम् ॥ ७८॥
अलं सङ्गेन ते धूर्त्त साधुस्त्रीप्रतिवञ्चकः ।
अपूर्णानङ्गरङ्गेन तृष्णासङ्गकरेण च ॥ ७९॥
सर्वराजाधिराजस्य वंशोत्तंसमणिर्भवान् ।
पादस्पर्श कथं कुर्याद्दीनानां नो यथेतरः ॥ ८०॥
पादस्पर्शं स्वदासीनां वृथा मा कुलनन्दन ।
एतत्पश्येन्न कुप्येत्वत्प्रिया प्राणसमा ह्यसौ ॥ ८१॥
किमस्माकं कुचेष्वस्ति विंवाधरसुधासुधा ।
किं यस्या भूयसी भव्यलालसा तव जायते ॥ ८२॥
कृत्वा भूयांसि चागाङ्सि पूर्वं सम्प्रति सन्नतः ।
कथं विश्वसनीयः स्यान्मत्तमातङ्ग विक्रम ॥ ८३॥
सोढुं पत्युः कृतान्मन्तुन्वोढुं गेहधुरं च ताम् ।
स्त्रष्ट्रा सृष्टाः स्त्रियः सर्वा गत्यन्तरविनाकृताः ॥ ८४॥
नत्वं जारपतिश्चापि किन्तु प्रेष्टतमोऽविता ।
हातुं न शक्यसेऽस्माभिरित्यादाववदाम ते ॥ ८५॥
कृतघ्नो निःशठो मूर्खः क्रूरो वञ्चक आतुरः ।
पतितश्च पतिस्त्याज्यो नारायण पराम्मुखः ॥ ८६॥
यदि तेभ्यो विविक्तस्त्वं स्थिरस्नेहो निजेजने ।
ततः प्रेयान्भवान्नो हि दास्यः स्याम हि ते सदा ॥ ८७॥
सुन्दरश्याम ते श्याम कामः साक्षी रतिश्च सा ।
त्वया नः सह संवन्धे श्रीशम्भुस्त्वंविका तथा ॥ ८८॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमपटले रामरहस्ये
मुग्धप्रमत्तप्रमदाविवादप्रकाशनो नाम पञ्चदशोऽध्यायः १५॥
१६. अथ षोडशोऽध्यायः ।
श्रीशिवोवाच-
एवं तासां वचो मुक्तामालां प्रेमाविलां खिलाम् ।
कृत्वा कर्णयुगोत्तंसामुवाच परमप्रियः ॥ १॥
प्राणादपि प्रिया सीता वेदिगर्भोदिता मम ।
सुन्दरी सर्वगात्रेषु श्यामा सौभाग्यमञ्जरी ॥ २॥
सर्वलक्षण सम्पन्ना सर्वदोषविवर्जिता ।
अचिन्त्याद्भुतरूपा श्रीतेजःकान्तिमहोज्वला ॥ ३॥
सर्वशक्तिमयी सीता सर्वशक्तिविधायिनी ।
सर्वागमकलापूर्णा गन्धर्वागमपारगा ॥ ४॥
शृङ्गारस्वामिनी सर्वरागमार्गप्रदर्शिनी ।
रासोत्सवप्रिया नित्यं सर्वलोकैकसेविता ॥ ५॥
भूश्रीलीलेश्वरी देवी लक्ष्मीलक्षसमर्चिता ।
ब्रह्माण्डकोटिभाण्डस्थसर्ववस्तुमहेश्वरी ॥ ६॥
समा एव तया देव्या यूयं प्राणप्रिया मम ।
नित्यं नित्यगुणोपेता दोषसंसर्गदूरगाः ॥ ७॥
रूपलावण्य सौन्दर्यमाधुर्यमृदुतान्विताः ।
मत्प्रणयप्रणालीका गङ्गाधारा इवाच्युताः ॥ ८॥
गीतनृत्यकलाभिज्ञाः सर्ववाद्यविशारदाः ।
प्रहेलिकाप्रहासादिपण्डिता गुणमण्डिताः ॥ ९॥
भूषणांवरमाल्याङ्गरागगाढ़विकल्पने ।
लब्धवर्णाः स्थिताः सर्वलोकवन्द्यपदाम्बुजाः ॥ १०॥
भुक्तिमुक्तिप्रदा देव्यो दिव्यशक्तिधराः पराः ।
योगिन्यो योगमार्गाणां देवताः श्रुतिगोचराः ॥ ११॥
यूयं मम गतिर्नित्या लक्ष्म्यो भूतय ईप्सिताः ।
लोके सर्वस्वभूताश्च सीतांशाः श्रुतिगोचराः ॥ १२॥
सङ्गीतामृतपाथोधिमीनीभूता मम प्रिया ।
यूयं सङ्गीतकारिण्य इति तस्या अतिप्रियाः ॥ १३॥
परञ्चाति प्रियं वापि निर्गुणं सगुणं तु माम् ।
अयमस्माकमेवेति शुश्रूषध्वं निरामयाः ॥ १४॥
येन केनाप्युपायेन साधवः साधु बन्धुकम् ।
मामेकमेव सेवन्ते सेवितं सुरयूथपैः ॥ १५॥
भक्त्या स्नेहेन कामेन कोपेनापि मनीषया ।
लोभेनापि भयेनापि सम्बन्धेन निरा शिषः ॥ १६॥
सेवित्वा श्रुतिसङ्गीतं नारी वापि नरोपि वा ।
धर्मसेतुं जगद्धेतुं मामाप्नोति न संशयः ॥ १७॥
जीवाश्चतुर्विधाः सर्वेमत्सेवाद्यधिकारिणः ।
भजन्मां कृतकृत्यः स्यात्तेषु चान्यतमोपि चेत् ॥ १८॥
न वै मद्भजने वेदा न देवाः पितरो न च ।
नर्षयोपि प्रकुप्यन्ति न दुष्यन्ति कुलस्त्रियः ॥ १९॥
सर्वेपितं प्रसीदन्ति दृष्ट्वा मद्भजनस्पृहाम् ।
यस्य कस्यापि लोकेस्मिन्निति मां भजत प्रियाः ॥ २०॥
न मां पापाः प्रपद्यन्ते मूढा ये च नराधमाः ।
युक्तिभिर्नष्टविज्ञाना आसुरा रुद्रमाश्रिताः (आसुरं भावमाश्रिताः)॥ २१॥
चामुण्डां चण्डिकां दुर्गां कौमारी कालिकाम्बिकाम् ।
भैरवादीन् महाभूतानाश्रिता इष्टदूषिताः ॥ २२॥
अन्यदेवार्चने शक्ता विमुखाः हीनबुद्धयः ।
लोकानुग्रहकर्तारं प्रार्थितं च सुराधिभिः ॥ २३॥
तिरस्कुर्वन्ति मां मूर्खाः प्रविष्टं मानुषीं तनुं (सर्वेश्वरपतिं परम्)।
तेषां नास्ति गतिः क्वापि कल्पान्ते वामलोचनाः ॥ २४॥
अहं केवलया भक्त्या ग्राह्यो ग्राह्यो न चेतरैः ।
साधनैः साधुमर्यादा पुरुषोत्तमसंज्ञितः ॥ २५॥
प्रसङ्गादेतदुक्तं मे सेवाद्युत्कर्षसूचकम् ।
सर्वेभ्योप्यन्यधर्मेभ्यः तुच्छपाकेभ्य
आश्रयात् (श्रेष्ठोमद्धर्मसेवनं )॥ २६॥
पादसेवारता यूयं मम प्रेमा विलाशयाः ।
इति सर्वाहि लोकेभ्य उत्कृष्टा हि समर्चिताः ॥ २७॥
दासस्तवास्मि रामेति सकृद्ब्रूतेतु योनरः ।
विक्रीणाम्यहमात्मानं द्विरावृत्तावृणीभवत् ॥ २८॥
मय्यर्पितमनःप्राणा लोकालोककले वराः ।
इष्टा मे न कुतो यूयं नित्यं पादपरायणाः ॥ २९॥
सर्वत्रान्यत्र तिष्ठामि लोकयात्राप्रवृत्तये ।
एकैकं क्षणमेकाकी युष्माकमनुसर्वदा ॥ ३०॥
ये रसिकाः सदा स्वच्छा भक्ता मे मृगलोचनाः ।
ते युष्माकं भविष्यन्तिपादपद्माश्रयासदा ॥ ३१॥
तस्माद्यूयं प्रसीदन्तु सीताया मम चामलाः ।
आज्ञापनीयो युष्माकं तत्तत् कामाभिपूरणे ॥ ३२॥
इत्युक्ता रामचन्द्रेण पेशलेन गिराममूः ।
ऊचुः प्राञ्जलयः कान्तमुत्फुल्लामललोचनाः ॥ ३३॥
यदस्माभिस्तु वक्तव्यं प्रसादाय युवां प्रभो ।
उक्तं तत्तुत्वयैवेह गम्भीराश्यवेधसा ॥ ३४॥
कोन्यो नः परमो धर्मो येना शुत्वम्प्रसीदसि ।
स्वभावः कोस्ति ते येन प्रसीदामश्च सुन्दर ॥ ३५॥
नैव स्यात्कृत्रिमः स्वामी स्वतः स्वाम्येव यः सहि ।
दासास्त एव ये हेतुं विनैव प्रकृति स्थिताः ॥ ३६॥
शुश्रूषणपरा नित्यं दासा भगवतस्तव ।
तथाभूतावयं दास्यः स्वामी त्वं च यथाविधः ॥ ३७॥
स्वस्वामिभावसम्बन्धो निर्हेतुः कथयिष्यते ॥
अन्यः सर्वोपिसम्बन्धो व्यापारः स्वार्थहेतुकः ॥ ३८॥
प्रेमानस्त्वयि निस्सीमः कृपा चास्मासु ते परा ।
एतद्द्वयमुपाधिः स्यान्नित्यो नस्ते सह स्थितौ ॥ ३९॥
नारीणां चलचित्तानां पूर्वपूर्वत्यजां त्वया ।
विना नो हृदयं केन नीयेतानुदिनं वशे ॥ ४०॥
पूज्याः स्त्रियः परित्यज्य त्रैलोक्यां याः स्त्रियोऽखिलाः ।
तासां निधुवने दोषो न त्वां स्पृश्येदनाहतम् ॥ ४१॥
या यारागवशाद्वाला नैव केनापि दूषिताः ।
तासां तु सुरतौ दोषैः कथं स्पृश्यो भवान् भवेत् ॥ ४२॥
सर्वेषु देशकालेषु जीवास्त्वामनुजीविनः ।
ते सर्वेपित्वदाभासा एक एव भवान् पुमान् ॥ ४३॥
ततो युगपदेकस्त्वं सर्वान् धारयितुङ्क्षमः ।
सर्वा रमयितुं नारीः परेशोऽपि च रक्षितुम् ॥ ४४॥
सामर्थ्यं तव यावच्च वीर्य्यं तेजोवलं च तत् ।
तावन्नास्ति नियाम्यं ते ज्ञानतुल्यो न गोचरः ॥ ४५॥
यावत्कामो वलीयांस्ते तावन्नार्यो न सन्ति ते ।
न ते कामो रजोजन्यः शुद्धसत्यमयोह्यसौ ॥ ४६॥
पर्याप्तास्तवकामस्य कथं स्यामाक्षयस्य यत् ।
सङ्कल्पप्रभवः सोयं तेनासाबुपशाम्यति ॥ ४७॥
सर्वासां त्वं पतिर्भर्त्ता स्वतः सर्वेश्वरो यतः ।
सर्वं स्वकीयमेव स्यादन्यदीयं न किञ्चन ॥ ४८॥
केनापिचदुर्दिष्टेन लुप्ते ज्ञाने वयं मुधा ।
जारभ्रान्त्या भजामस्त्वामुपालम्भ्यापि निर्भयाः ॥ ४९॥
जारबुध्वापि भर्त्तस्त्वं सेव्यमानः प्रसीदसि ।
अत्यर्थं सर्वदा भोग्यो नव्योनव्यः प्रतिक्षणम् ॥ ५०॥
भक्त्या त्वां केपि विद्वांसः संवन्धेनापरेऽमला ।
मैत्र्यास्नेहेन चाप्यन्ये तपसा कर्मणा परे ॥ ५१॥
केचित्साङ्ख्येन योगेन व्रतैर्दानैस्तथापरे ।
स्वाध्यायै संयमैश्चान्ये केचित्तीर्थनिषेवणैः ॥ ५२॥
केचिद्यागेन योगेन सत्येनान्ये च साधवः ।
सर्वत्र दयया देवित्केचिदाज्ञाऽनु पालनैः ॥ ५३॥
केचित्त्वच्छरणापत्या केचित्साधु सदादरैः ।
आचार्योपासनेनान्ये भावशुद्ध्या च केचन ॥ ५४॥
सेवन्ते सर्वदातारं पातारं भवबन्धनात् ।
वयं तत्र तु कामेन शुद्धेन त्वां भजामहे ॥ ५५॥
तत्रहेतुस्त्वदीयन्तु रूपं सौन्दर्य्यमुत्तमम् ।
माधुर्य्यं यौवनारम्भः सौगन्ध्यं सुकुमारता ॥ ५६॥
लावण्यम्परमा कान्तिः सौशील्यं खलु सौहृदम् ।
सौलभ्यं परवात्सल्यं प्रसन्नत्वं स्वभावतः ॥ ५७॥
शक्तिर्नानाविधा सर्वकला प्रावीण्यमाश्रयम् ।
अन्येपि ते स्युः कल्याणगुणास्सर्वत्र पूजिताः ॥ ५८॥
स्वभावाद्भुवनारीणां मनो नेत्रे च दुर्वशे ।
वर्त्तन्ते रूपसम्पन्ने तस्य तासु च तानिह ॥ ५९॥
पुंसामपि त्वयिस्यातां मनोनेत्रे मनोरमे ।
कुतो न युवतीनां तु पश्यतीनां पुनः प्रिय ॥ ६०॥
पुराणपुरुषो येषां तेषामेव तथाविधः ।
विशुद्धो निर्गुणः साक्षी कूटस्थो विजितेन्द्रियः ॥ ६१॥
अस्माकं तु विमुग्धानां कामुकेशः कलानिधिः ।
रम्योनवो नवः सौम्य एको भोग्यः क्षणे क्षणे ॥ ६२॥
काकपक्षधरो नित्यं त्वं पञ्चदश हायनः ।
बुभुक्षू रसिकेन्द्रश्च युवराजस्फुरद्युतिः ॥ ६३॥
नेदं कालकृतावस्था विशेषस्ते नवं वयः ।
किन्तु स्वाभाविकं तद्धि कालकर्मेश्वरस्य यत् ॥ ६४॥
इत्युक्तो रामचन्द्रस्तु नायकेन्द्रो रसप्रियः ।
मुग्धाभिश्च विदग्धाभिस्ताः प्रत्याह महामनाः ॥ ६५॥
किमर्थं चोच्यते गुप्तं वेदान्तेष्वपि गोपितम् ।
उपयोगि रसस्यैव वक्तव्यं वो मृगीदृशः ॥ ६६॥
कर्तव्यं च तदेवात्र यत्स्वारस्यकरं रसे ।
नात्र धर्मोपयोग्येव नार्थतत्त्वं न मुक्तिदम् ॥ ६७॥
कौशल्याया अशल्यायाः पुण्यराशेः सुतोस्मि यत् ।
रामो दाशरथिर्नाम्ना कुतोऽहं परमेश्वरः ॥ ६८॥
कामिनीकेलिकल्लोललोललोचनमानसः ।
स्वयं कामवशो वामलोचनाकामवर्धनः ॥ ६९॥
यो वः कामो वरो मत्तो याचन्तां तमनातुराः ।
दातुं पुण्यचयैः शक्तात्प्रसन्नाद्वामलोचनाः ॥ ७०॥
मयि प्रसन्ने जगतां निदाने निधानभूम्यां चिदचिद्गुणानाम ।
भवेत्तु किं दुर्लभमत्र तेषां विनाश्रमेणाऽवितरि प्रजानाम् ॥ ७१॥
श्रुत्वा वचो लोकपतेरितीमा ऊचुः प्रियप्रेमजलाविलाक्ष्यः ।
त्वत्तोऽपि किञ्चित्परमस्ति वस्तु त्रैलोक्य चिन्तामणिरूपपुञ्जात् ॥ ७२॥
श्रियोऽपि जीवातुतरोः परस्तात् समस्तकार्यादिह विद्यमानात् ।
यदद्ययाचामह ईश्वरत्वाद्भवेम येनामृतजीवितां च ॥ ७३॥
त्वमेव नो देहि विदेहपूज्य कृत्वा कृपां कोमलचित्तमार्द्रम् ।
यस्मिन् समस्तं त्वयि देवदेवे यस्माद्वहिर्भूतमलीकमेव ॥ ७४॥
स्वकीयपादाम्बुज सेवनं विना त्वयैव दीयेत यदन्यदापदाम् ।
सदास्पदं नोचितमेव तद्विभो तवाश्रयस्याखिलसिद्धिसम्पदाम् ॥ ७५॥
यदि त्वयान्यः प्रियदेय एव नो वरस्तदायं भवदीयकेलिषु ।
कुदृष्टयो या न भवन्ति दीयतां रतेश्च तेभ्योऽतिशयो विसंशयः ॥ ७६॥
त्वदीयपादाम्बुजभृङ्गचेतसां रसानुकूलां प्रकृतिं ह्युपेयुषाम् ।
सहस्त्रदोषान्नच नो विचारयन् रमस्वचैषां नवनीतकोमल ॥ ७७॥
स्वकीयपादाम्बुजसङ्गमेव नो वदान्यमूर्द्धन्य विधेहि सर्वदा ।
वियोजय प्राणपते न कोपतः प्रिया इति त्वच्चरणानुजीविनीः ॥ ७८॥
समुद्रमेवाभिमुखं गता नदीस्त्यजत्यसौ नैव न गर्वितोऽप्यथ ।
त्वदीय पादाभिमुखास्तथाङ्गना निवर्त्तनीया न कदाचनत्वया ॥ ७९॥
प्रसङ्गतः प्रीतिपरा पराध्यति प्रियेत्यहं कान्त तवानुलालनात् ।
मयेत्युपादीयत एव सिन्धुना नदी नभस्येवमलीमसाप्यसौ ॥ ८०॥
लताश्रिता देवतरोरिवात्मनः सदङ्गनै, कापि तवाप्यलङ्कृतिः ।
घनो घनश्रीस्तडितैव शोभतिस्फुरत्तडिद्गर्जति वर्षते च सः ॥ ८१॥
स्त्रिया न कस्यास्तव रूप दर्शने चलेत्स्वधर्मान्न मनोथ लोचने ।
लता न का मुञ्चति पुष्पमेजतेऽनिले चलत्याशु च चन्दनाचले ॥ ८२॥
कुमुद्वती का न मुदं समश्नुते सुधांशुराशौ समुदञ्चति प्रिये ।
त्वयि श्रुते दर्शनमागते च का भजेन्न भावानपि सात्विकानलम् ॥ ८३॥
चतुर्विधः कोशलपालनन्दन त्वमेव सर्वेषु च नायको भुवि ।
वदन्ति सर्वेऽपि भवन्तमेव चतुर्मुखाद्याः कवयो हि नायकम् ॥ ८४॥
निजानुरागोपहृतात्मभोग्यं करोषि तासामनुरागराधितः ।
मुदात्मसात्वं स्वयमीश्वरोपिसन्न नान्यतन्त्रात्मसुखोपि सर्वदा ॥ ८५॥
तवेश्वरीयं जनकात्मजा सखे रसैकलीलानुभवेषु भूरिषु ।
वहिस्सभायां तु भवानपीश्वरः सदैकमार्गानुगतः सताम्मतः ॥ ८६॥
वयं तु वां सख्यमुपागता रते रसोपयुक्ता न तु धर्मसाधिकाः ।
रसप्रिया रागरता मतास्त्वया रसैकदेहेन विदेहजापते ॥ ८७॥
वचाञ्सिता सामिति रामचन्द्रमा निशम्य सौम्यो मधुरैकसागरः ।
उवाच चारुस्मितचित्तरन्जको विरञ्चिवर्ण्यो रमणीः सखीरिमाः ॥ ८८॥
यथा यथामां भजते भुजार्जितत्रिलोकलक्ष्मीललनं तथा तथा ।
प्रियो मम स्यात्पुरुषोगनात्र वा विचारणा नेति मयोदितं पुरा ॥ ८९॥
यदत्र वक्तव्यमनङ्गवर्द्धना मया तदादावुदितं विचार्य्य तत् ।
सुखेन साकं मयका सतां चिरं चिरन्तनेनामृतचेष्टितेन वः ॥ ९०॥
एषा लीला जनकतनयावल्लभस्यावतारे
व्यक्ता युक्ता दमसमविदां वक्तूमुक्ता मयाते ।
नित्यापिस्यादवनितनुजा प्रीतये ब्रह्मपुर्य्यां
ध्याता भाता हृदय कमले कान्तदेवो दधाति ॥ ६१॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमेपटले
श्रीरामरासे भावप्रकाशो नाम षोडशोऽध्यायः १६॥
१७. अथ सप्तदशोऽध्यायः ।
श्रीशिव उवाच-
श्रुत्वा रासाख्य केलिं तामेतां श्रीराम योषिताम् ।
व्युदश्रुमुर्मुदेत्यर्थमगस्त्यो भगवान् मुनिः ॥ १॥
जगादागाधवोधंस महाभागवतं कपिम् ।
वेत्तारं रामरङ्गाणां वक्तारं च यथा रुचि ॥ २॥
त्वया राम रहस्याख्य सुधामत्र कृतोस्म्यहम् ॥
इमे च मुनयः साधु बाधा बाधक सत्पते ॥ ३॥
सीतापतेश्चरित्राणि ज्ञातानि च श्रुतानि च ॥
पवित्राणि चचित्राणि सन्त्यनन्तानि मारुते ॥ ४॥
तेषु चैतत्परं रम्यं रामप्रेमानुभावकम् ।
मनोनेत्रसुखानन्त्यश्रवणोत्सवमालिका ॥ ५॥
अत्यन्तगोपनीयेयं रामकेली रसात्मिका ।
धीरोदात्तगुणोद्दामरामेणापि सुगोपिता ॥ ६॥
श्रुत्वात्वद्वदनाम्भोजाद्रामकेली मतीं सुधाम् ।
रामे भक्ती रसापन्ना जातानोद्यदृढ़ाधिका ॥ ७॥
चिरञ्जीव चिरञ्जीव चिरञ्जीव महामते ।
इयं सञ्जीवनी नाम दत्ता ते नो महालता ॥ ८॥
श्रूयते वानरीसेना त्वया सञ्जीवितामृतेः ।
मोचितो लक्ष्मणोभ्रातुर्वहिःप्राणश्च सङ्कटात् ॥ ९॥
रामश्च तारितः शोकसिन्धुबन्धुवियोगजम् ।
रामप्रिया परित्राता प्राणदानेन रक्षसः ॥ १०॥
सुग्रीवः स्थापितो राज्ये लङ्का न्यस्ता विभीषणे ।
ऋषयो रक्षिता पापाच्छत्रोर्गुप्ताश्चदेवताः ॥ १॥
प्रीणितः पार्वतीनाथो ब्रह्मा च परितोषितः ।
शोकसन्तापदावाग्रेर्मोचितो भरतोपि ते ॥ १२॥
त्वद्दत्तं वासवो राज्यमध्यास्ते सुरसेवितः ।
त्रैलोक्यं पालितं येन सत्वां स्तोतु न शक्यते ॥ १३॥
प्रत्युपकारं न पश्यामो येनानृण्यं तु नो भवेत् ।
भक्त्या पूर्णतमस्यापि तव मारुतनन्दन ॥ १४॥
किन्नर्यो रामरासं मे गन्धर्वैश्च पुरस्कृताः ।
दर्शयन्ति च दाक्षिष्यादनुरागं दिदृक्षवे ॥ १५॥
इत्युक्तं यत्त्वया पूर्वं तत्सुखं मे मनोऽक्षिणी ।
दिदृक्षन्ते दयायास्ते रासानुकरणं हरेः ॥ १६॥
अखण्डब्रह्मचर्यस्य नारीनृत्यादिदर्शनम् ।
कथं घटेत ते साधो ऋते रामानुशीलनम् ॥ १७॥
श्रीरामोहृदयाम्भोजे झटित्यायात्यनेन तु ।
श्रुतेनापिच दृष्टेन कुतो नारक्तलोचन ॥ १८॥
सर्वसाधनसम्पन्नं रामानुकरणं परम् ।
एतस्मिन् सुलभे नान्यत् कर्तव्यं भजनादिकम् ॥ १९॥
यस्मिन्रसे निमग्नोसि तुच्छीकृत्य सुरेप्सितान् ।
भोगान्मोक्षावधीन् सर्वांस्तान्नः पायय पावने ॥ २०॥
इत्थं सम्प्रार्थितःसद्भी रामभक्तैर्मुनीश्वरैः ।
हनुमान् रामदासाग्रय एकाग्र हृदयो हरौ ॥ २१॥
आकारयांवभूवाथ किन्नरीः सुरसुन्दरीः ।
रूपलावण्यसम्पन्नाः सङ्गीतागमविशारदाः ॥ २२॥
विशिष्टा रामरासे च हनूमच्छिक्षयाखिलाः ।
गन्धर्वा रामरासज्ञा रामभक्तावलोकिताः ॥ २३॥
रक्तांवरधरारक्तमाल्यगन्धानुलेपनाः ।
द्वादशहायनाभास्ते दिव्यधूपावधूपिताः ॥ २४॥
वीणावेणुमृदङ्गादिवाद्यसम्पत्तिशोभिताः ।
देवराजसखं रामभक्त समुपतस्थिरे ॥ २५॥
ततोरासस्थलीं रम्यां मुक्ताजालपरिस्कृताम् ।
नानापुष्पलतावृक्षदिव्यामोदसुवासिताम् ॥ २६॥
हरिचन्दनसंसिक्तां दिव्यधूपावधूपिताम् ।
दीपिकामालिकादीप्तिचन्द्रज्योतिर्विकाशिताम् ॥ २७॥
स कुर्वन् कारयित्वा च सर्वशोभासमन्विताम् ।
रामराससुखाक्रीडामृषिसङ्घमनोहराम् ॥ २८॥
अशोकवनिकांशेन मत्वा बुद्ध्या महामतिः ।
कदलीवनमादध्यौ लीलास्थानं हरेरिति ॥ २९॥
तस्मिन् प्रवर्तयामास रासलीलां सुरीगणैः ।
स्वयञ्च पण्डितस्तत्र सङ्गीते मारुतात्मजः ॥ ३०॥
पश्यत्सु मुनिसङ्घेषु दिवि देवेषु चादृतः ।
रासलीलारसाविष्टमानसेन्द्रियधामसु ॥ ३१॥
मुनिराजे स्थिते चात्र रामाराधनलालसे ।
नर्त्तुंस्वयंहनूमांस्तुप्रवृत्तः स्मरसुन्दरः ॥ ३२॥
सीतायाश्च सखीत्वेन किन्नर्यः कल्पिताश्चिरम् ।
नृत्यान्यारेभिरे तत्र देशीमार्गनिदर्शनात् ॥ ३३॥
जगुर्गन्धर्वडिम्भाश्च मधुरस्वरमूर्च्छनाः ।
तानानि तेनिरे तत्र तालैश्चित्रतराणि च ॥ ३४॥
कुमारी कापि देवस्य सर्वलच्क्षणसंयुता ।
रूपसौन्दर्यमाधुर्यलावण्यादिगुणोज्वला ॥ ३५॥
सीताभावेन माधुर्यध्याता नृत्यविशारदा ।
बालेति त्रपया त्यक्ता मत्ता च मदिरासवैः ॥ ३६॥
नीलोत्पलदलश्यामो रक्ताम्बुजविलोचनः ।
कश्चिद्देवकुमारश्च रामोऽयमिति कल्पितः ॥ ३७॥
वेदान्तदिव्यनेत्रेण ब्रह्मदृष्टिसुपूजितः ।
आब्रह्मण्यपि जीवेषि फलसिद्धिश्च पुष्कला ॥ ३८॥
यथा सर्वगतो रामः सीता सर्वगता तथा ।
तयोर्दृष्ट्या तयोर्मानः पूजा च विहितैव हि ॥ ३९॥
रामांवरधरो रामकिरीटमुकुटादिधृक् ।
रामगन्धानुलिप्ताङ्गो राममाल्याङ्गुलीयकः ॥ ४०॥
रामध्यानपरो रामगतागतविचेष्टितः ।
रामभाषावलोकादी रामरूपकलान्वितः ॥ ४१॥
रामात्मकत्वाद्रामोहमिति भावरसेक्षितः ।
स श्यामः शुभगः सिद्धश्चेतांसि विचिकर्ष ह ॥ ४२॥
रामोपमेव रामोयमेवेत्यध्यवसायवान् ।
सिद्धसङ्घस्तदाचासीद्रामदर्शनहर्षितः ॥ ४३॥
चामरव्यजनच्छत्रध्वजाताम्बूलकेतुभिः ।
श्रीरामं सीतया युक्तमृषयोपिसिषेविरे ॥ ४४॥
तासां गीतैस्तथा नृत्यैर्वासोऽलङ्कारभूषितैः ।
रामस्य च कलाभेदैः सीतायाश्च मनोहरैः ॥ ४५॥
मधुरैः कोमलैर्वाद्यैस्तालैर्नानाविधैरपि ।
मूर्च्छितैर्मूर्च्छितानन्दैर्मूर्छामापुर्मुनीश्वराः ॥ ४६॥
सिद्धा अपि समाधिस्था उत्तस्थू रसवर्षणात् ।
आनन्दाश्रुसुधाधौतवदनाम्बुजलोचनाः ॥ ४७॥
त्यक्तकृच्छादिसङ्कल्पा न्यस्तमुक्त्यादिसिद्धयः ।
अध्यवसितसीतेशपादपद्मानुशीलनाः ॥ ४८॥
अगस्त्यप्रमुखास्तत्र द्रष्टारो मुनयोऽभवन् ।
तयो रासरसानन्द काम्यया कवलीकृताः ॥ ४९॥
अहोरम्यमहोरम्यं नेत्रश्रोत्रमनोहरम् ।
रसानुकरणं ह्येतत्सद्यो रामोपलम्भकम् ॥ ५०॥
एतस्या रामलीलाया द्रष्टा श्रोतानुमोहितः ।
न स्वर्गे नापवर्गेच कदापि कुरुते मनः ॥ ५१॥
एतद्रसतरङ्गिण्यास्तीरे तीरे दिवौकसाम् ।
तृणायन्ते सुखानीतो नीतान्यन्यानि पांशुताम् ॥ ५२॥
शोकसन्तापतृष्णाद्याः संसारविषवृक्षजाः ।
सद्यः पाका विनश्यन्ति रामक्रीडामृतौषधात् ॥ ५३॥
विदुषाविदुषा वा च रामः साक्षाद्विलोक्यते ।
सर्वात्मना मनोवागगम्योपि सह सीतया ॥ ५४॥
रसाविष्टतया हृष्टो स्पष्टैश्वर्यानुभूतिकः ।
आत्मानन्दाशनोऽत्यन्तं मत्तः सोर्थविमानतः ॥ ५५॥
रसमप्यां तु लीलायां मत्तैश्च प्रमदागणैः ।
असत्कृतोपि संहृष्टः प्रीतये नितरामसौ ॥ ५६॥
भक्तानां रसशक्तानामागांसि क्षमते स यत् ।
ततो ज्ञानादितः श्रेष्ठा भक्ती रामस्य रामदा ॥ ५७॥
अहो धन्याग्रगण्योऽयं भक्तानामञ्जनीसुतः ।
रामलीलारसास्वादी यदर्थं कदलीवने ॥ ५८॥
धन्या इमाश्च किन्नर्यो रामलीलासुधाभुजः ।
धन्याश्च बालगन्धर्वा रामगीतामृताशनाः ॥ ५९॥
धन्यं रम्भावनं चैतद्यत्र रामोत्सवा इमे ।
धन्या वयं च यद्रामे लब्धभक्तिरसामृताः ॥ ६०॥
प्रशंसन्नेवमात्मेशजनान् वायुसुतादिकान् ।
पश्यन् रामसुखान्यास षड्मासान्कुम्भसम्भवः ॥ ६१॥
हनूमानात्मनः श्रुत्वा रामप्रेमप्रशंस्यताम् ।
उवाच प्रणतोऽगस्त्यं रामस्नेहसुरापगम् ॥ ६२॥
पुत्रीवत्पौत्रवद्रामो मातृवन्मम सर्वदा ।
श्यालवद्भामवद्रामः श्वश्रुवच्छसुरादिवत् ॥ ६३॥
पुत्रीवत्पौत्रवद्रामो भागिनेयादिवन्मम ।
सखीवत्सखिवद्रामः पत्नीवदनुजादिवत् ॥ ६४॥
राजवत्स्वामिवद्रामो भ्रातृवद्वन्धुवत्सदा ।
धर्मवदर्थवद्रामः काममोक्षादिवन्मम ॥ ६५॥
व्रतवत्तीर्थवद्रामः साङ्ख्ययोगादिवत्सदा ।
दानवज्जपवद्रामो यागवन्मन्त्रवद्वलम् ॥ ६६॥
राज्यवत्सिद्धिवद्रामो यशोवत्कीर्तिवन्मम ।
घृतादिरसवद्रामो भक्ष्यभोज्यादिवत्सदा ॥ ६७॥
गन्धमाल्यादिवद्रामो भूषणाम्वरवत्सदा ।
नृत्यवद्गीतवद्रामो वाद्यवन्मधुरो मतः ॥ ६८॥
अश्ववद्गजवद्रामः पितृवत्सुहृदादिवत् ।
दासीवद्दासवद्रामो मृगपक्ष्यादिवन्मम ॥ ६९॥
आरामोद्यानवद्रामः छाया वद्वन वन्मम ।
गृहवत्कुलवद्रामो वसन्तादिवदेष मे ॥ ७०॥
बालवद्वृद्धवद्रामो विटलम्पटवद्रसे ।
मत्तप्रमत्तवद्रामो रामो केलिरसादिषु ॥ ७१॥
विस्मृतौ शत्रु वद्रामश्चित्तस्तेये च चौरवत् ।
वैद्यवद्विरहव्याधिनाशने च सदा मम ॥ ७२॥
या प्रीतिः सर्वभावेषु प्राणिनामनपायिनी ।
रामे सीतापतावेव निधिवन्निहिता मुने ॥ ७३॥
सर्वकार्यकरो रामो दिव्यमानुषशक्तिकः ।
इति मे मानसे नित्यं निहितो भगवान् स्वयम् ॥ ७४॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमेपटले
श्रीरामरहस्ये कदलीवनकेलि प्रकाशोनाम सप्तदशोऽध्यायः १७॥
१८. अथ ष्टादशोऽध्यायः ।
श्रीशिवोवाच-
इति श्रीरामदेवस्य विलासान् व्यलसोल्लसन् ।
श्रुत्वो चैऽसौहनूमन्तमञ्जनानन्दनं मुनिः ॥ १॥
एतद्गुह्यतमं वीर रामस्यैकान्तवासिनः ।
कथं तेऽवगतं विद्वंश्चरितामृतमुत्तमम् ॥ २॥
श्रुत्वागस्त्यमुखादेतद्वायोः सूनुरुवाच तम् ।
यतोऽमृतमिदं प्राप्तं तन्निबोध महामते ॥ ३॥
आबालाद्रामभद्रस्य लक्ष्मणोऽनुचरोऽनुजः ।
यदेतन्मुनिवर्य त्वं वेत्सिवेद विदांवर ॥ ४॥
प्राप्तं मे भगवद्रामचर्यामृतमिदं ततः ।
प्रसन्नाद् हृष्यतोऽत्यन्तमे कान्तसहचारिणः ॥ ५॥
अभूस्त्वं रावणस्यैव मेरोरपि गिरेर्गुरुः ।
शक्त्या त्वं वीरघातिन्या वीरशय्यां गतोप्यलम् ॥ ६॥
मम त्वं पुष्पमालेव सुगन्धिः सुखकोमलः ।
उन्नयनेऽभवोऽशेष भूमिमारोप्यहो लघुः ॥ ७॥
सौमित्रे त्वत्कृपा चात्र हेतुर्बुद्धोमयाऽनघ ।
प्रसन्नोऽवोचदात्मज्ञः कृतज्ञो भक्तवत्सलः ॥ ८॥
आञ्जनेय महावीर सत्यमुक्तं त्वयात्विदम् ।
उद्धर्तुं मां महेशोपि नालं तार्क्ष्यसमोपि सन् ॥ ९॥
शक्यो भक्त्यैव चोन्नेतुमीश्वराणामधीश्वरः ।
श्रीरामो भगवानादिदेवो विश्वम्भरो ध्रुवः ॥ १०॥
का कथास्मत्समुत्थानोत्थापनानयनादिषु ।
यदि त्वं शक्नुयादात्मनाथभक्त्या प्रवृद्धया ॥ ११॥
वशीकारो महेन्द्रस्य प्रीत्युल्लासितसेवनम् ।
तत्रैव सरसो भक्तिशब्दः शब्दविदांवर ॥ १२॥
प्रीत्या परमयासाधो त्वया रामः प्रसाधीतः ।
आत्यन्तिकीप्रिया तस्य सीतापिप्रथितागुणैः ॥ १३॥
अंशा एव वयं त्वस्यदासा भृत्याश्च सेवकाः ।
आज्ञया कृष्यमाणत्वात्स्वतन्त्रा न कदाचन ॥ १४॥
तस्मिन् भगवति प्रीते श्रीरामे पुरुषोत्तमे ।
प्रीता एव वयं सर्वे तस्य प्रीणयितुः परम् ॥ १५॥
तत्पूजा नः परा पूजा तत्स्तोत्रं नः परास्तुतिः ।
तद्भावो नः परो भावो सख्यं तत्सख्यमेव नः ॥ १६॥
तत्स्वाम्यं नः परं स्वाम्यं तत्कीर्त्तिर्नः पराप्रथा ।
तल्लाभो नः परोलाभो हानिस्तद्धानिरेव नः ॥ १७॥
आनन्दोऽस्य न आनन्दस्तद्धर्षो नः परा गतिः ।
तत्तोषो नः परस्तोषः पुष्टिस्तत्पुष्टिरेव सन् ॥ १८॥
प्रसादोऽस्य प्रसादो नस्तज्जयो नः परो जयः ।
तत्सेवा नः परो धर्मस्तदाज्ञानः परा श्रुतिः ॥ १६॥
सम्पदोऽस्य परा सम्पत्तद्धनं नः परं धनम् ।
प्रयोजनं परं वीर तत्प्रयोजनमेव नः ॥ २०॥
तत्सत्ता नः परा सत्ता तत्स्थित्या नः परास्थितिः ।
आत्मा नः सर्वथारामः किं विशिष्याऽभिधीयते ॥ २१॥
एतत्पदाम्बुजद्वन्द्वे निर्द्वन्द्वारतिमास्थिता ।
तेस्माकं बान्धवा लोके मित्राणि गुरवोपि च ॥ २२॥
त्वं तु तेषां सहस्त्रेभ्यो गुणैः सर्वैर्विशिष्यसे ।
आद्योदाहरणं धीमन् स्वामी धर्मभृतां गुणैः ॥ २३॥
आञ्जनेयत्वया रामः सहायेन कृपाकरः ।
अवाप महतीं कीर्त्तिं श्रियं सिद्धिं च शाश्वतीम् ॥ २४॥
अनुकम्प्यः कुतो नासि सर्वेषां नः परन्तप ।
अष्टाङ्गबुद्धियुक्तश्च महावीर्यो महाबलः ॥ २५॥
गणयामस्तवैवेह श्रीरामेमतिमुत्तमाम् ।
गङ्गाधारामिवाम्भोधौ तैलधारामिवाचलाम् ॥ २६॥
दयमानमनास्त्वेवं मय्यसौ कुम्भसम्भव ।
विज्ञापितो रहस्यज्ञो लक्ष्मीवाल्लक्ष्मणो मया ॥ २७॥
यद्यहं तेदयापात्रं रक्ष्योस्मि सर्वथा त्वया ।
सौमित्रे मित्रभावेन ततो मामवलोकय ॥ २८॥
श्रीरामस्य चरित्राणि दृष्टानि च श्रुतानि च ।
बहूनि बहुधा तात सुधास्पर्द्धानि सर्वशः ॥ २९॥
किन्तु तानि रहस्यानि भुक्तिमुक्तिकराणि च ।
शत्रूणामपि भोग्यानि वन्धनानि मनीषिणाम् ॥ ३०॥
श्रुतानिनैव रामस्य दृष्टानि तु कुतो मया ।
तद्गुणश्रावकैरल्पाद्वानरत्वान्नरोत्तम ॥ ३१॥
धर्मार्थो च परित्यज्य यानि देवो दिवानिशम् ।
भुङ्क्ते तु भूभुवा साकं सुधा यत्र मुधामता ॥ ३२॥
तानि मे वद कल्याण कल्याणी भारती तव ।
रहस्यानि रहस्यज्ञ निर्विकारस्य सर्वतः ॥ ३३॥
रामस्य दक्षिणो वाहुर्दक्षिणो गुणवर्णने ।
रामस्य गीयसे सर्वैः सान्तःपुरजनस्य च ॥ ३४॥
त्वामाहुरृषयः प्राणं श्रीरामस्य वहिश्वरम् ।
त्वय्यप्यस्य तु किं गोप्यं वाह्याभ्यन्तरवस्तुसु ॥ ३५॥
सञ्जीवनी मयानीता जीवनार्थं वनौकसाम् ।
भवन्नाथास्तयौषध्या जीवितास्ते वनौकसः ॥ ३६॥
मामुज्जीवय रामस्य चरितामृतवीरुधैः ।
जीवन् श्रीरामकामाय भविष्यामि पुनः पुनः ॥ ३७॥
इत्थमर्थितदेवेन लक्ष्मणेन सुलक्ष्मणा ।
उक्तानि तु रहस्यानि यानि ते न्यगदं मुने ॥ ३८॥
स्वरूपं परिपृष्टेन परितुष्टेन ते न च ।
यदन्यद्व्यञ्जितं तत्र श्रावयेयं मुने परम् ॥ ३६॥
लक्ष्मणउवाच-
सीतादूत महाभाग त्वया पृष्ठोनिशम्यताम् ।
आस्तिकाग्र्याधियाधीर गोप्याद्गोप्यमिदंहरेः ॥ ४०॥
आयुर्वेदो धनुर्वेदो गान्धर्वं चार्थदर्शनम् ।
इतीमानिदशाङ्गानि रथ नामानि यस्य सः ॥ ४१॥
ज्ञेयो दशरथो वेदः साध्य साधन दर्शनः ।
यज्ञेसौयज्वनां वंशे इक्ष्वाकूणां महात्मनाम् ॥ ४२॥
मर्यादापालनायैव लोकानां धर्मवृद्धये ।
राजात्मना वरीवर्त्ति शक्तित्रयसमन्वितः ॥ ४३॥
त्रिकाण्डोऽखण्ड रूपार्थो ब्रह्माण्डे शम्मुखालयः ।
शब्दरूपेण विप्राणामास्येषु निवसत्यसौ ॥ ४४॥
क्रिया ज्ञानं तथोपास्यरिति शक्तित्रयीशितुः ।
एकैका बहुविस्तारा फलस्फारा प्रमात्मिको ॥ ४५॥
तासां क्रिया तु कैकेयी सुमित्रोपासनात्मिका ।
ज्ञान शक्तिश्च कौशल्या वेदो दशरथो नृपः ॥ ४६॥
क्रियायां कलहो दृष्टो दृष्टा प्रीतिरुपासने ।
ज्ञानेनात्मसुखं नित्यं दृष्टं निर्हेतु निर्मलम् ॥ ४७॥
सर्वोधर्मः क्रियाजन्मा स्वर्गादिस्थितिकारणम् ।
कैकेय्याख्यक्रियायां तु जातोऽयं भरतात्मना ॥ ४८॥
सर्वेषां जगतां नित्यं धारणाद्भरणाच्च सः ।
भव्यवस्तुरतत्वाच्च ख्यातोसौ भरताख्यया ॥ ४९॥
क्रियाकाण्डस्य शास्तासावैश्वर्यस्यापि शक्तिभृत् ।
पक्षपाती च धर्माणामधिष्ठाता प्रतिष्ठितः ॥ ५०॥
सुमित्रारूप शक्त्या तु जनितो लक्ष्मणोऽर्भकः ।
भक्तः परिजनो दासः सखा सेवादि दैशिकः ॥ ५१॥
भगवद्रामदेवस्य कल्याणगुणशालिनः ।
अर्चनीयाङ्घ्रि पद्मस्य दातुश्चानन्दसम्पदाम् ॥ ५२॥
सर्वेषां लोककामानां व्यवस्थापकताश्रितः ।
सर्वेषां रामकामानां नित्यानामपि साधकः ॥ ५३॥
कामाख्यपुरुषार्थस्य नेता लक्ष्मण उच्यते ।
भक्तानां पक्षपातीच रामादेशे धृतव्रतः ॥ ५४॥
शत्रुघ्नो नित्य शत्रुघ्नोरामरामजनावलेः ।
तयैव जनितो देव्या ममप्राणममोऽनुजः ॥ ५५॥
अर्थाख्यपुरुषार्थस्याध्यक्षः शिक्षःसुदक्षिणः ।
श्रीरामभक्तभक्तानां पक्षपाती विचक्षणः ॥ ५६॥
श्रीरामायुधयूथानां राजा रत्नभुजांवरः ।
शस्त्रशास्त्रसमूहज्ञो रामप्रेमाविताशुकः ॥ ५७॥
भरतो नीलरत्नाभः पीतवासा मनोहरः ।
श्रीरामागारवाद्यानां रोराजरङ्गमहापटुः ॥ ५८॥
तडिद्धेमतनुः श्रीमान् कौसुमांवररञ्जनः ।
रक्ताम्भोरुहपत्राक्षः कौमारो दुन्दुभिस्वनः ॥ ५९॥
कर्पूर पूर गौराङ्गो रक्तनेत्रः सितांवरः ।
लक्ष्मणस्त्वत्समक्षोहं पश्यमां सदयं हरेः ॥ ६०॥
प्रासादानां च राजाहं सर्वराजशिरोमणेः ।
सीतापतेर्भगवतो विहारव्यसनादिषु ॥ ६१॥
इतश्चास्मि वरस्त्रीणां कलाकौशलपेशलः ।
शुद्धोस्मि सर्वकार्येषु शक्तोप्यस्य मनोनुगः ॥ ६२॥
सर्वज्ञं सर्वसङ्कल्पसर्वशक्तिसमन्वितम् ।
तरुणं रूपसम्पन्नं सुकुमारं महाबलम् ॥ ६३॥
प्रांशुं नीलोत्पलश्यामं द्विभुजं तनुमध्यमम् ।
रक्तारविन्दनयनं स्निग्धगम्भीर भाषणम् ॥ ६४॥
कन्दर्पकोटिसौन्दर्यं सुन्दरीवृन्दकर्षिणम् ।
पुंसां दृष्टिमनोहारि कान्तमेकान्तभाजनम् ॥ ६५॥
गन्धर्वराजप्रवरवपुर्वेषविनोदिनम् ।
पीतांवरं महोरस्कं मुक्तामणिमहाछविम् ॥ ६६॥
सर्वालङ्कारकाव्यादिकलाकोशादिपारगम् ।
सङ्गीतादिप्रणेतारं नित्यानन्दमहोदधिम् ॥ ६७॥
सर्वाकर्षं सुरस्त्रीणां मुनीनामपि मोहनम् ।
सर्वेषां सर्वदाह्लादमनीषिणमनातुरम् ॥ ६८॥
यावत्सङ्ख्यायमानानां भोक्तॄणां देशकालयोः ।
उत्कृष्टं तावतां नित्यं नित्याचिन्त्य शरीरिणम् ॥ ६९॥
लोके रमयतां पुंसामेकमद्वैत धर्मिणम् ।
कौशल्यासुषुवे यं तु कर्त्तारं जगतां सुतम् ॥ ७०॥
मोक्षाख्यपुरुषार्थस्य भर्त्तासौ जगतां पतिः ।
श्रीरामो नाम इत्युक्त ऋषिभिस्त्वेक ईश्वरः ॥ ७१॥
शृङ्गारस्य रसस्यायं देवता परमा स्मृता ।
कामिनीनां च सर्वासां कामोन्मादकरो भृशम् ॥ ७२॥
नायकोऽलौकिको ह्येष प्राकृताऽप्राकृतैर्मतः ।
तिस्रः कोट्यो भवंस्तस्य गन्धर्वीणाञ्च सुभ्रुवाम् ॥ ७३॥
रूपयौवनकान्त्यादि शालिनीनां मृगीदृशाम् ।
गीतवादित्र नृत्येषु कोविदानां कलासु च ॥ ७४॥
रमणं रमयन्तीनां कान्तधर्म सुधा जुषाम् ।
सन्ति सीतासखीत्वेन रामागाररमा इमाः ॥ ७५॥
दुर्लभाः सुरमुख्यानामपि सर्वाङ्गशोभनाः ।
भुजिष्याणां सुतन्वीनां श्रीकान्तैकान्तचेतसाम् ॥ ७६॥
सौगन्ध्य सौकुमार्यादिसुधासौन्दर्यसम्पदाम् ।
सीतया त्यक्तवैराणं देवीनां दिव्यकर्मणाम् ॥ ७७॥
चित्ररूपप्रवीणानामदृश्यानां सुरीष्वपि ।
नानाविधाङ्गचेष्टाभिर्नाना पाङ्गतरङ्गितैः ॥ ७८॥
गाढाश्लेषविधाभेदैर्दिव्यगन्धानुलेपनैः ।
प्रेयांसं प्रीणयन्तीनां लज्जाभारतनुभ्रुवाम् ॥ ७९॥
स्मेरमुखेन्दुकान्तानां नित्योत्सवभुजां हरेः ।
मुख्यं सख्यं गतानां च सीताया नर्मकर्मणः ॥ ८०॥
सहायानां गुणैःस्वीयैः कान्ताह्लादनकर्मसु ।
अन्यूनानां श्रियों देव्या रूपमाधुर्यमण्डनैः ॥ ८१॥
रसकेलौ क्षिपन्तीनां प्रियं प्रेमाहतात्मनाम् ।
मत्तानां मधुपानाद्यैः कान्तभोगमहातृषाम् ॥ ८२॥
मानिनीनां महोन्मादं विश्लेषादिभवद्रुजाम् ।
विश्लेषाद्यसहिष्यूनां कान्तालापस्खलद्गिराम् ॥ ८३॥
अन्योन्यस्नेहनद्धानां पराणां प्रकृतेर्विभोः ।
मञ्जीरनूपुरारावसंलापादिगुणस्तवैः ॥ ८४॥
मङ्गलानि दधानानां रामागारेषु सर्वतः ।
पद्मानि सन्ति पद्मानां पत्यूरामस्य वेश्मसु ॥ ८५॥
नित्यं विलासिनो यस्माद्विलासिन्यस्ततोऽस्य तु ।
तत्परिचारिकानां तु न सङ्ख्या कविना यतः ॥ ८६॥
तासामासां च नारीणां स्वामिन्येकैव जानकी ।
देवी सर्वविभूतीनामनन्तानामधीश्वरी ॥ ८७॥
प्राणेश्वरी जगत्प्राणभूतरामस्य भामिनी ।
यथा तत्परिचारिण्यो रूपद्रविणसम्पदः ॥ ८८॥
न तथा स्वर्गवासिन्यो देव्योपि श्रुतिमागताः ।
यूथसो हि विभक्तानां शुद्धानां कुलकर्मभिः ॥ ८९॥
श्रीराम एक एवासां पतिः पतिव्रताहिताः ।
द्वेधारामपरीवाराः पुन्नारीकृतभेदतः ॥ ९०॥
दिव्या एकरसाकारा रामाराधनसाधनाः ।
वाह्यकार्येषु पुरुषा एकाग्रहृदयाः स्थिताः ॥ ९१॥
आभ्यन्तरेषु कार्येषु सर्वा देव्यो व्यवस्थिताः ।
यथा प्रियास्तास्तस्य प्राणेभ्योऽपि प्रिया मताः ॥ ९२॥
तथास्य पुरुषाः सर्वे नात्र भेदोणुरीक्ष्यते ।
अन्योन्यानन्दसन्दोहा अन्योन्यास्याभिलाषिणः ॥ ९३॥
अन्योन्यदोषरहिता अन्योन्यस्तुति सादराः ।
नरानार्यश्च रामस्य रामैकप्रेमबन्धनाः ॥ ९४॥
रामाराधनसंसिद्धाः सिद्धीनामपि सिद्धिदाः ।
स्यात्सैन्धवघनः कृत्स्नो रस एव रसावहः ॥ ९५॥
रामोऽपि रस एवस्याद्वाह्याभ्यन्तररूपवान् ।
यत्र चातिशयो दृष्टः परेषां परकर्षणः ॥ ९६॥
इष्यते सविशेषज्ञैः साध्यत्वं भजते यदि ।
यत्रानन्दस्य नेयत्ता नित्याविछिन्नरूपिणः ॥ ९७॥
तस्योत्कर्षापकर्षादिदृष्ट्वेच्छा तत्र किं भवेत् ।
पत्युः श्रीपादयोः सेवा साम्राज्यैकसुखासया ॥ ९८॥
भूयते नित्यया तेषां दोषदूरगयापरम् ।
सर्वाभ्यन्तरकार्येषु प्रेरिणी जनकात्मजा ॥ ९९॥
तासां स्वामिनी भूता तद्भावामृतवर्षिणी ।
कान्तोपितन्मुखप्रेक्षीतज्जन्यानन्दनिर्भरः ॥ १००॥
प्रेयस्या एव तत्रासौ स्वाम्यं स्थापयतीश्वरः ।
सर्वेषु वाह्यकृत्येषु स्वामी तेषां प्रवर्त्तकः ॥ १०१॥
प्रिया प्रीतिविशुद्धार्थं नानाभावविभावना ॥
सर्वेषु भूपरूपेषु स्वार्थकृत्येषु सर्वशः ॥ १०२॥
अन्योन्यं नैव दम्पत्योरिच्छायाः प्रतिकूलनम् ।
सर्वेषु व्यवहारेषु स्वरूपगुणभूतिषु ॥ १०३॥
सामरस्यं तयोः सर्वैरनुभूतं मयापि च ।
ये दासा दासदासा या दास्यमासां च दासिकाः ॥ १०४॥
सीतायाः परया भक्त्या सख्यो याश्च परायणाः ।
ते च ता अपि रामस्य सर्वाः प्राणसमाः शुभाः ॥ १०५॥
तेष्वत्यन्तरतिः श्रीमानपि रामो महामनाः ।
ये वा परिजनो ये च परिचारपरायणाः ॥ १०६॥
रामस्य लोकरामस्य विरामस्यापदां सताम् ।
तेपि सीताकृपापाङ्गसुधाभाजनताङ्गताः ॥ १०७॥
ममैवैता इति प्रज्ञा सीतायास्तेषु वर्त्तते ।
रामप्रेम्णोधिकं प्रेम येषां सीतापदद्वये ॥ १०८॥
ते रामदास्यरसिकाः सदानन्दैकवर्द्धनाः ।
रामो न सीतयाशून्यः सीता रामं विना नहि ॥ १०९॥
अन्योन्यं समवतौ तावन्योन्योत्कर्षकारकौ ।
शृङ्गाराख्यरसस्यैव रक्षां च स्यादनामयीम् ॥ ११०॥
स्वरूपैक्ये रसोनस्याद्दाम्पत्यं नु कुतस्तराम् ।
स्वरूपमेव शृङ्गारो भार्यापि स्वयमेव हि ॥ १११॥
येषां तेषां रसोत्पत्तिः कथं वा भोक्तृभोग्यता ।
स्वरूपस्य समानत्वात्सदा सर्वत्र देहिनाम् ॥ ११२॥
आनन्दो मैथुनोद्भूतः सुप्राप्यः सर्वतो भवेत् ।
शृङ्गारे भाववैयर्थ्यं नित्यसिद्धे विशेषिणि ॥ ११३॥
विशेषेण तु साध्यत्वे स्वरूपे भेद आपतेत् ।
शृङ्गारस्य विशेषत्वादात्मत्वे कथमस्य तु ॥ ११४॥
स्यातां दारपती चोभौ तुल्यौ तावजितेन्द्रियौ ।
न च देहिद्वयेनास्य शृङ्गारस्य जनिर्मता ॥ ११५॥
नित्यत्वादात्मनो जन्मविरुद्धं कथमिष्यते ।
पारमार्थिक भेदेन भोक्तृभोग्यस्वरूपयोः ॥ ११६॥
शृङ्गारसुखसारात्मा नारीसङ्गेन जायते ।
रसानां रसभावानां भेदोवाधित एव यः ॥ ११७॥
भोग्यत्वभोक्तृत्वाद्धेतोः स स्याल्लोकप्रमाणकः ।
भिन्नस्वरूपधर्माणौ सीतारामौ यतस्ततः ॥ ११८॥
नित्येच्छयोः सुखोत्तुङ्गो रङ्गः स्यात्पष्कलोऽनयोः ।
सुपास्यः समया चान्यै रामः शृङ्गारचिन्तकैः ॥ ११९॥
नित्यामृतभुजिस्थानभोगोपकरणाकृतिः ।
स्त्रीप्रधानोवतारोऽयं श्रृङ्गारोत्कर्षहर्षणः ॥ १२०॥
सर्वज्ञोप्य मुधामुग्धो विमुग्धाद्भुतकर्मकः ।
आशुप्रसाद आर्तानामाश्वभीष्टफलप्रदः ॥ १२१॥
भक्तसंश्लेश विश्लेषसुख दुःख स्वभाववान् ।
भक्तनामेव भोगार्थं विभूतिः परमाः कलाः ॥ १२२॥
स्वात्मनश्च गुणांश्चापि विभर्त्येषु रघूत्तमः ।
मातापितृसहस्त्रेभ्यो वत्सलो दृढसौहृदः ॥ १२३॥
कामधेनुसहस्त्रेभ्यश्चिन्तामणिचयादपि ।
कामदाने महाकल्पः कल्पवृक्षवनादयम् ॥ १२४॥
नारी वास्तु नरोवास्तु कामार्त्तः शरणङ्गतः ।
रक्षितव्यस्वनेनैव व्रतस्यपरिरक्षिता ॥ १२५॥
नात्र किं चिद्विरुद्धं वा दिव्यशक्तिगणस्य तु ।
हनूमंस्त्वं महाप्राज्ञो गान्धर्वाङ्गविशारदः ॥ १२६॥
रसज्ञोरसभावज्ञो भक्तिज्ञो भरताग्रजे ।
स्वरूपज्ञो गुणज्ञस्त्वं विशेषज्ञ उदाहृतः ॥ २७॥
आजन्मन्ब्रह्मचारी च सर्वज्ञानवताम्वरः ।
उक्तं स्वरूपमेतेषां रामादीनां मयाहिते ॥ १२८॥
विश्रामं गच्छ भद्रं ते पात्रभूतो रसश्रियाः ।
इत्थं लक्ष्मणसंज्ञेनकविना ब्रह्मवादिना ॥ १२९॥
रहस्यामृतपानेन जीवितोऽस्मि पुनःपुनः ।
श्रुतन्देवित्वयागौरि संवादामृतमादितः ॥ १३०॥
इदंरसज्ञहृदयं लक्ष्मणानिलपुत्रयोः ।
धन्याः शृण्वन्ति भावज्ञा भक्ताः श्रीरामसीतयोः ॥ १३१॥
संवादं लक्ष्मणादीनां पुण्यश्रीभाववर्द्धनम् ।
श्रीपार्वत्युवाच-
धन्यास्मि पुण्यपुञ्जास्मि सभाग्यास्मि महेश्वर ॥ १३२॥
कथा शेषं पुनर्ब्रूहि वायुपुत्रमुनिश्रितम् ॥ १३३॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमपटले
श्रीरामरहस्ये स्वरूपप्रकाशोनामाष्टादशोऽध्यायः १८॥
१९. अथ एकोनविंशोऽध्यायः ।
श्रीशिवोवाच-
इत्थं हनुमता रामरासलीलानुवर्णिता ।
ऋषिणाचाकर्णिता त्वत्कर्णाभरणसङ्गता ॥ १॥
अनया रामचन्द्रोऽत्र सीतया सह सुन्दरः ।
हृद्यवरुद्ध्यते नित्यमानन्दगुणमन्दिरः ॥ २॥
श्रीराममन्त्रसारार्थ एष ते विशदीकृतः ।
भक्ताया रसयुक्ताया विविक्तायातमोगुणात् ॥ ३॥
रमुक्रीडार्थकोधातु र्घञन्तो मुनिशाब्दकैः ।
व्युत्पादितो गुणग्रामो राम इत्येकरूपभाक् ॥ ४॥
रमन्ते रसिका यस्मिन् दिव्यानेकगुणाश्रये ।
स्वयं यद्रमते तेषु रामस्तेन प्रयुज्यते ॥ ५॥
विना क्रीडां प्रयुज्येत राम इत्येकसुन्दरः ।
नैवाचलसुते देवि क्रीडारसमयो हि सः ॥ ६॥
क्रीडा सम्पद्यते यैस्तु गुणैर्नैकगणैः शुभैः ।
ज्ञेयोऽस्मिन्सततं राम इत्याहुर्मुनयोऽमलाः ॥ ७॥
णिजर्थोप्यत्र बोधव्यः शब्द स्वारस्य कारणम् ।
कर्त्तर्प्यपि ह्यचः प्राप्तौ न किञ्चिदपि बोधकम् ॥ ८॥
प्रयोजकः स्वयं चापि कर्तानृत्यादि केलिषु ।
रामेत्याख्यां प्रयात्येको लोकेषु गुणिनांवरः ॥ ९॥
सर्वक्रीडाश्रयोरामः सर्वलोकाश्रयोविभुः ।
सर्वास्वाद्यमयो रामोरामः सर्वमनोरमः ॥ १०॥
सर्वदाऽहं रमेरामे गुणग्रामेमनोरमे ।
सर्वानन्द कदम्बेस्मिन्विरामे परमापदाम् ॥ ११॥
विष्णोः सर्वेऽवताराये स्वयं विष्णुश्च शाश्वतः ।
अहं ब्रह्मा च सिद्धाश्च सर्वे ते राममाश्रिताः ॥ १२॥
रामादन्यं न रामो सावाश्रितो गिरिनन्दिनि ।
आद्यः कश्चित्परस्तस्मादाश्रयेत्तं स नास्ति सः ॥ १३॥
रामइत्येक शब्दोयं मुख्य वृत्याश्रियः प्रिये ।
गौण्यात्वन्यत्रवर्त्तेत तस्मात्सीताप्रियात्प्रिये ॥ १४॥
ज्ञात्वैवं राममन्त्रार्थमनोरामे निवेश्यच ।
राममेव सदाभद्रे जप भक्ति रसाश्रया ॥ १५॥
सर्वलोकेश्वरीभूत्वा रामाराधनराधसा ।
यद्यासने सदातिष्ठ मम पार्वति निर्भया ॥ १६॥
आदेशं पार्वतीपत्युरिति सा सिरसाददे ।
रामं मत्वापरम्ब्रह्म तन्नामामृतरासना ॥ १७॥
उवाच प्रणताशम्भुं जिज्ञासुरपरम्परम् ।
रहस्यं रामचन्द्रस्य लोककान्तस्य पार्वती ॥ १८॥
लोकनाथ मुनिध्येय सर्वशास्त्ररहस्यवित् ।
अतीन्द्रियगुणग्रामविज्ञानामृतसागर ॥ १९॥
कार्यतेरामरासानुकरणं कदलीवने ।
हनुमतेति यद्वाक्यं तेन मांसंशयोऽजनि ॥ २०॥
किमेतस्यफलङ्कर्त्तुर्वैफल्यं तु कुतूहले ।
वैफल्यं च कथन्तस्य कार्यते यद्धनूमता ॥ २१॥
शूराणाङ्कृतविद्यानां बुद्धेः परमुपेयुषाम् ।
विफले विपरीते वा प्रवृत्तिर्नोपपद्यते ॥ २२॥
पूर्वकालकृतं कर्मपारकीयं च यद्भवेत् ।
वर्तमानं कथं तत्स्यादात्मीयं च भवेत् कथम् ॥ २३॥
भवन्तम्मां च ये भक्ता आश्रिताः फलकाम्यया ।
ते त्वयारामवैमुख्यात् पापकोटौ निवेशितः ॥ २४॥
कोदोषस्त्वयि येन त्वद्भक्तारामपराङ्मुखाः ।
भवन्ति ममभक्ताश्च केन दोषेण दूषिताः ॥ २५॥
एतद्वाक्यं मदास्यात्त्वं श्रुत्वा कर्णविदारणम् ।
कोपम्माकुरु कल्याण त्वयैवोक्तमिदं पुरा ॥ २६॥
आकर्ण्येति प्रिया वाक्यं वाक्यं चाह महेश्वरः ।
उद्धर्तुं शक्यमेतत्ते हृदिशल्यमिवार्पितम् ॥ २७॥
निः शल्यायास्तवोद्धर्तुं वाञ्छामीच्छानुसारिणम् ।
रामानुकरणानां च मुख्यामुख्य फलादिकम् ॥ २८॥
सत्त्वं रजस्तमश्चेति गुणास्त्रयइमे प्रिये ।
स्वभावः प्रकृतेरेव न जीवपरयोः पुनः ॥ २९॥
त्रयाणां त्रय एवैषामधिष्ठानानि चेश्वराः ।
उभे विष्णुरहं ब्रह्मा चेत्यमी जगदीश्वराः ॥ ३०॥
तत्र विष्णुमहायोगी प्रधानपुरुषेश्वरः ।
सर्वेषामस्मदादीनां स्वामी च प्रकृतेः परः ॥ ३१॥
शुद्धसत्त्वप्रधानोसौ सत्वादीनाम्प्रवर्त्तकः ।
सत्वेनाश्रीयते लोकेस्थित्यैस्वेच्छानुरूपिणा ॥ ३२॥
विष्णुना सत्त्वरूपेण जन्मकाले तु यःपुमान् ।
दृष्टोभवति सत्त्वैकतानो राम परायणः ॥ ३३॥
यथोक्तेन तु येनास्यभक्ताअपि शुभाश्रयाः ।
सत्त्वैकनिलयाः सर्वे ह्यूद्धोर्द्धगतिगामिनः ॥ ३४॥
ब्रह्मणारजसा व्याप्तो दृष्टोभवतिपूरुषः ।
प्रवृत्तिस्वभावो विष्णोः स्वभावाद्विमुखः सदा ॥ ३५॥
रजसा व्याप्यते ब्रह्मा लोकस्सृष्टत्वहेतुना ।
तद्भक्ता अपितेनैव व्याप्यन्ते रजसा सदा ॥ ३६॥
मध्यमाङ्गतिमेतेपि याता यास्यन्ति यान्ति च ।
गतिर्गुणानुरुपास्यादिति वेदविदोविदुः ॥ ३७॥
तमसा व्याप्यते रुद्रः सृष्टिसंहारहेतुना ।
अप्रकाशस्वरूपेण प्रमादादिकृता पुरा ॥ ३८॥
मद्भक्ता अपि वामोरुतम उद्रिक्तचेतसः ।
अधोऽधोगतिमायान्ति निन्द्याज्ञानमयीमुमे ॥ ३९॥
काम क्रोध भयोद्वेगहिंसा मिथ्यादिकर्मणः ।
मदिरामांस सर्वाशोरामवैमुख्यकारणम् ॥ ४०॥
तामसी त्वं तु शक्तिर्मे सर्वदा मदिराशना ।
मांसमैथुन हिंसादि विहाराजनमोहिनी ॥ ४१॥
तत्तत्कामप्रदानेन मोहयन्त्यास्तवापिये ।
भक्तस्तेऽतीव निष्क्रिया निष्कृपा मदिराप्रियाः ॥ ४२॥
मांसमैथुन धर्माणः काम्यकर्मपरा हरिम् ।
निन्दन्तो रामतद्भक्तान्यान्ति घोरतराङ्गतिम् ॥ ४३॥
मिथोगुण विरोधेनविरुध्यन्ते गुणग्रहाः ।
स्वां स्वाङ्गतिं प्रपद्यन्ते मुक्तिस्वर्गतमोभिधाम् ॥ ४४॥
प्रकाशादिगुणैः सत्त्वं प्रवृत्यादिगुणै रजः ।
प्रमादादिगुणैर्ज्ञेयं तमोप्यज्ञानकारणम् ॥ ४५॥
एवङ्गुणस्वाभावास्ते भूयोभूयोपि वर्णिताः ।
न चात्रैव तु वक्तव्याः पिष्टपेषणनीतितः ॥ ४६॥
नहि सर्वेपि मद्भक्तास्तमसा नष्ट चेतसः ।
भ्रस्यन्तेपुरुषार्थाच्च तवभक्ता इवांविके ॥ ४७॥
रामन्देवं परम्ब्रह्म भगवन्तं पुरुषोत्तमम् ।
राममेवपरं प्राप्यं मन्वानाः पुरुषास्तुये ॥ ४८॥
तद्भक्तिज्ञानदातारमुमे मां समुपाश्रिताः ।
आचार्यत्वेन सेवन्ते ते तरन्ति भवाम्बुधिम् ॥ ४९॥
मामेवं परमत्वेन भजन्तोऽपि द्विषन्ति ये ।
न ते मुक्तिपदं यान्ति भूतयोनय एव ते ॥ ५०॥
आचार्यं सर्वदेवानां ब्रह्माणं च भजन्ति ये ।
रामप्रापक बुद्ध्यो ते मोक्षं यान्ति सुदुर्लभम् ॥ ५१॥
शीघ्रं परन्तु मुक्तिच्छाभगवन्तं पुरुषोत्तमम् ।
प्राप्नुवन्ति महात्मानो विलंवेनत्वजार्चकाः ॥ ५२॥
निर्गुणां भगवद्भक्तिस्तद्भक्ता अपि निर्गुणाः ।
निर्गुणो भगवान् रामः कल्याणगुणसागरः ॥ ५३॥
सर्वेच्यवनधर्माणो मद्भक्ता धनभाजनम् ।
अन्तवत्तु फलन्तेषां रामाद्येन वहिर्मुखाः ॥ ५४॥
येषां रामो प्रियोऽत्यर्थं रामस्य च प्रिया अलम् ।
त्वत्तोपि नन्दिनोपीमे रामादपिप्रिया मम ॥ ५५॥
सदारामप्रियेष्वेव वर्तेरामकथोत्सुकः ।
ते मे बन्धुतमा ये तु नित्यंरामैकवान्धवा ॥ ५६॥
अहं त्वं च तथा नन्दी भवामो भगवत्यजे ।
भक्तिमन्तस्त्रयोप्येव नान्योस्ति प्रथमेष्वपि ॥ ५७॥
युवयोस्तम उद्रेकेतिरोधीयेत तद्रतिः ।
पुनरुद्बोध्येत साहि मया वांहितमिच्छता ॥ ५८॥
रक्तमांसप्रिया त्वं तु मदिरारसिकाऽनिशम् ।
मैथुनेकमनादेवि हिंसाकेलिदिगम्बरा ॥ ५९॥
तथैव तवभक्ताश्च मांसमैथुनमद्यपाः ।
मिथ्यामोह वसा मूढा मानिनः पशुहिंसकाः ॥ ६०॥
शौचाचार विहीनाश्च भूतप्रेतपिशाचकाः ।
वेतालाराक्षसायक्षाः क्रूराः सिन्दूरचिन्हिताः ॥ ६१॥
शूद्राश्चाण्डाल गौडाश्च भेदभिल्लाश्चपुस्कशाः ।
कुविन्दाश्चर्मकाराश्च ये चान्ये हीनजातयः ॥ ६२॥
तेषान्त्वम्परमादेवी तमसानां तमःप्रिया ।
स्वभाव एषतेगौरिदुर्निवार्यो मयापि च ॥ ६३॥
तत्त्वं ब्राह्मणजातीनां सात्विकानां तु देवता ।
वैष्णवानां विशेषेण सत्कर्म निरतात्मनाम् ॥ ६४॥
मयात्वया च ये दृष्टाः सर्गेतेस्युस्तमोवशाः ।
त्वन्मदाराधनश्रद्धाविरुद्धाहरि सज्जनैः ॥ ६५॥
नतेभ्यो रोचते रामो रामायापि नतेखलाः ।
यमेनैव निहन्न्यन्ते पशुवत्पशु मारकाः ॥ ६६॥
प्राणाभक्षी कुतोरामे सर्वात्मनिरतिन्तु ताम् ।
लभेत शुद्ध सत्वानां दुर्लभाया सतामपि ॥ ६७॥
मद्यमांस रतो यस्तु पशु हिंसा परो वृथा ।
शुद्ध कामो भवेत्सोपि चित्र चित्र तरं त्विदम् ॥ ६८॥
मद्य मांसादि जन्यानां दोषाणां गिरजे वहु ॥
कीर्त्तना दर्श नाच्छ्रुत्या प्रकृतेर्न विमुच्येता ॥ ६९॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमपटले
श्रीरामरहस्ये सत्वादिगुणस्वभाव प्रकाशो नामैकोनविंशोऽध्यायः १९॥
२०. अथ विंशोऽध्यायः ।
श्रीशिव उवाच-
लीलानुकरणं विष्णोः सर्वपापहरं पुरा ।
भक्तिप्रेमकरं पञ्चाद्रामे श्रीरमणे शिवे ॥ १॥
सर्वे सर्वत्र सर्वेश कृतान्येवानुकुर्वते ।
आदि मत्वाद् गुरुत्वाच्च कर्तृत्वादपितस्यवै ॥ २॥
यन्नेश्वरकृतं तन्नु केन शङ्काविना मुना ॥
कर्तुं त्वभिनवं कर्म तदन्येषु सुरेष्वपि ॥ ३॥
भुक्तं च भुज्यते तस्य पीतमेवहि पीयते ।
दीयते दत्तमेवास्य गीतमेव च गीयते ॥ ४॥
यत्कार्यं कृतं तेन सर्वज्ञेन महीयसा ।
तत्तत्कर्तुं नशक्नोमि न च ब्रह्मा न वासवः ॥ ५॥
यच्छक्यं मधुरं यच्च स्वस्य यच्च हितं प्रियम् ।
तत्कुर्यात्प्रणयात्तस्य भक्तिप्रेमादिवर्द्धनम् ॥ ६॥
साक्षात्सदाशिवोरामपादपद्ममधुव्रतः ।
महाशम्भुर्हनुमांस्तु तत्कुर्यात्कथमन्यथा ॥ ७॥
सीतास्नेहर्द्धिकामस्तु वसन्ते कुरुताज्जनः ।
सीतारामोत्सवम्पुण्यम्मङ्गलं रस वर्षणम् ॥ ८॥
इच्छन्रामरतिम्भक्तः शरद्रास महोत्सवम् ।
करोतु रसकैः सार्द्धं रसिको रसिकाप्रियः ॥ ९॥
उभयोरुभयत्रैव प्रीतिस्तत्र कृते पुरा ।
भवेद्भक्तिस्तयोश्चापि परमा निश्चला रतिः ॥ १०॥
रासस्थानमयोध्यैव धर्मस्थानं सनातनम् ।
मुक्तिस्थानमयोध्यैव भक्तिस्थानञ्च शाश्वतम् ॥ ११॥
धर्मस्थानमयोध्याख्यं रङ्गं मुक्तिपदं स्मृतम् ।
द्वारिका भक्ति कृत्स्थानं रसस्थानन्तु माथुरम् ॥ १२॥
सर्वमेतदयोध्यैव सूक्ष्म दृष्टि समर्पणे ।
तत्राशोकवनं रम्यं रसस्थानंहि केवलम् ॥ १३॥
तन्मध्ये जानकीरामौ नित्यं लीलारतौ स्थितो ।
सहितौ वनिता यूथैः शतैरपि मनोहरैः ॥ १४॥
अयोध्या नन्दनी सत्या नामा साकेत इत्यपि ।
कोशला राजधानी च ब्रह्मपुरापराजिता ॥ १५॥
अष्टचक्रा नवद्वारा नगरो धर्मसम्पदाम् ।
दृष्टैवं ज्ञाननेत्रेण ध्यातव्यासरयूस्तथा ॥ १६॥
वृक्ष गुल्मलता यत्र वस्त्ररम्भाङ्कुरादिभिः ।
कृत्रिमैश्चन्द्र ताराद्यैर्दीपस्तम्भैञ्च तोरणैः ॥ १७॥
अशोकवनमित्येतत्कल्पयेत् कल्पकोविदः ।
रम्यं मनोहरं यावद्वित्तशाठ्यविवर्जितः ॥ १८॥
इयं रासस्थली रम्या रामोस्यां रमणप्रियः ।
रमते रमणीवृन्दैःसीतया च समन्वितः ॥ १९॥
अशोकवनिका चेयं सर्वर्तुरसपूरिता ।
अस्यां रामप्रिया तेन विहरिष्यति संयुता ॥ २०॥
धन्योहं च तयोरत्र शृङ्गारप्रचुराः शुभाः ।
केलीर्दृक्ष्यामि सानन्दो दुर्दर्शा अपि योगिनाम् ॥ २१॥
अत्र रामावरोधञ्च द्रक्ष्याम्यस्य प्रसादतः ।
यो न द्रष्टुं सुरैः शक्योभक्त्या योग्यत्वमापि नः ॥ २२॥
एवं स्तुवन्निजं भाग्यं प्रेमानन्दरसाविलः ।
प्रातः प्रपूजयेद्रामं नैवेद्यैर्विविधैर्जनः ॥ २३॥
श्यामां सीतां सखीश्चास्याश्चन्द्राद्याः प्रीणयेद्भृशम् ।
वैष्णवाराधनं कुर्याद्वैष्णवोत्सवसिद्धये ॥ २४॥
सम्पूज्याभ्यर्थयेद्भक्तो रामं रामागणान्वितम् ।
दण्डवत् प्रणमेत्तस्य पुरस्तात्पुलकश्रितः ॥ २५॥
रामचन्द्र महाबाहो देवदेव जगत्पते ।
राजीवलोचन श्रीमान् कौशल्यानन्दवर्द्धन ॥ २६॥
रसिकेन्द्र जगत्प्राण सीताकान्त महोज्वल ।
लीलावतारवृन्देन्द्र लीलाललितलोचन ॥ २७॥
अनुकर्त्तुं भवद्रासलीलां मे मन ईहते ।
सत्यसङ्कल्प तेऽद्यापि लीलैषा जनरञ्जिनी ॥ २८॥
अद्य पूर्णकलश्चन्द्रो रजनी च शितेन्दुना ।
रासश्च कुमुदो नाम मधुर्वा मधुराकृते ॥ २९॥
प्रफुल्लाशोकवाटीयं कोकिलालिकुलाकुला ।
वापीकूपतडागादिकुमुदा कर मण्डिता ॥ ३०॥
रामा रमयितुं भक्ताः शक्तस्त्वं च मनोहर ।
प्रमदामन्मथव्याधिराजवैद्य कृपानिधे ॥ ३१॥
रमस्व विहर क्रीड नित्यलीलारसप्रिय ।
प्रदर्शयात्मनश्चेष्टा इष्टामोक्षादितः प्रियाः ॥ ३२॥
भक्तवत्सल भक्तेश भक्तार्पितफलस्पृह ।
अनुगृहाण नः स्वीया इति मत्वा च किङ्करान् ॥ ३३॥
त्वयि ह्यग्रे रहस्येषु प्रमदामुद आप्तये ।
अमात्याकिङ्करा एव तत्र स्युः परसेवकाः ॥ ३४॥
क्रीडोपकरणं सर्वं माल्यांवररसादिकम् ।
गन्धादि गीतनृत्यादि भक्ष्यभोज्यादि चोत्तमम् ॥ ३५॥
भवदर्थमवक्लृप्तं तवैवैतन्निषेव्यताम् ।
स्वीयाभिर्वनिताभिस्त्वं सेव्यमानो वने वने ॥ ३६॥
गीयमानश्च गन्धर्वकन्याकोटिभिरादरात् ।
रामारमयतां श्रेष्ठनामार्थं प्रकटी कुरु ॥ ३७॥
निमन्त्र्यैवं रमानाथं रामं कामि तदापकम् ।
पूजयेत्काम गायत्र्याध्यायत्कामधिया हरिम् ॥ ३८॥
सर्वश्रृङ्गारसर्वस्वमूर्तिं भोक्तारमेकलम् ।
किशोरं कमनीयाङ्गं स्वीकृतार्थितविग्रहम् ॥ ३९॥
एवमाज्ञां ततो लब्धा रामभक्तान्निमन्त्रयेत् ।
परमैकान्तिनस्तस्मिन् रसिकानेव केवलान् ॥ ४०॥
नाट्यनृत्यकलागीतवाद्यभेदविचक्षणान् ।
शुद्धान्वयान्न्सुन्दरान् शुद्धान् पीनान्प्रणतान् शुभान् ॥ ४१॥
समग्राङ्गान्सुचिन्हांश्च सुवर्णान्मधुरस्वरान् ।
सीतारामपदाम्भोजभ्रमरायितमानसान् ॥ ४२॥
अलुब्धान् सुशुभाचारान् रसज्ञान्नापि कोविदः ।
भावज्ञानभि नीतज्ञान् रहस्यज्ञान् स्वलङ्कृतान् ॥ ४३॥
अन्यान्निमन्त्रयेद्विद्वान् सीतावल्लभ कीर्त्तये ।
जनान्साधून्धनाढ्यांश्च दातॄन् भक्तिमतो बहून् ॥ ४४॥
आकारयेन्महाभागान् रामदर्शनलालसान् ।
भक्तिकामान् रमारामपादयुग्मे महाव्रतान् ॥ ४५॥
भोजयेदर्चयेदेतान् रामप्रीत्यर्थमागतान् ।
विभवे सतिरामस्य महापूजां समाचरेत् ॥ ४६॥
वर्जयेन्म्लेच्छचाण्डालान् भक्तिशून्यान् दुराशयान् ।
हासकान्दूषकांश्चौरान हिंस्त्रान् शूद्रान् मलीमसान् ॥ ४७॥
शैवान् शाक्तान् खलान् पाखण्डानशुचीन्नरान् ।
मूर्खान् कौतुकिनो धूर्तानन्यदेवरतापि ॥ ४८॥
दुर्भक्ष्यान्निन्दकान् वाह्यान् मद्यमांसरतानपि ।
नास्तिकान् हैतुकान् क्रूरानन्यानपि सन्त्यजेत् ॥ ४९॥
नैते योग्याः सम्प्रवेष्टुं रामैकान्तिककेलिषु ।
अन्यथा कारको भ्रंस्येद्रामकोपेन भक्तितः ॥ ५०॥
परमैकान्तिनो यत्र पापदोषविर्जिताः ।
गानं भगवतः कुर्य्युः सन्निधत्ते तु यद्धरिः ॥ ५१॥
द्विजराजकुलोद्भूतं सुरूपं सुमुखादिकम् ।
सुवर्णं शुभगं चारुचेष्टं मधुरभाषिणम् ॥ ५२॥
दृष्टिचित्तहरं पुंसां शिक्षादक्षं सुलक्षणम् ।
कुमारं वा किशोरं वा रोगदोषविवर्जितम् ॥ ५३॥
पूजयेद्रामबुद्ध्यैव विहीनं त्वपलक्षणैः ।
यदस्मिन् राघवः स्थित्वा क्रीडिष्यति प्रियायुतः ॥ ५४॥
तैलेनाभ्यज्जय चूर्णेन समुद्वर्त्य च वारिभिः ।
पवित्रैःस्नापयेद्विद्वान्मन्त्रोच्चारणपूर्वकम् ॥ ५५॥
गव्यैः पञ्चभिः संस्नाप्य तुलसीदर्भमिश्रितैः ।
उष्णेन वारिणा भूयः शीतलेन च मन्त्रतः ॥ ५६॥
पीतांवरं युगं दद्याद्ब्रह्मसूत्रं च सुन्दरम् ।
रोचनाकुङ्कुमाप्तेन कस्तुरीकलितेन च ॥ ५७॥
तिलकेनाप्यलं कुर्याद्युतिश्रीकेशववेश्मना ।
आचामयेज्जलं शुद्धं रामनामानि कीर्तयन ॥ ५८॥
श्रीरामं तत्र सन्ध्यायेदात्मानं स्वत एव तम् ।
रामस्य मन्त्रमुन्यादीन्न्यस्येत्तस्य यथोचितम् ॥ ५९॥
अङ्गेषु चाङ्गदेवांश्च रामोऽस्मीति च भावयन् ।
रामात्मा एष एवेति वेदान्तविदितं मतम् ॥ ६०॥
धूपयेद्दीपयेत्पश्चाद् भोजयेदमृतं च तम् ।
नीराजनमुखामोदं ताम्बुलादिप्रदाय च ॥ ६१॥
रामोऽयमिति तं भूयो लालयेन्न तु कोपयेत् ।
तद्द्वाराभगवान् रामः साक्षाद्देवः समीहते ॥ ६२॥
एवं लक्षणसम्पन्नमपलक्षणवर्जितम् ।
कुमारं जानकीत्येवं सङ्कुर्याद्धि विधानतः ॥ ६३॥
जानकीमन्त्रमुन्यादीन्न्यस्येत्तस्याः कलेवरे ।
भोजयेल्लालयेत्तद्वद्रामदेवीति तां बुधः ॥ ६४॥
कुमारा रूपसम्पन्ना नृत्यगानविचक्षणाः ।
अपलक्षण शून्या येद्विजा नाशुचयोऽनघाः ॥ ६५॥
सम्भाव्यास्ते सखीत्वेन जानक्या अनुभावतः ।
भोजिता धूपिताः सम्यक् शिक्षिता स्तोषिता धनैः ॥ ६६॥
प्रधानाद्द्व्यष्टसङ्ख्याकाः सीतायाः समतां गताः ।
भवन्तिं शतशस्तत्र चन्द्राद्याः प्रवराः सताम् ॥ ६७॥
नवीनैर्जातसंस्कारैश्चित्रैः सूक्ष्मैः सुगन्धिभिः ।
वस्त्रैराभरणैर्मुक्ताप्रधानैश्च यथोचितम् ॥ ६८॥
अलङ्कुर्वन्तु सैरन्ध्र्यः कुमारी रतिरूपिणीः ।
यथा सीता च रामश्च प्रसीदेत विलोक्यताः ॥ ६९॥
रामो गन्धर्वराजेन्द्रकुमारालङ्करणादिभिः ।
अलङ्कार्य्यौ यथा सर्वमनोहरतमो भवेत् ॥ ७०॥
प्रवीणोगीतनृत्याद्यै रसपोषणपण्डितः ।
शिक्षितोमृतसङ्गीतपण्डितैः पटुताण्डवैः ॥ ७१॥
सीताऽलङ्करणैः सीतामलङ्कुर्य्युः स्त्रियोवराः ।
चराचरजगन्मोहकारिणी सा यथा भवेत् ॥ ७२॥
तत्र ये गायका अष्टावष्टौ वाप्युपगायकाः ।
नर्त्तका वादकास्तेषां शिक्षिकाश्च यथेच्छया ॥ ७३॥
ते सर्वेपि भवन्त्वत्र रक्तांवरविलोचनाः ।
ताम्बूलवदनाम्भोजाः सालङ्काराः सु भोजिताः ॥ ७४॥
रङ्गे ते प्रविशन्त्वादौ विघ्नवारणपूर्वकम् ।
माङ्गल्यं तत्र कुर्वन्तु गानवाद्यानुरञ्जितम् ॥ ७५॥
वाद्यं तां काहलाभेर्य्यो मृदङ्गपणवादयः ।
यथा श्रुत्वा जनाः सन्तु सर्वे हृष्टतनूरुहाः ॥ ७६॥
ततो रामं च सीतां च कुमारीश्च सखीःसमाः ।
रङ्ग प्रवेशयेद्भक्तः पुष्पाञ्जलिपुरः सरम् ॥ ७७॥
कीर्य्यमाणाश्च लाजाभिर्मुक्ताकुङ्कुमपल्लवैः ।
निर्मञ्च्छनैश्च नारीणां दीपावलिप्रकाशिताः ॥ ७८॥
वाद्यैर्जयस्वनैः स्तोत्रैः स्तूयमाना सुदान्विताः ।
रामं नीराजयेत्तत्र समासीनं शुभासने ॥ ७९॥
सीतया सहितं श्यामं सखीगणसमन्वितम् ।
रिरंसुं स्मरकोट्याभं कामिनीकेलिवर्द्धनम् ॥ ८०॥
ताम्बूलैः पूजयेत्तत्र दिव्यपावनमालया ।
नमस्कारैश्च सम्प्रेमफलपुष्पधनार्पणैः ॥ ८१॥
ततः सर्वैर्गुणैस्तत्र युक्तोरासः प्रवर्त्यताम् ।
बाहुबन्धैर्मिथः स्त्रीणां प्रकर्तव्यं प्रियेण च ॥ ८२॥
यथा यथा हि शृङ्गारे रसो वर्द्धेत सिन्धुवत् ।
तथा तथा प्रकर्तव्यं सर्वं वेष्टितमद्भुतम् ॥ ८३॥
गातव्यानि चरित्राणि रसवन्ति तयोर्द्वयोः ।
छन्दः प्रबन्धगीतानि नानाभाषाश्रितानि च ॥ ८४॥
रस भावान्वितं गानं सर्वश्रोत्रमनोहरम् ।
कर्तव्यं कोकिलाकण्ठबालाभी रसवर्द्धनम् ॥ ८५॥
नृत्यं नानाविधं चापि परमानन्दकारकम् ।
सखीभिस्तत्र कर्तव्यं दम्पत्योर्हृदयानुगम् ॥ ८६॥
न तद्दोषो भवेद्यत्तु रसार्थमपकृष्यते ।
मिथ्याशापैरपि प्रेयान्नायको मदनार्पितः ॥ ८७॥
मानैरनुनयैश्चेह कलहैः प्रणयाश्रितैः ।
अन्वेषणैर्निलयनैराविर्भावैश्च धावनैः ॥ ८८॥
नेत्रनिमीलनोन्मेषनामोक्तिपणकल्पनैः ।
मोहाद्यभिनयै रामदर्शनेन च शुभ्रुवाम् ॥ ८९॥
बालचेष्टानुकारैश्च स्नेहाविष्करणैर्मिथः ।
प्रहेलिभिः प्रहासैश्च गुणानुकथनैर्मिथः ॥ ९०॥
चाटुभिः पटुभिश्चैव मिथो मुखविलोकनैः ।
नायकं रञ्जयेद्रामं नायिका नायकोप्ययम् ॥ ९१॥
यथा वर्द्धेत सद्धर्षो निद्रालस्यनिरोधकः ।
वर्त्तितव्यं तथा ताभ्यां नायकाभ्यां मिथो रहः ॥ ९२॥
ताम्बूलागरुकस्तूरीकर्पूरामोदचन्दनैः ।
चामरव्यजनच्छत्रपुष्पनीराजनादिभिः ॥ ९३॥
निर्मञ्छनैस्तथा दृष्ट्युत्तारणैरभिसर्पणैः ।
कल्पितैर्विप्रलम्भैश्च प्रीत्यान्योन्यसमागमैः ॥ ९४॥
आलिङ्गनैर्मिथोदम्भोपालम्भार्ज्जवतर्ज्जनैः ।
वक्रोक्तिभिर्गुणोत्कर्षदर्शनैश्च पलायनैः ॥ ९५॥
ग्रहणैर्वन्धनैः प्रेमपाशैः पाशविमोचनैः ।
अङ्गुष्ठकम्पनैर्भावव्यञ्जनैरपि वञ्चनैः ॥ ९६॥
प्रतिकूलानुकूलेन शिरः कम्पेन च स्मितैः ।
आज्ञाभ्युपगमैः शाठ्यैर्हठैर्हर्षकरैरपि ॥ ९७॥
कटाक्षैः करतालैश्च कर्णेजपविकल्पनैः ।
गोपनैर्दर्शनैर्भूयः कल्पितस्य च वस्तुनः ॥ ९८॥
क्षमापणै रसावेशरोषैरङ्गाभिदर्शनैः ।
प्रेमाश्रुपातनैस्तूष्णीभावैरात्मनिवेदनैः ॥ ९९॥
एवं विधाभी रम्याभिश्चेष्टाभिरपि योषितः ।
कल्पिताभिः प्रसिद्धाभि रपीष्टाभी रसाय सः ॥ १००॥
आराध्यो सौ सखीभिस्तु दुराराध्योपि दुर्भगैः ।
प्रसीदत्यनुकर्तुभ्यः प्रसन्नोसौ सुरद्रुमः ॥ १०१॥
एवमाराधयेयुस्ता नायकं इतिदायकम् ।
नायकोपि निजाभिश्च चेष्टाभिरनुरञ्जयेत् ॥ १०२॥
प्रेमाविष्टैः कृतैरेवं रामारामविचेष्टितैः ।
आत्मीयो हि भवेद्रास एतत्कालकृतोपि च ॥ १०३॥
प्रेमानो येन नैव स्युः प्रेमाश्रूणि कृतेन च ।
तेन हृदयदाहेन किंवा ह्यन्यत्फलं भवेत् ॥ १०४॥
नित्यं नव्यं हरेः कर्म दिव्यं जन्म च भामिनि ।
यदा यस्यानुसन्धानं तदा तस्योदयो भवेत् ॥ १०५॥
न कर्म वन्धनं जन्ममरणं च न विद्यते ।
वैष्णवानामपीशानेकुतस्तस्य जगत्पतेः ॥ १०६॥
भक्तार्थं जन्मकर्मादि सर्वं स्वीकुरुते हरिः ।
अजोऽव्ययोऽविकारोऽप्यव्यक्तो दिव्यपदे स्थितः ॥ १०७॥
न कालनियमस्तस्य जन्मनो जनकर्मणः ।
किन्तु स्वेच्छैव तन्त्रं स्यात्तिरोधानोदयादिषु ॥ १०८॥
कलावपि कलावेशस्वरूपावेशतः स्वयम् ।
प्रेमावेशवशो रामोभुङ्क्ते लीलारसाऽमृतम् ॥ १०९॥
न भक्तेर्दूरगो रामो भाग्यादर्थो न दूरगः ।
नगुरोर्दूरगा भक्तिर्ज्ञानाच्छान्तिर्न दूरगा ॥ ११०॥
न यागाद् दूरगः स्वर्गः स्वर्गाद्भोगो न दूरगः ।
न कामाद्दूरगं पापं पापान्न निरयःपरः ॥ १११॥
भावान्न दूरगा सिद्धिर्भावे सर्वं प्रतिष्ठितम् ।
सोयं रासः स एवायं राम इत्येव भावयन् ॥ ११२॥
एवमर्च्योपि भगवान्साक्षाद्देवः प्रतिष्ठितः ।
शिलाबुद्धिरनर्थाय धर्मे चाधर्मधीरिव ॥ ११३॥
एवं ते कथितं गौरि रामानुकरणं परम् ।
परमं पावनं रामप्रेमभक्तिप्रवर्द्धनम् ॥ ११४॥
रामानुकारको ये तु ये चैषामनुसारकाः ।
उभये तेऽपि रामस्य सखायः परमा मताः ॥ ११५॥
एतद्गुह्यं परं देवि गोप्यं यत्नेन भामिनि ।
साधुस्वपि विशेषेणासाध्वभक्तदुरात्मसु ॥ ११६॥
अनुकूलेन योग्येन योषिद्योनिरिवाग्रहात् ।
अभिसेव्या कथाचेयं योनिकोटिसुखप्रदा ॥ ११७॥
नेति नेति वदन्तीन्तां मां मामिति वदन्पतिः ।
भुङ्क्ते भार्यां यथा भक्तस्तथाभुङ्क्ते कथामिमाम् ॥ ११८॥
मातुः स्तनद्वयीं बालो भक्तो रामकथापिवन् ।
अन्यइव न दूष्येत तयोस्त एवजीविके ॥ ११९॥
श्रुत्वा कथामिमां निन्देन्मातुर्योनिमिवाधमः ।
स्वं चान्यरेतसं ब्रूते मातुर्मलसमः खलः ॥ १२०॥
देवगुप्तेषु भावेषुहेतुर्देवि निरर्थकः ।
मातुर्योनिं स्ववर्णेन को नु मातुं तु तार्किकः ॥ १२१॥
इतीमां पार्वती पत्युः कथां श्रुत्वा मनोहराम् ।
दशाक्षरमनुध्यानपरा रामस्य चास सा ॥ १२२॥
रामध्यानप्रभावेण रामनामानुकीर्त्तनैः ।
विमला पार्वती नाम लोकपूज्या हि वर्त्तते ॥ १२३॥
पार्वतीशिवरामाणां सीतायाश्च विशेषतः ।
प्रसादं लभतेसद्यः श्रोता वक्ता च कारकः ॥ १२४॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां
निरुक्तलक्षणायामुमामहेश्वरसंवादे पञ्चमपटले
श्रीरामरहस्ये रामानुकरण पारमार्थिकतत्त्व
प्रकाशनोनाम विंशोऽध्यायः २०॥
Encoded and proofread by Mrityunjay Rajkumar Pandey`