शिवस्तुतिश्लोकसंनयनम् ४
(शिवरहस्यान्तर्गते नवमांशे)
सूतः उवाच ।
जटाजूटोरुशोभाङ्कमस्तकं भूतिभूषितम् ।
रूद्राक्षस्रग्भिराकीर्णं त्रिपुण्ड्रावलिभूषितम् ॥ २५.२१॥
कुलालः उवाच ।
नमोऽस्तु ते देव दयानिधे हर
प्रपन्नपालाव्यय सोममौले ।
व्यालोलव्यालामल हस्तशूल
नौ पाहि सर्वेश्वर कालकाल ॥ २५.४८॥
वणिक् उवाच ।
गङ्गाचन्द्रकलासदुल्लसझरीसारस्फुरन्मौलि ते
कण्ठं ते शितिकण्ठ कुण्ठितगर श्रीनीलकण्ठाधुना ।
वह्नीन्द्वर्कभवाक्षकोणजकृपापाङ्गोल्लसत्ते मुखं
पादाब्जं सुरमौलिजालमणियुक्कान्तं भजे शङ्करम् ॥ २६.५७॥
कृषीवलः उवाच ।
भो भर्ग शाश्वत विभो त्रिजगच्छरण्य
राकेन्दुधामवदनामलचारुमूर्ते ।
विश्वेश शाश्वत विभो शशिखण्डचूड
मामद्य पाहि करुणावरुणालयेश ॥ २८.४२॥
पशुपतिः (भक्तः उवाच) ।
नमस्ते रुद्रं वा श्रुतिशिरगमन्योऽहमिषुमान्
नमस्ते बाहुभ्यां तव शिवखरेषूद्यतकरः ।
शरव्या हेतिभ्यां तव वरद सङ्क्षुब्ध धनुषे
तवेशस्याहृद्या तनुरपि मनो मेऽद्य पदयोः ॥ ४०.४१॥
हिरण्यो देवस्त्वं नखशिखमुखा ते नयनयोः
तनुं सम्पश्यन् वै भव शिव नमः सोम वपुषे ।
अतोऽणीयञ्ज्यायान् श्रुतिकलितवाक्यार्थकलनैः
नमः शेषी देवः श्रुतिगदित पञ्चाक्षरमनोः ॥ ४०.४२॥
बालः (ज्ञानसम्बन्ध) उवाच ।
शम्भोभर्गभवान्तकाव्यय विभो पाह्यम्बुजाक्षणा-
लोक्यामौलिसुमूल भालविलसन्नेत्रप्रभाभासित ।
(शम्भोभर्गभवान्तकाव्यय विभो पाह्यब्जजाब्जेक्षणा-
क्ष्योत्तुङ्गशिरःसु भालविलसन्नेत्रप्रभाभासित ।)
आलोलद्युति सोमसुन्दर जटाजूटात्तगङ्गोत्तम
व्यालानद्धशरीरकान्त गरजिच्छीरञ्जिताङ्ग प्रभो ॥ ४६.३८॥
दभ्रगृहे शिवदर्शनवर्णनम्
सोमं सोमललामगाङ्गसुजटाचूडं मृडं शङ्करं
सोमार्कानललोचनं गरगलं वैयाघ्रचर्माम्बरम् ।
मन्दस्मेरमुखाम्बुजं च सुमहाबाहुं प्रभाभासुरं
शूलोद्यन्मृगटङ्ककं पदनतामर्त्यावृतं शङ्करम् ॥ ५६.३९॥
दभ्रः उवाच ।
शम्भो पाहि महेश सोमशकलालङ्कारमौले हर
स्वामिन् देव दयानिधे करुणया मां पाहि सर्वेश्वर ।
त्वं विश्वाधिक वेदवेद्य भगवन् कारुण्यवारान्निधे
धन्योऽस्मीश भवत्पादाम्बुजरसास्वादैकसन्मानसः ॥ ५६.४१॥
वैश्यः (उवाच) ।
भो शम्भो त्रिजगच्छरण्य करुणातारुणवारां निधे
पाहीश प्रमथाधिनाथ गरधृक् विश्वेश विश्वाधिक ।
विश्वाशास्य विभो विभूषणमहाकाकोदराकन्धर
सोमानद्ध किरीटकोटिविलसद्भस्माङ्गरागारुण ॥ ६१.३१॥
वीरशार्दूलोवाच
हर हर दुरितानि दीनबन्धो
कुरु मम बन्धविमोचनं भवाद्य ।
परिहर संसृतिभारमुग्रखेदं
गुरुगरलाशन देव देव पाहि ॥ २८॥
॥ इति शिवरहस्यान्तर्गते शिवस्तुतिश्लोकसंनयनम् ४ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । शिवस्तुतिश्लोकसंनयनम् २ । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . shivastutishlokasaMnayanam 2 . vAvRRittashlokAH ..
Notes:
The shlokas for eulogizing Shiva; that eventuate sporadically in various Adhyaya-s of Shiva Rahasyam Amsa-09, are collated on this page.
Proofread by Ruma Dewan