श्रीशिवसूत्राणि
॥ शिवसूत्राणि ॥
उन्मेषसूत्र क्रम-सङ्ख्या
१ शाम्भवोपाय १-२२
२ शाक्तोपाय १-१०
३ आणवोपाय १-४५
॥ ॐ नमश्शम्भवे स्वात्मानन्दप्रकाशवपुषे ॥
अथ शिवसूत्राणि ।
प्रथमोन्मेषः शाम्भवोपायः
चैतन्यमात्मा ॥ १॥
(चैतन्यम् आत्मा)
ज्ञानं बन्धः ॥ २॥
(ज्ञानम् बन्धः)
योनिवर्गः कलाशरीरम् ॥ ३॥
(योनि-वर्गः कला-शरीरम्)
ज्ञानाधिष्ठानं मातृका॥ ४॥
(ज्ञान अधिष्ठानम् मातृका)
उद्यमो भैरवः ॥ ५॥
(उद्यमः भैरवः)
शक्तिचक्रसन्धाने विश्वसंहारः ॥ ६॥
(शक्ति-चक्र-सन्धाने विश्व-संहारः)
जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसम्भवः ॥ ७॥
(जाग्रत् स्वप्न सुषुप्त भेदे तुर्य आभोग सम्भवः)
ज्ञानं जाग्रत् ॥ ८॥
(ज्ञानम् जाग्रत्)
स्वप्नो विकल्पाः ॥ ९॥
(स्वप्नः विकल्पाः)
अविवेको मायासौषुप्तम् ॥ १०॥
(अविवेकः माया सौषुप्तम्)
त्रितयभोक्ता वीरेशः ॥ ११॥
(त्रितय-भोक्ता वीरेशः)
विस्मयो योगभूमिकाः ॥ १२॥
(विस्मयः योग-भूमिकाः)
इच्छाशक्तिरुमा कुमारी ॥ १३॥
(इच्छा-शक्तिः उमा कुमारी)
दृश्यं शरीरम् ॥ १४॥
(दृश्यम् शरीरम्)
हृदये चित्तसङ्घट्टाद्दृश्यस्वापदर्शनम् ॥ १५॥
(हृदये चित्त-सङ्घटात् दृश्य-स्वाप-दर्शनम्)
शुद्धतत्त्वसन्धानाद्वाऽपशुशक्तिः ॥ १६॥
(शुद्ध-तत्त्व सन्धानात् वा अ-पशु-शक्तिः)
वितर्क आत्मज्ञानम् ॥ १७॥
(वितर्क आत्म-ज्ञानम्)
लोकानन्दः समाधिसुखम् ॥ १८॥
(लोक-आनन्दः समाधि-सुखम्)
शक्तिसन्धाने शरीरोत्पत्तिः ॥ १९॥
(शक्ति-सन्धाने शरीर उत्पत्तिः)
भूतसन्धानभूतपृथक्त्वविश्वसङ्घट्टाः ॥ २०॥
(भूत-सन्धान भूत-पृथक्त्व विश्व-सङ्घट्टाः)
शुद्धविद्योदयाच्चक्रेशत्वसिद्धिः ॥ २१॥
(शुद्ध-विद्या उदयात् चक्र-ईशत्व-सिद्धिः)
महाह्रदानुसन्धानान्मन्त्रवीर्यानुभवः ॥ २२॥
(महा-ह्रद अनुसन्धानात् मन्त्र-वीर्य अनुभवः)
इति शाम्भवोपायाख्ये प्रथमोन्मेषसूत्राणि ।
द्वितीयोन्मेषः शाक्तोपायः
चित्तं मन्त्रः ॥ १॥
(चित्तम् मन्त्रः)
प्रयत्नः साधकः ॥ २॥
(प्रयत्नः साधकः)
विद्याशरीरसत्ता मन्त्ररहस्यम् ॥ ३॥
(विद्या-शरीर-सत्ता मन्त्र-रहस्यम्)
गर्भे चित्तविकासोऽविशिष्टविद्यास्वप्नः ॥ ४॥
(गर्भे चित्त-विकासः अविशिष्ट-विद्या-स्वप्नः)
विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था ॥ ५॥
(विद्या-समुत्थाने स्वा-भाविके खेचरी शिव-अवस्था)
गुरुरुपायः ॥ ६॥
(गुरुः उपायः)
मातृकाचक्रसम्बोधः ॥ ७॥
(मातृका-चक्र-सम्बोधः)
शरीरं हविः ॥ ८॥
(शरीरम् हविः)
ज्ञानमन्नम् ॥ ९॥
(ज्ञानम् अन्नम्)
विद्यासंहारे तदुत्थस्वप्नदर्शनम् ॥ १०॥
(विद्या-संहारे तत्-उत्थ स्वप्न-दर्शनम्)
इति शाक्तोपायाख्ये द्वितीयोन्मेषसूत्राणि ।
तृतीयोन्मेषः आणवोपायः
आत्मा चित्तम् ॥ १॥
(आत्मा चित्तम्)
ज्ञानं बन्धः ॥ २॥
(ज्ञानम् बन्धः)
कलादीनां तत्त्वानामविवेको माया ॥ ३॥
(कला-आदिनाम् तत्त्वानाम् अविवेको माया)
शरीरे संहारः कलानाम् ॥ ४॥
(शरीरे संहारः कलानाम्)
नाडीसंहारभूतजयभूतकैवल्यभूतपृथक्त्वानि ॥ ५॥
(नाडी-संहार भूतजय-भूतकैवल्य-भूतपृथक्त्वानि)
मोहावरणात्सिद्धिः ॥ ६॥
(मोह आवरणात् सिद्धिः)
मोहजयादनन्ताभोगात्सहजविद्याजयः ॥ ७॥
(मोह-जयात् अनन्त आभोगात् सहज-विद्या-जयः)
जाग्रद्द्वितीयकरः ॥ ८॥
(जाग्रत् द्वितीय करः)
नर्तक आत्मा ॥ ९॥
(नर्तक आत्मा)
रङ्गोऽन्तरात्मा ॥ १०॥
(रङ्गः अन्तरात्मा)
प्रेक्षकाणीन्द्रियाणि ॥ ११॥
(प्रेक्षकाणि इन्द्रियाणि)
धीवशात्सत्त्वसिद्धिः ॥ १२॥
(धी-वशात् सत्त्व-सिद्धिः)
सिद्धः स्वतन्त्रभावः ॥ १३॥
(सिद्धः स्वतन्त्र-भावः)
यथा तत्र तथान्यत्र ॥ १४॥
(यथा तत्र तथा अन्यत्र)
बीजावधानम् ॥ १५॥
(बीज अवधानम्)
आसनस्थः सुखं ह्रदे निमज्जति ॥ १६॥
(आसनस्थः सुखम् ह्रदे निमज्जति)
स्वमात्रानिर्माणमापादयति ॥ १७॥
(स्व-मात्रा निर्माणम् आपादयति)
विद्याऽविनाशे जन्मविनाशः ॥ १८॥
(विद्या अविनाशे जन्म-विनाशः)
कवर्गादिषु माहेश्वर्याद्याः पशुमातरः ॥ १९॥
(क-वर्ग आदिषु माहेश्वरी आद्याः पशु-मातरः)
त्रिषु चतुर्थं तैलवदासेच्यम् ॥ २०॥
(त्रिषु चतुर्थम् तैलवत् आसेच्यम्)
मग्नः स्वचित्तेन प्रविशेत् ॥ २१॥
(मग्नः स्वचित्तेन प्रविशेत्)
प्राणसमाचारे समदर्शनम् ॥ २२॥
(प्राण-समाचरे सम-दर्शनम्)
मध्येऽवरप्रसवः ॥ २३॥
(मध्ये अवर प्रसवः)
मात्रास्वप्रत्ययसन्धाने नष्टस्य पुनरुत्थानम्॥ २४॥
(मात्रा-स्वप्रत्यय-सन्धाने नष्टस्य पुनः उत्थानम्)
शिवतुल्यो जायते ॥ २५॥
(शिव तुल्यो जायते)
शरीरवृत्तिर्व्रतम् ॥ २६॥
(शरीर-वृत्तिः व्रतम्)
कथा जपः ॥ २७॥
(कथा जपः)
दानमात्मज्ञानम् ॥ २८॥
(दानम् आत्मज्ञानम्)
योऽविपस्थो ज्ञाहेतुश्च ॥ २९॥
(यो अविपस्थः ज्ञा-हेतुः च)
स्वशक्तिप्रचयोऽस्य विश्वम् ॥ ३०॥
(स्व-शक्ति प्रचयो अस्य विश्वम्)
स्थितिलयौ ॥ ३१॥
(स्थिति-लयौ)
तत्प्रवृत्तावप्यनिरासः संवेत्तृभावात् ॥ ३२॥
(तत् प्रवृत्तौ अपि अनिरासः संवेतृ-भावात्)
सुखदुःखयोर्बहिर्मननम् ॥ ३३॥
(सुख-दुःखयोः बहिः मननम्)
तद्विमुक्तस्तु केवली ॥ ३४॥
(तत् विमुक्तः तु केवली)
मोहप्रतिसंहतस्तु कर्मात्मा ॥ ३५॥
(मोह-प्रतिसंहतः तु कर्म आत्मा)
भेदतिरस्कारे सर्गान्तरकर्मत्वम् ॥ ३६॥
(भेद-तिरस्कारे सर्ग अन्तर कर्मत्वम्)
करणशक्तिः स्वतोऽनुभवात् ॥ ३७॥
(करण-शक्तिः स्वतः अनुभवात्)
त्रिपदाद्यनुप्राणनम् ॥ ३८॥
(त्रिपद-आदि अनुप्राणनम्)
चित्तस्थितिवच्छरीरकरणबाह्येषु ॥ ३९॥
(चित्त-स्थिति-वत् शरीर-करण-बाह्येषु)
अभिलाषाद्बहिर्गतिः संवाह्यस्य ॥ ४०॥
(अभिलाषात् बहिः गतिः संवाह्यस्य)
तदारूढप्रमितेस्तत्क्षयाज्जीवसंक्षयः ॥ ४१॥
(तत् आरूढ प्रमितेः तत् क्षयात् जीव-संक्षयः)
भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः ॥ ४२॥
(भूत-कञ्चुकी तदा विमुक्तो भूयः पति-समः परः)
नैसर्गिकः प्राणसम्बन्धः ॥ ४३॥
(नैसर्गिकः प्राण-सम्बन्धः)
नासिकान्तर्मध्यसंयमात्किमत्र सव्यापसव्यसौषुम्नेषु ॥ ४४॥
(नासिका-अन्तर्मध्य-संयमात् किमत्र सव्य-अपसव्य सौषुम्णेषु)
भूयः स्यात्प्रतिमीलनम् ॥ ४५॥
(भूयः स्यात् प्रति-मीलनम्)
इति आणवोपायाख्ये तृतीयोन्मेषसूत्राणि ।
॥ इति वसुगुप्तेन समुपार्जित शिवसूत्राणि ॥
॥ इति शिवम् ॥
Proofread by Ruma Dewan