शिवस्वरोदयः

शिवस्वरोदयः

- उमामहेश्वरसंवादे - अथ मङ्गलाचरणम् । महेश्वरं नमस्कृत्य शैलजां गणनायकम् । गुरुं च परमात्मानं भजे संसारतारकम् ॥ १॥ अथ ब्रह्माण्डनिर्णयः । देव्युवाच । देवदेव महादेव कृपां कृत्वा ममोपरि । सर्वसिद्धिकरं ज्ञानं वदयस्व मम प्रभो ॥ २॥ कथं ब्रह्माण्डमुत्पन्नं कथं वा परिवर्तते । कथं विलीयते देव वद ब्रह्माण्डनिर्णयम् ॥ ३॥ ईश्वर उवाच । तत्त्वाद्ब्रह्माण्डमुत्पन्नं तत्त्वेन परिवर्तते । तत्त्वे विलीयते देवि तत्त्वाद्ब्रह्माण्डनिर्णयः ॥ ४॥ देव्युवाच । तत्त्वमेव परं मूलं निश्चितं तत्त्ववादिभिः । तत्त्वस्वरूपं किं देव तत्त्वमेव प्रकाशय ॥ ५॥ ईश्वर उवाच । निरञ्जनो निराकार एको देवो महेश्वरः । तस्मादाकाशमुत्पन्नमाकाशाद्वायुसम्भवः ॥ ६॥ वायोस्तेजस्ततश्चापस्ततः पृथ्वीसमुद्भवः । एतानि पञ्चतत्त्वानि विस्तीर्णानि पञ्चधा ॥ ७॥ तेभ्यो ब्रह्माण्डमुत्पन्नं तैरेव परिवर्तते । विलीयते च तत्रैव तत्रैव रमते पुनः ॥ ८॥ पञ्चतत्त्वमये देहे पञ्चतत्त्वानि सुन्दरि । सूक्ष्मरूपेण वर्तन्ते ज्ञायन्ते तत्त्वयोगिभिः ॥ ९॥ अथ स्वरज्ञानप्रशंसा । अथ स्वरं प्रवक्ष्यामि शरीरस्थस्वरोदयम् । हंसचारस्वरूपेण भवेज्ज्ञानं त्रिकालजम् ॥ १०॥ गुह्याद्गुह्यतरं सारमुपकारप्रकाशनम् । इदं स्वरोदयं ज्ञानं ज्ञानानां मस्तके मणिः ॥ ११॥ सूक्ष्मात्सूक्ष्मतरं ज्ञानं सुबोधं सत्यप्रत्ययम् । आश्चर्यं नास्तिके लोके आधारं त्वास्तिके जने ॥ १२॥ अथ शिष्यलक्षणम् । शान्ते शुद्धे सदाचारे गुरूभक्त्यैकमानसे । दृढचित्ते कृतज्ञे च देयं चैव स्वरोदयम् ॥ १३॥ दुष्टे च दुर्जने क्रुद्धे नास्तिके गुरुतल्पगे । हीनसत्त्वे दुराचारे स्वरज्ञानं न दीयते ॥ १४॥ अथ स्वरप्रशंसा । श‍ृणु त्वं कथितं देवि देहस्थं ज्ञानमुत्तमम् । येन विज्ञानमात्रेण सर्वज्ञत्वं प्रणीयते ॥ १५॥ स्वरे वेदाश्च शास्त्राणि स्वरे गान्धर्वमुत्तमम् । स्वरे च सर्वत्रैलोक्यं स्वरमात्मस्वरूपकम् ॥ १६॥ स्वरहीनश्च दैवज्ञो नाथहीनं यथा गृहम् । शास्त्रहीनं यथा वक्त्रं शिरोहीनं च यद्वपुः ॥ १७॥ नाडीभेदं तथा प्राणतत्त्वभेदं तथैव च । सुषुम्नामिश्रभेदं च यो जानाति स मुक्तिगः ॥ १८॥ साकारे वा निराकारे शुभं वायुबलात्कृतम् । कथयन्ति शुभं केचित्स्वरज्ञाने वरानने ॥ १९॥ ब्रह्माण्डखण्डपिण्डाद्याः स्वरेणैव हि निर्मिताः । सृष्टिसंहारकर्त्ता च स्वरसाक्षान्महेश्वरः ॥ २०॥ स्वरज्ञानात्परं गुह्मं स्वरज्ञनात्परं धनम् । स्वरज्ञानत्परं ज्ञानं नवा दृष्टं नवा श्रुतम् ॥ २१॥ शत्रुं हन्यात् स्वबले तथा मित्रसमागमः । लक्ष्मीप्राप्तिः स्वरबले कीर्तिः स्वरबले सुखम् ॥ २२॥ कन्याप्राप्ति स्वरबले स्वरतो राजदर्शनम् । स्वरेण देवतासिद्धिः स्वरेण क्षितिपो वशः ॥ २३॥ स्वरेण गम्यते देशो भोज्यं स्वरबले तथा । लघुदीर्घं स्वरबले मलं चैव निवारयेत् ॥ २४॥ सर्वशास्त्रपुराणादि स्मृतिवेदाङ्गपूर्वकम् । स्वरज्ञानात्परं तत्त्वं नास्ति किञ्चिद्वरानने ॥ २५॥ नामरूपादिकाः सर्वे मिथ्या सर्वेषु विभ्रमः । अज्ञानमोहिता मूढा यावत्तत्त्वं न विद्यते ॥ २६॥ इदं स्वरोदयं शास्त्रं सर्वशास्त्रोत्तमोत्तमम् । आत्मघटप्रकाशार्थं प्रदीपकलिकोपमम् ॥ २७॥ यस्मै कस्मै परस्मै वा न प्रोक्तं प्रश्नहेतवे । तस्मादेतत्स्वयं ज्ञेयमात्मनोवाऽऽत्मनात्मनि ॥ २८॥ न तिथिर्न च नक्षत्रं न वारो ग्रहदेवताः । न च विष्टिर्व्यतीपातो वैधृत्याद्यास्तथैव च ॥ २९॥ कुयोगो नास्त्यतो देवि भविता वा कदाचन । प्राप्ते स्वरबले शुद्धे सर्वमेव शुभं फलम् ॥ ३०॥ अथ नाडीनिर्णयः । देहमध्ये स्थिता नाड्यो बहुरूपाः सुविस्तरात् । ज्ञातव्याश्च बुधैर्नित्यं स्वदेहज्ञानहेतवः ॥ ३१॥ नाभिस्थानगकन्दोर्ध्वमङ्कुरादेव निर्गताः । द्विसप्ततिसहस्त्राणि देहमध्ये व्यवस्थिताः ॥ ३२॥ नाडीस्था कुण्डलीशक्तिर्भुजङ्गाकारशायिनी । ततो दशोर्ध्वगानाड्योदशैवाधः प्रतिष्ठिताः ॥ ३३॥ अथ नाडिस्थित्यादिकथनम् । द्वे द्वे तिर्यग्गते नाड्यश्चतुर्विंशति सङ्ख्यया । प्रधाना दशनाड्यस्तु दशवायुप्रवाहिकाः ॥ ३४॥ तिर्यगूर्ध्वास्तथा नाड्यो वायुदेहसमन्विताः । चक्रवत्संस्थिता देहे सर्वाः प्राणसमाश्रिताः ॥ ३५॥ अथ नाडिभेदकथनम् । तासां मध्ये दश श्रेष्ठा दशानां तिस्र उत्तमाः । इडा च पिङ्गला चैव सषुम्ना च तृतीयका ॥ ३६॥ गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी । अलम्बुषा कुहूश्चैव शङ्खिनी दशमी तथा ॥ ३७॥ अथ नाडिस्थानकथनम् । इडा वामे स्थिता भागे पिङ्गला दक्षिणे स्मृता । सुषुम्ना मध्यदेशे तु गान्धारी वामचक्षुषि ॥ ३८॥ दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे । यशस्विनी वामकर्णे आनने चाप्यलम्बुषा ॥ ३९॥ कुहूश्च लिङ्गदेशे तु मूलस्थाने तु शङ्खिनी । एवं द्वारं समाश्रित्य तिष्ठन्ति दशनाडिकाः ॥ ४०॥ इडा पिङ्गला (पिङ्गलेडा)सुषुम्ना च प्राणमार्गे समाश्रिताः । एता हि दशनाड्यस्तु देहमध्ये व्यवस्थिताः ॥ ४१॥ अथ वायुस्थानभेदकथनम् । नामानि नाडिकानां वातानां तु वदाम्यहम् । प्राणोऽपानः समानश्च उदानो व्यान एव च ॥ ४२॥ नागः कूर्मोऽथ कृकलो देवदत्तो धनञ्जयः । हृदि प्राणो वसेन्नित्यमपानो गुदमण्डले ॥ ४३॥ समानो नाभिदेशे तु उदानः कण्ठमध्यगः । व्यानो व्यापि शरीरेषु प्रधानाः दशवायवः ॥ ४४॥ प्राणाद्याः पञ्चविख्याताः नागाद्याः पञ्चवायवः । तेषामपि पञ्चनां स्थानानि च वदाम्यहम् ॥ ४५॥ उद्गारे नाग आख्यातः कूर्मोन्मीलने स्मृतः । कृकलः क्षुतकृज्ज्ञेयो देवदत्तो विजृम्म्भणे ॥ ४६॥ न जहाति मृतं वापिसर्वव्यापि धनञ्जयः । एते नाडीषु सर्वासु भ्रमन्ते जीवरूपिणः ॥ ४७॥ प्रकटं प्राणसञ्चारं लक्ष्येद्देहमध्यतः । इडापिङ्गलासुषुम्नाभिर्नाडीभिस्तिसृभिबुधः ॥ ४८॥ इडा वामे च विज्ञेया पिङ्गला दक्षिणे स्मृता । इडानाडीस्थिता वामा ततो व्यस्ता च पिङ्गला ॥ ४९॥ अथ नाडीषु सूर्यचन्द्रादिस्थितिकार्यकथनम् । इडायां तु स्थितश्चन्द्रः पिङ्गलायां च भास्करः । सुषुम्ना शम्भुरूपेण शम्भुर्हंसस्वरूपतः ॥ ५०॥ हकारो निर्गमे प्रोक्त सकारेण प्रवेशनम् । हकारः शिवरूपेण सकारः शक्तिरुच्यते ॥ ५१॥ शक्तिरूपः स्थितश्चन्द्रो वामनाडीप्रवाहकः । दक्षनाडीप्रवाहश्च शम्भुरूपो दिवाकरः ॥ ५२॥ श्वासे सकारसंस्थे तु यद्दानं दीयते बुधैः । तद्दानं जीवलोकेऽस्मिन् कोटिकोटिगुणं भवेत् ॥ ५३॥ अनेन लक्षयेद्योगी चैकचित्तः समाहितः । सर्वमेव विजानीयान्मार्गे वै चन्द्रसूर्ययोः ॥ ५४॥ ध्यायेत्तत्त्वं स्थिरे जीवे अस्थिरे न कदाचन । इष्टसिद्धिर्भवेत्तस्य महालाभो जयस्तथा ॥ ५५॥ चन्द्रसूर्यसमभ्यासं ये कुर्वन्ति सदा नराः । अतीतानागतज्ञानं तेषां हस्तगतं भवेत् ॥ ५६॥ वामे चाऽमृतरूपा स्याज्जगदाप्यायनं परम् । दक्षिणे चरभागेन जगदुत्पादयेत्सदा ॥ ५७॥ अथ शुभाशुभनाडिकथनम् । मध्यमा भवति क्रूरा दुष्टा सर्वत्र कर्मसु । सर्वत्र शुभकार्येषु वामा भवति सिद्धिदा ॥ ५८॥ निर्गमे तु शुभा वामा प्रवेशे दक्षिणा शुभा । चन्द्रः समस्तु विज्ञेयो रविस्तु विषमः सदा ॥ ५९॥ चन्द्रः स्त्री पुरुषः सूर्यश्चन्द्रो गौरोऽसितो रविः । चन्द्रनाडीप्रवाहेण सौम्यकार्याणि कारयेत् ॥ ६०॥ अथ स्वरोदयसमयकथनम् । सूर्यनाडीप्रवाहेण रौद्रकर्माणि कारयेत् । सुषुम्नायाः प्रवाहेण भुक्तिमुक्ति फलानि च ॥ ६१॥ आदौ चन्द्रः सिते पक्षे भास्करो हि सितेतरे । प्रतिपत्तो दिनान्याहुस्त्रीणि त्रीणि कृतोदयौ ॥ ६२॥ सार्धद्विघटिके ज्ञेयः शुक्ले कृष्णे शशी रविः । वहत्यैकदिनेनैव यथा षष्टिघटीः क्रमात् ॥ ६३॥ वहेयुस्तद्घटीमध्ये पञ्चतत्त्वानि निर्देशयेत् । प्रतिपत्तो दिनान्याहुर्विपरीते विवर्जयेत् ॥ ६४॥ शुक्लपक्षे भवेद्वामा कृष्णपक्षे च दक्षिणा । जानीयात्प्रतिपत्पूर्वं योगी तद्यतमानसः ॥ ६५॥ शशाङ्कं वारयेद्रात्रौ दिवा वारय भास्करम् । इत्याभ्यासरतो नित्यं स योगी नात्र संशयः ॥ ६६॥ सूर्येण बध्यते सूर्यश्चन्द्रश्चन्द्रेण बध्यते । यो जानाति क्रियामेतां त्रैलोक्यं वशगं क्षणात् ॥ ६७॥ उदयं चन्द्रमार्गेण सूर्येणास्तमनं यदि । तदा ते गुणसङ्घाता विपरीतं विवर्जयेत् ॥ ६८॥ गुरुशुक्रबुधेन्दूनां वासरे वामनाडिका । सिद्धिदा सर्वकार्येषु शुक्लपक्षे विशेषतः ॥ ६९॥ अर्काङ्गारकसौरीणां वासरे दक्षनाडिका । स्मर्त्तव्या चरकार्येषु कृष्णपक्षे विशेषतः ॥ ७०॥ तत्त्वोदयक्रमकथनम् । प्रथमं वहते वायुर्द्वितीयं च तथानलः । तृतीयं वहते भूमिश्चतुर्थं वरुणो वहेत् ॥ ७१॥ सार्द्धद्विघटिके पञ्चक्रमेणैवोदयन्ति च । क्रमादेकैकनाड्यां च तत्त्वानां पृथगुद्भवः ॥ ७२॥ अहोरात्रस्य मध्ये तु ज्ञेया द्वादशसङ्क्रमाः । वृषकर्कटकन्यालिमृगमीना निशाकरे ॥ ७३॥ मेषसिंहौ च कुम्भश्च तुला च मिथुनं धनुम् । उदये दक्षिणे ज्ञेयः शुभाशुभविनिर्णयः ॥ ७४॥ तिष्ठेत्पूर्वोत्तरे चन्द्रो भानुः पश्चिमदक्षिणे । दक्षनाड्याः प्रसारे तु न गच्छेद्याम्यपश्चिमे ॥ ७५॥ वमाचारप्रवाहे तु न गच्छेत्पूर्वोत्तरे । परिपन्थिभयं तस्य गतोऽसौ न निवर्तते ॥ ७६॥ तत्र तस्मान्न गन्तव्यं बुधैः सर्वहितैषिभिः । तदा तत्र तु संयाते मृत्युरेव न संशयः ॥ ७७॥ शुक्लपक्षे द्वितीयायामर्के वहति चन्द्रमाः । दृश्यते लाभदः पुसां सौम्ये सौख्यं प्रजायते ॥ ७८॥ सूर्योदये यदा सूर्यश्चन्द्रश्चन्द्रोदये भवेत् । सिध्यन्ति सर्वकार्याणि दिवारात्रिगतान्यपि ॥ ७९॥ चन्द्रकाले यदा सूर्यः सूर्यश्चन्द्रोदये भवेत् । उद्वेगः कलहो हानिः शुभं सर्व निवारयेत् ॥ ८०॥ सूर्यस्य वाहे प्रवदन्ति विज्ञाः ज्ञानं ह्यगमस्य तु निश्चयेन । श्वासेन युक्तस्य तु शीतरश्मेः प्रवाहकाले फलमन्यथा स्यात् ॥ ८१॥ अथ विपरीतलक्षणम् । यदा प्रत्यूषकालेन विपरीतोदयो भवेत् । चन्द्रस्थाने वहत्यर्को रविस्थाने च चन्द्रमाः ॥ ८२॥ प्रथमे मन उद्वेगं धनहानिर्द्वितीयके । तृतीये गमनं प्रोक्तमिष्टनाशं चतुर्थके ॥ ८३॥ पञ्चमे राज्यविध्वंसं षष्ठे सर्वार्थनाशनम् । सप्तमे व्याधिदुःखानि अष्टमे मृत्युमादिशेत् ॥ ८४॥ कालत्रये दिनान्यष्टौ विपरीतं यदा वहेत् । तदा दुष्टफलं प्रोक्तं किञ्चिन्यूनं तु शोभनम ॥ ८५॥ प्रातर्मध्याहृयोश्चन्दः सांयकाले दिवाकरः । तदा नित्यं जयो लाभो विपरीतं विवर्जयेत् ॥ ८६॥ अथ यात्रादिस्वरफलकथनम् । वामे वा दक्षिणे वापि यत्र सङ्क्रमते शिवः । कृत्वा तत्पादमादौ च यात्रा भवति सिद्धिदा ॥ ८७॥ चन्द्रः समपदः कार्यो रविस्तु विषमः सदा । पूर्णपादं पुरस्कृत्य यात्रा भवति सिद्धिदा ॥ ८८॥ यत्राङ्गे वहते वायुस्तदङ्गकरसत्तलात् । सुप्तोत्थितो मुखं स्पृष्ट्वा लभते वाञ्छितं फलम् ॥ ८९॥ परदत्ते तथा ग्राह्ये गृहन्निर्गमनेऽपि च । यदङ्गे वहते नाडी ग्राहयं तेन कराङ्घ्रिणा ॥ ९०॥ न हानिः कलहो नैव कण्टकैर्नापि भिद्यते । निवर्तते सुखी चैव सर्वोपद्रववर्जितः ॥ ९१॥ गुरुबन्धुनृपामात्येष्वन्येषु शुभदायिनी । पूर्णाङ्गैः खलु कर्त्तव्या कार्यसिद्धिर्मनःस्थिता ॥ ९२॥ अग्निचौर्याधर्मघर्षा अन्येषां वादिनिग्रहः । कर्त्तव्याः खलु रिक्ताङ्गैर्जयलाभसुखार्थिभिः ॥ ९३॥ दूरदेशे विधातव्यं गमनं तु हिमद्युतौ । अभ्यर्णदेशे दीप्ते तु कारणाविति केचन ॥ ९४॥ यत्किञ्चित्पूर्वमुद्दिष्टं लाभादि समरागमः । तत्सर्वं पूर्णनाडीषु जायते निर्विकल्पकम् ॥ ९५॥ शून्यनाड्यां विपर्यस्तं यत्पूर्वं प्रतिपादितम् । जायते नान्यथा चैव यथा सर्वज्ञभाषितम् ॥ ९६॥ व्यवहारे खलोच्चाटे द्वेषिविद्यादिवञ्चके । कुपितस्वामिचौर्याद्ये पूर्णस्थाः स्युर्भयङ्कराः ॥ ९७॥ दूराध्वनि शुभश्चन्द्रो निर्विघ्नोऽभीष्टसिद्धिदः । प्रवेशकार्ये हेतौ च सूर्यनाडीप्रशस्यते ॥ ९८॥ अयोग्ये योग्यता नाड्यो योग्यस्थानेप्ययोग्यता । कार्यानुबन्धनो जीवो यथा रुद्रस्तथाचरेत् । ९९॥ चन्द्रचारे विषहते सूर्यो बलिवशं नयेत् । सुषुम्नायां भवेन्मोक्ष एको देवस्त्रिधास्थितः ॥ १००॥ शुभान्यशुभकार्याणि क्रियन्तेऽहर्निशं यदा । तत्तत्कार्यानुरोधेन कार्यं नाडीप्रचालनम् ॥ १०१॥ अथ नाडीभेदः । इडाकर्त्तव्यकृत्यनिरूपणम् । स्थिरकर्मण्यलङ्कारे दूराध्वगमने तथा । आश्रमे धर्मप्रासादे वस्तूनां सङ्ग्रहेऽपि च ॥ १०२॥ वापीकूपताडागानां प्रतिष्ठास्तम्भदेवयोः । यात्रा दाने विवाहे च वस्त्रालङ्कारभूषणे ॥ १०३॥ शान्तिके पौष्टिके चैव दिव्यौषधिरसायने । स्वस्वामीदर्शने मित्रे वाणिज्ये कणसङ्ग्रहे ॥ १०४॥ गृहप्रवेशे सेवायां कृषौ च बीजवापने । शुभकर्मणि सन्धौ च निर्गमे च शुभः शशी ॥ १०५॥ विद्यारम्भादिकार्येषु बान्धवानां च दर्शने । जन्ममोक्षे च धर्मे च दीक्षायां मन्त्रसाधने ॥ १०६॥ कालविज्ञानसूत्रे तु चतुष्पादगृहागमे । कालव्याधिचिकित्सायां स्वामीसम्बोधने तथा ॥ १०७॥ गजाश्वरोहणे धन्वि गजाश्वानां च बन्धने । परोपकारणे चैव निधीनां स्थापने तथा ॥ १०८॥ गीतवाद्यादिनृत्यादौ नृत्यशास्त्रविचारणे । पुरग्रामनिवेशे च तिलकक्षेत्रधारणे ॥ १०९॥ आर्तिशोकविषादे च ज्वरिते मूर्छितेऽपि वा । स्वजनस्वामीसम्बन्धे अन्नादौ दारुसङ्ग्रहे ॥ ११०॥ स्त्रीणां दन्तादिभूषायां वृष्टे रागमने तथा । गुरुपूजाविषादीनां चालने च वरानने ॥ १११॥ इडायां सिद्धदं प्रोक्तं योगाभ्यासादिकर्म च । तत्रापि वर्जयेद्वायुं तेज आकाशमेव च ॥ ११२॥ सर्वकार्याणि सिद्ध्यन्ति दिवारात्रिगतान्यपि । सर्वेषु शुभकार्येषु चन्द्रचारः प्रशस्यते ॥ ११३॥ पिङ्गलाकर्त्तव्यकृत्यनिरूपणम् । कठिनक्रूरविद्यानां पठने पाठने तथा । स्त्रीसङ्गे वेश्यागमने महानौकाधिरोहणे ॥ ११४॥ भ्रष्टकार्ये सुरापाने वीरमन्त्राद्युपासने । विह्वले ध्वंसदेशादौ विषदाने च वैरिणाम् ॥ ११५॥ शास्त्राभ्यासे च गमने मृगया पशुविक्रये । इष्टिकाकाष्ठपाषाणरत्नघर्षणदारणे ॥ ११६॥ गत्यभ्यासे यन्त्रतन्त्रे दुर्गपर्वतारोहणे । द्यूते चौर्य्ये गजाश्वादिरथसाधनवाहने ॥ ११७॥ व्यायामे मारणोच्चाटे षट्कर्मादिसाधने । यक्षिणीयक्षवेतालविषभूतादिनिग्रहे ॥ ११८॥ खरोष्ट्रमहीषादीनां गजाश्वरोहणे तथा । नदीजलौघतरणे भेषजे लिपिलेखने ॥ ११९॥ मारणे मोहने स्तम्भे विद्वेषोच्चाटने वशे । प्रेरणे कर्षणे क्षोभे दाने च क्रयविक्रये ॥ १२०॥ प्रेताकर्षणविद्वेषशत्रुनिग्रहणेऽपि च । खड्गहस्ते वैरियुद्धे भोगे वा राजदर्शने । भोज्ये स्नाने व्यवहारे दीप्तकार्ये रविः शुभः ॥ १२१॥ भुक्तमार्गेण मन्दाग्नौ स्त्रीणां वश्यादिकर्मणि । शयनं सूर्यवाहेन कर्तव्यं सर्वदा बुधैः ॥ १२२॥ क्रूराणि सर्वकर्माणि चराणि विविधानि च । तानि सिद्धयन्ति सूर्येण नात्र कार्या विचारणा ॥ १२३॥ सुषुम्नाकर्त्तव्यकृत्यनिरूपणम् । क्षणं वामे क्षणं दक्षे यदा वहति मारुतः । सुषुम्ना सा च विज्ञेया सर्वकार्यहरा स्मृता ॥ १२४॥ तस्यां नाड्यां स्थितो वह्निर्ज्वलते कालरूपकः । विषवत्तं विजानीयात् सर्वकार्यविनाशनम् ॥ १२५॥ यदाऽनुक्रममुल्लङ्घ्य यस्य नाडीद्वयं वहेत् । तदा तस्य विजानीयादशुभं नात्र संशयः ॥ १२६॥ क्षणं वामे क्षणं दक्षे विषमं भावमादिशेत् । विपरीतं फलं ज्ञेयं ज्ञातव्यं च वरानने ॥ १२७॥ उभयोरेव सञ्चार विषवन्तं विदुर्बुधाः । न कुर्यात्क्रूरसौम्यानि तत्सर्वं विफलं भवेत् ॥ १२८॥ जीविते मरणे प्रश्ने लाभालाभे जयाजये । विषमे विपरीते च संस्मरेज्जगदीश्वरम् ॥ १२९॥ ईश्वरे चिन्तिते कार्यं योगाभ्यासादिकर्म च । अन्यतत्र न कर्त्तव्यं जयलाभसुखैषिभिः ॥ १३०॥ सूर्येण वहमानायां सुषुम्नायां मुहुर्मुहुः । शापं दद्याद्वरं दद्यात्सर्वथैव तदन्यथा ॥ १३१॥ नाडीसङ्क्रमणे काले तत्त्वसङ्गमनेऽपि च । शुभं किञ्चिन्न कर्तव्यं पुण्यदानानि कोटिधा ॥ १३२॥ विषमस्योदयो यत्र मनसाऽपि चिन्तयेत् । यात्रा हानिकरो तस्य मृत्युः क्लेशो न संशयः ॥ १३३॥ पुरो वामोर्ध्वतश्चन्द्रो दक्षाधः पृष्ठतो रविः । पूर्णा रिक्ताविवेकोऽयं ज्ञातव्यो दैशिकैः सदा ॥ १३४॥ ऊर्ध्ववामाग्रतो दूतो ज्ञेयो वामे पथि स्थितः । पृष्ठे दक्षे तथाऽधस्तात्सूर्यवाहागतः शुभः ॥ १३५॥ अनादिर्विषमः सन्धिर्निराहारो निराकुलः । परे सूक्ष्मे विलीयते सा सन्ध्या सद्भिरुच्यते ॥ १३६॥ न वेदं वेद इत्याहुर्वेदो वेदो न विद्यते । परमात्मा वेद्यते येन स वेदो वेद उच्यते ॥ १३७॥ न सन्ध्या सन्धिरित्याहुः सन्ध्या सन्धिर्निगद्यते । विषमः सन्धिगः प्राण स सन्धिः सन्धिरुच्यते ॥ १३८॥ अथ तत्त्ववर्णनम् । श्रीदेव्युवाच । देव देव महादेव सर्वसंसारतारक । स्थितं त्वदीयहृदये रहस्यं वद मे प्रभो ॥ १३९॥ ईश्वर उवाच । स्वरज्ञानरहस्यात्तु न काचिच्चेष्टदेवता । स्वरज्ञानरतो योगी स योगी परमो मतः ॥ १४०॥ पञ्चतत्त्वाद्भवेत्सृष्टिस्तत्त्वे तत्त्वं प्रलीयते । पञ्चतत्त्वं परं तत्त्वं तत्त्वातीतं निरञ्जनम् ॥ १४१॥ तत्त्वानां नामविज्ञेयं सिद्धयोगेन योगिनाम् । भूतानां दुष्टचिह्नानि जानातीह स्वरोत्तमः ॥ १४२॥ पृथिव्यापस्तथा तेजो वायुराकाशमेव च । पञ्चभूतात्मकं विश्वं यो जानाति स पूजितः ॥ १४३॥ सर्वलोकस्थजीवानां न देहो भिन्नतत्त्वकः । भूर्लोकात्सत्यपर्यन्तं नाडीभेदः पृथक् पृथक् ॥ १४४॥ वामे वा दक्षिणे वाऽपि उदयाः पञ्च कीर्त्तिताः । अष्टधा तत्त्वविज्ञानं श्रृणु वक्ष्यामि सुन्दरि ॥ १४५॥ प्रथमे तत्त्वसङ्ख्यानं द्वितीये श्वाससन्धयः । तृतीये स्वरचिह्नानि चतुर्थे स्थानमेव चः ॥ १४६॥ पञ्चमे तस्य वर्णाश्च षष्ठे तु प्राण एव च । सप्तमे स्वादसंयुक्ता अष्टमे गतिलक्षणम् ॥ १४७॥ एवमष्टविधं प्राणं विषुवन्तं चराचरम् । स्वरात्परतरं देवि नान्यथा त्वम्बुजेक्षणे ॥ १४८॥ निरीक्षितव्यं यत्नेन सदा प्रत्यूषकालतः । कालस्य वञ्चानार्थाय कर्म कुर्वन्ति योगिनः ॥ १४९॥ अथ षण्मुखीमुद्राकथनम् । श्रुत्योरङ्गुष्ठके मध्याङ्गुल्यौ नासापुटद्वये । वदनप्रान्तके चान्याङ्गुलीर्दद्याच्च नेत्रयोः ॥ १५०॥ अस्यान्तस्तु पृथिव्यादि तत्त्वज्ञानं भवेत्क्रमात् । पीतश्वेतारुणश्यामैर्बिन्दुभिर्निरूपाधिकम् ॥ १५१॥ दर्पणेन समालोक्य तत्र श्वासे विनिक्षिपेत् । आकारैस्तु विजानीयात्तत्त्वभेदं विचक्षणः ॥ १५२॥ अथ तत्त्वाकारेत्यादिनिर्णयकथनम् । चतुरस्रं चार्धचन्द्रं त्रिकोणं वर्त्तुलं स्मृतम् । बिन्दुभिस्तु नभो (मनो)ज्ञेयमाकारैस्तत्त्वलक्षणम् ॥ १५३॥ मध्ये पृथ्वी ह्यघश्चापश्चोर्ध्वं वहति चानलः । तिर्यग्वायुप्रवाहश्च नभो वहति सङ्क्रमे ॥ १५४॥ आपः श्वेताः क्षितिः पीता रक्तवर्णो हुताशनः । मारुतो नीलजीमूत आकाशः सर्ववर्णकः ॥ १५५॥ स्कन्धद्वये स्थितो वह्निर्नाभिमूले प्रभञ्जनः । जानुदेशे क्षितिस्तोयं पादान्ते मस्तके नभः ॥ १५६॥ माहेयं मधुरं स्वादे काषायं जलमेव च । तीक्ष्णं तेजस्समीरोऽम्लं आकाशं कटुकं तथा ॥ १५७॥ अष्टङ्गुलं वहेद्वायुरनलश्चतुरङ्गुलम् । द्वादशाङ्गुलमाहेयं वारुणं षोडशाङ्गुलम् ॥ १५८॥ उर्ध्वं मृत्युरधः शान्तिस्तिर्यगुच्चाटनं तथा । मध्ये स्तम्भं विजानीयान्नभः सर्वत्र मध्यमम् ॥ १५९॥ अथ तत्त्वस्वरुपकर्तव्यादिकथनम् । पृथिव्यां स्थिरकर्माणि चरकर्माणि वारुणे । तेजसि क्रूरकर्माणि मारणोच्चाटनेऽनिले ॥ १६०॥ व्योम्नि किञ्चिन्न कर्त्तव्यमभ्यसेद्योगसेवनम् । शून्यता सर्वकार्येषु नात्र कार्या विचारणा ॥ १६१॥ पृथ्वीजलाभ्यां सिद्धिः स्यान्मृत्युर्वह्नौ क्षयोऽनिले । नभसो निष्फलं सर्वं ज्ञातव्यं तत्त्व वेदिभिः ॥ १६२॥ चिरलाभः क्षितौ ज्ञेयस्तत्क्षणे तोयतत्त्वतः । हानिः स्याद्वह्निवाताभ्यां नभसो निष्फलं भवेत् ॥ १६३॥ पीतः शनैर्मध्यवाही हनुर्यावद्गुरुध्वनिः । कवोष्णः पार्थिवो वायुः स्थिरकार्यप्रसाधकः ॥ १६४॥ अधोवाही गुरुध्वानः शीघ्रगः शीतलः स्थितः । यः षोडशाङ्गुलो वायुः स आपः शुभकर्मकृत ॥ १६५॥ आवर्तगश्चात्युष्णश्च शोणाभश्चतुरङ्गुलः । उर्ध्ववाहि च यः क्रूरः कर्मकारी स तेजसः ॥ १६६॥ उष्णः शीतः कृष्णवर्णस्तिर्यगान्यष्टकाङ्गुलः । वायुः पवनसंज्ञस्तु चरकर्मप्रसाधकः ॥ १६७॥ यः समीरः समरसः सर्वतत्त्वगुणावहः । आम्बरं तं विजानीयाद्योगिनां योगदायकम् ॥ १६८॥ पीतवर्णं चतुष्कोणं मधुरं मध्यमाश्रितम् । भोगदं पार्थिवं तत्त्वं प्रवाहे द्वादशाङ्गुलम् ॥ १६९॥ श्वेतमर्धेन्दुसङ्काशं स्वादुकाषायमार्द्रकम् । लाभकृद्वारुणं तत्त्वं प्रवाहे षोडशाङ्गुलम् ॥ १७०॥ रक्तं त्रिकोणं तीक्ष्णं च उर्ध्वभागप्रवाहकम् । दीप्तं च तैजसं तत्त्वं प्रवाहे चतुरङ्गुलम् ॥ १७१॥ नीलं च वर्तुलाकारं स्वाद्वाम्लं तिर्यगाश्रितम् । चपलं मारुतं तत्त्वं प्रवाहेऽष्टाङ्गुलं स्मृतम् ॥ १७२॥ वर्णाकारं स्वादवाहेष्वव्यक्तं सर्वगामिनम् । मोक्षदं नभसं तत्त्वं सर्वकार्येषु निष्फलम् ॥ १७३॥ अथ शुभाशुभतत्त्वविचारः । पृथ्वीजले शुभे तत्त्वे तेजोमिश्रं फलोदयम् । हानिमृत्युकरौ पुंसामशुभौ व्योममारुतौ ॥ १७४॥ आपूर्वपश्चिमे पृथ्वीतेजश्च दक्षिणे तथा । वायुश्चोत्तरदिग्ज्ञेयो मध्ये कोणगतं नभः ॥ १७५॥ चन्द्रे पृथ्वीजले स्यातां सूर्येऽग्निर्वा यदा भवेत् । तदा सिद्धिर्न सन्देहः सौम्यासौम्येषु कर्मसु ॥ १७६॥ लाभः पृथ्वीकृतोऽह्नि स्यान्निशायां लाभकृज्जलम् । वह्नौ मृत्युः क्षयो वायुर्नभःस्थानं दहेत्क्वचित् ॥ १७७॥ जीवितव्ये जये लाभे कृष्यां च धनकर्मणि । मन्त्रार्थे युद्धप्रश्ने च गमनागमने तथा ॥ १७८॥ आयाति वारुणे तत्त्वे शत्रुरस्ति शुभं क्षितौ । प्रयाति वायुतोऽन्यत्र हानिमृत्यू नभोऽनले ॥ १७९॥ अथ प्रश्नविचारः । पृथिव्यां मूलचिन्ता स्याज्जीवनस्य जलवातयोः । तेजसा धातुचिन्ता स्याच्छून्याकाशतो वदेत् ॥ १८०॥ पृथिव्यां बहुपादाः स्युर्द्विपदस्तोयवायुतः । तेजस्येव चतुष्पादो नभसा पादवर्जितः ॥ १८१॥ कुजो वह्नी रविः पृथ्वी सौरिरापः प्रकीर्तितः । वायुस्थानास्थितो राहुर्दशरन्ध्रप्रवाहकः ॥ १८२॥ जलं चन्द्रो बुधः पृथ्वी गुरुर्वातः सितोऽनलः । वामनाड्यां स्थिताः सर्वे सर्वकार्येषु निश्चिताः ॥ १८३॥ पृथ्वी बुधो जलं चेन्दुः शुक्रो वह्नी रविः कुजः । वायू राहुश्शनी व्योम गुरुरेव प्रकीर्तितः ॥ १८४॥ प्रश्वासप्रश्न आदित्ये यदि राहुर्गतोऽनिले । तदाऽसौ चलितो ज्ञेयः स्थानान्तरमपेक्षते ॥ १८५॥ आयाति वारुणे तत्त्वे तत्रैवास्ति शुभं क्षितौ । प्रवासी पवनेऽन्यत्र मृत्युरेवानले भवेत् ॥ १८६॥ पार्थिवे मूलविज्ञानं शुभकार्यं जले तथा । आग्नेये धातुविज्ञानं व्योम्नि शून्यं विनिर्दिशेत् ॥ १८७॥ तुष्टिः पुष्टि रतिःक्रीडा जयहर्षौ धराजले । तेजो वाय्वोश्च सुप्ताक्षो ज्वरकम्पः प्रवासिनः ॥ १८८॥ गतायुर्मृत्युराकाशे तत्त्वस्थाने प्रकीर्तिता । द्वादशैताः प्रयत्नेन ज्ञातव्या दैशिकैः सदा ॥ १८९॥ पूर्वायां पश्चिमे याम्यां उत्तरस्यां तथाक्रमम् । पृथीव्यादीनि भूतानि बलिष्ठानि विनिर्दिशेत् ॥ १९०॥ अथ तत्त्वगुणकथनम् । पृथिव्यापस्तथा तेजो वायुराकाशमेव च । पञ्चभूतात्मको देहो ज्ञातव्यश्च वरानने ॥ १९१॥ अस्थिमांसं त्वचा नाडी रोमञ्चैव तु पञ्चमम् । पृथ्वी पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥ १९२॥ शुक्रशोणितमज्जाश्च मूत्रं लालं च पञ्चमम् । आपः पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥ १९३॥ क्षुधा तृषा तथा निद्रा कान्तिरालस्यमेव च । तेजः पञ्चगुणं प्रोक्तं ब्रह्मज्ञानेन भाषितम् ॥ १९४॥ धावनं चलनं ग्रन्थिः सङ्कोचनप्रसारणे ॥ वायोः पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥ १९५॥ रागद्वेषौ तथा लज्जा भयं मोहश्च पञ्चमः । नभः पञ्चगुणं प्रोक्तं ब्रह्मज्ञानेन भाषितम् ॥ १९६॥ पृथ्व्याः पलानि पञ्चाशच्चत्वारिंशत्तथाम्भसः । अग्नेस्त्रिंशत्पुनर्वायो विंशतिर्नभसो दश ॥ १९७॥ पृथिव्यां चिरकालेन लाभश्चापः क्षणाद्भवेत् । जायते पवने स्वल्पः सिद्धौऽप्यग्नौ विनश्यति ॥ १९८॥ पृथ्व्याः पञ्च ह्यपां वेदा गुणास्तेजो द्विवायुतः । नभस्येकगुणश्चैव तत्त्वज्ञानमिदं भवेत् ॥ १९९॥ फूत्कारकृत्प्रस्फुटिता विदीर्णा पतिता धरा । ददाति सर्वकार्येषु अवस्थासदृशं फलम् ॥ २००॥ अथ नक्षत्रतत्त्वकथनम् । धनिष्ठा रोहिणी ज्येष्ठाऽनुराधा श्रवणं तथा । अभिजिदुत्तराषाढा पृथ्वीतत्त्वमुदाहृतम् ॥ २०१॥ पूर्वाषाढा तथाश्लेषा मूलमार्द्रा च रेवती । उत्तराभाद्रपदा तोयतत्त्वं शतभिषक् प्रिये ॥ २०२॥ भरणी कृत्तिकापुष्यौ मघा पूर्वा च फल्गुनी । पूर्वाभाद्रपदा स्वाती तेजस्तत्त्वमिति प्रिये ॥ २०३॥ विषाखोत्तरफाल्गुन्यौ हस्तचित्रे पुनर्वसुः । अश्विनी मृगशीर्षे च वायुतत्त्वमुदाहृतम् ॥ २०४॥ अथ सिद्धिविचारः । वहन्नाडीस्थितो दूतो यत्पृच्छति शुभाशुभम् । तत्सर्वं सिद्धिमापनोति शून्ये शून्यं न संशयः ॥ २०५॥ पूर्णोऽपि निर्गमश्श्वासे सुतत्त्वेऽपि न सिद्धिदः । सूर्यश्चन्द्रोऽथवा नॄणां सङ्ग्रहे सर्वसिद्धिदः ॥ २०६॥ तत्त्वे रामो जयं प्राप्तः सुतत्त्वे च धनञ्जयः । कौरवा निहताः सर्वे युद्धे तत्त्वविपर्ययात् ॥ २०७॥ जन्मान्तरीयसंस्कारात्प्रसादादथवा गुरोः । केषाञ्चिज्जायते तत्त्ववासना विमलात्मना ॥ २०८॥ अथ तत्त्वबीजध्यानवर्णनम् । लं बीजं धरणीं ध्यायेच्चतुरस्रां सुपीतभाम् । सुगन्धां स्वर्णवर्णाभां प्राप्नुयाद्देहलाघवम् ॥ २०९॥ वं बीजं वारुणं ध्यायेत्तत्त्वमर्द्धशशिप्रभम् । क्षुत्तृष्णादिसहिष्णुत्वं जलमध्ये च मज्जनम् ॥ २१०॥ रं बीजमग्निजं ध्यायेत्त्रिकोणमरुणप्रभम् । बह्वन्नपानभोक्तृत्वमातपाग्निसहिष्णुता ॥ २११॥ यं बीजं पवनं ध्यायेद्वर्तुलं श्यामलप्रभम् । आकाशगमनाद्यं च पक्षिवद्गमनं तथा ॥ २१२॥ हं बीजं गगनं ध्यायेन्निराकारं बहुप्रभम् । ज्ञानं त्रिकालविषयमैश्वर्यमणिमादिकम् ॥ २१३॥ स्वरज्ञानी नरो यत्र धनं नास्ति ततः परम् । गम्यते तु स्वरज्ञानं ह्यनायासं फलं भवेत् ॥ २१४॥ श्री देव्युवाच । देव देव महादेव महाज्ञानं स्वरोदयम् । त्रिकालविषयं चैव कथं भवति शङ्कर ॥ २१५॥ ईश्वर उवाच । अर्थकालजयप्रश्नशुभाशुभमिति त्रिधा । एतत्त्रिकालविज्ञानं नान्यद्भवति सुन्दरि ॥ २१६॥ तत्त्वे शुभाशुभं कार्यं तत्त्वे जयपराजयौ । तत्त्वे सुभिक्षदुर्भिक्षे तत्त्वं त्रिपादमुच्यते ॥ २१७॥ अथ प्राणगतिकथनम् । श्री देव्युवाच । देव देव महादेव सर्वसंसारसागरे । किं नराणां परं मित्रं सर्वकार्यार्थसाधकम् ॥ २१८॥ ईश्वर उवाच । प्राण एव परं मित्रं प्राण एव परः सखा । प्राणतुल्यो परो बन्धुर्नास्ति नास्ति वरानने ॥ २१९॥ श्रीदेव्युवाच । कथं प्राणस्थितो वायुर्देहः किं प्राणरूपकः । तत्त्वेषु सञ्चरन्प्राणो ज्ञायते योगिभिः कथम् ॥ २२०॥ श्रीशिव उवाच । कायानगरमध्यस्थो मारुतो रक्षपालकः । प्रवेशे दशभिः प्रोक्तो निर्गमे द्वादशाङ्गुलः ॥ २२१॥ गमने तु चतुर्विशन्नेत्रवेदास्तु धावने । मैथुने पञ्चषष्ठिश्च शयने च शताङ्गुलम् ॥ २२२॥ प्राणस्य तु गतिर्देवि स्वभावाद्द्वादशाङ्गुला । भोजने वमने चैव गतिरष्टादशाङ्गुलम् ॥ २२३॥ एकाङ्गुले कृते न्यूने प्राणे निष्कामता मता । आनन्दस्तु द्वितीये स्यात्कविशक्तिस्तृतीयके ॥ २२४॥ वाचां सिद्धिश्चतुर्थे च दूरदृष्टिस्तु पञ्चमे । षष्ठे त्वाकाशगमनं चण्डवेगश्च सप्तमे ॥ २२५॥ अष्टमे सिद्धयश्चैव नवमे निधयो नव । दशमे दशमूर्तिश्च (दशरूपाणि)छायाचैकादशे भवेत् ॥ २२६॥ द्वादशे हंसचारश्च गङ्गामृतरसं पिबेत् । आनखाग्रं प्राणपूर्णे कस्य भक्ष्यं च भोजनम् ॥ २२७॥ एवं प्राणविधिः प्रोक्तः सर्वकार्यफलप्रदः । ज्ञायते गुरुवाक्येन न विद्याशास्त्रकोटिभिः ॥ २२८॥ प्रातश्चन्द्रो रविः सायं यदि दैवान्न लभ्यते । मध्याह्नमध्यरात्राच्च परतस्तु प्रवर्तते ॥ २२९॥ अथ युद्धप्रकरणम् । दूरयुद्धे जयी चन्द्रः समासन्ने दिवाकरः । वहन्नाड्यां गतः पादः सर्वसिद्धिप्रदायकः ॥ २३०॥ यात्रारम्भे विवाहे च प्रवेशे नगरादिके । शुभकार्याणि सिद्ध्यन्ति चन्द्रचारेषु सर्वदा ॥ २३१॥ अयनतिथिदिनेशैः स्त्रीयतत्त्वे च युक्ते यदि वहति कदाचिद्दैवयोगेन पुंसाम् । स जयति रिपुसैन्यं स्तम्भमात्रस्वरेण प्रभवति न च विघ्नं केशवस्यापि लोके ॥ २३२॥ जीवं रक्ष जीवं रक्ष जीवाङ्के परिधाय च । जीवो जपति यो युद्धे जीवं जयति मेदिनीम् ॥ २३३॥ भूमौ जले च कर्त्तव्यं गमनं शान्तिकर्मसु । वह्नौ वायौ प्रदीप्तेषु खे पुनर्नोभयेष्वपि ॥ २३४॥ जीवेन शस्त्रं बध्नीयाज्जीवेनैव विकाशयेत् । जीवेन प्रक्षिपेच्छस्त्रं युद्धे जयति सर्वदा ॥ २३५॥ आकृष्य प्राणपवनं समारोहेत वाहनम् । समुत्तरे पदं दद्यात् सर्वकार्याणि साधयेत् ॥ २३६॥ अपूर्णे शत्रुसामग्री पूर्णे वा स्वबलं तथा । कुरुते पूर्णतत्त्वस्थो जयत्येको वसुन्धराम् ॥ २३७॥ या नाडी वहते चाङ्गे तस्यामेवाधिदेवता । सन्मुखेऽपि दिशा तेषां सर्वकार्यफलप्रदा ॥ २३८॥ आदौ तु क्रियते मुद्रा पश्चाद्युद्धं समाचरेत् । सर्पमुद्रा कृता येन तस्य सिद्धिर्न संशयः ॥ २३९॥ चन्द्रप्रवाहेऽप्यथ सूर्यवाहे भटाः समायान्ति च योद्धुकामाः । समीरणस्तत्त्वविदां प्रतीतो या शून्यता सा प्रतिकार्यनाशम् ॥ २४०॥ यां दिशं वहते वायुर्युद्धं तद्दिशि दापयेत् । जयत्येव न सन्देहः शक्रोऽपि यदि चाग्रतः ॥ २४१॥ यत्र नाड्यां वहेद्वायुस्तदङ्गे प्राणमेव च । आकृष्य गच्छेत्कर्णान्तं जयत्येव पुरन्दरम् ॥ २४२॥ प्रतिपक्षप्रहारेभ्यः पूर्णाङ्गे योऽभिरक्षति । न तस्य रिपुभिः शक्तिर्बलिष्ठैरपि हन्यते ॥ २४३॥ अङ्गुष्ठतर्जनीवंशे पादाङ्गुष्ठे तथा ध्वनिः । युद्धकाले च कर्त्तव्यो लक्षयोद्धृजयी भवेत् ॥ २४४॥ निशाकरे रवौ वारे मध्ये यस्य समीरणः । स्थितो रक्षेद्दिगन्तानि जयकाङ्क्षी गतः सदा ॥ २४५॥ श्वासप्रवेशकाले तु दूतो जल्पति वाञ्छितम् । तस्यार्थः सिद्धिमायाति निर्गमे नैव सुन्दरि ॥ २४६॥ लाभादीन्यपि कार्याणि पृष्टानि कीर्त्तितानि च । जीवे विशति सिद्ध्यन्ति हानिर्निःसरणे भवेत् ॥ २४७॥ नरे दक्ष स्वकीया च स्त्रियां वामा प्रशस्यते । कुम्भको युद्धकाले च तिस्रो नाड्यस्त्रयीगतिः ॥ २४८॥ हकारस्य सकारस्य विना भेदं स्वरः कथम् । सोऽहं हंसपदेनैव जीवो जपति सर्वदा ॥ २४९॥ शून्याङ्गं पूरितं कृत्वा जीवाङ्गे गोपयेज्जयम् । जीवाङ्गे घातमाप्नोति शून्याङ्गे रक्षते सदा ॥ २५०॥ वामे वा यदि वा दक्षे यदि पृच्छति पृच्छकः । पूर्णे घातो न जायेत शून्ये घातं विनिर्दिशेत् ॥ २५१॥ भूतत्त्वेनोदरे घातः पदस्थानेऽम्बुना भवेत् । उरुस्थानेऽग्नितत्त्वेन करस्थाने च वायुना ॥ २५२॥ शिरसि व्योमतत्त्वे च ज्ञातव्यो घातनिर्णयः । एवं पञ्चविधो घातः स्वरशास्त्रे प्रकाशितः ॥ २५३॥ युद्धकाले यदा चन्द्रः स्थायी जयति निश्चितम् । यदा सूर्यप्रवाहस्तु यायी विजयते सदा ॥ २५४॥ जयमध्ये तु सन्देहो नाडीमध्यं तु लक्षयेत् । सुषुम्नायां गते प्राणे समरे शत्रुसङ्कटम् ॥ २५५॥ यस्यां नाड्या भवेच्चारस्तां दिशं युधि संश्रयेत् । तदाऽसौ जयमाप्नोति नात्रकार्या विचारणा ॥ २५६॥ यदि सङ्ग्रामकाले तु वामनाडी सदा वहेत् । स्थायिनो विजयं विद्याद्रिपुवश्यदयोऽपि च ॥ २५७॥ यदि सङ्ग्रामकाले च सूर्यस्तु व्यावृतो वहेत् । तदा यायिजयं विद्यात् सदेवासुरमानवे ॥ २५८॥ रणे हरति शत्रुस्तं वामायां प्रविशेन्नरः । स्थानं विषुवचारेण जयः सूर्येण धावता ॥ २५९॥ युद्धद्वये कृते प्रश्ने पूर्णस्य प्रथमे जयः । रिक्ते चैव द्वितीयस्तु जयी भवति नान्यथा ॥ २६०॥ पूर्णनाडीगतः पृष्ठे शून्याङ्गं च तदाऽग्रतः । शून्यस्थाने कृतः शत्रुर्म्रियते नात्र संशयः ॥ २६१॥ वामाचारे समं नाम यस्य तस्य जयो भवेत् । पृच्छको दक्षिणे भागे विजयी विषमाक्षरः ॥ २६२॥ यदा पृच्छति चन्द्रस्य तदा सन्धानमादिशेत् । पृच्छेद्यदा तु सूर्यस्य तदा जानीहि विग्रहम् ॥ २६३॥ पार्थिवे च समं युद्धं सिद्धिर्भवति वारुणे । युद्धे हि तेजसो भङ्गो मृत्युर्वायौ नभस्यपि ॥ २६४॥ अथ रुद्धस्वरज्ञानोपायकथनम् । निमित्ततः प्रमादाद्वा यदा न ज्ञायतेऽनिलः । पृच्छाकाले तदा कुर्यादिदं यत्नेन बुद्धिमान् ॥ २६५॥ निश्चलां धारणां कृत्वा पुष्पं हस्तान्निपातयेत् । पूर्णाङ्गे पुष्पपतनं शून्यं वा तत्परं भवेत् ॥ २६६॥ तिष्ठन्नुपविशंश्चापि प्राणमाकर्षयन्निजम् । मनोभङ्गमकुर्वाणः सर्वकार्येषु जीवति ॥ २६७॥ न कालो विविधं घोरं न शस्त्रं न च पन्नगाः । न शत्रुव्याधिचौराद्याः शून्यस्थानाशितुं क्षमाः ॥ २६८॥ जीवेन स्थापयेद्वायुं जीवेनारम्भयेत्पुनः । जीवेन क्रीडते नित्यं द्युते जयति सर्वदा ॥ २६९॥ स्वरज्ञानीबलादग्रे निष्फलं कोटिधा भवेत् । इहलोके परत्रापि स्वरज्ञानी बली सदा ॥ २७०॥ दशशतायुतं लक्षं देशाधिपबलं क्वचित् । शतक्रतु सुरेन्द्राणां बलं कोटिगुणं भवेत् ॥ २७१॥ देव्युवाच । परस्परं मनुष्याणां युद्धे प्रोक्तो जयस्त्वया । यमयुद्धे समुत्पन्ने मनुष्याणां कथं जयः ॥ २७२॥ ईश्वरोवाच । ध्यायेद्देवं स्थिरो जीवं जुहुयाज्जीव सङ्गमे । इष्टसिद्धिर्भवेत्तस्य महालाभो जयस्तथा ॥ २७३॥ निराकारात्समुत्पन्नं साकारं सकलं जगत् । तत्साकारं निराकारज्ञाने भवति तत्क्षणात् ॥ २७४॥ अथ वशीकरणप्रकरणम् । श्रीदेव्युवाच । नरयुद्धं यमयुद्धं त्वया प्रोक्तं महेश्वर । इदानीं देवदेवानां वशीकारणकं वद ॥ २७५॥ ईश्वरोवाच । चन्द्रं सूर्येण चाकृष्य स्थापयेज्जीवमण्डले । आजन्मवशगा रामा कथितेयं तपोधनैः ॥ २७६॥ जीवेन गृह्यते जीवो जीवो जीवस्य दीयते । जीवस्थाने गतो जीवो बाला जीवान्तकारकः ॥ २७७॥ रात्र्यन्तयामवेलायां प्रसुप्ते कामिनिजने ॥ ब्रह्मजीवं पिबेद्यस्तु बालाप्राणहरो नरः ॥ २७८॥ अष्टाक्षरं जपित्वा तु तस्मिन् काले गते सति । तत्क्षणं दीयते चन्द्रो तु मोहमायाति कामिनी ॥ २७९॥ शयने वा प्रसङ्गे वा युवत्यालिङ्गनेऽपि वा । यः सूर्येण पिबेच्चन्द्रं स भवेन्मकरध्वजः ॥ २८०॥ शिव आलिङ्ग्यते शक्त्या प्रसङ्गे दक्षिणेऽपि वा । तत्क्षणाद्दापयेद्यस्तु मोहयेत्कामिनीशतम् ॥ २८१॥ सप्त नव त्रयः पञ्च वारान्सङ्गस्तु सूर्यभे । चन्द्रे द्वितुयषट्कृत्वा वश्या भवति कामिनी ॥ २८२॥ सूर्यचन्द्रौ समाकृष्य सर्पाक्रान्त्याऽधरोष्ठयोः । महापद्मे मुखं स्पृष्ट्वा वारं वारमिदं चरेत् ॥ २८३॥ आप्राणामिति पद्मस्य यावन्निद्रावशं गता । पश्चाज्जागृति वेलायां चोष्यते गलचक्षुषी ॥ २८४॥ अनेन विधिना कामी वशयेत्सर्वकामिनीः । इदं न वाच्यमस्मिन्नित्याज्ञा परमेश्वरि ॥ २८५॥ अथ गर्भप्रकरणम् । ऋतुकालभवा नारी पञ्चमेऽह्नि यदा भवेत् । सूर्यचन्द्रमसोर्योगे सेवनात्पुत्र सम्भवः ॥ २८६॥ शङ्खवल्लीं गवां दुग्धे पृथ्व्यापो वहते यदा । भर्तुरेव वदेद्वाक्यं गर्भं देहि त्रिभिर्वचः ॥ २८७॥ ऋतुस्नाता पिबेन्नारी ऋतुदानं तु योजयेत् । रूपलावण्यसम्पन्नो नरसिंहः प्रसूयते ॥ २८८॥ सुषुम्ना सूर्यवाहेन ऋतुदानं तु योजयेत् । अङ्गीनः पुमान्यस्तु जायते त्रासविग्रहः ॥ २८९॥ विषमाङ्के दिवारात्रौ विषमाङ्के दिनाधिपः । चन्द्रेनेत्राग्नितत्त्वेषु वन्ध्या पुत्रमवाप्नुयात् ॥ २९०॥ ऋत्वारम्भे रविः पुंसां स्त्रीणां च सुधाकरः । उभयोः सङ्गमे प्राप्तो वन्ध्या पुत्रमवाप्नुयात् ॥ २९१॥ ऋत्वारम्भे रविः पुंसां शुक्रान्ते च सुधाकरः । अनेन क्रमयोगेन नादत्ते दैवदारुकम् ॥ २९२॥ चन्द्रनाडी यदा प्रश्ने गर्भे कन्या तदा भवेत् । सूर्यो भवेत्तदा पुत्रो द्वयोर्गर्भो विहन्यते ॥ २९३॥ पृथ्व्यां पुत्री जले पुत्रः कन्यका तु प्रभञ्जने । गर्भपातस्तेजसि स्यान्नभस्यपि नपुंसकः ॥ २९४॥ चन्द्रे स्त्री पुरुषः सूर्ये मध्यमार्गे नपुंसकः । गर्भप्रश्ने यदा दूतः पूर्णे पुत्रः प्रजायते ॥ २९५॥ शून्ये शून्यं युगे युग्मं गर्भपातश्च सङ्क्रमे । तत्त्ववित्स विजानीयात्कथितं तत्तु सुन्दरि ॥ २९६॥ गर्भाधानं मारुते स्याच्च दुःखी दिक्षु ख्यातो वारुणे सौख्ययुक्तः । गर्भस्रावः स्वल्पजीवश्च वह्नौ भोगी भव्यः पार्थिवेनार्थयुक्तः ॥ २९७॥ धनवान्सौख्ययुक्तश्च भोगवानर्थसंस्थितिः । स्यान्नित्यं वारुणे तत्त्वे व्योम्नि गर्भो विनश्यति ॥ २९८॥ माहेन्द्रे सुसुतोत्पत्तिर्वारुणे दुहिता भवेत् । शेषेषु गर्भहानिः स्याज्जातमात्रस्य वा मृतिः ॥ २९९॥ रविमध्यगतश्चन्द्रश्चन्द्रमध्यगतो रविः । ज्ञातव्यं गुरुतः शीघ्रं न वेदशास्त्रकोटिभिः ॥ ३००॥ अथ संवत्सरफलकथनम् । चैत्रशुक्लप्रतिपदि प्रातस्तत्त्वविभेदतः । पश्येद्विचक्षणो योगी दक्षिण चोत्तरायणे ॥ ३०१॥ चन्द्रोदयस्य वेलायां वहमानोऽत्र तत्त्वतः । पृथिव्यापस्तथा वायुः सुभिक्षं सर्वसस्यजम् ॥ ३०२॥ तेजोव्योम्नोर्भयं घोरं दुर्भिक्षं कालतत्त्वतः । एवं तत्त्वफलं ज्ञेयं वर्षे मासे दिनेष्वपि ॥ ३०३॥ मध्यमा भवति क्रूरा दुष्टा सर्वेषु कर्मसु । देशभङ्गमहारोगक्लेषकष्टादिदुःखदा ॥ ३०४॥ मेषसङ्क्रान्तिवेलायां स्वरभेदं विचारयेत् । संवत्सरफलं ब्रूयाल्लोकानां तत्त्वचिन्तकः ॥ ३०५॥ पृथिव्यादिकतत्त्वेन दिनमासाब्दजं फलम् । शोभनं च यथा दुष्टं व्योममारुतवह्निभिः ॥ ३०६॥ सुभिक्षं राष्ट्रवृद्धिः स्याद्बहुसस्या वसुन्धरा । बहुवृष्टिस्तथा सौख्यं पृथ्वीतत्त्वं वहेद्यदि ॥ ३०७॥ अतिवृष्टिः सुभिक्षं स्यादारोग्यं सौख्यमेव च । बहुसस्या तथा पृथ्वी अप्तत्त्वं वहेद्यदि ॥ ३०८॥ दुर्भिक्षं राष्ट्रभङ्गः स्यादुत्पत्तिश्च विनश्यति । अल्पादल्पतरा वृष्टिरग्नितत्त्वं वहेद्यदि ॥ ३०९॥ उत्पातोपद्रवाः भीतिरल्पा वृष्टिस्युरीतयः । मेषसङ्क्रान्तिवेलायां वायुतत्त्वं वहेद्यदि ॥ ३१०॥ मेषसङ्क्रान्तिवेलायां व्योमतत्त्वं वहेद्यदि । तत्रापि शून्यता ज्ञेया सस्यादीनां सुखस्य च ॥ ३११॥ पूर्णप्रवेशने श्वासे सस्यं तत्त्वेन सिद्ध्यति । सूर्यचन्द्रेऽन्यथाभूते सङ्ग्रहः सर्वसिद्धिदः ॥ ३१२॥ विषमे वह्नितत्त्वं स्याज्ज्ञायते केवलं नभः । तत्कुर्याद्वस्तुसङ्ग्राहो द्विमासे च महर्घता ॥ ३१३॥ रवौसङ्क्रमते नाडी चन्द्रमन्ते प्रसर्पिता । खानिले वह्नियोगेन रौरवं जगतीतले ॥ ३१४॥ अथ रोगप्रकरणम् । महीतत्त्वे स्वरोगश्च जले च जलमातृतः । तेजसी खेटवाटीस्था शाकिनीपितृदोषतः ॥ ३१५॥ आदौ शून्यागतो दूतः पश्चात्पूर्णे विशेद्यदि । मूर्च्छितोऽपि ध्रुवं जीवेद्यदर्थ प्रतिपृच्छति ॥ ३१६॥ यस्मिन्नङ्गे स्थितो जीवस्तत्रस्थः परिपृच्छति । तदा जीवति जीवोऽसौ यदि रोगैरुपद्रुतः ॥ ३१७॥ दक्षिणेन यदा वायुर्दूतो रौद्राक्षरो वदेत् । तदा जीवति जीवोऽसौ चन्द्रे समफलं भवेत् ॥ ३१८॥ जीवाकारञ्च वा धृत्वा जीवाकारं विलोक्य च । जीवास्थो जीवितप्रश्ने तस्य स्याज्जीवितं फलम् ॥ ३१९॥ वामाचारे तथा दक्षप्रवेशे यत्र वाहने । तत्रस्थः पृच्छते दूतस्तस्य सिद्धिर्न संशयः ॥ ३२०॥ प्रश्ने चाधःस्थितो जीवो नूनं जीवो हि जीवति । ऊर्ध्वचारस्थितो जीवो जीवो याति यमालयम् ॥ ३२१॥ विपरीताक्षरप्रश्ने रिक्तायां पृच्छको यदि । विपर्ययं च विज्ञेयं विषमस्योदये सति ॥ ३२२॥ चन्द्रस्थाने स्थितो जीवः सूर्यस्थाने तु पृच्छकः । तदा प्राणवियुक्तोऽसौ यदि वैद्यशतैर्वृतः ॥ ३२३॥ पिङ्गलायां स्थितो जीवो वामे दूतस्तु पृच्छति । तदाऽपि म्रियते रोगी यदि त्राता महेश्वरः ॥ ३२४॥ एकस्य भूतस्य विपर्ययेण रोगाभिभूतिर्भवतीह पुंसाम् । तयोर्द्वयोर्बन्धुसुहृद्विपत्तिः पक्षद्वये व्यत्ययतो मृतिः स्यात् ॥ ३२५॥ अथ कालप्रकरणम् । मासादौ चैव पक्षादौ वत्सरादौ यथाक्रमम् । क्षयकालं परीक्षेत वायुचारवशात्सुधीः ॥ ३२६॥ पञ्चभूतात्मकं दीपं शिवस्नेहेन सिञ्चितम् । रक्षयेत्सूर्यवातेन प्राणी जीवः स्थिरो भवेत् ॥ ३२७॥ मारुतं बन्धयित्वा तु सूर्यं बन्धयते यदि । अभ्यासाज्जीवते जीवः सूर्यकालेऽपि वञ्चिते ॥ ३२८॥ गगनात्स्रवते चन्द्र कायपद्मानि सिञ्चयेत् । कर्मयोगसदाभ्यासैरमरः शशिसंश्रयात् ॥ ३२९॥ शशाङ्कं वारयेद्रात्रौ दिवा वार्यो दिवाकरः । इत्यभ्यासरतो नित्यं स योगी नात्र संशयः ॥ ३३०॥ अहोरात्रे यदैकत्र वहते यस्य मारुतः । तदा तस्य भवेन्मृत्युः सम्पूर्णे वत्सरत्रये ॥ ३३१॥ अहोरात्रद्वयं यस्य पिङ्गलायां सदा गतिः । तस्य वर्षद्वयं प्रोक्तं जीवितं तत्त्ववेदिभिः ॥ ३३२॥ त्रिरात्रं वहते यस्य वायुरेकपुटे स्थितः । तदा संवत्सरायुस्तं प्रवदन्ति मनीषिणः ॥ ३३३॥ रात्रौ चन्द्रो दिवा सूर्यो वहेद्यस्य निरन्तरम् । जानीयात्तस्य वै मृत्युः षण्मासाभ्यन्तरे भवेत् ॥ ३३४॥ लक्ष्यं लक्षति लक्षणेन सलिले भानुर्यदा दृश्यते क्षीणो दक्षिणपश्चिमोत्तरपुरः षट्त्रिद्विमासैकतः । मध्यं छिद्रमिदं भवेद्दशदिनं धूमाकुलं तद्दिने सर्वैज्ञैरभिभाषितं मुनिवरैरायुः प्रमाणं स्फुटम् ॥ ३३५॥ दूतः कृष्णकषायकृष्णवसनो दन्तक्षतो मुण्डित- स्तैलाभ्यक्तशरीररज्जुकरो दीनश्च पूर्णोत्तरः । भस्माङ्गारकपालपाशमुसली सूर्यास्तमायाति यः कालीशून्यपदस्थितो गदयुतःकालानलस्याहतः(दृत)॥ ३३६॥ अकस्मातच्चित्तविकृतिरकस्मात्पुरुषोत्तमः । अकस्मादिन्द्रियोत्पातः सन्निपाताग्रलक्षणम् ॥ ३३७॥ शरीरं शीतलं यस्य प्रकृतिर्विकृता भवेत् । तदरिष्टं समासेन व्यासतस्तु निबोध मे ॥ ३३८॥ दुष्टशब्देषु रमते शुद्धशब्देषु चाप्यति । पश्चात्तापो भवेद्यस्य तस्य मृत्युर्न संशयः ॥ ३३९॥ हुङ्कारः शीतलो यस्य फुत्कारो वह्निसन्निभः । महावैद्यो भवेत्तस्य तस्य मृत्युर्भवेद्ध्रुवम् ॥ ३४०॥ जिह्वां विष्णुपदं ध्रुवं सुरपदं सन्मातृकामण्डल- मेतान्येवमरुन्धतीममृतगुं शुक्रं ध्रुवं वा क्षणम् । एतेष्वेकमपि स्फुटं न पुरुषः पश्येत्पुरः प्रेषितः सोऽवश्यं विशतीह कालवदनं संवत्सरादूर्ध्वतः ॥ ३४१॥ अरश्मिबिम्बं सूर्यस्य वह्नेः शीतांशुमालिनः । दृष्ट्वैकादशमासायुर्नरश्चोर्ध्वं न जीवति ॥ ३४२॥ वाप्यां पुरीषमूत्राणि सुवर्णं रजतं तथा । प्रत्यक्षमथवा स्वप्ने दशमासान्न जीवति ॥ ३४३॥ क्वचित्पश्यति यो दीपं सुवर्णं च कषान्वितम् । विरूपाणि च भूतानि नवमासान्न जीवति ॥ ३४४॥ स्थूलाङ्गोऽपि कृशः कृशोऽपि सहसा स्थूलत्वमालभ्यते प्राप्तो वा कनकप्रभां यदि भवेत्क्रूरोऽपि कृष्णच्छविः । शूरो भीरुसुधीरधर्मनिपुणः शान्तो विकारी पुमा- न्नित्येवं प्रकृतिः प्रयाति चलनं मासाष्टकं जीवति ॥ ३४५॥ पीडा भवेत्पाणितले च जिह्वा- मूले तथा स्याद्रुधिरं च कृष्णम् । विद्धं न स (च)ग्लायति यत्र दृष्ट्या जीवेन्मनुष्यः स हि सप्तमासान् ॥ ३४६॥ मध्याङ्गुलीनां त्रितयं न वक्रं रोगं विना शुष्यति यस्य कण्ठः । मुहुर्मुहुः प्रश्नवशेन जाड्यात्- षड्भिः स मासैः प्रलयं प्रयाति ॥ ३४७॥ न यस्य स्मरणं किञ्चिद्विद्यते स्तनचर्माणि । सोऽवश्यं पञ्चमे मासे स्कन्धारूढो भविष्यति ॥ ३४८॥ यस्य न स्फुरति ज्योतिः पीड्यते नयनद्वयम् । मरणं तस्य निर्दिष्टं चतुर्थे मासे निश्चितम् ॥ ३४९॥ दन्ताश्च वृषणौ यस्य न किञ्चिदपि पीड्यते । तृतीयं मासमावश्यं कालाज्ञायां भवेन्नरः ॥ ३५०॥ अथ छायापुरुषकथनम् । कालो दूरस्थितो वाऽपि येनोपायेन लक्ष्यते । तं वदामि समासेन यथाऽऽदिष्टं शिवागमे ॥ ३५१॥ एकान्तं विजनं गत्वा कृत्वाऽऽदित्यं च पृष्ठतः । निरीक्षयेन्निजच्छायां कण्ठदेशे समाहितः ॥ ३५२॥ ततश्चाकाशमीक्षेत ह्रीं परब्रह्मणे नमः । अष्टोत्तरशतं जप्त्वा ततः पश्यति शङ्करम् ॥ ३५३॥ शुद्धस्फटिकसङ्काशं नानारूपधरं हरम् । षण्मासाभ्यासयोगेन भूचराणां पतिर्भवेत् । वर्षद्वयेन ते नाथ कर्त्ता हर्त्ता स्वयं प्रभुः ॥ ३५४॥ त्रिकालज्ञत्वमाप्नोति परमानन्दमेव च । सतताभ्यासयोगेन नास्ति किञ्चित्सुदुर्लभम् ॥ ३५५॥ तद्रूपं कृष्णवर्णं यः पश्यति व्योम्नि निर्मले । षण्मासान्मृत्युमाप्नोति स योगी नात्र संशयः ॥ ३५६॥ पीते व्याधिं भयं रक्ते नीले हानिं च विनिर्दिशेत् । नानावर्णोऽथ चेत्तस्मिन्सिद्धश्च गीयते महान् ॥ ३५७॥ पदे गुल्फे च जठरे विनाशः क्रमशो भवेत् । विनश्यतो यदा बाहू स्वयं तु म्रियते ध्रुवम् ॥ ३५८॥ वामबाहुस्तथा भार्या नश्यतेति न संशयः । दक्षिणे बन्धुनाशो हि मृत्युं मासं विनिर्दिशेत् ॥ ३५९॥ अशिरो मासमरणं विना जङ्घं दिनाष्टकम् । अष्टाभिः स्कन्धनाशेन छायालोपेन तत्क्षणात् ॥ ३६०॥ प्रातः पृष्ठगते रवौ च निमिषाच्छायाङ्गुलीश्चाधरं दृष्ट्वाऽर्धेन मृतिस्त्वनन्तरमहो छायां नरः पश्यति । तत्कर्णांसकरास्य पार्श्वहृदयाभावे क्षणार्धात्स्वयं दिङ्मूढो हि नरःशिरोविगमतो मासांस्तु षड्जीवति ॥ ३६१॥ अथ आसन्नमृत्युलक्षणनिरूपणम् । एकादिषोडशाहानि यदि भानुर्निरन्तरम् । वहेद्यस्य च वै मृत्युः शेषाहेन मासिकः(के)॥ ३६२॥ सम्पूर्णं वहते सूर्यश्चन्द्रमां नैव दृश्यते । पक्षेण जायते मृत्युः कालज्ञेनान भाषितम् ॥ ३६३॥ मूत्रं पुरीषं वायुश्च समकालं प्रवर्तते । तदाऽसौ चलितो ज्ञेयो दशाह्ने म्रियते ध्रुवम् ॥ ३६४॥ सम्पूर्णं वहते चन्द्रः सूर्यो नैव च दृश्यते । मासेन जायते मृत्युः कालज्ञेनान भाषितम् ॥ ३६५॥ अरुन्धतीं ध्रुवं चैव विष्णोस्त्रीणि पदानि च । आयुर्हीना न पश्यन्ति चतुर्थं मातृमण्डलम् ॥ ३६६॥ अरुन्धती भवेज्जिह्वा ध्रुवो नासाग्रमेव च । भ्रुवौ विष्णुपदं ज्ञेयं तारकं मातृमण्डलम् ॥ ३६७॥ नव भ्रुवं सप्त घोषं पञ्च तारां त्रिनासिकाम् । जिह्वामेकदिनं प्रोक्तं म्रियते मानवो ध्रुवम् ॥ ३६८॥ कोणावक्ष्णोरङ्गुलिभ्यां किञ्चित्पीड्य निरीक्षयेत् । (कोणावक्ष्णोरङ्गुलिभ्यां किञ्चिदापीड्य लोकयेत् ।) यदा न दृश्यते बिन्दुर्दशाहेन भवेन्मृतिः ॥ ३६९॥ तीर्थस्नानेन दानेन तपसा सुकृतेन च । जपैर्ध्यानेन योगेन जायते कालवञ्चना ॥ ३७०॥ शरीरं नाशयन्त्येते दोषा धातुमलास्तथा । समस्तु वायुर्विज्ञेयो बलतेजोविवर्धनः ॥ ३७१॥ रक्षणीयस्ततो देहो यतो धर्मादिसाधनम् । अथ योगप्रकरणम् । योगाभ्यासात्वमायान्ति साधुजप्यास्तु साध्यताम् । असाध्याञ्जीवितं घ्नन्ति न तत्रास्ति प्रतिक्रिया ॥ ३७२॥ येषां हृदि स्फुरति शाश्वतमद्वितीयं तेजस्तमोनिवहनाशकरं रहस्यम् । तेषामखण्डशशिरम्यसुकान्तिभाजां स्वप्नेऽपि नो भवति कालभयं नराणाम् ॥ ३७३॥ इडा गङ्गेति विज्ञेया पिङ्गला यमुना नदी । मध्ये सरस्वतीं विद्यात्प्रयागादिसमं तथा ॥ ३७४॥ आदौ साधनमाख्यातं सद्यः प्रत्ययकारकम् । बद्धपद्मासनो योगी बन्धयेदुड्डियानकम् ॥ ३७५॥ पूरकः कुम्भकश्चैव रेचकश्च तृतीयकः । ज्ञातव्यो योगिभिर्नित्यं देहसंशुद्धिहेतवे ॥ ३७६॥ पूरकः कुरुते धृष्टिं धातुसाम्यं तथैव च । कुम्भकः स्तम्भनं कुर्याज्जीवरक्षाविवर्द्धनम् ॥ ३७७॥ रेचको हरते पापं कुर्याद्योगपदं व्रजेत् । पश्चात्सङ्ग्रामवत्तिष्ठेल्लयबन्धं च कारयेत् ॥ ३७८॥ कुम्भयेत्सहजं वायुं यथाशक्ति प्रकल्पयेत् । रेचयेच्चन्द्रमार्गेण सूर्येणापूरयेत्सुधीः ॥ ३७९॥ चन्द्रं पिबति सूर्यश्च सूर्यं पिबति चन्द्रमाः । अन्योन्यकालभावेन जीवेदाचन्द्रतारकम् ॥ ३८०॥ स्वीयाङ्गे वहते नाडी तन्नाडीरोधनं कुरु । मुखबन्धममुञ्चन्वै पवनं जायते युवा ॥ ३८१॥ मुखनासाक्षिकर्णान्तानङ्गुलीभिर्निरोधयेत् । तत्त्वोदयमिति ज्ञेयं षण्मुखीकरणं प्रियम् ॥ ३८२॥ तस्य रूपं गतिः स्वादो मण्डलं लक्षणं त्विदम् । स वेत्ति मानवो लोके संसर्गादपि मार्गवित् ॥ ३८३॥ निराशो निष्कलो योगी न किञ्चिदपि चिन्तयेत् । वासनामुन्मनां कृत्वा कालं जयति लीलया ॥ ३८४॥ विश्वस्य वेदिकाशक्तिर्नेत्राभ्यां परिदृश्यते । तत्रस्थं तु मनो यस्य याममात्रं भवेदिह ॥ ३८५॥ तस्यायुर्वर्धते नित्यं घटिकात्रयमानतः । शिवेनोक्तं पुरा तन्त्रे सिद्धस्य गुणगह्वरे ॥ ३८६॥ बद्ध्वा पद्मासनं ये गुदगतपवनं सन्निरुद्ध्यामुमुच्चैस्तं तस्यापानरन्ध्रक्रमजितमनिलप्राणशक्त्यानिरुद्ध्य । एकीभूतं सुषुम्नाविवरमुपगतं ब्रह्मरन्ध्रं च नीत्वा निक्षिप्याकाशमार्गे शिवचरणरता यान्ति ते केऽपि धन्याः ॥ ३८७॥ एतज्जानाति यो योगी एतत्पठति नित्यशः । सर्वदुःखविनिर्मुक्तो लभते वाञ्छितं फलम् ॥ ३८८॥ अथ स्वरज्ञानप्रशंसा । स्वरज्ञानं नरे यत्र लक्ष्मीपादतले भवेत् । सर्वत्र च शरीरेऽपि सुखं तस्य सदा भवेत् ॥ ३८९॥ प्रणवः सर्ववेदानां ब्राह्मणो भास्करो यथा । मृत्युलोके तथा पूज्यः स्वरज्ञानी पुमानपि ॥ ३९०॥ नाडीत्रयं विजानाति तत्त्वज्ञानं तथैव च । नैव तेन भवेत्तुल्यं लक्षकोटिरसायनम् ॥ ३९१॥ एकाक्षरप्रदातारं नाडीभेदविवेचकम् । पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वाचानृणं भवेत् ॥ ३९२॥ स्वरतत्त्वं तथा युद्धं देवि वश्यं स्त्रियस्तथा । गर्भाधानं च रोगश्च कलार्धनैव मुच्यते ॥ ३९३॥ एवं प्रवर्तितं लोके प्रसिद्धं सिद्धयोगिभिः । चन्द्रार्कग्रहणे जाप्यं पठतां सिद्धिदायकम् ॥ ३९४॥ स्वस्थाने तु समासीनो निद्रां चाहारमल्पकम् । चिन्तयेत्परमात्मानं यो वेद स भविष्यति ॥ ३९५॥ इत्युमामहेश्वरसंवादे स्वरोदयज्ञानं सम्पूर्णम् । Proofread by Ruma Dewan
% Text title            : Shivasvarodayah
% File name             : shivasvarodayaH.itx
% itxtitle              : shivasvarodayaH
% engtitle              : shivasvarodayaH
% Category              : shiva, yoga, jyotisha, sociology_astrology
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Indexextra            : (English, Hindi 1, 2, 3, 4, 5, 6, Videos 1, 2, 3)
% Latest update         : November 17, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org