मङ्कणककृता शिवस्तुतिरेवं सिद्धेश्वरलिङ्गवर्णानम्

मङ्कणककृता शिवस्तुतिरेवं सिद्धेश्वरलिङ्गवर्णानम्

ईश्वरः - तत्प्रतीच्यां महादेवि प्रभासं नाम विश्रुतम् । प्रभासे वेनिका नाम नदी पुण्यप्रदा शुभा ॥ १॥ तत्र शैववरा नित्यं भसितोद्धूलने रताः । त्रिपुण्ड्रभालाः सततमन्यपुण्ड्रविवर्जिताः ॥ २॥ रुद्राक्षकवचाः सर्वे पञ्चाक्षरपरायणाः । रुद्राध्यायार्थकथनप्रवणाः शरणा मयि ॥ ३॥ मम लिङ्गार्चकाः सर्वे बिल्वपत्रादिसाधनैः । तैः शिवानर्पितं वारि फलं वा नोपभुज्यते ॥ ४॥ षट्सहस्रं मुनीन्द्राणां प्रभासे समवस्थितम् । तत्र मङ्कणको नाम पुरा सिद्धोऽभवन्मुनिः ॥ ५॥ तेन सिद्धेश्वरं लिङ्गं त्रिकालेषु समर्चितम् । बिल्वपत्रैश्च कल्हारैर्नीलैर्नीलोत्पलैरपि ॥ ६॥ नैवेद्यैः फलमूलादिकल्पितैः परमेश्वरि । सदा ममाराधनकृत् स मां तुष्टाव शङ्करि ॥ ७॥ सिद्धेशं सर्वसिद्धीनामाकरं भुवनेश्वरि ॥ --- मङ्कणकः - सिद्धेश सिद्धगणपूज्यपदाब्जयुग्ममद्यैतदेकमनिशं दयया ददस्व । मुग्धेन्दुचूड मयि सिद्धिगणं त्वदीयैः (?) सिद्धोऽस्मि मोचय महाघसुपाशबद्धम् ॥ ८॥ बुद्धिं प्रसारय महेश सुखाय शम्भो त्वत्पादपूजनविधौ दृढभक्तियुक्ताम् । सक्तां सुदारतनयादिधनादिकेषु धान्येषु गोषु गृहवर्णगणेषु मुक्तिम् ॥ ९॥ देहि प्रसीद परमेश्वर पञ्चवक्त्र लोकेशमेति निखिलं सहभूतवर्गैः । वैमानिकाश्च सकलाः ससुराश्च लोकाः कालस्त्वमीश वडवामुखसन्निभोऽब्धौ ॥ १०॥ क्षेत्रोत्तमं मुनिवरैः सेवितं शाम्भवोत्तमैः । तत्र सिद्धेश्वरं नाम्ना लिङ्गं मुक्तिप्रदं मम ॥ ११॥ मद्भासनाकर्षणेन प्रभासमिति विश्रुतम् । हरिब्रह्मरुद्रेन्द्रसाम्राज्यजालं निकृष्टं तदुत्कृष्टकष्टैकनिष्ठम् । ममेशानलिङ्गार्चनध्यानतुष्टस्य लक्षस्थलिक्षायिता देववर्गाः ॥ १२॥ --- ईश्वरः - इति मङ्कणकेनेशि संस्तुतोऽहं मुदा तदा । तमाहूय मुनिं सिद्धं सिद्धयस्तेऽभवंस्त्वयि ॥ १३॥ इति मत्तो वरं लब्ध्वा स तु मङ्कणको द्विजः । स्वकरात्पयसो धारां निःसृतां ददृशेऽम्बिके ॥ १४॥ सिद्धिः प्राप्तेसि च मया तस्य हर्षोऽजनि दुतम् । ननर्त सिद्धलिङ्गाग्रे करतालैः स शाम्भवः ॥ १५॥ --- मङ्कणकः - स्वामिन्नन्नपते धनाधिपपते हे शैलकन्यापते हे कामान्तक हे पुरान्तक महादेवेश मां पालय । हे विश्वेश्वर भर्ग देव भगवन् हे चारुचामीकर- स्फाराकारशशीरशोभित महासिद्धेश सिद्धिप्रद ॥ १६॥ हे भीमामरनायकाखिलमहापापेरुतापं हर रुद्रोग्रामितशङ्कर त्रिपुरजापारव्यथां संहर । हे कालान्तक कालकाल भवहन् कालाद्भयं संहार हे गङ्गोत्तमसङ्गरङ्गितजटाभारार्धचन्द्रस्फुर ॥ १७॥ कर्पूरोज्वलभूतिभूष भगवन् मां सर्वदा पालय हे भोगीश्वरकङ्कण प्रमथयानाथे प्रसीदाधुना । हे विश्वान्तक विश्वमेतदधुना त्वत्तो विभो निःसृतं पाहि त्वं परमेश्वरेश कृपया त्वन्मायया कल्पितम् ॥ १८॥ हे लिङ्गार्चनजातनन्दितनिजानन्दैकमोदप्रद हे । बिल्वादिदलोत्तमाङ्ग भगवन् मत्सिद्धिदातार्चने ॥ १९॥ --- ईश्वरः - इत्थं ननर्त स मुनिः सिद्धिविस्मापितस्तदा । तेन वृत्तेन सकलं जगन्नृत्तपरं भवत् ॥ २०॥ सोद्विग्नास्त्रिदशाः सर्वे मुनिं ते ददृशुस्तदा । निमीलिताक्षं ध्यायन्तं सानन्दजललोचनम् ॥ २१॥ ब्रह्मोपेन्द्रेन्द्रविबुधान्नैवापश्यत्तदाऽम्बिके । सिद्धेश्वराग्रतः सर्वे स्तुवन्तं मां सुरास्तदा ॥ २२॥ सदा सब्रह्मकाः सर्वे सिद्धेशं मां प्रणम्य च । बिल्वैः सम्पूज्य मां सर्वे प्रार्थयन्ति तदा सुराः ॥ २३॥ --- देवाः - भो शम्भो त्रिपुरान्तकान्तक महादेवेश विश्वाधिक विश्वाशास्य दयानिधे त्रिजगतां नाथ प्रसीदाव नः । भो भर्गामरधीर वीर भगवन् पाहीन्दुमौळे सुरान् नृत्ये तेन मुनीश्वरेण भुवनं नृत्यन्विनम्येद्ध्रुवम् ॥ २४॥ अयं मङ्कणकः सिद्धः सिद्धेश तव दर्शनात् । सिद्धिं परमिकां प्राप्तस्तेन नृत्यानि मोहितः ॥ २५॥ तं निवारय लोकेश लोकानां स्थितिहेतवे । तद्ब्रह्मणो वचः श्रुत्वा सिद्धरूप्यहमागतः ॥ २६॥ --- ईश्वरः - जटामण्डलशोभाढ्यस्त्रिपुण्ड्रनिटिलोल्लसन् । रुद्राक्षहारवलयः कङ्कणाद्यैश्च शोभितः ॥ २७॥ भसितोद्धूलितवपुः स्वर्णवेत्रलसत्करः । शङ्खखड्गादिकलितकुण्डलैः शोभिवक्त्रकः ॥ २८॥ पादुकाविलसत्पादो मेखलां पादलम्बिनीम् । दधड्डमरुकं देवि नादयन्डरबरोऽम्बरम् ॥ २९॥ पादकङ्कणभूतस्य फणिनः श्वासफूत्कृतैः । वैनतेयमहापक्षकृतपीडो महेश्वरि ॥ ३०॥ तस्याग्रतः स्थितो देवि सिद्धेशोऽहं मुनेस्तदा । स मुनिर्विस्मयाविष्टो मां प्रणम्य तदा स्थितः ॥ ३१॥ पश्यतस्तस्य मेऽङ्गुष्ठो देवि सन्ताडितो मया । तस्माच्च भस्मनो राशिरुदभूत पर्वतोपमः ॥ ३२॥ देवा मङ्कणकः शैवा अद्भुतं ददृशुस्तदा । नृत्तादुपारमद्विप्रो मया प्रोक्तः स मङ्कणः ॥ ३३॥ गच्छ मङ्कण सिद्धिस्ते मत्प्रसादात्परा तव । मैव ते विस्मयो भूयादेतल्लिङ्गं हि सिद्धिदम् ॥ ३४॥ प्रभासे पावने क्षेत्रे यो वा को वाऽपि मानवः । नियतः संवसेदत्र तस्य सिद्धिः परा भवेत् ॥ ३५॥ सिद्धिप्रदमिदं लिङ्गं सिद्धेशाख्यं तु कामदम् । दर्शनादस्य लिङ्गस्य सर्वाः सिद्ध्यन्ति सिद्ध्यः ॥ ३६॥ प्रभासे मत्प्रसादेन सिद्धलिङ्गमुदीक्ष्य च । मत्सायुज्यमवाप्नोति देवि सत्यं वदामि ते ॥ ३७॥ ॥ इति शिवरहस्यान्तर्गते प्रभासक्षेत्रमाहात्म्ये मङ्कणककृता शिवस्तुतिरेवं सिद्धेश्वरलिङ्गवर्णानम् ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ३४॥ - - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 34.. - Notes: Prabhas Shiva Kshetra, is abode to Siddheshwara (Siddhesha) Linga and is located on the banks of River Venika (Vena). The story of Siddha Muni Mankanaka is narrated here; whereby, Shiva granted that worship at Siddheshwara Linga in Prabhas Kshetra would result in prompt acquisition of Siddhies and benefit of Shiva-Sayujya. The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan
% Text title            : Shiva Stuti by Mankanaka and Siddheshvaralinga Varnanam
% File name             : shivastutiHsiddheshvaralingavarNAnammankaNakakRRitA.itx
% itxtitle              : shivastutiH siddheshvaraliNgavarNAnaM maNkaNakakRitA (shivarahasyAntargatA)
% engtitle              : shivastutiH siddheshvaralingavarNAnaM mankaNakakRitA
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 34|| -
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org