ब्रह्मकृता शिवस्तुतिः
ब्रह्मोवाच -
हिरण्यबाहो ब्रह्मा त्वं विष्णुस्त्वं जगतः पतिः ।
सृष्टिस्थितिविनाशानां हेतुस्त्वं केवलं हर ॥ ७०॥
त्वमष्टमूर्तिभिः सर्वं जगद्व्याप्य चराचरम् ।
उत्पादकः स्थापकश्च नाशकश्चापि विश्वकृत् ॥ ७१॥
त्वामाराध्य महादेव मुक्तिं याता मुमुक्षवः ।
रागद्वेषादिभिस्त्यक्ताः संसारविमुखा बुधाः ॥ ७२॥
(तृतीयं यद्भवेन्नेत्रं ललाटस्थं महेश्वर ।
सततं भ्राजमानं तत् चित्र्यं तेजी मुमुक्षुभिः ॥ ७२क ॥)
विभिन्नवाय्वग्निजलौघवर्जितं
न दूरसंस्थं रविचन्द्रसंयुतम् ।
त्रिमार्गमध्यस्थमनुप्रकाशकं
तत्त्वं परं शुद्धमयं महेश्वर ॥ ७३॥
यदष्टशाखस्य तरोः प्रसूनं
चिदम्बुवृद्धस्य समीपजस्य ।
तपश्छदःसंस्थगिशस्य पीनं
सूक्ष्मोपगं ते वशगं सदैव ॥ ७४॥
अधः समाधाय समीरणस्वनं
निरुद्ध्य चोर्द्ध्वं निशि हंसमध्यतः ।
हृत्पद्ममध्ये सुमुखीकृतं
रजः परन्तु तेजस्तव सर्वदेक्ष्यताम् ॥ ७५॥
प्राणायामैः पूरकैः स्तम्भकैर्वा
रिक्तैश्चित्रैश्चोदनं यत्पराख्यम् ।
दृश्यादृश्यं योगिभिस्ते प्रपञ्चाः
शुद्धं वृद्धं तत्त्वतस्तेऽस्ति लब्धम् ॥ ७६॥
सूक्ष्मं जगद्व्यापि गुणौघपीनं
मृग्यम्बुधेः साधनसाध्यरूपम् ।
चौरैरक्षैर्नोज्झितं नैव नीतं
वित्तं तवास्त्यर्थहीनं महेश ॥ ७७॥
न कोपेन न शोकेन न मानेन न दम्भतः ।
उपयोज्य तु तद्वित्तमन्यथेव विवर्धते ॥ ७८॥
मायया मोहितः शम्भो विस्मृतं ते हृदि स्थितम् ।
मायां भिन्नं परिज्ञाय धारयाऽऽत्मानमात्मना ॥ ७९॥
मायास्माभिः स्तुता पूर्वं जगदर्थे महेश्वर ।
तया ध्यानगतं चित्तं बहुयत्नैः प्रसाधितम् ॥ ८०॥
शोकः क्रोधश्च लोभश्च कामो मोहः परात्मता ।
ईर्ष्यामानौ विचिकित्सा कृपासूया जुगुप्सता ॥ ८१॥
द्वादशैते बुद्धिनाशहेतवो मनसो मलाः ।
न त्वादृशैर्निषेव्यन्ते शोकं त्यज ततो हर ॥ ८२॥
इति कालिकापुराणे अष्टादशाध्यायान्तर्गता ब्रह्मकृता शिवस्तुतिः समाप्ता ।
Proofread by PSA Easwaran