शिवसहस्रनामावलिः

शिवसहस्रनामावलिः

(शिवरहस्यान्तर्गते सदाशिवाख्ये आदिशेषकृतशिवसहस्रनामस्तोत्रव्युत्पन्ना) ॐ गङ्गाधराय । अन्धकरिपवे । पिनाकिने । प्रमथाधिपाय । भवाय । ईशानाय । आतार्याय । अनेकधन्याय । महेश्वराय । महादेवाय । पशुपतये । स्थाणवे । सर्वज्ञाय । ईश्वराय । विश्वाधिकाय । शिवाय । शान्ताय । विश्वात्मने । गगनान्तराय । परावराय । अम्बिकानाथाय । शरदिन्दुकलाधराय । गणेशताताय । देवेशाय । भववैद्याय । पितामहाय । तरणाय । तारकाय । ताम्राय । प्रपञ्चरहिताय । हराय । विनायकस्तुतपदाय । क्ष्मारथाय । नन्दिवाहनाय । गजान्तकाय । धनुर्धारिणे । वीरघोषाय । स्तुतिप्रियाय । प्रजासंहरणाय । चण्डताण्डवाय । मन्मथान्तकाय । शिपिविष्टाय । शाश्वतात्मने । मेघवाहाय । दुरासदाय । आनन्दपूर्णाय । वर्षात्मने । रुद्राय । संहारकारकाय । भगनेत्रप्रमथनाय । नित्यजेत्रे । अपराजिताय । महाकारुणिकाय । श्वभ्रवे । प्रसन्नास्याय । मखान्तकाय । घनाभकण्ठाय । गरभुजे । बभ्रुशाय । वीर्यवर्धनाय । प्रकटस्तवनाय । मानिने । मनस्विने । ज्ञानदायकाय । कन्दर्पसर्पदर्पघ्नाय । विषादिने । नीललोहिताय । कालान्तकाय । युगावर्ताय । सङ्क्रन्दनसुनन्दनाय । दीनपोषाय । पाशहन्त्रे । शान्तात्मने । क्रोधवर्धनाय । कन्दर्पाय । विसलच्चन्द्राय । लिङ्गाध्यक्षाय । गजान्तकाय । वैकुण्ठपूज्याय । विश्वात्मने । त्रिणेत्राय । वृषभध्वजाय । जह्नुजापतये । ईशानाय । स्मशाननिलयाय । यूने । पार्वतीजानये । ऊह्याय । आढ्याय । नाट्यविद्यापरायणाय । सामवेदप्रियाय । वैद्याय । विद्याधिपतये । ईश्वराय । कुमारजनकाय । मारमारकाय । वीरसत्तमाय । कम्बलाश्वतरोद्गारिसुफणोत्कृष्टकुण्डलाय । आनन्दवनवासाय । अविमुक्तमहेश्वराय नमः । १०० ॥ ॐ ओङ्कारनिलयाय । धन्विने । केदारेशाय । अमितप्रभाय । नर्मदालिङ्गनिलयाय । निष्पापजनवत्सलाय । महाकैलासलिङ्गात्मने । वीरभद्रप्रसादकृते । कालाग्निरुद्राय । अनन्तात्मने । भस्माङ्गाय । गोपतिप्रियाय । वेदाश्वाय । कञ्जजाजानिनेत्रपूजितपादुकाय । जलन्धरवधोद्युक्तदिव्यचक्रप्रदायकाय । वामनाय । विकटाय । मुण्डाय । तुहुण्डकृतसंस्तुताय । फणीश्वरमहाहाराय । रुद्राक्षकृतकङ्कणाय । वीणापाणये । गानरताय । ढक्कावाद्यप्रियाय । वशिने । विशालवक्षसे । शैलेन्द्रजामात्रे । अमरसत्तमाय । हृत्तमोनाशकाय । बुद्धाय । जगत्कन्दार्दनाय । बलिने । पलाशपुष्पपूज्याङ्घ्रये । पलाशनवरप्रदाय । सागरान्तर्गताय । घोराय । सद्योजाताय । अम्बिकासखाय । वामदेवाय । सामगीताय । सोमाय । सोमकलाधराय । निःसीमाय । महिमोदाराय । दू(दा)रिताखिलपातकाय । तपनान्तर्गताय । धात्रे । धेनुपुत्रवरप्रदाय । बाणहस्तप्रदाय । नेत्रे । नमुचेर्वीर्यवर्धनाय । नागाजिनाङ्गाय । नागेशाय । नागेशवरभूषणाय । अगेशशायिने । भूतेशाय । गणकोलाहलप्रियाय । प्रसन्नास्याय । अनेकबाहवे । शूलधृते । कालतापनाय । कालप्रमथनाय । कूर्ममहाखर्पटधारकाय । नारसिंहजिनधराय । महालाङ्गलधृते । बलिने । ककुदोन्मथनाय । हेतुरहेतवे । सर्वकारणाय । कृशानुरेतसोत्फुल्लाय । भालनेत्राय । अमरारिघ्ने । मृगबालधराय । धन्विने । शक्रबाहुविभञ्जकाय । दक्षयज्ञप्रमथनाय । प्रमथाधिपतये । शिवाय । शतावर्ताय । युगावर्ताय । मेघावर्ताय । दुरासदाय । मनोजवाय । जातजनाय । वेदाधाराय । सनातनाय । पाण्डरागा(ङ्गा)य । अजिनाङ्गाय । कर्मन्दिजनवत्सलाय । चातुर्होत्राय । वीरहोत्रे । शतरुद्रीयमध्यगाय । भीमाय । रुद्राय । उदावर्ताय । विषमाक्षाय । अरुणेश्वराय । यक्षराजनुताय । नाथाय । नीतिशास्त्रप्रवर्तकाय नमः । २०० ॥ ॐ कपालपाणये । भगवते । वैयाघ्रत्वगलङ्कृताय । मोक्षसाराय । अध्वराध्यक्षाय । ध्वजजीवाय । मरुत्सखाय । आरुणेयाय । त्वगध्यक्षाय । कामनारहिताय । तरवे । बिल्वपूज्याय । बिल्वनीशाय । हरिदश्वाय । अपराजिताय । बृहद्रथन्तरस्तुत्याय । वामदेव्यस्तवप्रियाय । अघोरतराय । रोचिष्णवे । गम्भीराय । मन्युरीश्वराय । कलिप्रवर्तकाय । योगिने । साङ्ख्यमायाविशारदाय । विधारकाय । धैर्यधुर्याय । सोमधामान्तरस्थिताय । शिपिविष्टाय । गह्वरेष्टाय । ज्येष्ठाय । देवाय । कनिष्ठकाय । पिनाकहस्ताय । अवरजाय । दुन्दुभ्याय । वर्ष्परैष्म्यकाय । कवचिने । निषङ्गिणे । रथघोषाय । अमितप्रभाय । कालञ्जराय । दन्दशूकाय । विदर्भेशाय । गणातिगाय । गभस्तीशाय । मुनिश्रेष्ठाय । महर्षये । संशितव्रताय । कर्णिकारवनावासिने । करवीरसुमप्रियाय । नीलोत्पलमहास्रग्विणे । करहाटपुरेश्वराय । शतर्चनाय । परानन्दाय । ब्राह्मणार्च्याय । उपवीतवते । बलिने । बालप्रियाय । धर्माय । हिरण्यपतये । अप्पतये । यमप्रमथनाय । उष्णीषिणे । चक्रहस्ताय । पुरान्तकाय । वसुषेणाय । अङ्गनादेहाय । कौलाचारप्रवर्तकाय । तन्त्राध्यक्षाय । मन्त्रमयाय । गायत्रीमध्यगाय । शुचये । वेदात्मने । यज्ञसम्प्रीताय । गरिष्ठाय । पारदाय । कलये । ऋग्यजुःसामरूपात्मने । सर्वात्मने । क्रतुरीश्वराय । हिरण्यगर्भजनकाय । हिरण्याक्षवरप्रदाय । दमिताशेषपाषण्डाय । दण्डहस्ताय । दुरासदाय । दूर्वार्चनप्रियकराय । रन्तिदेवाय । अमरेश्वराय । अमृतात्मने । महादेवाय । हराय । संहारकारकाय । त्रिगुणाय । विखनसे । वाग्मिने । त्वङ्मांसरुधिरांशकाय । वत्सप्रियाय / वपप्रियाय । सानुस्थाय / वसानिष्ठाय । विष्णुरक्तप्रियाय । गुरवे नमः । ३०० ॥ ॐ किरातवेषाय । शोणात्मने । रत्नगर्भाय । अरुणेक्षणाय । सुरासवबलिप्रीताय । तत्पूर्षाय । (अ)गन्धदेहवते । व्योमकेशाय । कोशहीनाय । कल्पनारहिताय । क्षमिणे । सहमानाय । विव्याधिने । स्फटिकोपलनिर्मलाय । मृत्युञ्जयाय । दुराध्यक्षाय । भक्तिप्रीताय । भयापहाय । गन्धर्वगानसुप्रीताय । विष्णुगर्भाय । अमितद्युतये । ब्रह्मस्तुताय । सूर्यनेत्राय । वीतिहोत्राय । अर्जुनान्त(ङ्गकाय । गर्वापहारकाय । वाग्मिने । कुम्भसम्भवपूजिताय । मलयाय । विन्ध्यनिलयाय । महेन्द्राय । मेरुनायकाय । पार्वतीनायकाय । अजय्याय । जङ्गमाजङ्गमाश्रयाय । कुरुविन्दारुणाय । धन्विने । अस्थिभूषाय । निशाकराय । समुद्रमथनोद्भूतकालकूटविषादनाय । सुरासुरेन्द्रवरदाय । दयामूर्तये । सहस्रपादे । कारणाय । वीरणाय । पुत्रीजन्तुगर्भाय ? । गरादनाय । श्रीशैलमूलनिलयाय । श्रीमदभ्रसभापतये । दक्षिणामूर्तये । अनघाय । जलन्धरनिपातनाय । दक्षिणाय । यजमानात्मने । दीक्षिताय । दैत्यनाशनाय । कल्माषपादपूज्याङ्घ्रये । अतिदाय । तुरगप्रियाय । उमाधवाय । दीनदयाय । दात्रे । दान्ताय । दयापराय । श्रीमद्दक्षिणकैलासनिवासाय । जनवत्सलाय । दर्भरोमावलोन्नेत्रे (दर्भरोम्णे बलोन्नेत्रे) । तामसाय । अन्नविवर्धनाय / तनुवर्धनाय । नमस्कारप्रियाय । नाथाय । आनन्दात्मने । सनातनाय । तमालनीलसुगलाय । कुतर्कविनिवारकाय । कामरूपाय । प्रशान्तात्मने । कारणानां । कारणाय । तृणपाणये । कान्तिपराय । मणिपाणये । कुलाचलाय । कस्तूरीतिलकाक्रान्तभालाय । भस्मत्रिपुण्ड्रवते । वारणाङ्गालङ्कृताङ्गाय । महापापनिवारणाय । प्रकाशरूपाय । गुह्यात्मने । बालरूपाय । बिलेशयाय । भिक्षुप्रियाय । भक्ष्यभोक्त्रे । भरद्वाजप्रियाय । वशिने । कर्मण्याय । तारकाय / नारकोद्भूताय / नारकोद्धर्त्त्रे । भूतकारणाय / कारणाय / तरुणाय । यानाय । हर्षदाय नमः । ४०० ॥ ॐ वृषगामिने । धर्मगोप्त्रे । कामिने । कामाङ्गनाशनाय । कारुण्याय । वाजरूपात्मने । निर्धर्माय / निधर्माय । ग्रामणये । प्रभवे । अरण्याय । पर्शुहस्ताय । सौनिकाय । मेघवाहनाय । कुमारगुरवे । आनन्दाय । वामनाय । वाग्भवाय । यूने । स्वर्धुनिधन्यमौलये । तरुराजाय । महामनसे । कणाशनाय । ताम्रघनाय । मयप्रीताय । अजरामराय । कौणपारये / गाणगारये । भालनेत्राय । वर्णाश्रमपरायणाय । पुराणवृन्दसम्प्रीताय । इतिहासविशारदाय । समर्थाय । नमिताशेषदेवाय । द्योतकराय । फणिने । कर्षकाय । लाङ्गलेशाय । मेरुधन्वने । प्रजापतये । उग्राय । पशुपतये । गोप्त्रे । पवमानाय । विभावसवे । उदावसवे । वीतरागाय । उर्वीशाय । वीर्यवर्धनाय । ज्वालमालाय । अजिताङ्गाय । वैद्युदग्निप्रवर्तकाय । कमनीयाकृतये । पात्रे । आषाढाय । षण्ढ(ण्ड)वर्जिताय । पुलिन्दरूपाय । पुण्यात्मने । पुण्यपापफलप्रदाय । गार्हपत्याय । दक्षिणाग्नये । सभ्याय । वसथभृते । कवये । द्रुमाय । आहवनीयाय । तस्कराय । मयस्कराय । शङ्कराय । वारिदाय । अवार्याय । वातचक्रप्रवर्तकाय । कुलिशायुधहस्ताय । विकृताय । जटिलाय । शिखिने । सौराष्ट्रवासिने । देवेड्याय । सह्यजातीरसंस्थिताय । महाकायाय । वीतभयाय । गणगीताय । विशारदाय । तपस्विने । तापसाचार्याय । द्रुमहस्ताय । उज्ज्वलत्प्रभवे । किन्दमाय / किन्दमप्रीताय । मङ्कणप्रीताय । जातुकर्णिस्तुतिप्रियाय । वेनाय । वैन्याय । विशाखाय । अकम्पनाय । सोमधारकाय । उपायदाय । दारिताङ्गाय । नानागमविशारदाय । काव्यालापैककुशलाय । मीमांसावल्लभाय । ध्रुवाय । तालमूलनिकेताय नमः । ५०० ॥ ॐ बिल्वमूलप्रपूजिताय । वेदाङ्गाय । गमनाय । अगम्याय । गव्यप्रीताय । फलादनाय । गङ्गातीरस्थिताय । लिङ्गिने । अलिङ्गाय । रूपसंश्रयाय । श्रान्तिघ्ने । पुण्यनिलयाय । पललाशाय ? / पलाशाय / पलाशपूजिताय । अर्कपूजिताय । महेन्द्रविष्णुजनकाय । ब्रह्मतातस्तुताय । अव्ययाय । कर्दमेशाय । मतङ्गेशाय । विश्वेशाय । गन्धधारकाय । विशालाय । विमलाय । जिष्णवे । जयशीलाय । जयप्रदाय । दारिद्र्यमथनाय । मन्त्रिणे । शम्भवे । शशिकलाधराय । शिंशुमाराय । शौनकेज्याय । श्वानपाय ? । श्वेतजीवदाय । मुनिबालप्रियाय । अगोत्राय । मिलिन्दाय । मन्त्रसंस्थिताय । काशीशाय । कामिताङ्गाय । वल्लकीवादनप्रियाय । हल्लीसलास्यनिपुणाय । सल्लीलाय । वल्लरीप्रियाय । महापारदाय । संवीर्याय । वह्निनेत्राय । जटाधराय । आलापाय । अनेकरूपात्मने । पुरुषाय । प्रकृतये । पराय । स्थाणवे । वेणवे । वनप्रीताय । रणजिते । पाकशासनाय । नग्नाय । निराकृताय । धूम्राय । वैद्युताय । विश्वनायकाय । विश्वाधिकाय । शान्तरवाय । शाश्वताय । सुमुखाय । महते । अणोरणवे । श्वभ्रगताय । अवटेशाय । नटेश्वराय । चित्रधाम्ने । चित्रभानवे । विचित्राकृतये । ईश्वराय । इन्द्राय । अजाय । अमूर्तिरूपात्मने । अमूर्ताय । वह्निधारकाय । अपस्मारहराय । गुप्ताय । योगिध्येयाय । अखिलादनाय । नक्षत्ररूपाय । क्षत्रात्मने । क्षुत्तृष्णाश्रमवर्जिताय । असङ्गाय । भूतहृदयाय । वालखिल्याय । मरीचिपाय । पञ्चप्रेतासनासीनाय । योगिनीगणसेविताय । नानाभाषानुचरिताय / नानाभाषानुवचनाय । नानादेशसमाश्रयाय । वृन्दारकगणस्तुत्याय । पुरन्दरनतिप्रियाय । प्रघसाय । विघसाशिने नमः । ६०० ॥ ॐ अन्नाधिपतये । अन्नदाय । पन्नगाभरणाय । योगिने । गुरवे । लोकैकनायकाय । विराजे । विश्वतसे । धर्मिने । बभ्रुशाय । बाहुकप्रियाय । प्रधाननिपुणाय । मित्राय । ऊर्ध्वरेतसे । महातपसे । कुरुजाङ्गलवासिने । नित्यतृप्ताय । निरञ्जनाय । हिरण्यगर्भाय । भूतादिस्वराजे । सम्राराजे । विराजे । वटवे । पटहध्वनिसम्प्रीताय । नतमुक्तिप्रदायकाय । फलप्रदाय । भालनेत्राय । फणीश्वराय । महाङ्गधृते । वास्तुपाय । वासवाय । वात्याय । वर्मभिदे । वसनोज्ज्वलाय । मीढुष्टमाय । शिवतमाय । वसवे । शिवतराय । बलिने । निधनेशाय । निधानेशाय । पुरुजिते । राष्ट्रवर्धनाय । अयुतायवे । शतायवे । प्रमितायवे । शताध्वराय । सहस्रश‍ऋङ्गाय । वृषभाय । उरुगायाय । उरुमीढुकाय । गन्त्रे । गमयित्रे । गात्रे । गरुत्मते । गीतवर्धनाय । रागरागिणिकाप्रीताय । तालपाणये । गदापहाय । देवेशाय । खण्डपरशवे । प्रचण्डतरविक्रमाय । उरुक्रमाय । महाबाहवे । हेतिधृते । पावकादनाय । गणिकानाट्यनिरताय । विमर्शाय । वावदूककाय । कलिप्रमथनाय । धीराय । धीरोदात्ताय । महाहनवे । क्षयद्वीराय । मुञ्जकेशाय । कल्मलीकिने । सुरोत्तमाय । वज्राङ्गाय । वायुजनकाय । अष्टमूर्तये । कृपाकराय । प्रहूताय । परमोदाराय । पञ्चाक्षरपरायणाय । कर्कन्धवे । कामदहनाय । मलिनाक्षाय । जडाजडाय । कुबेरपूजितपदाय । महातक्षककङ्कणाय । शङ्खणाय । मधुरारावाय । मृडाय । सस्पिञ्जराय / शष्पिञ्जराय । अजराय । मार्गाय । मार्गप्रदाय । मुक्ताय । विजितारये । परोवराय नमः । ७०० ॥ ॐ प्रणवार्थाय । वेदमयाय । वेदान्ताम्बुजाय । भास्कराय । सर्वविद्याधिपाय । सौम्याय । यज्ञेशाय । क्षेत्रनायकाय । पापनाशकराय । दिव्याय । गोभिलाय । गोपराय । गणाय । गणेशपूजितपदाय । ललिताम्बामनोहराय । कक्षवासाय । महोक्षाङ्काय । निस्तमाय । स्तोमवर्जिताय / तमवर्जिताय । निःसीममहिमोदाराय । प्रभामूर्तये । प्रसन्नवाचे । स्तोभप्रीताय । भारभूताय । भूभारहरणाय । स्थिराय । क्षराक्षरधराय । धर्त्रे । सागरान्तर्गताय । वशिने । रम्याय । रस्याय । रजस्याय । प्रवाह्याय । वैद्युताय । अनलाय । सिकत्याय । वाद्याय । उर्वर्याय । मेध्याय । ईध्रियाय । वाक्पटवे । प्रपञ्चमायारहिताय । कीर्तिदाय । वीर्यवर्धनाय । कालचक्रान्तरहिताय । नित्यानित्याय । चेतनाय । गर्वोन्नताय । भटाकाराय । मृगयवे । भवघ्ने । भवाय । शङ्गाय । शताङ्गाय । शीताङ्गाय । नागाङ्गाय । भस्मभूषणाय । त्रियम्बकाय । अम्बिकाभर्त्रे । नन्दिकेशाय । प्रसादकृते । चण्डीशवरदाय । दिव्याय । मायाविद्याविशारदाय । मृगाङ्कशेखराय । भव्याय । गौरीपूज्याय । दयामयाय । प्रमाथनाय । अविकथनाय । गर्गाय । वीणाप्रियाय । पटवे । वर्णिने । वनस्थाय । यतिराजे । गूढगर्भाय । विरोचनाय । शबराय । बर्बराय । धौम्याय । विराड्रूपाय । स्थितिप्रदाय । महाकारुणिकाय । भ्रान्तिनाशकाय । शोकघ्ने । प्रभवे । अशोकपुष्पपूज्याङ्घ्रये । मणिभद्राय । धनेश्वराय । अमृतेशाय । द्रुतगतये । तगराय । अर्जुनमध्यगाय । दमाय । विरोधहृत्कान्ताय । नीतिज्ञाय । विष्णुपूजिताय । सुमप्रियाय नमः । ८०० ॥ ॐ वातमयाय । वरीयते । कर्मठाय । यमाय । दिगम्बराय । शममयाय । धूमपाय । शुक्रगर्भकाय । अट्टहासाय । तल्पशयाय । आसीनाय । धावमानकाय । तुरासाहे । मेघमध्यस्थाय । विपाशातीरसंस्थिताय । कुलोन्नताय । कुलीनाय । व्यवहारप्रवर्तकाय । केतुमालाय । हरिद्राङ्गाय । द्रापये । पुष्पमयाय । भृगवे । विशोषकाय । उर्वीनिरताय । त्वग्जाताय । रुधिरप्रियाय । अकैतवहृदावासाय । क्षपानाथाय । कलाधराय / कुलाधराय । नक्तञ्चराय । दिवाचारिणे । दिव्यदेहाय । विनाशकाय । कदम्बवनमध्यस्थाय । हरिद्रागाय । उर्मिमध्यगाय । यमुनाजलमध्यस्थाय । जालकाय । अजाय । मखाय । वसवे । वसुप्रदाय । वीरवर्याय । शूलहस्ताय । प्रतापवते । खड्गहस्ताय । मण्डलात्मने । मृत्यवे । मृत्युजिते । ईश्वराय । लङ्कावासाय । मेघमालाय । गन्धमादनसंस्थिताय । भैरवाय । भरणाय । भर्त्रे । भ्रातृव्याय । नामरूपगाय । अव्याकृतात्मने । भूतात्मने । पञ्चभूतान्तराय । अस्मयाय । अहनन्याय । शब्दमयाय । कालाधाराय । कलाधराय । भृगुतुङ्गाय । चीरवासिने / चीरवाससे । कैवर्ताय । नायकाय । अर्धकाय । करेणुपाय ? । गन्धमदाय । चाम्पेयकुसुमप्रियाय । भद्रदाय । चर्मवसनाय । वैराजस्तोत्रकारकाय । सुमप्रीताय । सामगीतिने । उर्जाय । वर्चाय । कुलेश्वराय । ककुद्मते । पीतवसनाय । वध्येशाय । नारदःपित्रे । क्रव्यादनाय । नीतिमयाय । धर्मचक्रप्रवर्तकाय । शष्याय । फेन्याय । विनीर्णेत्रे । कङ्कणोनासिकाय ? । शलाय । एणाङ्काय । शलभाकाराय । शालूराय । ग्रामसंस्थिताय । महाविशेषकथनाय नमः । ९०० ॥ ॐ वारितीरास्थिताय । अचलाय । कृपीटयोनये । शान्तात्मने । गुणवते । ज्ञानवते । शुचये । सर्वपापहराय । अलिङ्गाय । भगमालाय । प्रतारणाय । आनन्दधनाय । आतार्याय । इरिण्याय । प्रपथ्यकाय । गङ्गातीरस्थिताय । देवाय । अविमुक्तसमाश्रयाय । महाश्मशाननिलयाय । वलयाय । वालिपूजिताय । करन्धमाय । व्रात्यवर्याय । मानवाय । जीवकाय । अशठाय । कर्मदेवमयाय । ब्रह्मणे । ऋताय । सत्याय । महेश्वराय । सुमङ्गलाय । सुखमयाय । ज्ञानानन्दाय । मिताशनाय । मनोमयाय । प्राणमयाय । विज्ञानात्माप्रसादनाय । आनन्दमयकोशात्मने । धाम्ने । सीम्ने । भूमकाय । सदाशिवाय । विशिष्टात्मने । वसिष्ठार्चितपादुकाय । नीलग्रीवाय । सैन्यपालाय । दिशानाथाय । नतिप्रियाय । केशवोन्मथनाय । मौनिने । मधुसूदनसूदनाय । उदुम्बरकराय । डिम्भाय । बम्भराय । पिञ्छिलस्तलाय । मूलस्तालकराय । वर्ण्याय । अपर्णादाय । प्राणनाशकाय । अपर्णापतये । आशास्याय । सम्पूर्णाय । पूर्णरूपवते । दीपमालाय । जाङ्गलिकाय । वैतुण्डाय । तुण्डकप्रियाय । ऊलूकाय । कलविङ्काय । शुकनादप्रसादकृते । जैगीषव्यतपःप्रीताय । रावणेन्द्रबलार्दनाय । मार्कण्डेयमहामृत्युनाशकाय । ज्ञानधारकाय । अहर्गणक्रियातीताय । सर्पप्रीताय । अनिलाशनाय । वेगाधाराय । धैर्यधनाय । धनधान्यप्रदायकाय । नाद्याय । वैद्याय । वाद्यरताय । गद्यपद्यस्तुताय । उद्यकाय । भेरीभाङ्कारनिरताय । मृगचर्मविधायकाय । पुण्यकीर्तये । पुण्यलभ्याय । मोहनास्त्रविशारदाय । कैलासशिखरावासाय । पारिजातवनाश्रयाय । ईला(डा)दिरवसम्प्रीताय / ईलांदरवसंप्रीताय । माहेन्द्रस्तुतिहर्षिताय । यूपवाटाय । भारवहाय । कोमलाङ्गाय । जनाश्रयाय । विश्वामित्रप्रियाय नमः । १००० ॥ ॐ बालाय । पाकयज्ञरताय । सुखिने । वामाचारप्रियाय । नेत्रे । शक्तिहस्ताय । दुरासदाय । सर्वाकाराय । शाश्वतात्मने । वाङ्मनाय । दूरगाय । हराय । १०१२ ॥ ॥ इति शिवरहस्यान्तर्गते सदाशिवाख्ये आदिशेषकृतशिवसहस्रनामस्तोत्रव्युत्पन्ना शिवसहस्रनामावलिः सम्पूर्णा ॥ Notes: The ŚivaSahasraNāmāvaliḥ शिवसहस्रनामावलिः is derived from the ĀdiŚeśaKṛtaṃ ŚivaSahasranāmaStotram आदिशेषकृतं शिवसहस्रनामस्तोत्रम् as given in the ŚivaRahasyaṃ . SadāŚivākhyaḥ शिवरहस्यम् । सदाशिवाख्यः. The Name Count has been found to exceed 1000; and several Names appear to be repeated (as is the case in many other SahasraNāmāvali-s). The source publications referred to for the Stotram स्तोत्रम्, were found to have several errors - many of which have been fixed. The readers need to use due discretion. The corresponding Stotram स्तोत्रम् can be accessed from the link given below. Encoded and proofread by Ruma Dewan
% Text title            : Adisheshakritam Shivasahasranamavali from Shivarahasyam 9.2
% File name             : shivasahasranAmAvalIshivarahasya9p2.itx
% itxtitle              : shivasahasranAmAvaliH (AdisheShakRitaM shivarahasyAntargatam navamAMshe adhyAya 2 gaNgAdharAya, andhakaripave, pinAkine)
% engtitle              : AdisheShakRitaM shivasahasranAmastotravyutpannA nAmavaliH
% Category              : shiva, shivarahasya, sahasranAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | sadAshivAkhyaH navamAMshaH | adhyAyaH 2 sahasranAmakathanam | 1-150|| See corresponding stotram
% Indexextra            : (Scans 1, 2, stotram)
% Latest update         : September 22, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org