श्रीशिवशतकम् २

श्रीशिवशतकम् २

न्यस्तोदस्तादसीयप्रपदगुरुभरन्यञ्चितोदञ्चितोर्वी- प्रख्यातक्षीरसिन्धुच्छलनमुकुलनान्दोललीलाकलाभिः । (सिन्धूच्चलन्) प्रस्फारस्वापसौख्यप्रसररभसिनः शेषशय्याशयालो- राशास्या शश्वदास्तां विषमशरमुषः श्रेयसे लास्यलीला ॥ १॥ चूडापीडोडुवोढृस्फुटनिटिलतटीचत्वरोदित्वरोच्चै- र्ज्वालाजाज्वल्यमानं गलकलितमहानीलपाषाणशीलम् । सर्वाङ्गालिङ्गिरिङ्गन्निरुपमसुषमं वेददुर्वेदभेदं (?) किञ्चिच्चिद्वस्तु वास्तूभवतु हृदि महानन्दसन्दोहसान्द्रम् ॥ २॥ आकृत्या कूर्ममर्माविधमखिलनखज्योत्स्नयोत्सारयन्तं पुंसां हिंसातमिस्रं किसलयममलच्छायया तुच्छयन्तम् । बद्धस्पर्धं च सार्धं गिरिदुहितृवपुर्मार्दवोल्लासिकाभिः वन्दे पादं विभोस्तत्कटकतटनटन्नूत्नरत्नैः सयत्नम् ॥ ३॥ शैवोऽयं शीघ्रमङ्घ्रिर्विघटयतु सदानन्दनस्यन्दनेऽस्मिन् गाढोन्मीलत्पदातिद्युतिकबहुतमोवारणे भव्यवाहे । सर्वाङ्गेणानवद्ये प्रकृतिसुमधुरेऽम्भोजसाम्राज्यभाजि भ्राजिष्णौ सत्सहाये जयति यतिमनोमण्डलं द्रागरीणाम् ॥ ४॥ ध्येया माधुर्यधारा विभुपदमधुनो ये यदास्वादवन्तः सन्तः सन्तोषवन्तो मुहुरमृतभुजां श्लाध्यभाग्यर्द्धिभाजाम् । तेषां पुंसां मते सा स्वगुणशतसुधाबाधिका साधुरम्भा- रम्भस्त्रीबिम्बबिम्बाधरमधुरविधा कल्पतेऽल्पानुकल्पम् ॥ ५॥ तद्भद्राण्युद्रणत्कु(द्दृणातु)प्रभुवरचरणं नूनमीशोऽपि यस्मि- न्नेवङ्कारं वराभीत्यनवरकरयुग्व्याजतो व्याजहार । ये सर्वं खर्वयन्तः प्रविशत शरणं मामकेऽस्मिन् शरण्ये वैकुण्ठेऽकुण्ठकण्ठीरव इव खलु ते विक्रमेण क्रमध्वम् ॥ ६॥ पादौ तावन्धकारे हृदि वहत ययोः प्राज्यराजीवराज्यं द्वैराज्येनोदवात्सीत्तदुपचितखिदेवात्र निद्रादरिद्रे । भृङ्गा झङ्कारकोलाहलमुखरदिशोऽभ्येत्यग(चा)न्तर्विशन्तः कल्येऽप्युद्यन्मरन्दाभिधविविधधनान्यात्तवन्तोऽपयान्ति ॥ ७॥ अन्योन्योद्यद्गुणौघोभयसदृशतया बिभ्रदन्योन्यरागं पादद्वन्द्वं पुरारेः सुखयति निखिलं दूरविच्छेदतुच्छम् । यस्मादुत्पद्यमानं प्रथितपृथुगुणैः पुष्पितं तत्त्रिवर्गी मुक्तिश्चेति द्विकन्यं स्वयमिह वृणुते भोगिनं योगिनं च ॥ ८॥ शर्वाणीप्राणबन्धोः प्रणमत चरणं प्राणितप्राणिवर्गे लक्ष्मीलीलानिवासायितनिजकटके राजराजाधिसेव्ये । नानानीत्या समुद्यत्तरसुजनपदे यत्र राजीवराजे न स्थाने हन्त जाने विविधगुणनिधौ भक्तमात्रेऽप्यपेक्षा ॥ ९॥ योऽसावात्रानुरक्तस्त्रिजगति भजते सोऽतिमात्रं विरक्तिं तस्मात् सर्वोत्तमं तत्पदनलिनयुगं त्रायतां सर्वशत्रोः । सेवाहेवाकभाजां युगपदुपनमद्दिक्पतीनां दशानां नैतत् सीमाविभागं किमकृत कृतकादङ्गुलीनां दशानाम् ॥ १०॥ मध्येऽध्वानं निदध्याद्धरचरणयुगं निर्यदाश्चर्यचर्यं यस्याकृत्यां स्फुरन्त्यां मनसि मुनिजनो द्राङ्निराकारभूयम् । विन्देतानन्दसान्द्रं त्रुटितगुणगणो यद्गुणे भाव्यमाने यद्रागे वीतरागः समभवदपि चाप्राकृतो यत्प्रकृत्याम् ॥ ११॥ ऐशौ पादप्रवालौ हृदयपरिसरे ज्ञानवृद्धावलीनां सङ्क्रीडेतां सहेलोल्ललितसुललितौ पथ्यनेपथ्यवन्तौ । यौ मुग्धस्निग्धरूपावतिमृदुलतरौ सस्पृहं दर्शनीया- वङ्के स्वे निक्षिपन्ती परिचरति चिरं श्रीमदम्बाविलम्बात् ॥ १२॥ भूयो भूयो विभाव्यं त्रिभुवनविभवद्वैभवस्याङ्घ्रियुग्मं निष्कामायात्तकामाय च वितरति यत्प्रार्थितं निर्विशेषम् । तत्राद्यः शुद्धबुद्धां धियमथ सहजां प्रेयसा(सी)मर्पयित्वा यस्मै सर्वानपास्य श्रयति हि तदसावान्तरोऽन्यस्तु बाह्यः ॥ १३॥ कल्यं यत्पल्लवं तत्स्वशिरसि बिभृयादुच्चलच्छोणशोभं श्रीरुद्रस्यान्तरुद्यद्वितततरसिराभङ्गिभागूर्ध्वरेखम् । मुग्धस्निग्धेन येन श्रुतियुवतिरतिप्रेमबन्धानुबद्धा प्रीत्या प्रत्यादिशन्ती निखिलसुमनसः स्वं शिरः संस्करोति ॥ १४॥ शम्भोर्बोभोतु भूत्यै पदमिदमधिकं मञ्जुमञ्जीरनील- ग्राव्णो जाग्रत्कराग्रैस्तरुणतृणगणैः शाद्वलोर्जस्वलाभम् । गावो वीक्षा क्षुधार्ता अतिकृतियतिनां तृष्णयास्मिंश्चरन्तः तस्थुः सुस्थास्तदैव द्रुतगलितपयःपूरनिर्व्यूढभासः ॥ १५॥ आस्तां गत्यै पदं तन्मम भृशविपदो भूरिपादस्य शम्भोः भक्तेभ्यः किं नु पौनर्भवविभवभरं स्वे समादाय सम्यक् । तेभ्योऽपौनर्भवर्द्धिं वितरति नितरां तां यदेतत्तथापि स्वाभेदेनैव चित्रं पुनरपि हि भवं संलभन्ते परं ते ॥ १६॥ भर्गाङ्घ्रेस्तुङ्गभावं विमृशत मनसा दुर्गमे पुष्पवद्भयां येनारोहीह यत्नात् स्थिरसुदृढपदं तस्य वैकुण्ठधाम । हस्तप्राप्यं किलाष्टापदगिरिरमुना लोष्टवद्दृष्ट आस्ते तस्याधस्तात् समस्तं जगदपि वलते सोऽपि सर्वोपरि स्यात् ॥ १७॥ वन्दे शम्भोः पदे ते यमनियममहाभास्करैः शुष्कपङ्के नक्षुण्णे वैरिषट्कैः सवननियमनाशुष्मणोष्मायमाणे । दोषौघैर्दूरशून्ये हृदयपरिसरे पारिकाङ्क्षीश्वराणां मन्ये मान्ये किमेते चिरपथिकतयारुण्यतारुण्यपूर्णे ॥ १८॥ चण्डीशस्याङ्घ्रिकुण्डं दहतु मदशुभं यत्र रुक्कन्दलीभिः प्राज्यैराज्यैः समिद्धेऽरुणमणिकिरणज्वालजिह्वालशीले । मञ्जीरोदञ्चिनीलोपलकरलहरीचातुरीभूमधूमे योगी योगस्रुवेणोद्धतषडरिमयीराहुतीः सञ्जुहोति ॥ १९॥ कान्तप्राग्भारभारीसुरमुकुटतटीष्वश्मरश्मिच्छटानां भोगाभोगोज्झितानां प्रमदयतु मनः श्रीगिरीशस्य पादः । सत्त्वोद्रिक्ते विविक्ते सबलहरिगुहासादिते यत्र षड्भ्यः शत्रुभ्यः सन्त्रसन्ती विशति यतिमतिः सर्वतो वीतभीतिः ॥ २०॥ संसारारण्यजन्यज्वलनकबलनोत्तालतापाकुलानां निर्वाणाय क्षमाया निगमवनखिदां कल्पतेऽनल्पतृप्त्यै । अस्यां ये स्नान्ति सन्तः सपदि विरजसस्ते बभुः सा गिरीश श्रीमत्पादाग्रजाग्रन्नखरकरझरीनिर्भरं नः पुनातु ॥ २१॥ पुंसां संसारजीर्णालयगतविषयाकारशङ्कारवारै- रत्यन्तं धूसराणां तदनुशयवतां मार्ष्टये कल्यतुल्याः । अङ्घ्रावारोहणोद्यन्मुनिजनमनसे सम्पतत्तल्पकल्पाः कल्पान्तप्रान्तभाजो नखरशिशिररुग्रोचिषां पान्तु वीथ्यः ॥ २२॥ संसारग्रावरोहत्तरसुखशिखरिस्वैरसञ्चारभाजं चेतोगम्भीरवेदिद्विपमपि शनकैः शिक्षया संविनीय । यस्मिन् बध्नाति यत्नाद्यनुप(मसु)गुणैर्योगधाराधुरीणः श्रेयस्स्रुत्यै श्रयेताश्रितविबुधतरोश्चारुमूरुप्रकाण्डम् ॥ २३॥ यद्रक्षामीति साक्षादभिलषति दिवश्चक्रवर्ती यतीनां शक्रः संसारचक्रं भृशमपवदते यच्च निध्याय बुद्ध्या । चक्रीशो मूर्ध्नि धत्ते यदपि च भगवानात्तचक्रोऽप्युपास्ते शार्वे सर्वोच्चचक्रे जघनमिति मते मानसं सम्पृणक्तु ॥ २४॥ योगिप्रज्ञाप्यकामा समभिसृतवती दुर्गमे योगमार्गे चञ्चत्काञ्चीव्युदञ्चन्मणिरजनिकरद्योतदीप्ते विविक्ते । यस्मिन् कृच्छ्राद्विशन्ती प्रियमिह तु समासादि सद्यो विनोद्य स्वैरं नैव व्यरंसीज्जघनसुपुलिनं दीनबन्धोरुपाध्वम् ॥ २५॥ शम्भोर्गम्भीरनाभीसरसिगतरसस्यातिशीर्यद्भवान्धोः पङ्कैः स्रक्चन्दनाद्यैः कलुषितवपुषः साधु गाहध्वमद्धा । यस्यात्रस्यन्महेन्द्रोपलपटलवलच्छृङ्खलोच्छृङ्खलोस्र- स्रोतःप्रोतस्य रोमावलिरुपरि परीवाहशोभामुवाह ॥ २६॥ मोहक्रुल्लोभदावज्वलजगदटवीव्याकुलीभूतचेतः सारङ्गोत्तालजालायितविषयचयच्छेदने शस्तशस्त्री । ध्यानाध्वश्रान्तधावन्नियम(नसु)कृशस्यावलम्बाय यष्टिः स्वेष्टायोत्तिष्ठतां मे शिव तव विमला श्यामला रोमराजिः ॥ २७॥ भाव्यास्मिन् रोमराजिर्भवगदविपदेयौषधीवल्लिरास्ते शाम्यन्त्या अह्नि पुण्ये सुकृतिषु ??खलिनीषु ज्वलन्त्याः (?) । एतस्याः काञ्चिरोचिर्मयसलिलभृताचालवालाभनाभि- र्निष्का निष्कासिभासोऽप्युपरि परिलसत्स्वच्छगुच्छायमानाः ॥ २८॥ श्यामा रोमावली ते मृड मृडयतु मां नाभिकासारसारे निर्मज्जत्सज्जनान्तःकरणबहिरिता तामसी रेखिकेव । काञ्चीरोचिः सभङ्गोदरसरसि सरत्कान्तकान्तिप्रवाहे सौन्दर्योद्यत्प्रतिष्ठे मरकतघटितन्यस्तयूपाभिरूपा ॥ २९॥ रक्षेत् त्र्यक्षस्य वक्षस्तदखिलजगतीसावकाशाधिवास- प्रोद्दामद्योतमानोदरकुहरपुरीगोपुरोद्यत्कवाटम् । स्याच्छुद्धा बुद्धिरेतत्प्रभुवरकृपयास्यान्तरानन्तरायां योगीन्द्राणां विशेच्चेत् प्रतिगुडकमसौ लोकतेऽशेषलोकं (?) ॥ ३०॥ शम्भोः सर्वागमेषु प्रसृमरमहिमा बाहुकल्पद्रुमाली सापर्णाभोगभूमिर्दृढविहितपदं रोप्यतां स्वान्तसीम्नि । आक्रामद्भिः शनैः स्वं त्रुटतु कलिरथो षड्भिरुचैरमित्रैः विश्राम्येदेव जीवोऽपि च परमसुखं प्राप्य सन्त्यक्ततापः ॥ ३१॥ बाहाः स्युर्भद्रवाहा मदनविजयिनो हृत्तटीव्याजभाजः संसारक्षारसिन्धुप्रतरणतरणेः पुण्यलावण्यवाराम् । स्रोतस्यन्तस्तरन्त्या मणिगणकिरणैस्तन्तुसन्तानकल्पै- रोतप्रोतानुबद्धा अविरतमभितः पातुकाः के निपाताः ॥ ३२॥ लुण्टाकाः कण्टकानां दनुतनुजनुषां श्रेयसामायुषां वा निश्रेणिश्रेणिरुच्चैर्दुरधिगमतमाकुण्ठवैकुण्ठधाम्नाम् । गीर्वाणग्रामणीनामभयमुपयतां निर्भरं निर्भिदुर्गाः चत्वारो बाहवस्ते रतिपतिमथितुर्मङ्गलं बृंहयन्तु ॥ ३३॥ यानालम्ब्यैव योगात् परमगतिविदः सत्पथादस्खलन्तः प्रज्ञाचक्षुः पुमांसोऽप्यनवधिविरुधः षड्द्विषो दण्डयन्ति । दण्डादण्डीति युद्धं विदधति च यमेनोग्रदण्डेन तस्मा- दुद्दण्डैर्बाहुदण्डैर्मम मदनमुषो दण्ड्यतां पापषण्डम् ॥ ३४॥ ताम्रानम्नांशुपात्रं करमनिशमसाबूर्मिकांशूर्मिकार्णः पूर्णं गृह्णन्नशीर्णाक्षतवलयबलद्गारुडाश्मोस्रदर्भैः । युक्तं कीर्तिप्रसूनैः सुरभितमभितोऽनल्पसङ्कल्पितार्थो- त्सृष्ट्यै कृत्स्नस्य सङ्कल्पयति भयभुजः श्रीभुजं तं भजेत ॥ ३५॥ शेषाधीशस्य शय्यायुगयुगलस्यानुरूपस्वरूपा देहव्यूहप्ररोहा इव भुजगिभुजा भावनीया विनीतैः । स्वाराजो गर्वसर्वस्वपरिपणचतुर्दन्तदन्तीन्द्रशुण्डा- दण्डाश्चत्वार एते तत इयमुचिता पुष्करश्रीर्यदन्ते ॥ ३६॥ क्रोडक्रीडन्मृडानीगलतलमिलिताः पुण्डरीकस्रगाभा ज्ञानोन्मीलन्मुनीनां नयननिपतिताः साधु सौधप्रवाहाः । रूक्षोद्यद्राक्षसान्तः किरणपरिसरे कल्यशल्यायमाना दोषो भूषाविशेषांशुभिरसमदृशोऽतीव पीवान ईड्याः ॥ ३७॥ वर्णानां यच्चतुर्णां युगपदपि चतुर्वर्गमुत्सर्गसिद्धं चक्रे शक्रेडिताङ्घ्रेस्तरुणितकरुणं तच्चतुष्पाणि पातु । आमृष्टत्रैपुरस्त्रीनिटिलतलमिलत्सान्द्रसिन्दूरबिन्दो रागैर्मत्वेव जुष्टं वलयसितशिलाः स्वैः करैर्यन्मृजन्ति ॥ ३८॥ आक्रीडक्रोडलोभप्रभृति गजगणो यूथनाथायमानं मोहाह्वानं महेभं रयभवविधुरद्राविसत्त्वे मदीये । अन्तः कान्तारमध्ये चिदभिधविबुधानोकहोन्मूलनोच्चै- र्मूलं प्रोदञ्चि पञ्चानननखरसृणिश्रेणयः स्राक् श‍ृणन्तु ॥ ३९॥ आम्नायाम्नातधाम्नो निगमपरिपणं तौ पणायेत पाणी बिभ्राणौ यो वरं चाभयमुभयमुभौ प्राणिनां प्रीणनाय । ऊर्ध्वं चाधःस्थितानां सुरनरफणिनां वीक्षणक्लेशभाजां निर्व्याजं सज्जमानौ किमु नयनपथे पुण्यकारुण्यवेगात् ॥ ४०॥ श्रैकण्ठः श्रीकुठारो मदघवनघनीभूततां जङ्घनीता- द्रक्षाविख्यातदीक्षां सततधृतवतः श्रीविभो रोषवह्नौ । योऽयं हेतासमेता सुरवरशिरसां सत्पुरोडाशभासां हाहास्वाहाकृतीनां विदधदथ जगत्स्वच्छयत्येव सत्यम् ॥ ४१॥ हस्तोद्रिङ्गत्कुरङ्गः कृपयतु स विभोरीदृशालिङ्गभङ्ग्या यो माने चापमाने समदृगनिवसन् संसरन्नेक एव । पुण्येऽरण्ये तरण्यंशुभिरपि जलमुग्घोरधाराभिरारात् ताड्योऽप्यस्यद्विकारः स हि भगवदुपादेय इत्यादिशत्किम् ॥ ४२॥ श्रीशम्भोः कण्ठकम्बुर्भवतु भवभिदे पूतमाम्नायवर्णैः पूर्णं लावण्यपूरैर्मनसि मुनिजनो यन्निधायार्प्यपात्रम् । स्वस्मिन् सङ्गृह्य तस्मादमृतदृगालोककल्लोलसेकैः संस्कुर्वन् पूज्यवस्तून्यपि निकटचरप्रोक्षणीपात्रमास्ताम् ॥ ४३॥ तत्कण्ठोद्भट्टनोत्थज्वलनकणगणैरुल्बणं यस्तडित्वान् तत्कान्तानां समन्तात् सकरुणरुदितैरूर्जितं चातिगर्जन् । तासामस्रं च वर्षन्ननवधिपरशोः संस्मरामः स्मरारे- रुग्रक्रव्यादवर्गे प्रसयजलधरस्येव घोरायितानाम् ॥ ४४॥ श्रीश्रीकण्ठस्य कण्ठं परिचरत चिरं साधु लेखाभिलेख्यं व्यानद्धं कालपाशैर्गरगिलनमिलच्छ्यामलिम्नश्छलेन । वात्सल्योत्सेकदर्शं निजभजनयुजां कालपाशावलीनां योऽजस्रं स्वेन विस्त्रंसयति जगति तेऽस्मादपाशाः प्रथन्ते ॥ ४५॥ आद्याविद्याज्वरार्ता बहुविषयरसैर्निर्भरं पूर्णगर्भाः प्रोद्यन्मिथ्याद्यपथ्याहितपरिणतयोऽनर्थवाचो विमूढाः । यां पीत्वा चित्तपात्रैरथ विगततृषस्त्यक्ततापाः स्त्वतिष्ठन् श्रीकण्ठस्याश्रये तां भवभयभिषजः कण्ठकालोललक्ष्मीम् ॥ ४६॥ ग्रीवां श्रीवामदेवीं स्वहृदि कलयता ध्याननिध्यानभाजां मध्यश्यामापदेशात् कलिकलुषमिवाच्छिद्य हृद्यावहन्तीम् । उद्यन्नानामतेनाङ्गजविततिभृता निर्विरोधं त्रिरेखा चातुर्वेदेन यस्यां निजजनकभुवि स्वस्य सीमा विभक्ता ॥ ४७॥ तं कण्ठं शूलपाणेर्नम समुपनमन्मार्गणेऽनर्गलेन द्राङ्निर्गच्छत्त्रिवर्गप्रसरणसरणीराददानं त्रिरेखाः । त्रय्या रज्ज्वा गुणानां चरणशरणिनां बन्धनं मोचयित्वा स्वात्मन्येतां गृहीत्वा वसति किमु पुनर्बन्धनाशङ्कया यः ॥ ४८॥ कण्ठे तिष्ठेत मुक्त्यै मदनमदभिदः प्राङ्निलिम्पानुकम्पा- सम्पातैः पारवश्याद्गरलमिव गिलन् क्षुब्धदुग्धाब्धिलब्धम् । भक्ताधीनोऽधुनैषां विषयविषरसान् यो भवाब्धेः प्रसूता- नत्तीतीदं गराणां गिलनगुणनिकापाटवज्जाघटीति ॥ ४९॥ कण्ठः सोत्कण्ठशक्तेः परिलुठतु हठाच्चित्तपीठोपकण्ठे कम्बोः किं वानुबिम्बः किमसमसुषमासीमविश्रामधाम । आलेख्यालेखरेखात्रयरुचिररुचाभूषि भूषाविशेषो मध्योद्यच्चारुगारुत्मतमणिसमरुक्कोमलश्यामलो यः ॥ ५०॥ गौरीगाढोपगूढैः प्रतिफलितमिदं शस्तकस्तूरिकायाः पङ्कं शङ्के शशाङ्काभरणगलमिलन्नीलिमा शीलनीयः । रोलम्बानां कदम्बं मुनिनयननिभं सन्ततामोदलाभे लोभाद्यस्मिन् पतित्वा न खलु पुनरुपावर्तितुं कष्टमीष्टे ॥ ५१॥ शम्भोः शं भो दिशेद्वो भवदवविधुराः कण्ठरुग्वर्षुकाभ्रं मुक्तास्रक्सद्बलाकेऽनवरतविलसत्पुण्यलावण्यनीरे । ग्रैवेयव्यग्रनानामणिकिरणगणैरिन्द्रचापाभिरूपे यत्रोद्यद्विद्युदास्ते गिरिदुहितृपरीरम्भसंरम्भिबाहुः ॥ ५२॥ गुच्छावल्यन्तरच्छच्छविविभवमहानीलशैलोपले (मे) यां मध्येकण्ठस्य कुण्ठेतरतरुणघनश्यामशोभां प्रतीमः । यो योगोद्योगभाजां विषदभरनसन्दिग्धदुग्धोपलब्धेः (?) स्वान्तस्यान्तर्निलीनोऽधिगमयति निजाकारसाकारभावम् ॥ ५३॥ भस्मस्मेरत्रिपुण्ड्रोज्ज्वलनिटिलतटं बिम्बसंवादकोष्ठं निर्नीकाभस्वनासाश्वसनबहुगुणं जैत्रनेत्रत्रयीकम् । अम्भोजाभ्यर्णघूर्णद्भ्रमरपरिकरभ्रान्तिभृच्छ्मश्रुलेखं भो भोः शम्भोर्मुखाम्भोरुहमनुरहसं चेतसा चिन्तनीयम् ॥ ५४॥ ग्रैवेयोदग्रजाग्रन्मणिघृणिभिरथो मौलिमूलोपलानां रोचिर्वीचिप्रपञ्चैः परिधिविधिरधिष्ठीयते यन्मुखेन्दौ । बिभ्रद् भ्रूविभ्रमाङ्कं स्मितसितलसितप्रांशुदन्तांशुराशीन् वर्षन् पीयूषवर्षं दिशि दिशि दिशतादेष हर्षप्रकर्षम् ॥ ५५॥ स्वेनासीम्ना महिम्ना यदिदमुडुपतेर्मण्डलं मङ्क्षु जित्वा जीवग्राहं गृहीत्वा तमथ सुरसरिल्लोलकल्लोलपूरैः । भालाक्ष्णो ज्वालजालैरपि विषमतमे (?) कुत्रचित् स्थापयित्वा क्रामं क्रामं क्रमेण क्रशयति तदिहोपास्यतामैशमास्यम् ॥ ५६॥ पात्रं नित्यापचित्या अथ कमलवनोज्जासनो विप्रयोगे यो यं भास्वत्स्वरूपो वहति किल सदा यामिनी रूढभासः । तत्तादृक्तारकान्तः परमहिततरोऽप्यन्धकारातिरोची राजद्वक्त्राच्छधामा स महिमभरितस्ते मुदे द्रागुदेतु ॥ ५७॥ अञ्चेद्यः पञ्चकं तत्सुमतिरतिमहच्चैव वक्त्राम्बुजानां क्वासीत्तस्य त्रसन्ती शिर उपरि नरीनृत्यते पञ्चता सा । सञ्चञ्चत्पञ्चकं तद्भृशवशमयते चेद्धतामिन्द्रियाणां दुस्साराणां शराणां तदपि शिवरिपोर्निर्जिहीते तदन्तम् ॥ ५८॥ स्मर्या बालेन्दुमौलेर्विशदतरसरत्सुस्मितस्यन्दि चन्द- त्पीयूषासारसङ्गाद्द्विगुणमधुरताधोरणी साधरस्य । आस्वाद्यैनां मुनीनां सवनजममृतं यज्वभोज्यं परं य- द्दिव्यैराद्यं द्वयेऽस्मिन्नरुचिरुदयते तोषलेशावभासे ॥ ५९॥ तां दन्तश्रेणिमुक्तास्रजमसमदृशो हस्तसादेव कृत्वा भक्त्यात्युच्चैर्जपन्ती मुनिवरजनता साधयेन्मोक्षलक्ष्मीम् । निध्यायाध्यास्यमानां हृदयपरिसरे संयमोच्चैर्धनानां यां तत्तद्रत्नवृन्दं चपलतरमनो लज्जया निर्जिहीते ॥ ६०॥ घोणावंशोऽस्य शस्यस्तिलकुसुमतुलामाददानोऽयमेवं वादो लोकापवादो न हि तिलकुसुमैराप्यतेऽमुष्य गन्धः । यस्याम्नायात्मकानां श्वसितसुमरुतां भव्यसौरभ्यलोभाद् यत्ता रोलम्बमाला भृशमसृणमषीचीर्णवर्णायितास्ते ॥ ६१॥ दृष्टिर्भव्याय भाव्या सरभसपतितां यां विभोर्भक्तिगात्रे दृष्ट्वानन्दादमन्दोद्यतनयनजलैः कण्टकैः सङ्कटे च । नार्हन्तीं क्वापि गन्तुं बुधविबुधदृशस्त्रत्र साजात्यहार्दा- द्धस्तग्राहं निनीषादरभरभरिताः सम्भ्रमात्सम्पतन्ति ॥ ६२॥ देवश्रेणीषु गौरीवदन इव तमोनोदने मोदमाना- स्तस्याश्चञ्चद्व्युदञ्चत्कुच इव सुचिरं लोलुपा भक्तपङ्क्तौ । किञ्चित्सञ्चारिचेलाञ्चल इव जघनेऽकिञ्चने व्यग्रतोग्रा नानाभावेन भव्यास्त्रिपुरहरदृशो निर्भरं भावनीयाः ॥ ६३॥ या सोदर्येव तौल्यान्महिमनि चतुरो वर्गसर्गान् स्वसङ्ख्या- वैषम्येणाविभज्यान् जनकचिरचितद्रव्यवत्पाल्यमानान् । साधारण्यादनास्थं वितरति नितरामग्रतः स्थायुकेभ्योऽ- न्योन्यस्पर्धाभिगर्धादिव मदनमुषः सास्तु जैत्री त्रिणेत्री ॥ ६४॥ श्यामोद्यन्मध्यसीमारुणिमतरुणिमालिङ्गितापाङ्गरङ्गं स्मर्तव्यं तत्परत्रोल्लसितसितरुचा रोचमानं त्रिचक्षुः । एकैकेन त्रिलोकीकृतिभृतिविहतीः कर्तुमादायि मूर्तं त्रैगुण्यं किं नु मन्ये नयनविलसिताधीनसर्वक्रियस्य ॥ ६५॥ गावो भावोपरक्तं झटिति पशुपतेः साधुबोधाधिरोधात् शष्पैर्दुर्वासनाभिः किल कलिलतमे मामकान्तश्चरन्तु । अत्यच्छान् भक्तवत्सान् स्थिरसुदृढतरं यत्र सन्नह्य चोहे या दुग्धानीव दुग्धा विविधमभिमतं योगदग्धैर्विदग्धैः ॥ ६६॥ दृष्टिं तां विश्वसृष्टेरतिशयललितां ध्यायतामात्मबुद्ध्या बद्धा देवेषु सिद्धादिषु च बहुचिरं सम्भ्रमाद्या भ्रमन्ती । मूर्छामृच्छत्यतुल्यां निजजनजनकाङ्के विशङ्कं पतित्वा तत्र प्रीत्यातिहर्षाश्रुभिरथ सुखिताऽप्यायतेऽप्यायतेऽच्छम् ॥ ६७॥ शोभाब्धेरुज्जिहानां चिरमुपचरितां चामरालीमरालै- र्भक्तस्वान्तर्मिलिन्दस्वदितसुरचितामन्दचन्दन्मरन्दाम् । उच्चैर्वाचंयमानां विषयविसृमरज्ञानधारामृणालां चक्षुर्नालीकपालीं हृदि वहत विभोस्तापशान्त्यै नितान्तम् ॥ ६८॥ लक्ष्मीवत्पक्ष्मलेखं श्रय विषमदृशोऽनुक्षणेनेक्षणं तत्सुस्निग्धश्यामधामोत्तरलतरपरिष्कारकृत्तारकं यत् । भास्वत्सिन्दूरकेन्दीवरवरविधया श्वेतरक्तासितेति त्रैवर्णोदीर्णजन्यद्युतिततिविततं सर्ववर्णाश्रयोऽपि ॥ ६९॥ शम्भोर्नम्येत वामेतरनयनमजस्रं भवोद्दामधामा घर्मांशुः स्वेतरैस्तैस्तरणिभिरननुष्ठेयमेवानुतिष्ठन् । स्वेषामन्तस्समन्ताद्वितततमतमोमर्मनिर्मन्थकर्मा शिष्टानां विष्टपानां त्रयशयविषयान् व्यञ्चयत्यञ्जसा यः ॥ ७०॥ दृष्टिर्भाव्यापसव्या तरणिरियमहो कर्णधारत्वमस्याः पश्यासौ पारतीरं भवनिभजलधेः पारकाङ्क्षित्वभाजः । नित्यानित्यादिसक्तानुपहृतभजनैकाग्रताकल्यमूल्यान् धन्यानन्यानपेक्षं गमयति निगमप्रान्तराश्रान्तपान्थान् ॥ ७१॥ लीलालोलाञ्चलाल्पारुणिमधवलिमद्राक्चलन्निश्चलेन्द्र- स्वाराज्यं प्राज्यधामादिभिरभिलषितस्निग्धमुग्धावलोकम् । रक्षेत्त्रयक्षेन्दुनेत्रं निजजनममृतेनोक्षयाप्याययद्य- द्योगीन्द्रानन्दसिन्धुं स्थगयति भृशमध्यात्मलेशोदयेन ॥ ७२॥ चण्डाग्निं दृष्टिकुण्डे स्मर निटिलतटीमण्टपे हिण्डमानं कल्पान्तान्त्येष्टियज्वा समुदितजगतीसामिधेनीसमिद्धम् । यस्य ज्वालाह्वजिह्वामनु मदनमयोदीर्णपूर्णाहुतीनां जुह्वत्प्रह्वातिभासां निजपरुषरुषां शान्तिकर्मान्तरोऽभूत् ॥ ७३॥ कामक्रोधादिबाधादुदियदुरुमरुद्वेपमानोऽतिमज्जन् संसारापारवारान्निधिषु चिरमघादुच्चरद्गद्गदोक्तिः । जाड्येनाढ्यम्भविष्णुर्यदुपगमवशादस्तजाड्यादिरास्ते सुस्थः स श्रेयसे स्तान्निटिलनयनतामाश्रयन्नाश्रयाशः ॥ ७४॥ लालाटी दृष्टिरिष्टं झटिति घटयतु द्रष्टृपङ्क्तौ सुखाना- मद्वैतं भोक्तुमिच्छौ निजसुकृतपरीपाकपात्रानुरूपम् । भूयः प्रेङ्खत्कटाक्षामृतमतिविषमं व्युत्क्रमेणादधत्याः अत्याश्चर्यं तथापि स्थितिरतितपना जागरूकास्ति यस्याः ॥ ७५॥ कल्पान्तोत्तालकालानलकुटिलचलज्ज्वालजिह्वाकरालं तापार्ते शीलशीलं सजलजलमुचां शीलयद्यत्तथापि । तार्तीयीकेक्षणं तत्स्मरति मखमुषो दग्धकामादमुष्मा- दाश्चर्यं वीतकामाः स्वयमपि मुनयः पूर्णकामा भवन्ति ॥ ७६॥ ज्योतिः सर्वातिशायिप्रभुनिटिलतटीलक्ष्मणोऽभीक्ष्णमक्ष्णो बुद्ध्या दध्यादमुष्मिन् यतिवरदहरव्योमनि भ्राजमाने । क्व क्लेशार्कप्रकाशोऽपसरति विषयज्योत्स्नया वाक्यलीनं किं वान्यद्यस्य पश्चादनुसरदवचोगोचरं ज्योतिरास्ते ॥ ७७॥ रौद्रे भालाक्ष्ण्यभिख्या मदनपितृवने भैरवी भावनीया सिध्यादद्वैतवेदागमसुगममतिर्भक्तिमार्द्वीकमद्यैः । जीवं यस्यै निवेद्यामृतमथ किमपि प्राश्य दूरे च कृत्वा प्रावृत्याक्षेपमेतद्विषयसमुदयं विस्मरन्नेव माद्येत् ॥ ७८॥ अत्र्यैरुस्त्रैः स्ववर्ग्यैर्व्यवहितकृपणानुग्रहव्यग्रभाव- प्रादुर्भावाय याभूत् किल तदितरयोर्नेत्रयोरूर्ध्वमास्ते । केनानाम्नायधाम्रा ज्वलति जगति च श्रीप्रभोश्चोपमौलि ग्राह्या सा भालदृष्टिः कृपयतु भवतो भीतभीतान् भवार्तेः ॥ ७९॥ भैमं भालाक्षि भाव्यं मुनिजनमनसां भक्तिसाम्राज्यभाजा- माजन्माखण्डदण्डायितसुकृतशतेनाप्यमध्यूषुषां यत् श्वेतच्छत्रायमाणा शिशिरकरकला कोटिकोटीरहीर- ज्योतिश्चन्द्रातपाभश्चलविततकरे कुण्डले चामरे द्वे ॥ ८०॥ खद्योतद्योतवद्योऽहनि बत विशतां शीततामागतोऽसौ क्रूरः कालाग्निकीलो भव विभवनिभो यस्य वीर्यादशीर्यत् । संवर्तोद्वर्तनृत्यद्द्युमणिघृणिघृणां प्रस्तुवन्तं वितन्त्रं चन्द्रापीडे तमीडे कटुतरकुटिलं नैटिलाक्ष्णः कुशानुम् ॥ ८१॥ चण्डीकान्तस्य गण्डस्थलममलतलं राजतादर्शदृश्यं नामास्तां दर्शनीयं हृदि बत यदहो यत्र योगीन्द्रचित्ते । यद्यासीत्साम्मुखीनं क्षणमिदमुदरे देशतः कालतो वा सोत्कर्षं विप्रकर्षन्नपि विषयचयः प्रत्यहं प्रत्यफालीत् ॥ ८२॥ सत्रध्रुट्श्रोत्रकूपं कलयत ललितं सा मनीषा मुनीनां यत्प्रावीण्येन पूर्वं तटनिकटचरीसंसृतेः खिन्नखिन्ना । चातुर्यप्रेर्यमाणा यमनु निपतिता न त्यजेद्यत्समाधिं दूरे कृत्वा कलिं तत्त्रिजगति विदितं दीर्घदर्शित्वमस्याः ॥ ८३॥ बालेन्दुं चन्द्रमौलेः स्मर सततमसौ शाम्भवोऽस्मीत्यहंयुः प्रोद्यन्नास्ते ममास्तेऽप्ययमिति तरणावीर्ष्यया कर्शितांशुः । मुक्तिद्वाराधिकारं तदधिकमतनोद्द्वादशात्मा स चासी- न्नानात्मा स्यामितीच्छुः स्वनतिततिकृतश्चन्द्रचूडानकार्षीत् ॥ ८४॥ स्वर्गाद्गङ्गाप्रवाहः सगरसुतचिताप्यायनायायमानोऽ- शङ्क्यं तत्साहसिक्यं त्विदमिति विमृशन्नध्वमध्येऽप्यधीत्य । सन्तप्ताप्यायनी यत्सविधमधिवसन् कृत्यकृत्यै समागात् सांहःसङ्घातहत्यै रजनिकरकला शाम्भवी बोभवीतात् ॥ ८५॥ न व्याधिव्याधबाधा न च भवदवजा ज्वालमाला नवाला वालाह्वा वागुरा वेति च विमृश मनःकीर रे नीडयास्याम् । सान्निध्यात्सिद्धसिन्धोरतिशयसुभगम्भावुका भावुकानां मूलं नानाफलानां प्रलयनटजटाजूटकूटाटवीयम् ॥ ८६॥ भाव्या भावाः कपर्दाः मुकुटपुटनटद्धेमरुग्वल्लिकल्पा योगीन्द्रस्येन्द्रियाणामुपयमनकृते रज्जवः सज्जमानाः । ध्यानाध्वन्यध्वनीनाः क्वचिदपि न कदा संशयानाशयानां दुःसर्पा एत एवं यदुदभवदहो नित्यनिर्बाधबोधः ॥ ८७॥ सर्वाखर्वाघसङ्घक्रथनकृतिकृते हैमनाराचधारा स्फोटत्कोटीरकोटिर्नटतु पटुतरं हृत्तटे धूर्जटेर्मे । नाडीनामेकधाटी यदियमृषिततेः प्राणसन्धारणीना- मस्यां पश्यन्ति विश्वे प्रतिनियतमतो जीवनस्यानुबद्धम् ॥ ८८॥ त्रैयक्षे जूटकूटे विहरतु हृदयं ब्रह्मवद्यन्नमेयं तत्तादृग्ब्रह्मलोकादपि परमसुखस्यास्पदं च प्रतीमः । यद्भक्त्या ब्रह्मलोकात् त्रिदशसरिदुपागत्वरी सत्वरेण स्वच्छन्दं स्यन्दमाना चिरमिह परतो गन्तुमीहामहासीत् ॥ ८९॥ अध्यारोहन्तु तेऽन्तःकरणतरुवरं प्राणिसत्कर्मराजी बीजात्सञ्जायमानाः पुरविजयिजटाकल्पवल्लीमतल्ल्यः । यासामाबाललीलावलिशशिकलया याश्च सङ्कल्पपूर्त्यै कल्पन्ते निर्विकल्पं सकलसुमनसां चाश्रयाः सत्फलानाम् ॥ ९०॥ श्रीपक्षीन्द्रध्वजेनादृतमहिमतते रक्षणक्लेशपक्षो हंसोत्तंसाधिकारं मनसि बहुचिरेणेप्सितं वीप्सयामि । भक्त्या यं पक्षयित्वा गतिविदथ गणोऽपक्षतीनां यतीनां धिक्कृत्वा षड्विपक्षान् सुखतरमयते तत्पदं तादृगुच्चम् ॥ ९१॥ ब्रह्मज्योतिर्विवर्तायितनिजसलिले जह्नुजे स्वामिशीर्ष्णां सीमोपस्कारकारिण्यधिनिरयरयो वार्यतामार्यवर्ये । यत्त्वं दुर्बोधतत्त्वे भगवति भवतीं ये नमन्तीह सन्त- स्तेषां मूर्धानमारोहसि तव तदयं दुर्विभावः स्वभावः ॥ ९२॥ आरोढुं ब्रह्मधाम स्फटिकमयमहोत्तानसोपानपाली ब्रह्माण्डे ब्रह्मणा या श्रुतिसुरसुरभेर्दुग्धदुग्धायमाना । सम्पद्यन्ते यदेते विभुमुकुटमणे देवि ते वामदेवे सम्बन्धस्यानुबन्धात्फलमखिलमिदं जह्नुकन्येऽद्य मन्ये ॥ ९३॥ यो योऽपप्तत् सुतप्तो निजघनवृजिनैनिर्भरं दुर्भरत्वा- दूर्ध्वं ते यान्ति धौताखिलमललघवो यत्पृषस्पर्शलेशात् । आनन्दाद्वैतपद्या पथिकनिजजनो ब्रह्म सब्रह्मचारी गाङ्गः पूरः पुनीतां प्रभुतनुरुचये नित्यदत्तस्वहस्तः ॥ ९४॥ सा त्रिस्रोताः पुनीतां त्रिभुवनजनतापावनी जीवनीया वैकुण्ठे तन्निनीषारभसपरवशत्वाद्बहिर्भूय तस्मात् । ये जिह्मं ब्रह्मलोकं प्रतिजिगमिषवस्तादृशानां महेश- स्याङ्घ्रेर्मूलं हि मूलायतनमिति मतेर्नूनमत्रागतास्ते ॥ ९५॥ गौरीभर्तुः शरीरं विमृशत सुषमासीमरत्नाकरेऽस्मिन् सम्मीलद्धृष्टदृष्टिश्वसनततितदेकाग्रजाग्रन्नितान्तम् । मज्जन्तो दासवर्या हृषिततनुरुहाः कम्पसम्पन्न देहा लब्ध्वा चिन्नूत्नरत्नं कथमपि सुचिरेणैव निर्वान्ति हन्त ॥ ९६॥ शश्वत्कस्मैचिदस्मै दुरधिगमतमैश्वर्यभाजे नमस्ते गौरीजानेऽर्धजाने कियदभिलषतेऽकिञ्चनानां चयाय । यत्त्वं सायुज्यचर्यां वितरसि तरसा सर्पकोटीकरोटी- मालाहालाहलाद्यैर्धनवत इह ते दुर्गतत्त्वं हि बीजम् ॥ ९७॥ मुक्तिश्चाधूलिकेलिप्रथमसहचरीवास्ति यस्याश्च वश्या दासीवासीत्त्रिवर्गी विधिवधुपदवी साधुसैरन्ध्रिकेव । त्यक्त्वातङ्कं यदङ्के दुहितृवदनिशं चेष्टते चाष्टभूतिः सा भक्तिर्भक्तबन्धौ जगदशिवशिवे श्रीशिवे नित्यमास्ताम् ॥ ९८॥ पायादायासखेदक्षुभितफणिफणारत्ननिर्यत्ननिर्य- च्छायामायापतङ्गद्युतिमुदितवियद्वाहिनीचक्रवाकम् । अभ्रान्तभ्रान्तचूडातुहिनकरकलालीकनालीकनाल- च्छेदामोदानुधावद्द्रुहिणरथखगं धूर्जटेस्ताण्डवं वः ॥ ९९॥ शीर्षाणि न्यञ्चि किंञ्चित्त्वयि विदधति ये तेष्ववाञ्चेद्विरिञ्चि- र्यस्तावत् स्तावकस्ते तममरपरिषद्व्यस्तमस्ता स्तुवीतात् । धत्ते चित्ते प्रमत्ते य इह तव पदं तं च मध्येसमाधि ध्यायेद्योगीन्द्रवृन्दं प्रणतसुरतरो तं भवन्तं प्रपद्ये ॥ १००॥ नाट्यं खट्वाङ्गपाणेर्मनसि नटयताद्विभ्रमेण भ्रमीणा- मामूलच्छिन्नबन्धभ्रमदखिलजगद्दारुणं प्रस्तुतेऽस्मिन् । घूर्णद्भूचक्रघृष्टोत्कटकमठमहापृष्ठनैष्टुर्यनिष्ठा- निष्ठ्यूताच्छिन्नधारज्वलनकणकणैर्दीपिकाकृत्यमासीत् ॥ १०१॥ उन्मीलत्कम्पसम्पच्चलदचलमिथःस्पष्टसङ्घट्टरुग्ण- ग्राव्णां निर्घोषदैर्घ्यैः पटुपटहरवाडम्बरोऽपि व्यडम्बि । उद्वेलोद्वेल्लदब्धेः समसमयवलल्लोलकल्लोलतालै- रुत्तालाताललीलाभयसमुपनमद्ब्रह्मकाकुश्च गीतिः ॥ १०२॥ ॥ इति श्रीशिवशतकं सम्पूर्णम् ॥ Proofread by Aruna Narayanan
% Text title            : Shri Shivashatakam 02 10
% File name             : shivashatakam2.itx
% itxtitle              : shivashatakam 2 (nyastodastAdasIyaprapadaguru)
% engtitle              : shivashatakam 2
% Category              : shiva, shataka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-10
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org