॥ श्रीशिवसूत्राणि ॥

१ शाम्भवोपाय १-२२ २ शाक्तोपाय १-१० ३ आणवोपाय १-४५ १ शाम्भवोपाय चैतन्यमात्मा ॥ १॥ चैतन्यम् आत्मा ज्ञानं बन्धः ॥ २॥ ज्ञानम् बन्धः योनिवर्गः कलाशरीरम् ॥ ३॥ योनिवर्गः कलाशरीरम् ज्ञानाधिष्ठानं मातृका ॥ ४॥ ज्ञान अधिष्ठानम् मातृका उद्यमो भैरवः ॥ ५॥ उद्यमः भैरवः शक्तिचक्रसन्धाने विश्वसंहारः ॥ ६॥ शक्तिचक्र सन्धाने विश्व संहारः जाग्रत्स्वप्नसुषुप्तिभेदे तुर्याभोग(संवित्)सम्भवः ॥ ७॥ जाग्रत् स्वप्न सुषुप्ति भेदे तुर्य आभोग(संवित्)सम्भवः ज्ञानं जाग्रत् ॥ ८॥ ज्ञानम् जाग्रत् स्वप्नो विकल्पाः ॥ ९॥ स्वप्नः विकल्पाः अविवेको माया सौषुप्तम् ॥ १०॥ अविवेकः माया सौषुप्तम् त्रितयभोक्ता वीरेशः ॥ ११॥ त्रितय भोक्ता वीरेशः विस्मयो योगभूमिकाः ॥ १२॥ विस्मयः योग भूमिकाः इच्छाशक्तिरुमा कुमारी ॥ १३॥ इच्छाशक्तिः उमा कुमारी दृश्यं शरीरम् ॥ १४॥ दृश्यम् शरीरम् हृदये चित्तसङ्घटाद्दृश्यस्वापदर्शनम् ॥ १५॥ हृदये चित्त सङ्घटात् दृश्य स्वाप दर्शनम् शुद्धतत्त्वसन्धानाद्वापशौशक्तिः ॥ १६॥ शुद्धतत्त्व सन्धानात् वा अपशुशक्तिः वितर्क आत्मज्ञानम् ॥ १७॥ वितर्कः आत्मज्ञानम् लोकानन्दः समाधिसुखम् ॥ १८॥ लोकानन्दः समाधिसुखम् शक्तिसन्धाने शरीरोत्पत्तिः ॥ १९॥ शक्ति सन्धाने शरीर उत्पत्तिः भूतसन्धान-भूतपृथक्त्व-विश्वसङ्घट्टाः ॥ २०॥ भूतसन्धान भूतपृथक्त्व विश्वसङ्घट्टाः शुद्धविद्योदयाच्च्क्रेशत्वसिद्धिः ॥ २१॥ शुद्धविद्या उदयात् चक्रेशत्व सिद्धिः महाह्रदानुसन्धानान्मन्त्रवीर्यानुभवः ॥ २२॥ महाह्रद अनुसन्धानात् मन्त्रवीर्य अनुभवः २ शाक्तोपाय चित्तं मन्त्रः ॥ १॥ चित्तम् मन्त्रः प्रयत्नः साधकः ॥ २॥ प्रयत्नः साधकः विद्याशरीरसत्ता मन्त्ररहस्यम् ॥ ३॥ विद्या शरीर सत्ता मन्त्ररहस्यम् गर्भे चित्तविकासोऽविशिष्टविद्यास्वप्नः ॥ ४॥ गर्भे चित्त विकासः अविशिष्ट विद्या स्वप्नः विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था ॥ ५॥ विद्या समुत्थाने स्वाभाविके खेचरी शिवावस्था गुरुरुपायः ॥ ६॥ गुरुः उपायः मातृकाचक्रसम्बोधः ॥ ७॥ मातृका चक्र सम्बोधः शरीरं हविः ॥ ८॥ शरीरम् हविः ज्ञानमन्नम् ॥ ९॥ ज्ञानम् अन्नम् विद्यासंहारे तदुत्थस्वप्नदर्शनम् ॥ १०॥ विद्या संहरे तत् उत्थ स्वप्न दर्शनम् ३ आणवोपाय आत्मा चित्तम् ॥ १॥ आत्मा चित्तम् ज्ञानं बन्धः ॥ २॥ ज्ञानम् बन्धः कलादिनां तत्त्वानामविवेको माया ॥ ३॥ कला आदिनाम् तत्त्वानाम् अविवेकः माया शरीरं संहारः कलानाम् ॥ ४॥ शरीरम् संहारः कलानाम् नाडीसंहार-भूतजय-भूतकैवल्य-भूतपृथक्त्वानि ॥ ५॥ नाडी संहार भूतजय भूतकैवल्य भूतपृथक्त्वानि मोहावरणात्सिद्धिः ॥ ६॥ मोह आवरणात् सिद्धिः मोहजयादनन्ताभोगात्शजविद्याजयः ॥ ७॥ मोह जयात् अनन्त आभोगात् सहजविद्या जयः जाग्रद्द्वितीयकरः ॥ ८॥ जाग्रत् द्वितीय करः नर्तक आत्मा ॥ ९॥ नर्तकः आत्मा रङ्गोऽन्तरात्मा ॥ १०॥ रङ्गः अन्तरात्मा प्रेक्षकाणीन्द्रियाणि ॥ ११॥ प्रेक्षकाणि इन्द्रियाणि धीवशात्सत्त्वसिद्धिः ॥ १२॥ धी वशात् सत्त्व सिद्धिः सिद्धः स्वतन्त्रभावः ॥ १३॥ सिद्धः स्वतन्त्र भावः यथातत्र तथान्यत्र ॥ १४॥ यथा तत्र तथा अन्यत्र बीजावधानम् ॥ १५॥ बीज अवधानम् आसनस्थो सुखं ह्रदे निमज्जति ॥ १६॥ आसनस्थः सुखम् ह्रदे निमज्जति स्वमात्रनिर्माणमापादयति ॥ १७॥ स्व मात्रा निर्माणम् आपादयति विद्याविनाशे जन्मविनाशः ॥ १८॥ विद्या विनशे जन्म विनाशः कवर्गादिषु माहेश्वर्याद्याः पशुमातरः ॥ १९॥ कवर्गादिषु माहेश्वरी आद्याः पशु मातरः त्रिषु चतुर्थं तैलवदासेच्यम् ॥ २०॥ त्रिषु चतुर्थम् तैलवत् आसेच्यम् मग्नः स्वचित्तेन प्रविशेत् ॥ २१॥ मग्नः स्वचित्तेन प्रविशेत् प्राणसमाचारे समदर्शनम् ॥ २२॥ प्राण समाचरे सम दर्शनम् मध्येऽवरः प्रसवः ॥ २३॥ मध्ये अवरः प्रसवः मात्रावप्रत्ययसन्धाने नष्टस्य पुनरुत्थानम् ॥ २४॥ मात्रा स्वप्रत्यय सन्धाने नष्टस्य पुनः उत्थानम् शिवतुल्यो जायते ॥ २५॥ शिव तुल्यः जायते हरीरवृत्तिर्व्रतम् ॥ २६॥ शरीर वृत्तिः व्रतम् कथा जपः ॥ २७॥ कथा जपः दानमात्मज्ञानम् ॥ २८॥ दानम् आत्मज्ञानम् योऽविपस्थो ज्ञाहेतुश्च ॥ २९॥ यो अविपस्थः ज्ञा हेतुः च स्वशक्तिप्रचयो विश्वम् ॥ ३०॥ स्व शक्ति प्रचयः विश्वम् स्थितिलयौ ॥ ३१॥ स्थिति लयौ तत्प्रवृत्तावप्यनिरासः संवेतृभावात् ॥ ३२॥ तत् प्रवृत्तौ अपि अनिरासः संवेतृ भावात् सुखासुखयोर्बहिर्मननम् ॥ ३३॥ सुख असुखयोः बहिः मननम् तद्विमुक्तस्तु केवली ॥ ३४॥ तत् विमुक्तः तु केवली मोहप्रतिसंहतस्तु कर्मात्मा ॥ ३५॥ मोह प्रतिसंहतः तु कर्मात्मा भेदतिरस्कारे सर्गान्तरकर्मत्वम् ॥ ३६॥ भेद तिरस्कारे सर्ग अन्तर कर्मत्वम् करणशक्तिः स्वतोऽनुभवात् ॥ ३७॥ करणशक्तिः स्वतः अनुभवात् त्रिपदाद्यनुप्राणनम् ॥ ३८॥ त्रिपद आदि अनुप्राणनम् चित्तस्थितिवच्छरीरकरणबाह्येषु ॥ ३९॥ चित्तस्थिति वत् शरीर करण बाह्येषु अभिलाषद्बहिर्गतिः संवाह्यस्य ॥ ४०॥ अभिलाषात् बहिः गतिः संवाह्यस्य तदारूढप्रमितेस्तत्क्षयाज्जीवसंक्षयः ॥ ४१॥ तत् आरूढ प्रमितेः तत् क्षयात् जीव संक्षयः भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः ॥ ४२॥ भूत कञ्चुकी तदा विमुक्तः भूयः पति समः परः नैसर्गिकः प्राणसम्बन्धः ॥ ४३॥ नैसर्गिकः प्राण सम्बन्धः नासिकान्तर्मध्यसंयमात्किमत्र सव्यापसव्यसौषुम्णेषु ॥ ४४॥ नासिका अन्तर्मध्य संयमात् किमत्र सव्य अपसव्य सौषुम्णेषु भूयः स्यात्प्रतिमीलनम् ॥ ४५॥ भूयः स्यात् प्रतिमीलनम् ॥ इति ॥
% Text title            : shivasUtrANi
% File name             : shivasutra.itx
% itxtitle              : shivasUtrANi
% engtitle              : Siva Sutras
% Category              : sUtra, shiva, svara
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : 1 shaambhavopaaya 2 shaaktopaaya 3 aaNavopaaya
% Latest update         : 1999
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP