श्रीशिवसूत्राणि
॥ शिवसूत्राणि ॥
उन्मेषसूत्र क्रम-सङ्ख्या
१ शाम्भवोपाय १-२२
२ शाक्तोपाय १-१०
३ आणवोपाय १-४५
॥ ॐ नमश्शम्भवे स्वात्मानन्दप्रकाशवपुषे ॥
अथ शिवसूत्राणि ।
प्रथमोन्मेषः शाम्भवोपायः
चैतन्यमात्मा ॥ १॥
(चैतन्यम् आत्मा)
ज्ञानं बन्धः ॥ २॥
(ज्ञानम् बन्धः)
योनिवर्गः कलाशरीरम् ॥ ३॥
(योनि-वर्गः कला-शरीरम्)
ज्ञानाधिष्ठानं मातृका॥ ४॥
(ज्ञान अधिष्ठानम् मातृका)
उद्यमो भैरवः ॥ ५॥
(उद्यमः भैरवः)
शक्तिचक्रसन्धाने विश्वसंहारः ॥ ६॥
(शक्ति-चक्र-सन्धाने विश्व-संहारः)
जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसम्भवः ॥ ७॥
(जाग्रत् स्वप्न सुषुप्त भेदे तुर्य आभोग सम्भवः)
ज्ञानं जाग्रत् ॥ ८॥
(ज्ञानम् जाग्रत्)
स्वप्नो विकल्पाः ॥ ९॥
(स्वप्नः विकल्पाः)
अविवेको मायासौषुप्तम् ॥ १०॥
(अविवेकः माया सौषुप्तम्)
त्रितयभोक्ता वीरेशः ॥ ११॥
(त्रितय-भोक्ता वीरेशः)
विस्मयो योगभूमिकाः ॥ १२॥
(विस्मयः योग-भूमिकाः)
इच्छाशक्तिरुमा कुमारी ॥ १३॥
(इच्छा-शक्तिः उमा कुमारी)
दृश्यं शरीरम् ॥ १४॥
(दृश्यम् शरीरम्)
हृदये चित्तसङ्घट्टाद्दृश्यस्वापदर्शनम् ॥ १५॥
(हृदये चित्त-सङ्घटात् दृश्य-स्वाप-दर्शनम्)
शुद्धतत्त्वसन्धानाद्वाऽपशुशक्तिः ॥ १६॥
(शुद्ध-तत्त्व सन्धानात् वा अ-पशु-शक्तिः)
वितर्क आत्मज्ञानम् ॥ १७॥
(वितर्क आत्म-ज्ञानम्)
लोकानन्दः समाधिसुखम् ॥ १८॥
(लोक-आनन्दः समाधि-सुखम्)
शक्तिसन्धाने शरीरोत्पत्तिः ॥ १९॥
(शक्ति-सन्धाने शरीर उत्पत्तिः)
भूतसन्धानभूतपृथक्त्वविश्वसङ्घट्टाः ॥ २०॥
(भूत-सन्धान भूत-पृथक्त्व विश्व-सङ्घट्टाः)
शुद्धविद्योदयाच्चक्रेशत्वसिद्धिः ॥ २१॥
(शुद्ध-विद्या उदयात् चक्र-ईशत्व-सिद्धिः)
महाह्रदानुसन्धानान्मन्त्रवीर्यानुभवः ॥ २२॥
(महा-ह्रद अनुसन्धानात् मन्त्र-वीर्य अनुभवः)
इति शाम्भवोपायाख्ये प्रथमोन्मेषसूत्राणि ।
द्वितीयोन्मेषः शाक्तोपायः
चित्तं मन्त्रः ॥ १॥
(चित्तम् मन्त्रः)
प्रयत्नः साधकः ॥ २॥
(प्रयत्नः साधकः)
विद्याशरीरसत्ता मन्त्ररहस्यम् ॥ ३॥
(विद्या-शरीर-सत्ता मन्त्र-रहस्यम्)
गर्भे चित्तविकासोऽविशिष्टविद्यास्वप्नः ॥ ४॥
(गर्भे चित्त-विकासः अविशिष्ट-विद्या-स्वप्नः)
विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था ॥ ५॥
(विद्या-समुत्थाने स्वा-भाविके खेचरी शिव-अवस्था)
गुरुरुपायः ॥ ६॥
(गुरुः उपायः)
मातृकाचक्रसम्बोधः ॥ ७॥
(मातृका-चक्र-सम्बोधः)
शरीरं हविः ॥ ८॥
(शरीरम् हविः)
ज्ञानमन्नम् ॥ ९॥
(ज्ञानम् अन्नम्)
विद्यासंहारे तदुत्थस्वप्नदर्शनम् ॥ १०॥
(विद्या-संहारे तत्-उत्थ स्वप्न-दर्शनम्)
इति शाक्तोपायाख्ये द्वितीयोन्मेषसूत्राणि ।
तृतीयोन्मेषः आणवोपायः
आत्मा चित्तम् ॥ १॥
(आत्मा चित्तम्)
ज्ञानं बन्धः ॥ २॥
(ज्ञानम् बन्धः)
कलादीनां तत्त्वानामविवेको माया ॥ ३॥
(कला-आदिनाम् तत्त्वानाम् अविवेको माया)
शरीरे संहारः कलानाम् ॥ ४॥
(शरीरे संहारः कलानाम्)
नाडीसंहारभूतजयभूतकैवल्यभूतपृथक्त्वानि ॥ ५॥
(नाडी-संहार भूतजय-भूतकैवल्य-भूतपृथक्त्वानि)
मोहावरणात्सिद्धिः ॥ ६॥
(मोह आवरणात् सिद्धिः)
मोहजयादनन्ताभोगात्सहजविद्याजयः ॥ ७॥
(मोह-जयात् अनन्त आभोगात् सहज-विद्या-जयः)
जाग्रद्द्वितीयकरः ॥ ८॥
(जाग्रत् द्वितीय करः)
नर्तक आत्मा ॥ ९॥
(नर्तक आत्मा)
रङ्गोऽन्तरात्मा ॥ १०॥
(रङ्गः अन्तरात्मा)
प्रेक्षकाणीन्द्रियाणि ॥ ११॥
(प्रेक्षकाणि इन्द्रियाणि)
धीवशात्सत्त्वसिद्धिः ॥ १२॥
(धी-वशात् सत्त्व-सिद्धिः)
सिद्धः स्वतन्त्रभावः ॥ १३॥
(सिद्धः स्वतन्त्र-भावः)
यथा तत्र तथान्यत्र ॥ १४॥
(यथा तत्र तथा अन्यत्र)
बीजावधानम् ॥ १५॥
(बीज अवधानम्)
आसनस्थः सुखं ह्रदे निमज्जति ॥ १६॥
(आसनस्थः सुखम् ह्रदे निमज्जति)
स्वमात्रानिर्माणमापादयति ॥ १७॥
(स्व-मात्रा निर्माणम् आपादयति)
विद्याऽविनाशे जन्मविनाशः ॥ १८॥
(विद्या अविनाशे जन्म-विनाशः)
कवर्गादिषु माहेश्वर्याद्याः पशुमातरः ॥ १९॥
(क-वर्ग आदिषु माहेश्वरी आद्याः पशु-मातरः)
त्रिषु चतुर्थं तैलवदासेच्यम् ॥ २०॥
(त्रिषु चतुर्थम् तैलवत् आसेच्यम्)
मग्नः स्वचित्तेन प्रविशेत् ॥ २१॥
(मग्नः स्वचित्तेन प्रविशेत्)
प्राणसमाचारे समदर्शनम् ॥ २२॥
(प्राण-समाचरे सम-दर्शनम्)
मध्येऽवरप्रसवः ॥ २३॥
(मध्ये अवर प्रसवः)
मात्रास्वप्रत्ययसन्धाने नष्टस्य पुनरुत्थानम्॥ २४॥
(मात्रा-स्वप्रत्यय-सन्धाने नष्टस्य पुनः उत्थानम्)
शिवतुल्यो जायते ॥ २५॥
(शिव तुल्यो जायते)
शरीरवृत्तिर्व्रतम् ॥ २६॥
(शरीर-वृत्तिः व्रतम्)
कथा जपः ॥ २७॥
(कथा जपः)
दानमात्मज्ञानम् ॥ २८॥
(दानम् आत्मज्ञानम्)
योऽविपस्थो ज्ञाहेतुश्च ॥ २९॥
(यो अविपस्थः ज्ञा-हेतुः च)
स्वशक्तिप्रचयोऽस्य विश्वम् ॥ ३०॥
(स्व-शक्ति प्रचयो अस्य विश्वम्)
स्थितिलयौ ॥ ३१॥
(स्थिति-लयौ)
तत्प्रवृत्तावप्यनिरासः संवेत्तृभावात् ॥ ३२॥
(तत् प्रवृत्तौ अपि अनिरासः संवेतृ-भावात्)
सुखदुःखयोर्बहिर्मननम् ॥ ३३॥
(सुख-दुःखयोः बहिः मननम्)
तद्विमुक्तस्तु केवली ॥ ३४॥
(तत् विमुक्तः तु केवली)
मोहप्रतिसंहतस्तु कर्मात्मा ॥ ३५॥
(मोह-प्रतिसंहतः तु कर्म आत्मा)
भेदतिरस्कारे सर्गान्तरकर्मत्वम् ॥ ३६॥
(भेद-तिरस्कारे सर्ग अन्तर कर्मत्वम्)
करणशक्तिः स्वतोऽनुभवात् ॥ ३७॥
(करण-शक्तिः स्वतः अनुभवात्)
त्रिपदाद्यनुप्राणनम् ॥ ३८॥
(त्रिपद-आदि अनुप्राणनम्)
चित्तस्थितिवच्छरीरकरणबाह्येषु ॥ ३९॥
(चित्त-स्थिति-वत् शरीर-करण-बाह्येषु)
अभिलाषाद्बहिर्गतिः संवाह्यस्य ॥ ४०॥
(अभिलाषात् बहिः गतिः संवाह्यस्य)
तदारूढप्रमितेस्तत्क्षयाज्जीवसंक्षयः ॥ ४१॥
(तत् आरूढ प्रमितेः तत् क्षयात् जीव-संक्षयः)
भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः ॥ ४२॥
(भूत-कञ्चुकी तदा विमुक्तो भूयः पति-समः परः)
नैसर्गिकः प्राणसम्बन्धः ॥ ४३॥
(नैसर्गिकः प्राण-सम्बन्धः)
नासिकान्तर्मध्यसंयमात्किमत्र सव्यापसव्यसौषुम्नेषु ॥ ४४॥
(नासिका-अन्तर्मध्य-संयमात् किमत्र सव्य-अपसव्य सौषुम्णेषु)
भूयः स्यात्प्रतिमीलनम् ॥ ४५॥
(भूयः स्यात् प्रति-मीलनम्)
इति आणवोपायाख्ये तृतीयोन्मेषसूत्राणि ।
॥ इति वसुगुप्तेन समुपार्जित शिवसूत्राणि ॥
॥ इति शिवम् ॥
Notes:
Readers’ discretion is required.
An additional Sūtra सूत्र in the Section III. i.e. Tṛtīyonmeṣaḥ Āṇavopāyaḥ तृतीयोन्मेषः आणवोपायः (viz. Visargasvābhāvyādabahiḥ sthitestatsthitiḥ .. विसर्गस्वाभाव्याद्बहिः स्थितेस्तत्स्थितिः ।) is inconsistently found amongst various source texts or publications; resulting in differing total number of Sūtra-s (45 vs 46) in the third section.
e.g.
The publication of ŚivaSūtraVārtikam शिवसूत्रवार्तिकम् by Bhāskara भास्कर numbers the same as
- 15 in the list of sūtra-s (n=46),
- [2-14]15 in the list of topics (n=46),
- 14.2 in the explanation section of the book that concludes with the final sūtra number as 45.
The Sūtra is however omitted within the same publication in the alphabetical list of the sūtra-s (n=45) and in the ŚivaSūtraVṛtti शिवसूत्रवृत्ति (n=45).
The said Sūtra is neither found in ŚivaSūtraVārtikam शिवसूत्रवार्तिकम् by Varadarāja वरदराज (n=45) nor in the ŚivaSūtraVimarśinī शिवसूत्रविमर्शिनी of Kṣemarāja क्षेमराज (as also clarified in the footnotes in the publication of the ŚivaSūtraVārtikam शिवसूत्रवार्तिकम् by Bhāskara भास्कर); with total number of sūtra-s in Section III as 45.
Proofread by Ruma Dewan