शिवशतकम् ४
(महामहोपाध्यायश्रीगोकुलनाथविरचितं)
विततविविधसम्प्रदायशाखाव्यतिकरवेष्टितमूर्तये नमोऽस्तु ।
बहुतरजगदण्डबीजपूरप्रसवफलेग्रहिपादपाय तुभ्यम् ॥ १॥
न धरणिसलिलानला न वायुर्न खमत एव न खानि नापि वर्ष्म ।
न समयककुभौ न चिन्न चित्तं पुरुषपुरन्दर पूरुषस्तवास्मि ॥ २॥
अविरतपरिवृत्तदण्डकाष्ठाकुलमतुलव्यतिवर्तमानवेगम् ।
भ्रमयसि जगदण्डगोलमालाकलशकलापकुलाल कालचक्रम् ॥ ३॥
भुवनपुटकुटीरहट्टयन्त्रभ्रमणसहध्रुवतर्कुतः क्रमेण ।
सृजसि समयसूत्रमत्र मायामयपटवानविधानतन्तुवायः ॥ ४॥
निगमवनवनस्पते प्रसूषे कति जगदण्डमयान्युदुम्बराणि ।
दधति बहलजन्तुजालमन्तः पुनरपि तानि लयं त्वयि प्रयान्ति ॥ ५॥
बहुतरजगदण्डभारभर्तुर्नहि महिमानमहं तवावयामि ।
मशक इव शलाटुगर्भजन्मा विटपबृहत्त्वमुदुम्बरद्रुमस्य ॥ ६॥
प्रविशति मम चित्तवेश्म सर्वेन्द्रियविकलः श्रुतिशिष्यमाणवर्त्मा ।
विधिगृहतिलबिन्दुजालबर्ही गलितवपुः प्रपितामहः प्रजानाम् ॥ ७॥
विगलितवपुषं विकारवार्तारहितमनिन्द्रियमक्रियं पुराणम् ।
त्वमसि तदिति चेतनाविशेषं निजपितरं निगमाः प्रबोधयन्ति ॥ ८॥
जगदिदमुपदीपयत्यविद्यातिमिररिपौ त्वयि न स्वमप्यवैमि ।
प्रतपति तपनातपे तपर्तौ भजति यदान्ध्यमसावुलूकलोकः ॥ ९॥
विषमनिगमकाननान्तशाखाततिषु निलीय परान्निरीक्षमाणः ।
परिणतिविदलज्जगत्कपित्थग्रसनकपे सुचिरान्निरूपितोऽसि ॥ १०॥
सकलमपि मया स्वकर्मबीजं त्वयि वृषवाह समर्पयाम्बभूवे ।
तव मम च न चेत्फलं प्रसूते कथमधुनाऽप्यहमेव दोषभूमिः ॥ ११॥
नट इव वशगो भवामि यासामहमपहस्तितसर्वभूतपूर्वः ।
प्रकृतिचरितनाट्यसूत्रधार भ्रमयसि मामियतीषु भूमिकासु ॥ १२॥
भवदभिरुचितासु मे क्रियासु व्यवहरतोऽनुदिनं हिताहितासु ।
जनननिधनबन्धमोचनेषु प्रभुरसि भूतपते तवाऽस्मि दासः ॥ १३॥
भवदभिमतमेव सेवमानो हितमहितं च तथा वृथाऽस्मि बद्धः ।
तदपि कतममाश्रये शरण्यं बत परवानितरः पतिस्त्वमेव ॥ १४॥
वरमुपहसनीयवर्णकोऽयं विविधविकारविडम्बितस्वरूपः ।
तदपि कृतकहासमात्रहेतोर्विरम निवारय निःसहोऽस्मि मायाम् ॥ १५॥
क्व जगति कतमाह्नि कस्य हेतोरहमिह बद्ध इति त्वमेव वेत्थ ।
त्वमपि यदि न चेतये न च त्वां मम करुणामय तत्र कोऽपराधः ॥ १६॥
अविदितगतिना प्रमादनिद्रामुषितमतिः कितव त्वयाऽस्मि बद्धः ।
कथमपि मम दृष्टिवर्त्मवर्ती भव पथतस्करबन्धने प्रभुः स्याः ॥ १७॥
बहुविधभवभूमिकाभिराभिर्नटयसि नाथ यथा तथा नटामि ।
कृपण गमयिता भवानविद्याजवनिकयाऽन्तरितःकियन्त्यहानि ॥ १८॥
वपसि विगतभोगभाग्य दूरान्मयि वृषवाह तवाहमुर्वरास्मि ।
स्वपदमुपदधासि यत्र तस्मिन्भवति कडङ्गर एव कर्मबीजम् ॥ १९॥
प्रभवति मतये पदप्रबन्धो न तव निरत्यय नित्यचेतनस्य ।
न भजसि करुणासतो(मतः)पुरारे मम कृपणैः परिदेवितप्रपञ्चैः ॥ २०॥
सरसमपि वरं न भोक्तुमीहे हर मम शम्बलसञ्चयं गृहाण ।
उपदिश कतरद्धि दूरयात्राश्रमशमनं भववर्त्मनोऽवसानम् ॥ २१॥
मम भवपथिकस्य कर्मभोग्यं प्रलयनिशि त्वमवेक्षथाः शयालोः ।
त्वयि सकलमकिञ्चनो बुभूषुः प्रहरकवेतनमेतदर्पयामि ॥ २२॥
श्रुतिजनक रटत्यसौ कुमारी तव दुहिता बहिरेत्य नेति नेति ।
व्यवहित निकटस्थितेऽपि तस्मात्त्वयि मिलितेऽपि ममातिथेः क्व भोगः ॥ २३॥
अपरिमितविभागभूमिरेकस्त्वमसि ततो जगदण्डबिन्दुरासीत् ।
इति भुवनभरैकधुर्य जाने दश ककुभो गणितक्रमेण सिद्धाः ॥ २४॥
कथय क इव दिग्विपर्ययेऽपि प्रभवति गन्तुमतः क्व संसरेयम् ।
भव भवपथिकस्य कोऽप्यपूर्वस्त्वमहमिति प्रसृतो मम प्रमोहः ॥ २५॥
मयि परमविभौ विशुद्धसत्त्वे यदिह शरीरतदात्मतामधासीः ।
निगमपुरुष तत्प्रतिक्रियायै त्वयि निदधामि समस्तवस्त्वभेदम् ॥ २६॥
निबिडजडतदात्मताप्रमोहं विमलयति त्वदभेदविभ्रमो माम् ।
प्रकृतिमुपनयन्ति वारिधानीं कतकरजांसि रजोऽन्तरापकर्षात् ॥ २७॥
पुरि पुरि विहरामहे भ्रमन्तः पुरहर पश्यसि भोगवञ्चितोऽस्मान् ।
किमिति न विहरामहे नाथवन्तो वयमितरे त्वमनाथ एक एव ॥ २८॥
स्वपिषि न परकर्मसु प्रसक्तः परमुपभोजयतस्तव क्व भोगः ।
परचरितमवैषि निर्निमेषः प्रकृतिदरिद्र न कोऽपि पश्यति त्वाम् ॥ २९॥
प्रकृतिचटुल सूक्ष्मभूतशेषे प्रकृतिविकारनिकोचभाजि काले ।
अविरतपरिवृत्तिखेदखिन्ने स्वपिति जने प्रतिबुध्यसे त्वमेकः ॥ ३०॥
प्रलयदहनदग्धशेषपीलुप्रकरशिलोञ्छपवित्रवृत्तिरादौ ।
घटयसि भुवनानि तेषु जीवप्रकृतिचलैः परमाणुभिः शरीरम् ॥ ३१॥
जनशरण शरीरिणां प्रसृप्तैः करणगणैरुपलभ्यचेतनानाम् ।
कतिचन जनुरन्तरानुभूतिप्रसृमरवासनया स्मृतीः प्रसूषे ॥ ३२॥
अतिशयितविबुद्धवत्पुराणः स्मरति मुनिर्निगमं हिरण्यगर्भः ।
गगनपवनसन्निपातकर्ता कथयसि वा करणानपेक्ष एव ॥ ३३॥
अथ कृतककलेवरद्वयेन व्यवहरता च निदेशदायिना च ।
अवगमितपदप्रवृत्तिमादौ कवयसि लोकहिताय सम्प्रदायम् ॥ ३४॥
हितविधिकपटान्निसर्गमूढप्रकृतिरसावहितान्निवर्तनीयः ।
इति विषमतमेऽपि संविधाने गणयतु कस्तव नाथ कौशलानि ॥ ३५॥
भवतु विधिरपूर्वकार्यतत्त्वाशयहितसाधनताभिधासु कश्चित् ।
तदपि मुषितदोषमन्तरा त्वां न भवितुमर्हति चोदना प्रमाणम् ॥ ३६॥
प्रभवति परमाप्त यो दुरन्तादपसरणाय हिते प्रवर्तनाय ।
सह चरति चतुर्भिरर्थवादैर्निगमकवे स तवैव सूक्तसारः ॥ ३७॥
अजिनमुसलवेदियूपशम्यादृषदुपलस्फ्यहविःकपालशूर्पैः ।
अथ गुरुयजमानगातृहोतृप्रभृतिभिरध्वरकर्मसु त्वमिज्यः ॥ ३८॥
विकिरति परितो घनावलीव श्रुतिरमृतानि तवाशयादुदस्य ।
विलयमयमुपैति चित्समुद्र त्वयि जगतो निगमस्य चित्प्रवाहः ॥ ३९॥
अभिसरति परं परं पुरारे विषयमनेकमपास्य पूर्वपूर्वम् ।
वरुणनिलयमापगेव यावद्भजति भवन्तमसौ न चित्तवृत्तिः ॥ ४०॥
गुणगणमपनीय चित्तकूपे मम निगमैः सहसा निपातितोऽसि ।
अमृतकलश तिष्ठ तिष्ठ मन्ये पुनरपि जीवनमुद्धरिष्यसे नः ॥ ४१॥
प्रथमसमयसङ्गमाय नैतज्जगदुपजीवति केवलं भवन्तम् ।
भवतु सततसन्तमन्तरा त्वां कथमनिदम्प्रथमाऽपि वस्तुसत्ता ॥ ४२॥
प्रवहपवनवेगघट्टितोऽपि स्खलति न यज्जगदण्डपिण्डभारः ।
लघुगुरुतुलनातुलाप्रकाण्ड द्रढिमगुणः स भवद्गुणत्रयस्य ॥ ४३॥
त्वमखिलजगदीश षड्भिरङ्गैरुपचितवेदमजीजनः षडङ्गम् ।
कथय कथमसावुपैत्वसत्तां सततसतो भवतः स्वतः प्रपञ्चः ॥ ४४॥
विशकलितमनुव्रजन्निचित्य स्थपतिरिव त्वमजीघटः प्रपञ्चम् ।
विभुरसि न च युज्यसे विकारैस्त्वयि समवैतु कथं स भूतसर्गः ॥ ४५॥
न जगदिदमहेतुतो न शून्यादवधिमतां कथमुद्भवोऽस्त्वकस्मात् ।
प्रकृतिरियमधर्मधर्मरूपा पुरुषगुणः कथमारभेत विश्वम् ॥ ४६॥
स्वपरपरिचयान्ध्यहेतुमेतं शिव भवदावरणीयमन्धकारम् ।
शमयति जगदण्डबिन्दुवृन्दाम्बुद भवदेकपदा विवेकविद्युत् ॥ ४७॥
स्मरसि कथमनन्यदेव वृत्तां प्रभवकथाविधुरां निजामवस्थाम् ।
पुनरपि न चिराज्जनार्दन त्वां न परिचरिष्यति चेतनो द्वितीयः ॥ ४८॥
निमिषपरिचितो हरे समूलं हरसि विशेषगुणव्रजं परस्य ।
प्रथयसि खलतामिमामपूर्वां कथयसि यद्विगुणत्वमात्मनोऽपि ॥ ४९॥
अलमवगलितेन्द्रियप्रवृत्तेस्तव जरतः पुरुषस्य जागरेण ।
अयमहमधुना प्रबुद्ध्यमानः पुरुषविकारकरीं निहन्मि मायाम् ॥ ५०॥
असकृदनटदस्मिता नटी मे निहितपदा मशके मतङ्गजे च ।
ध्रुवमुपरि तवाधिरोक्ष्यतीयं भव महतोऽपि महानणोरणीयान् ॥ ५१॥
विलयमुपजगाम चेदखण्डस्त्वयि जरठो जगदण्डगुल्मपिण्डः ।
क्षपयसि तदपि क्षपामनिद्रः कतिभिरसौ हि बुभूषति प्ररोहैः ॥ ५२॥
विकिरति परदृष्टिवञ्चनाय त्वदुपरि विष्टपसर्षपानविद्या ।
तदपि निमिषमात्रनिर्गतोऽपि प्रविशति भूतगणो भवन्तमेव ॥ ५३॥
असकृदुपरमद्भिरङ्कभेदैर्नटगणनिष्क्रमणाद्विविक्तरङ्गः ।
अविदितमुखसन्धिरामुखान्तो निगमकवेस्तव नाटकप्रबन्धः ॥ ५४॥
भ्रमयसि जगतस्त्वमेव संज्ञापरिचयसंस्कृतिरूपवेदनाभिः ।
सदसदतदपोढवस्तुचिन्ताकृतिरिति कल्पयसे विवेकवेद्यम् ॥ ५५॥
त्वममृत विषयप्रवेशभूमौ भवसि दृशः पथि यस्य स द्वितीयम् ।
जगति न परिपश्यति स्मा जिह्मा स्मरहर दृष्टिविषाधिका गतिस्ते ॥ ५६॥
द्रुहिणभवनपद्मबीजमालामणिपरिवर्तनतत्परात्मनस्ते ।
ग्रसितुमखिलमेव जन्तुजातं विजनयतो विदिता बिडालवृत्तिः ॥ ५७॥
अपरिमितकृतेर्निराश्रयस्य भ्रमरहितस्य निरस्तचेष्टितस्य ।
दृषदुदरदरीषु दर्दुराणां घटनपटोस्तव कीदृशं शरीरम् ॥ ५८॥
भुवनभवनभासनप्रदीप न्यपतदसौ त्वयि चेतनापतङ्गी ।
क्षणमधिकमदीप्यत ज्वलन्ती पुनरजहात्प्रथमामपि स्वसत्ताम् ॥ ५९॥
ध्रुवमियमपवर्गरात्रिसन्ध्या भवति यतस्त्वयि निर्भरोऽनुरागः ।
रुचिमय चरमोऽयमञ्जलिस्ते ननु नचिराद्भविता भवानदृश्यः ॥ ६०॥
यदपि तव वशे ममेन्द्रियाणि श्रुतिविषयावधिवर्तमानदृष्टेः ।
मुखमसि जगतस्तथापि नाथ श्रुतिमुकुरेण विना न वेदितासे ॥ ६१॥
मतिधनमितरे सुदीर्घनिद्राप्रवणधियस्त्वयि निक्षिपन्त्यतन्त्रे ।
उपहरणसुसञ्चितो न जातु व्ययमुपगच्छति चेतनानिधिस्ते ॥ ६२॥
क्वचिदपि विषमे त्वया नियुज्य स्थितिमनवाप्य चिरस्य संसरामि ।
भवगिरिसरिदस्मि चित्समुद्र स्वमपि जहामि तदा लभे यदि त्वाम् ॥ ६३॥
भगवति नियते विदूरयात्रासहचरि संसरणाध्वनोऽयमन्तः ।
जरति विरम निःसहासि संविन्नगरमतःपरमद्वयोपभोग्यम् ॥ ६४॥
विलिखतु कथमक्षराणि भाले स विधिरदृष्टपदार्थलेखदक्षः ।
मम हि मिलितमक्षपादपादप्रणिपतनेन ललाटसीम्नि चक्षुः ॥ ६५॥
उडुनि मयि रवे प्रकाशलेशं व्यवधिवशादपरीक्षितो न्यधासीः ।
तमपहरसि सन्निकर्षमेत्य त्वदुपरि तर्हि निजं वपुस्त्यजामि ॥ ६६॥
भवपथपथिकोऽस्मि वाटपाटच्चर मिलितोऽसि विलुण्ठ्य सम्पदो मे ।
अहमपि भवदन्तरं प्रविश्य ध्रुवमचिरेण हरामि ते विभूतीः ॥ ६७॥
श्रुतिरसि पुरुषार्थसन्निबद्धस्तव चरणे प्रथमे विरौमि वत्सः ।
अमरगवि स दोग्धि कस्य हेतोरमृतमभोक्तरि पूर्तिभाजि भाण्डे ॥ ६८॥
शिव तव मम चान्तरालभूमौ विविधविधां व्यवधां व्यधाद्विधाता ।
तदपि हि भवतोऽहमेव भित्तिर्भवति वृतिः सदनस्य नाजिरस्य ॥ ६९॥
व्यवधिरुपरराम भूर्विभक्ता प्रभवसि गूढमतिर्न मां प्रहर्तुम् ।
तदहमहमिकाहृदेकशेषावधिरधुना ध्रुवमावयोर्विमर्दः ॥ ७०॥
न धरणिरुपरि प्रयाति नाधः पतति न च प्लवते न बम्भ्रमीति ।
न च दिवि वसति स्वशक्तियोगादपि तु भवानचलास्थिरत्वहेतुः ॥ ७१॥
अविषमचतुरस्रषड्विभागां न सृजसि कन्दुकनिस्तलां न सूषे ।
घटयसि पृथिवीमिमां खचक्रभ्रमणकुलाल विशालदर्पणाभाम् ॥ ७२॥
पुरहर परदृष्टिदोषशान्त्यै कति जगदण्डकगण्डकान्बिभर्षि ।
त्वदुपरि परिपातयन्ति दृष्टिं विजहति सर्वमकिञ्चना भवन्ति ॥ ७३॥
परपुरमभिविश्य सर्वलोकं भ्रमयसि सर्वदिनेषु भूतवर्गः ।
भवपितृवनवाटबोधिवृक्ष प्रलयनिशासु निलीय सेवते त्वाम् ॥ ७४॥
ग्रहगृहसरसीरुहस्य राहुभ्रमरविमर्दसहार्ककर्णिकस्य ।
भ्रमणमिदमभिव्यनक्ति लीलां तव घटितां ध्रुवनालघट्टनाय ॥ ७५॥
सकलगुणगणो ममोर्णनाभेर्विलयमुपैति वितायते च भूयः ।
पटुजनजडतापहारहेतोः क्षणमपि न क्षमसे क्षयं गुणानाम् ॥ ७६॥
न खलु विघटिताः पुनर्घटन्ते न च घटिताः स्थिरसङ्गतां श्रयन्ते ।
पिपतिषुमवशं रुजन्ति वंश्यास्तटतरुमाप इवापगाणकस्य ॥ ७७॥
विगतविपरिलोपदृष्टि पश्यन्वशयसि यां पुरुषप्रकाण्ड मायाम् ।
प्रकृतिचपलया तया विकारैर्बहुविधवर्णिकया वशीकृतोऽस्मि ॥ ७८॥
प्रकृतिचपलपीलुबीजवर्गे दलति खगोलकुशूलविप्रकीर्णम् ।
अघटितमितरेतरेण कल्पक्षयरजनौ समचीकलस्त्वमेकः ॥ ७९॥
स्वपुटपटलमभ्यजीर्यदाशावृतिरदलन्निरवाद्रविप्रदीपः ।
प्रलयमवनिवास्त्वगात्तथापि क्व जगदगारगृहस्थ निश्यवात्सीः ॥ ८०॥
प्रसरति विषयेषु येषु रागः परिणमते विरतेषु तेषु शोकः ।
त्वयि रुचिरुचिता नितान्तकान्ते गुणपरिपाकशुचामगोचरोऽसि ॥ ८१॥
प्रतिगृहमतिथिर्गृहीतदण्डो धृतजगदण्डकमण्डलुप्रकाण्डः ।
भुवनवहन पात्रमात्रशेषं सतृणमिमं जगदत्ति कालभिक्षुः ॥ ८२॥
प्रसभनिविशमानकालसर्पप्रतिहतनिर्गमने खगोलनीडे ।
बहुविधगतयो विविक्तजायासुतजननीतनवः खगा भ्रमन्ति ॥ ८३॥
अभिलपितमथानुचिन्तितं यो हृदयगुहाशयितः शृणोत्यकर्णः ।
तमिममवचनं च वाग्मिता च प्रभवति मन्त्रयितुं त्रयी भुजङ्गम् ॥ ८४॥
परिपिबति पयो भवाध्वनीनस्तनयकराज्जननीपयोधराच्च ।
व्यपगतमधुना तदाशयापि प्रसभवशादयमाशयः शुशोष ॥ ८५॥
स्तनकलशमुखेन वा जनन्यास्तनयकराङ्गुलिमध्यकुल्यया च ।
चपल पिब पयांसि यावदायुर्भवति न चेतसि चेतनासमुद्रः ॥ ८६॥
विधिवशमिलितो भवाध्वयात्रां हरसि जगत्तिलपेषतैलिकोऽसि ।
न तव पशुपते विदन्ति पाशं पिहितदृशः पशवः परिभ्रमन्ति ॥ ८७॥
मयि फलकधिया त्वया कियत्यः प्रतिकृतयो लिखितास्तथा विलुप्ताः ।
विरम बत निसर्गनिर्मलस्य प्रमृज रजो मम पश्य दर्पणोऽस्मि ॥ ८८॥
क्षितिबिलपतितं जरायुपेशीस्थगितमथाण्डसमुद्गके निगूढम् ।
अविवृतमपि धातुसञ्चयं ते भव भवता हृतविग्रहो हरामि ॥ ८९॥
परिमितसुखदं कषायपाकं विरसतरं विषयान्तरं विहाय ।
निरवधिमधुरे समे समन्तात्त्वयि पुरुषोत्तम विश्रमोऽस्तु वाचाम् ॥ ९०॥
अपगतपदपाटवोऽपि गर्भादुपनिषदामधुनोत्थितः प्रबन्धः ।
जनयतु तव कौतुकं कलेन प्रतिपदविस्खलितेन जल्पितेन ॥ ९१॥
प्रकृतिमलिनमृक्षलक्षलिक्षाचयचितमम्बरचीवरं वसानम् ।
प्रकटितबृहदण्डमत्रपं त्वां पुरुषमुदीक्ष्य हसामि चोल्लसामि ॥ ९२॥
व्यरमदवसरः स यत्र कर्मप्रकरमकार्षममर्त्यलेह्यलोभात् ।
न पुनरपि पिबामि सोमपात्रामृतदधि राहुबिडालपीतशेषम् ॥ ९३॥
स्वयमयमवलेढि होतुराज्यं तदनु तमाशयते सुधाम्बुबिन्दून् ।
अजनि तु जननीपयस्तृषार्तिक्षयमवमुञ्चति याज्यमिज्यवर्गः ॥ ९४॥
भ्रमयसि नवधा खमण्डलानि द्रढयसि सप्तपुटानि भूतधात्र्याः ।
उपदिशसि च षड्गतीर्ग्रहाणां ध्रुवमसि तद्ध्रुवयोरपि ध्रुवस्त्वम् ॥ ९५॥
गुणमपि तव निर्गुणत्वपक्षे भ्रमयति दोषकुलाकुलः प्रबन्धः ।
मलिनयति नवेन्दुसुन्दराणि स्फटिकशिलाशकलानि काचसङ्गः ॥ ९६॥
किमपि निविशते प्रकाशराशौ त्वयि यमुनेव रवौ विधाविवाङ्कः ।
असिततनुचतुर्भुजस्वरूपं यदरतरा हृदयं हरन्ति वामाः ॥ ९७॥
इदमपरपुरं तदेव यस्मिन्नसकृदहर्निरगान्निशि प्रविश्य ।
विगलितवरणाद्बहिर्विहीनात्कथमधुना सदनादितो निरीयाम् ॥ ९८॥
यदभिलपसि पुद्गलानजीवासुरवरनिर्जरजीवबन्धमोक्षान् ।
नयसि च यदनावृतान्विहङ्गप्रकृतिमतस्तदुपास्यसे जिनेन्द्रः ॥ ९९॥
प्रकृतिरियमनश्वरस्वरूपा सृजति महान्तमसौ यतो विकारम् ।
अविकृतमपि पश्यतः सतस्ते सह रमते ह्यनया सखा त्वदीयः ॥ १००॥
यदि मम सहसा तवाभिसारात्कुलगुरुभिर्निगमैर्निवारितासौ ।
स्वयमभिसर तर्हि वाचमेनां परपुरुषं निगमो न पश्यति त्वाम् ॥ १०१॥
मम वचनजलानि कर्णशुक्तौ तव पतितानि गतानि मौक्तिकत्वम् ।
विगुणविलुलितानि लाजबुद्ध्या रसयतु कुण्डलकुण्डलिप्रकाण्डम् ॥ १०२॥
अपटुभिरभिधित्सितार्थबुद्धावनभिमतानपि बोधयद्भिरर्थान् ।
पुरमथन पराहतैरमीभिः कथय कदा विहसिष्यसि प्रलापैः ॥ १०३॥
न तव पुरि शिलादपुत्रवेत्रप्रततिनिरुद्धतया लभे प्रवेशम् ।
शिवसहचरि गौरि गोपुरेभ्यो बहिरुपविश्य वसामि नौमि च त्वाम् ॥ १०४॥
न दहति सगरान्वयं न पादात्प्रभवति नाप्यलिकादुदेति चक्षुः ।
न च किमपि शृणोति नेत्रवर्गो मम कथमस्तु तव स्तवेऽधिकारः ॥ १०५॥
॥ इति महामहोपाध्यायश्रीगोकुलनाथविरचितं शिवशतकम् ॥
Encoded and proofread by Ruma Dewan