शिवस्वरोदयः
- उमामहेश्वरसंवादे -
अथ मङ्गलाचरणम् ।
महेश्वरं नमस्कृत्य शैलजां गणनायकम् ।
गुरुं च परमात्मानं भजे संसारतारकम् ॥ १॥
अथ ब्रह्माण्डनिर्णयः ।
देव्युवाच ।
देवदेव महादेव कृपां कृत्वा ममोपरि ।
सर्वसिद्धिकरं ज्ञानं वदयस्व मम प्रभो ॥ २॥
कथं ब्रह्माण्डमुत्पन्नं कथं वा परिवर्तते ।
कथं विलीयते देव वद ब्रह्माण्डनिर्णयम् ॥ ३॥
ईश्वर उवाच ।
तत्त्वाद्ब्रह्माण्डमुत्पन्नं तत्त्वेन परिवर्तते ।
तत्त्वे विलीयते देवि तत्त्वाद्ब्रह्माण्डनिर्णयः ॥ ४॥
देव्युवाच ।
तत्त्वमेव परं मूलं निश्चितं तत्त्ववादिभिः ।
तत्त्वस्वरूपं किं देव तत्त्वमेव प्रकाशय ॥ ५॥
ईश्वर उवाच ।
निरञ्जनो निराकार एको देवो महेश्वरः ।
तस्मादाकाशमुत्पन्नमाकाशाद्वायुसम्भवः ॥ ६॥
वायोस्तेजस्ततश्चापस्ततः पृथ्वीसमुद्भवः ।
एतानि पञ्चतत्त्वानि विस्तीर्णानि पञ्चधा ॥ ७॥
तेभ्यो ब्रह्माण्डमुत्पन्नं तैरेव परिवर्तते ।
विलीयते च तत्रैव तत्रैव रमते पुनः ॥ ८॥
पञ्चतत्त्वमये देहे पञ्चतत्त्वानि सुन्दरि ।
सूक्ष्मरूपेण वर्तन्ते ज्ञायन्ते तत्त्वयोगिभिः ॥ ९॥
अथ स्वरज्ञानप्रशंसा ।
अथ स्वरं प्रवक्ष्यामि शरीरस्थस्वरोदयम् ।
हंसचारस्वरूपेण भवेज्ज्ञानं त्रिकालजम् ॥ १०॥
गुह्याद्गुह्यतरं सारमुपकारप्रकाशनम् ।
इदं स्वरोदयं ज्ञानं ज्ञानानां मस्तके मणिः ॥ ११॥
सूक्ष्मात्सूक्ष्मतरं ज्ञानं सुबोधं सत्यप्रत्ययम् ।
आश्चर्यं नास्तिके लोके आधारं त्वास्तिके जने ॥ १२॥
अथ शिष्यलक्षणम् ।
शान्ते शुद्धे सदाचारे गुरूभक्त्यैकमानसे ।
दृढचित्ते कृतज्ञे च देयं चैव स्वरोदयम् ॥ १३॥
दुष्टे च दुर्जने क्रुद्धे नास्तिके गुरुतल्पगे ।
हीनसत्त्वे दुराचारे स्वरज्ञानं न दीयते ॥ १४॥
अथ स्वरप्रशंसा ।
शृणु त्वं कथितं देवि देहस्थं ज्ञानमुत्तमम् ।
येन विज्ञानमात्रेण सर्वज्ञत्वं प्रणीयते ॥ १५॥
स्वरे वेदाश्च शास्त्राणि स्वरे गान्धर्वमुत्तमम् ।
स्वरे च सर्वत्रैलोक्यं स्वरमात्मस्वरूपकम् ॥ १६॥
स्वरहीनश्च दैवज्ञो नाथहीनं यथा गृहम् ।
शास्त्रहीनं यथा वक्त्रं शिरोहीनं च यद्वपुः ॥ १७॥
नाडीभेदं तथा प्राणतत्त्वभेदं तथैव च ।
सुषुम्नामिश्रभेदं च यो जानाति स मुक्तिगः ॥ १८॥
साकारे वा निराकारे शुभं वायुबलात्कृतम् ।
कथयन्ति शुभं केचित्स्वरज्ञाने वरानने ॥ १९॥
ब्रह्माण्डखण्डपिण्डाद्याः स्वरेणैव हि निर्मिताः ।
सृष्टिसंहारकर्त्ता च स्वरसाक्षान्महेश्वरः ॥ २०॥
स्वरज्ञानात्परं गुह्मं स्वरज्ञनात्परं धनम् ।
स्वरज्ञानत्परं ज्ञानं नवा दृष्टं नवा श्रुतम् ॥ २१॥
शत्रुं हन्यात् स्वबले तथा मित्रसमागमः ।
लक्ष्मीप्राप्तिः स्वरबले कीर्तिः स्वरबले सुखम् ॥ २२॥
कन्याप्राप्ति स्वरबले स्वरतो राजदर्शनम् ।
स्वरेण देवतासिद्धिः स्वरेण क्षितिपो वशः ॥ २३॥
स्वरेण गम्यते देशो भोज्यं स्वरबले तथा ।
लघुदीर्घं स्वरबले मलं चैव निवारयेत् ॥ २४॥
सर्वशास्त्रपुराणादि स्मृतिवेदाङ्गपूर्वकम् ।
स्वरज्ञानात्परं तत्त्वं नास्ति किञ्चिद्वरानने ॥ २५॥
नामरूपादिकाः सर्वे मिथ्या सर्वेषु विभ्रमः ।
अज्ञानमोहिता मूढा यावत्तत्त्वं न विद्यते ॥ २६॥
इदं स्वरोदयं शास्त्रं सर्वशास्त्रोत्तमोत्तमम् ।
आत्मघटप्रकाशार्थं प्रदीपकलिकोपमम् ॥ २७॥
यस्मै कस्मै परस्मै वा न प्रोक्तं प्रश्नहेतवे ।
तस्मादेतत्स्वयं ज्ञेयमात्मनोवाऽऽत्मनात्मनि ॥ २८॥
न तिथिर्न च नक्षत्रं न वारो ग्रहदेवताः ।
न च विष्टिर्व्यतीपातो वैधृत्याद्यास्तथैव च ॥ २९॥
कुयोगो नास्त्यतो देवि भविता वा कदाचन ।
प्राप्ते स्वरबले शुद्धे सर्वमेव शुभं फलम् ॥ ३०॥
अथ नाडीनिर्णयः ।
देहमध्ये स्थिता नाड्यो बहुरूपाः सुविस्तरात् ।
ज्ञातव्याश्च बुधैर्नित्यं स्वदेहज्ञानहेतवः ॥ ३१॥
नाभिस्थानगकन्दोर्ध्वमङ्कुरादेव निर्गताः ।
द्विसप्ततिसहस्त्राणि देहमध्ये व्यवस्थिताः ॥ ३२॥
नाडीस्था कुण्डलीशक्तिर्भुजङ्गाकारशायिनी ।
ततो दशोर्ध्वगानाड्योदशैवाधः प्रतिष्ठिताः ॥ ३३॥
अथ नाडिस्थित्यादिकथनम् ।
द्वे द्वे तिर्यग्गते नाड्यश्चतुर्विंशति सङ्ख्यया ।
प्रधाना दशनाड्यस्तु दशवायुप्रवाहिकाः ॥ ३४॥
तिर्यगूर्ध्वास्तथा नाड्यो वायुदेहसमन्विताः ।
चक्रवत्संस्थिता देहे सर्वाः प्राणसमाश्रिताः ॥ ३५॥
अथ नाडिभेदकथनम् ।
तासां मध्ये दश श्रेष्ठा दशानां तिस्र उत्तमाः ।
इडा च पिङ्गला चैव सषुम्ना च तृतीयका ॥ ३६॥
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ।
अलम्बुषा कुहूश्चैव शङ्खिनी दशमी तथा ॥ ३७॥
अथ नाडिस्थानकथनम् ।
इडा वामे स्थिता भागे पिङ्गला दक्षिणे स्मृता ।
सुषुम्ना मध्यदेशे तु गान्धारी वामचक्षुषि ॥ ३८॥
दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे ।
यशस्विनी वामकर्णे आनने चाप्यलम्बुषा ॥ ३९॥
कुहूश्च लिङ्गदेशे तु मूलस्थाने तु शङ्खिनी ।
एवं द्वारं समाश्रित्य तिष्ठन्ति दशनाडिकाः ॥ ४०॥
इडा पिङ्गला (पिङ्गलेडा)सुषुम्ना च प्राणमार्गे समाश्रिताः ।
एता हि दशनाड्यस्तु देहमध्ये व्यवस्थिताः ॥ ४१॥
अथ वायुस्थानभेदकथनम् ।
नामानि नाडिकानां वातानां तु वदाम्यहम् ।
प्राणोऽपानः समानश्च उदानो व्यान एव च ॥ ४२॥
नागः कूर्मोऽथ कृकलो देवदत्तो धनञ्जयः ।
हृदि प्राणो वसेन्नित्यमपानो गुदमण्डले ॥ ४३॥
समानो नाभिदेशे तु उदानः कण्ठमध्यगः ।
व्यानो व्यापि शरीरेषु प्रधानाः दशवायवः ॥ ४४॥
प्राणाद्याः पञ्चविख्याताः नागाद्याः पञ्चवायवः ।
तेषामपि पञ्चनां स्थानानि च वदाम्यहम् ॥ ४५॥
उद्गारे नाग आख्यातः कूर्मोन्मीलने स्मृतः ।
कृकलः क्षुतकृज्ज्ञेयो देवदत्तो विजृम्म्भणे ॥ ४६॥
न जहाति मृतं वापिसर्वव्यापि धनञ्जयः ।
एते नाडीषु सर्वासु भ्रमन्ते जीवरूपिणः ॥ ४७॥
प्रकटं प्राणसञ्चारं लक्ष्येद्देहमध्यतः ।
इडापिङ्गलासुषुम्नाभिर्नाडीभिस्तिसृभिबुधः ॥ ४८॥
इडा वामे च विज्ञेया पिङ्गला दक्षिणे स्मृता ।
इडानाडीस्थिता वामा ततो व्यस्ता च पिङ्गला ॥ ४९॥
अथ नाडीषु सूर्यचन्द्रादिस्थितिकार्यकथनम् ।
इडायां तु स्थितश्चन्द्रः पिङ्गलायां च भास्करः ।
सुषुम्ना शम्भुरूपेण शम्भुर्हंसस्वरूपतः ॥ ५०॥
हकारो निर्गमे प्रोक्त सकारेण प्रवेशनम् ।
हकारः शिवरूपेण सकारः शक्तिरुच्यते ॥ ५१॥
शक्तिरूपः स्थितश्चन्द्रो वामनाडीप्रवाहकः ।
दक्षनाडीप्रवाहश्च शम्भुरूपो दिवाकरः ॥ ५२॥
श्वासे सकारसंस्थे तु यद्दानं दीयते बुधैः ।
तद्दानं जीवलोकेऽस्मिन् कोटिकोटिगुणं भवेत् ॥ ५३॥
अनेन लक्षयेद्योगी चैकचित्तः समाहितः ।
सर्वमेव विजानीयान्मार्गे वै चन्द्रसूर्ययोः ॥ ५४॥
ध्यायेत्तत्त्वं स्थिरे जीवे अस्थिरे न कदाचन ।
इष्टसिद्धिर्भवेत्तस्य महालाभो जयस्तथा ॥ ५५॥
चन्द्रसूर्यसमभ्यासं ये कुर्वन्ति सदा नराः ।
अतीतानागतज्ञानं तेषां हस्तगतं भवेत् ॥ ५६॥
वामे चाऽमृतरूपा स्याज्जगदाप्यायनं परम् ।
दक्षिणे चरभागेन जगदुत्पादयेत्सदा ॥ ५७॥
अथ शुभाशुभनाडिकथनम् ।
मध्यमा भवति क्रूरा दुष्टा सर्वत्र कर्मसु ।
सर्वत्र शुभकार्येषु वामा भवति सिद्धिदा ॥ ५८॥
निर्गमे तु शुभा वामा प्रवेशे दक्षिणा शुभा ।
चन्द्रः समस्तु विज्ञेयो रविस्तु विषमः सदा ॥ ५९॥
चन्द्रः स्त्री पुरुषः सूर्यश्चन्द्रो गौरोऽसितो रविः ।
चन्द्रनाडीप्रवाहेण सौम्यकार्याणि कारयेत् ॥ ६०॥
अथ स्वरोदयसमयकथनम् ।
सूर्यनाडीप्रवाहेण रौद्रकर्माणि कारयेत् ।
सुषुम्नायाः प्रवाहेण भुक्तिमुक्ति फलानि च ॥ ६१॥
आदौ चन्द्रः सिते पक्षे भास्करो हि सितेतरे ।
प्रतिपत्तो दिनान्याहुस्त्रीणि त्रीणि कृतोदयौ ॥ ६२॥
सार्धद्विघटिके ज्ञेयः शुक्ले कृष्णे शशी रविः ।
वहत्यैकदिनेनैव यथा षष्टिघटीः क्रमात् ॥ ६३॥
वहेयुस्तद्घटीमध्ये पञ्चतत्त्वानि निर्देशयेत् ।
प्रतिपत्तो दिनान्याहुर्विपरीते विवर्जयेत् ॥ ६४॥
शुक्लपक्षे भवेद्वामा कृष्णपक्षे च दक्षिणा ।
जानीयात्प्रतिपत्पूर्वं योगी तद्यतमानसः ॥ ६५॥
शशाङ्कं वारयेद्रात्रौ दिवा वारय भास्करम् ।
इत्याभ्यासरतो नित्यं स योगी नात्र संशयः ॥ ६६॥
सूर्येण बध्यते सूर्यश्चन्द्रश्चन्द्रेण बध्यते ।
यो जानाति क्रियामेतां त्रैलोक्यं वशगं क्षणात् ॥ ६७॥
उदयं चन्द्रमार्गेण सूर्येणास्तमनं यदि ।
तदा ते गुणसङ्घाता विपरीतं विवर्जयेत् ॥ ६८॥
गुरुशुक्रबुधेन्दूनां वासरे वामनाडिका ।
सिद्धिदा सर्वकार्येषु शुक्लपक्षे विशेषतः ॥ ६९॥
अर्काङ्गारकसौरीणां वासरे दक्षनाडिका ।
स्मर्त्तव्या चरकार्येषु कृष्णपक्षे विशेषतः ॥ ७०॥
तत्त्वोदयक्रमकथनम् ।
प्रथमं वहते वायुर्द्वितीयं च तथानलः ।
तृतीयं वहते भूमिश्चतुर्थं वरुणो वहेत् ॥ ७१॥
सार्द्धद्विघटिके पञ्चक्रमेणैवोदयन्ति च ।
क्रमादेकैकनाड्यां च तत्त्वानां पृथगुद्भवः ॥ ७२॥
अहोरात्रस्य मध्ये तु ज्ञेया द्वादशसङ्क्रमाः ।
वृषकर्कटकन्यालिमृगमीना निशाकरे ॥ ७३॥
मेषसिंहौ च कुम्भश्च तुला च मिथुनं धनुम् ।
उदये दक्षिणे ज्ञेयः शुभाशुभविनिर्णयः ॥ ७४॥
तिष्ठेत्पूर्वोत्तरे चन्द्रो भानुः पश्चिमदक्षिणे ।
दक्षनाड्याः प्रसारे तु न गच्छेद्याम्यपश्चिमे ॥ ७५॥
वमाचारप्रवाहे तु न गच्छेत्पूर्वोत्तरे ।
परिपन्थिभयं तस्य गतोऽसौ न निवर्तते ॥ ७६॥
तत्र तस्मान्न गन्तव्यं बुधैः सर्वहितैषिभिः ।
तदा तत्र तु संयाते मृत्युरेव न संशयः ॥ ७७॥
शुक्लपक्षे द्वितीयायामर्के वहति चन्द्रमाः ।
दृश्यते लाभदः पुसां सौम्ये सौख्यं प्रजायते ॥ ७८॥
सूर्योदये यदा सूर्यश्चन्द्रश्चन्द्रोदये भवेत् ।
सिध्यन्ति सर्वकार्याणि दिवारात्रिगतान्यपि ॥ ७९॥
चन्द्रकाले यदा सूर्यः सूर्यश्चन्द्रोदये भवेत् ।
उद्वेगः कलहो हानिः शुभं सर्व निवारयेत् ॥ ८०॥
सूर्यस्य वाहे प्रवदन्ति विज्ञाः ज्ञानं ह्यगमस्य तु निश्चयेन ।
श्वासेन युक्तस्य तु शीतरश्मेः प्रवाहकाले फलमन्यथा स्यात् ॥ ८१॥
अथ विपरीतलक्षणम् ।
यदा प्रत्यूषकालेन विपरीतोदयो भवेत् ।
चन्द्रस्थाने वहत्यर्को रविस्थाने च चन्द्रमाः ॥ ८२॥
प्रथमे मन उद्वेगं धनहानिर्द्वितीयके ।
तृतीये गमनं प्रोक्तमिष्टनाशं चतुर्थके ॥ ८३॥
पञ्चमे राज्यविध्वंसं षष्ठे सर्वार्थनाशनम् ।
सप्तमे व्याधिदुःखानि अष्टमे मृत्युमादिशेत् ॥ ८४॥
कालत्रये दिनान्यष्टौ विपरीतं यदा वहेत् ।
तदा दुष्टफलं प्रोक्तं किञ्चिन्यूनं तु शोभनम ॥ ८५॥
प्रातर्मध्याहृयोश्चन्दः सांयकाले दिवाकरः ।
तदा नित्यं जयो लाभो विपरीतं विवर्जयेत् ॥ ८६॥
अथ यात्रादिस्वरफलकथनम् ।
वामे वा दक्षिणे वापि यत्र सङ्क्रमते शिवः ।
कृत्वा तत्पादमादौ च यात्रा भवति सिद्धिदा ॥ ८७॥
चन्द्रः समपदः कार्यो रविस्तु विषमः सदा ।
पूर्णपादं पुरस्कृत्य यात्रा भवति सिद्धिदा ॥ ८८॥
यत्राङ्गे वहते वायुस्तदङ्गकरसत्तलात् ।
सुप्तोत्थितो मुखं स्पृष्ट्वा लभते वाञ्छितं फलम् ॥ ८९॥
परदत्ते तथा ग्राह्ये गृहन्निर्गमनेऽपि च ।
यदङ्गे वहते नाडी ग्राहयं तेन कराङ्घ्रिणा ॥ ९०॥
न हानिः कलहो नैव कण्टकैर्नापि भिद्यते ।
निवर्तते सुखी चैव सर्वोपद्रववर्जितः ॥ ९१॥
गुरुबन्धुनृपामात्येष्वन्येषु शुभदायिनी ।
पूर्णाङ्गैः खलु कर्त्तव्या कार्यसिद्धिर्मनःस्थिता ॥ ९२॥
अग्निचौर्याधर्मघर्षा अन्येषां वादिनिग्रहः ।
कर्त्तव्याः खलु रिक्ताङ्गैर्जयलाभसुखार्थिभिः ॥ ९३॥
दूरदेशे विधातव्यं गमनं तु हिमद्युतौ ।
अभ्यर्णदेशे दीप्ते तु कारणाविति केचन ॥ ९४॥
यत्किञ्चित्पूर्वमुद्दिष्टं लाभादि समरागमः ।
तत्सर्वं पूर्णनाडीषु जायते निर्विकल्पकम् ॥ ९५॥
शून्यनाड्यां विपर्यस्तं यत्पूर्वं प्रतिपादितम् ।
जायते नान्यथा चैव यथा सर्वज्ञभाषितम् ॥ ९६॥
व्यवहारे खलोच्चाटे द्वेषिविद्यादिवञ्चके ।
कुपितस्वामिचौर्याद्ये पूर्णस्थाः स्युर्भयङ्कराः ॥ ९७॥
दूराध्वनि शुभश्चन्द्रो निर्विघ्नोऽभीष्टसिद्धिदः ।
प्रवेशकार्ये हेतौ च सूर्यनाडीप्रशस्यते ॥ ९८॥
अयोग्ये योग्यता नाड्यो योग्यस्थानेप्ययोग्यता ।
कार्यानुबन्धनो जीवो यथा रुद्रस्तथाचरेत् । ९९॥
चन्द्रचारे विषहते सूर्यो बलिवशं नयेत् ।
सुषुम्नायां भवेन्मोक्ष एको देवस्त्रिधास्थितः ॥ १००॥
शुभान्यशुभकार्याणि क्रियन्तेऽहर्निशं यदा ।
तत्तत्कार्यानुरोधेन कार्यं नाडीप्रचालनम् ॥ १०१॥
अथ नाडीभेदः ।
इडाकर्त्तव्यकृत्यनिरूपणम् ।
स्थिरकर्मण्यलङ्कारे दूराध्वगमने तथा ।
आश्रमे धर्मप्रासादे वस्तूनां सङ्ग्रहेऽपि च ॥ १०२॥
वापीकूपताडागानां प्रतिष्ठास्तम्भदेवयोः ।
यात्रा दाने विवाहे च वस्त्रालङ्कारभूषणे ॥ १०३॥
शान्तिके पौष्टिके चैव दिव्यौषधिरसायने ।
स्वस्वामीदर्शने मित्रे वाणिज्ये कणसङ्ग्रहे ॥ १०४॥
गृहप्रवेशे सेवायां कृषौ च बीजवापने ।
शुभकर्मणि सन्धौ च निर्गमे च शुभः शशी ॥ १०५॥
विद्यारम्भादिकार्येषु बान्धवानां च दर्शने ।
जन्ममोक्षे च धर्मे च दीक्षायां मन्त्रसाधने ॥ १०६॥
कालविज्ञानसूत्रे तु चतुष्पादगृहागमे ।
कालव्याधिचिकित्सायां स्वामीसम्बोधने तथा ॥ १०७॥
गजाश्वरोहणे धन्वि गजाश्वानां च बन्धने ।
परोपकारणे चैव निधीनां स्थापने तथा ॥ १०८॥
गीतवाद्यादिनृत्यादौ नृत्यशास्त्रविचारणे ।
पुरग्रामनिवेशे च तिलकक्षेत्रधारणे ॥ १०९॥
आर्तिशोकविषादे च ज्वरिते मूर्छितेऽपि वा ।
स्वजनस्वामीसम्बन्धे अन्नादौ दारुसङ्ग्रहे ॥ ११०॥
स्त्रीणां दन्तादिभूषायां वृष्टे रागमने तथा ।
गुरुपूजाविषादीनां चालने च वरानने ॥ १११॥
इडायां सिद्धदं प्रोक्तं योगाभ्यासादिकर्म च ।
तत्रापि वर्जयेद्वायुं तेज आकाशमेव च ॥ ११२॥
सर्वकार्याणि सिद्ध्यन्ति दिवारात्रिगतान्यपि ।
सर्वेषु शुभकार्येषु चन्द्रचारः प्रशस्यते ॥ ११३॥
पिङ्गलाकर्त्तव्यकृत्यनिरूपणम् ।
कठिनक्रूरविद्यानां पठने पाठने तथा ।
स्त्रीसङ्गे वेश्यागमने महानौकाधिरोहणे ॥ ११४॥
भ्रष्टकार्ये सुरापाने वीरमन्त्राद्युपासने ।
विह्वले ध्वंसदेशादौ विषदाने च वैरिणाम् ॥ ११५॥
शास्त्राभ्यासे च गमने मृगया पशुविक्रये ।
इष्टिकाकाष्ठपाषाणरत्नघर्षणदारणे ॥ ११६॥
गत्यभ्यासे यन्त्रतन्त्रे दुर्गपर्वतारोहणे ।
द्यूते चौर्य्ये गजाश्वादिरथसाधनवाहने ॥ ११७॥
व्यायामे मारणोच्चाटे षट्कर्मादिसाधने ।
यक्षिणीयक्षवेतालविषभूतादिनिग्रहे ॥ ११८॥
खरोष्ट्रमहीषादीनां गजाश्वरोहणे तथा ।
नदीजलौघतरणे भेषजे लिपिलेखने ॥ ११९॥
मारणे मोहने स्तम्भे विद्वेषोच्चाटने वशे ।
प्रेरणे कर्षणे क्षोभे दाने च क्रयविक्रये ॥ १२०॥
प्रेताकर्षणविद्वेषशत्रुनिग्रहणेऽपि च ।
खड्गहस्ते वैरियुद्धे भोगे वा राजदर्शने ।
भोज्ये स्नाने व्यवहारे दीप्तकार्ये रविः शुभः ॥ १२१॥
भुक्तमार्गेण मन्दाग्नौ स्त्रीणां वश्यादिकर्मणि ।
शयनं सूर्यवाहेन कर्तव्यं सर्वदा बुधैः ॥ १२२॥
क्रूराणि सर्वकर्माणि चराणि विविधानि च ।
तानि सिद्धयन्ति सूर्येण नात्र कार्या विचारणा ॥ १२३॥
सुषुम्नाकर्त्तव्यकृत्यनिरूपणम् ।
क्षणं वामे क्षणं दक्षे यदा वहति मारुतः ।
सुषुम्ना सा च विज्ञेया सर्वकार्यहरा स्मृता ॥ १२४॥
तस्यां नाड्यां स्थितो वह्निर्ज्वलते कालरूपकः ।
विषवत्तं विजानीयात् सर्वकार्यविनाशनम् ॥ १२५॥
यदाऽनुक्रममुल्लङ्घ्य यस्य नाडीद्वयं वहेत् ।
तदा तस्य विजानीयादशुभं नात्र संशयः ॥ १२६॥
क्षणं वामे क्षणं दक्षे विषमं भावमादिशेत् ।
विपरीतं फलं ज्ञेयं ज्ञातव्यं च वरानने ॥ १२७॥
उभयोरेव सञ्चार विषवन्तं विदुर्बुधाः ।
न कुर्यात्क्रूरसौम्यानि तत्सर्वं विफलं भवेत् ॥ १२८॥
जीविते मरणे प्रश्ने लाभालाभे जयाजये ।
विषमे विपरीते च संस्मरेज्जगदीश्वरम् ॥ १२९॥
ईश्वरे चिन्तिते कार्यं योगाभ्यासादिकर्म च ।
अन्यतत्र न कर्त्तव्यं जयलाभसुखैषिभिः ॥ १३०॥
सूर्येण वहमानायां सुषुम्नायां मुहुर्मुहुः ।
शापं दद्याद्वरं दद्यात्सर्वथैव तदन्यथा ॥ १३१॥
नाडीसङ्क्रमणे काले तत्त्वसङ्गमनेऽपि च ।
शुभं किञ्चिन्न कर्तव्यं पुण्यदानानि कोटिधा ॥ १३२॥
विषमस्योदयो यत्र मनसाऽपि चिन्तयेत् ।
यात्रा हानिकरो तस्य मृत्युः क्लेशो न संशयः ॥ १३३॥
पुरो वामोर्ध्वतश्चन्द्रो दक्षाधः पृष्ठतो रविः ।
पूर्णा रिक्ताविवेकोऽयं ज्ञातव्यो दैशिकैः सदा ॥ १३४॥
ऊर्ध्ववामाग्रतो दूतो ज्ञेयो वामे पथि स्थितः ।
पृष्ठे दक्षे तथाऽधस्तात्सूर्यवाहागतः शुभः ॥ १३५॥
अनादिर्विषमः सन्धिर्निराहारो निराकुलः ।
परे सूक्ष्मे विलीयते सा सन्ध्या सद्भिरुच्यते ॥ १३६॥
न वेदं वेद इत्याहुर्वेदो वेदो न विद्यते ।
परमात्मा वेद्यते येन स वेदो वेद उच्यते ॥ १३७॥
न सन्ध्या सन्धिरित्याहुः सन्ध्या सन्धिर्निगद्यते ।
विषमः सन्धिगः प्राण स सन्धिः सन्धिरुच्यते ॥ १३८॥
अथ तत्त्ववर्णनम् ।
श्रीदेव्युवाच ।
देव देव महादेव सर्वसंसारतारक ।
स्थितं त्वदीयहृदये रहस्यं वद मे प्रभो ॥ १३९॥
ईश्वर उवाच ।
स्वरज्ञानरहस्यात्तु न काचिच्चेष्टदेवता ।
स्वरज्ञानरतो योगी स योगी परमो मतः ॥ १४०॥
पञ्चतत्त्वाद्भवेत्सृष्टिस्तत्त्वे तत्त्वं प्रलीयते ।
पञ्चतत्त्वं परं तत्त्वं तत्त्वातीतं निरञ्जनम् ॥ १४१॥
तत्त्वानां नामविज्ञेयं सिद्धयोगेन योगिनाम् ।
भूतानां दुष्टचिह्नानि जानातीह स्वरोत्तमः ॥ १४२॥
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
पञ्चभूतात्मकं विश्वं यो जानाति स पूजितः ॥ १४३॥
सर्वलोकस्थजीवानां न देहो भिन्नतत्त्वकः ।
भूर्लोकात्सत्यपर्यन्तं नाडीभेदः पृथक् पृथक् ॥ १४४॥
वामे वा दक्षिणे वाऽपि उदयाः पञ्च कीर्त्तिताः ।
अष्टधा तत्त्वविज्ञानं श्रृणु वक्ष्यामि सुन्दरि ॥ १४५॥
प्रथमे तत्त्वसङ्ख्यानं द्वितीये श्वाससन्धयः ।
तृतीये स्वरचिह्नानि चतुर्थे स्थानमेव चः ॥ १४६॥
पञ्चमे तस्य वर्णाश्च षष्ठे तु प्राण एव च ।
सप्तमे स्वादसंयुक्ता अष्टमे गतिलक्षणम् ॥ १४७॥
एवमष्टविधं प्राणं विषुवन्तं चराचरम् ।
स्वरात्परतरं देवि नान्यथा त्वम्बुजेक्षणे ॥ १४८॥
निरीक्षितव्यं यत्नेन सदा प्रत्यूषकालतः ।
कालस्य वञ्चानार्थाय कर्म कुर्वन्ति योगिनः ॥ १४९॥
अथ षण्मुखीमुद्राकथनम् ।
श्रुत्योरङ्गुष्ठके मध्याङ्गुल्यौ नासापुटद्वये ।
वदनप्रान्तके चान्याङ्गुलीर्दद्याच्च नेत्रयोः ॥ १५०॥
अस्यान्तस्तु पृथिव्यादि तत्त्वज्ञानं भवेत्क्रमात् ।
पीतश्वेतारुणश्यामैर्बिन्दुभिर्निरूपाधिकम् ॥ १५१॥
दर्पणेन समालोक्य तत्र श्वासे विनिक्षिपेत् ।
आकारैस्तु विजानीयात्तत्त्वभेदं विचक्षणः ॥ १५२॥
अथ तत्त्वाकारेत्यादिनिर्णयकथनम् ।
चतुरस्रं चार्धचन्द्रं त्रिकोणं वर्त्तुलं स्मृतम् ।
बिन्दुभिस्तु नभो (मनो)ज्ञेयमाकारैस्तत्त्वलक्षणम् ॥ १५३॥
मध्ये पृथ्वी ह्यघश्चापश्चोर्ध्वं वहति चानलः ।
तिर्यग्वायुप्रवाहश्च नभो वहति सङ्क्रमे ॥ १५४॥
आपः श्वेताः क्षितिः पीता रक्तवर्णो हुताशनः ।
मारुतो नीलजीमूत आकाशः सर्ववर्णकः ॥ १५५॥
स्कन्धद्वये स्थितो वह्निर्नाभिमूले प्रभञ्जनः ।
जानुदेशे क्षितिस्तोयं पादान्ते मस्तके नभः ॥ १५६॥
माहेयं मधुरं स्वादे काषायं जलमेव च ।
तीक्ष्णं तेजस्समीरोऽम्लं आकाशं कटुकं तथा ॥ १५७॥
अष्टङ्गुलं वहेद्वायुरनलश्चतुरङ्गुलम् ।
द्वादशाङ्गुलमाहेयं वारुणं षोडशाङ्गुलम् ॥ १५८॥
उर्ध्वं मृत्युरधः शान्तिस्तिर्यगुच्चाटनं तथा ।
मध्ये स्तम्भं विजानीयान्नभः सर्वत्र मध्यमम् ॥ १५९॥
अथ तत्त्वस्वरुपकर्तव्यादिकथनम् ।
पृथिव्यां स्थिरकर्माणि चरकर्माणि वारुणे ।
तेजसि क्रूरकर्माणि मारणोच्चाटनेऽनिले ॥ १६०॥
व्योम्नि किञ्चिन्न कर्त्तव्यमभ्यसेद्योगसेवनम् ।
शून्यता सर्वकार्येषु नात्र कार्या विचारणा ॥ १६१॥
पृथ्वीजलाभ्यां सिद्धिः स्यान्मृत्युर्वह्नौ क्षयोऽनिले ।
नभसो निष्फलं सर्वं ज्ञातव्यं तत्त्व वेदिभिः ॥ १६२॥
चिरलाभः क्षितौ ज्ञेयस्तत्क्षणे तोयतत्त्वतः ।
हानिः स्याद्वह्निवाताभ्यां नभसो निष्फलं भवेत् ॥ १६३॥
पीतः शनैर्मध्यवाही हनुर्यावद्गुरुध्वनिः ।
कवोष्णः पार्थिवो वायुः स्थिरकार्यप्रसाधकः ॥ १६४॥
अधोवाही गुरुध्वानः शीघ्रगः शीतलः स्थितः ।
यः षोडशाङ्गुलो वायुः स आपः शुभकर्मकृत ॥ १६५॥
आवर्तगश्चात्युष्णश्च शोणाभश्चतुरङ्गुलः ।
उर्ध्ववाहि च यः क्रूरः कर्मकारी स तेजसः ॥ १६६॥
उष्णः शीतः कृष्णवर्णस्तिर्यगान्यष्टकाङ्गुलः ।
वायुः पवनसंज्ञस्तु चरकर्मप्रसाधकः ॥ १६७॥
यः समीरः समरसः सर्वतत्त्वगुणावहः ।
आम्बरं तं विजानीयाद्योगिनां योगदायकम् ॥ १६८॥
पीतवर्णं चतुष्कोणं मधुरं मध्यमाश्रितम् ।
भोगदं पार्थिवं तत्त्वं प्रवाहे द्वादशाङ्गुलम् ॥ १६९॥
श्वेतमर्धेन्दुसङ्काशं स्वादुकाषायमार्द्रकम् ।
लाभकृद्वारुणं तत्त्वं प्रवाहे षोडशाङ्गुलम् ॥ १७०॥
रक्तं त्रिकोणं तीक्ष्णं च उर्ध्वभागप्रवाहकम् ।
दीप्तं च तैजसं तत्त्वं प्रवाहे चतुरङ्गुलम् ॥ १७१॥
नीलं च वर्तुलाकारं स्वाद्वाम्लं तिर्यगाश्रितम् ।
चपलं मारुतं तत्त्वं प्रवाहेऽष्टाङ्गुलं स्मृतम् ॥ १७२॥
वर्णाकारं स्वादवाहेष्वव्यक्तं सर्वगामिनम् ।
मोक्षदं नभसं तत्त्वं सर्वकार्येषु निष्फलम् ॥ १७३॥
अथ शुभाशुभतत्त्वविचारः ।
पृथ्वीजले शुभे तत्त्वे तेजोमिश्रं फलोदयम् ।
हानिमृत्युकरौ पुंसामशुभौ व्योममारुतौ ॥ १७४॥
आपूर्वपश्चिमे पृथ्वीतेजश्च दक्षिणे तथा ।
वायुश्चोत्तरदिग्ज्ञेयो मध्ये कोणगतं नभः ॥ १७५॥
चन्द्रे पृथ्वीजले स्यातां सूर्येऽग्निर्वा यदा भवेत् ।
तदा सिद्धिर्न सन्देहः सौम्यासौम्येषु कर्मसु ॥ १७६॥
लाभः पृथ्वीकृतोऽह्नि स्यान्निशायां लाभकृज्जलम् ।
वह्नौ मृत्युः क्षयो वायुर्नभःस्थानं दहेत्क्वचित् ॥ १७७॥
जीवितव्ये जये लाभे कृष्यां च धनकर्मणि ।
मन्त्रार्थे युद्धप्रश्ने च गमनागमने तथा ॥ १७८॥
आयाति वारुणे तत्त्वे शत्रुरस्ति शुभं क्षितौ ।
प्रयाति वायुतोऽन्यत्र हानिमृत्यू नभोऽनले ॥ १७९॥
अथ प्रश्नविचारः ।
पृथिव्यां मूलचिन्ता स्याज्जीवनस्य जलवातयोः ।
तेजसा धातुचिन्ता स्याच्छून्याकाशतो वदेत् ॥ १८०॥
पृथिव्यां बहुपादाः स्युर्द्विपदस्तोयवायुतः ।
तेजस्येव चतुष्पादो नभसा पादवर्जितः ॥ १८१॥
कुजो वह्नी रविः पृथ्वी सौरिरापः प्रकीर्तितः ।
वायुस्थानास्थितो राहुर्दशरन्ध्रप्रवाहकः ॥ १८२॥
जलं चन्द्रो बुधः पृथ्वी गुरुर्वातः सितोऽनलः ।
वामनाड्यां स्थिताः सर्वे सर्वकार्येषु निश्चिताः ॥ १८३॥
पृथ्वी बुधो जलं चेन्दुः शुक्रो वह्नी रविः कुजः ।
वायू राहुश्शनी व्योम गुरुरेव प्रकीर्तितः ॥ १८४॥
प्रश्वासप्रश्न आदित्ये यदि राहुर्गतोऽनिले ।
तदाऽसौ चलितो ज्ञेयः स्थानान्तरमपेक्षते ॥ १८५॥
आयाति वारुणे तत्त्वे तत्रैवास्ति शुभं क्षितौ ।
प्रवासी पवनेऽन्यत्र मृत्युरेवानले भवेत् ॥ १८६॥
पार्थिवे मूलविज्ञानं शुभकार्यं जले तथा ।
आग्नेये धातुविज्ञानं व्योम्नि शून्यं विनिर्दिशेत् ॥ १८७॥
तुष्टिः पुष्टि रतिःक्रीडा जयहर्षौ धराजले ।
तेजो वाय्वोश्च सुप्ताक्षो ज्वरकम्पः प्रवासिनः ॥ १८८॥
गतायुर्मृत्युराकाशे तत्त्वस्थाने प्रकीर्तिता ।
द्वादशैताः प्रयत्नेन ज्ञातव्या दैशिकैः सदा ॥ १८९॥
पूर्वायां पश्चिमे याम्यां उत्तरस्यां तथाक्रमम् ।
पृथीव्यादीनि भूतानि बलिष्ठानि विनिर्दिशेत् ॥ १९०॥
अथ तत्त्वगुणकथनम् ।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
पञ्चभूतात्मको देहो ज्ञातव्यश्च वरानने ॥ १९१॥
अस्थिमांसं त्वचा नाडी रोमञ्चैव तु पञ्चमम् ।
पृथ्वी पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥ १९२॥
शुक्रशोणितमज्जाश्च मूत्रं लालं च पञ्चमम् ।
आपः पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥ १९३॥
क्षुधा तृषा तथा निद्रा कान्तिरालस्यमेव च ।
तेजः पञ्चगुणं प्रोक्तं ब्रह्मज्ञानेन भाषितम् ॥ १९४॥
धावनं चलनं ग्रन्थिः सङ्कोचनप्रसारणे ॥
वायोः पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥ १९५॥
रागद्वेषौ तथा लज्जा भयं मोहश्च पञ्चमः ।
नभः पञ्चगुणं प्रोक्तं ब्रह्मज्ञानेन भाषितम् ॥ १९६॥
पृथ्व्याः पलानि पञ्चाशच्चत्वारिंशत्तथाम्भसः ।
अग्नेस्त्रिंशत्पुनर्वायो विंशतिर्नभसो दश ॥ १९७॥
पृथिव्यां चिरकालेन लाभश्चापः क्षणाद्भवेत् ।
जायते पवने स्वल्पः सिद्धौऽप्यग्नौ विनश्यति ॥ १९८॥
पृथ्व्याः पञ्च ह्यपां वेदा गुणास्तेजो द्विवायुतः ।
नभस्येकगुणश्चैव तत्त्वज्ञानमिदं भवेत् ॥ १९९॥
फूत्कारकृत्प्रस्फुटिता विदीर्णा पतिता धरा ।
ददाति सर्वकार्येषु अवस्थासदृशं फलम् ॥ २००॥
अथ नक्षत्रतत्त्वकथनम् ।
धनिष्ठा रोहिणी ज्येष्ठाऽनुराधा श्रवणं तथा ।
अभिजिदुत्तराषाढा पृथ्वीतत्त्वमुदाहृतम् ॥ २०१॥
पूर्वाषाढा तथाश्लेषा मूलमार्द्रा च रेवती ।
उत्तराभाद्रपदा तोयतत्त्वं शतभिषक् प्रिये ॥ २०२॥
भरणी कृत्तिकापुष्यौ मघा पूर्वा च फल्गुनी ।
पूर्वाभाद्रपदा स्वाती तेजस्तत्त्वमिति प्रिये ॥ २०३॥
विषाखोत्तरफाल्गुन्यौ हस्तचित्रे पुनर्वसुः ।
अश्विनी मृगशीर्षे च वायुतत्त्वमुदाहृतम् ॥ २०४॥
अथ सिद्धिविचारः ।
वहन्नाडीस्थितो दूतो यत्पृच्छति शुभाशुभम् ।
तत्सर्वं सिद्धिमापनोति शून्ये शून्यं न संशयः ॥ २०५॥
पूर्णोऽपि निर्गमश्श्वासे सुतत्त्वेऽपि न सिद्धिदः ।
सूर्यश्चन्द्रोऽथवा नॄणां सङ्ग्रहे सर्वसिद्धिदः ॥ २०६॥
तत्त्वे रामो जयं प्राप्तः सुतत्त्वे च धनञ्जयः ।
कौरवा निहताः सर्वे युद्धे तत्त्वविपर्ययात् ॥ २०७॥
जन्मान्तरीयसंस्कारात्प्रसादादथवा गुरोः ।
केषाञ्चिज्जायते तत्त्ववासना विमलात्मना ॥ २०८॥
अथ तत्त्वबीजध्यानवर्णनम् ।
लं बीजं धरणीं ध्यायेच्चतुरस्रां सुपीतभाम् ।
सुगन्धां स्वर्णवर्णाभां प्राप्नुयाद्देहलाघवम् ॥ २०९॥
वं बीजं वारुणं ध्यायेत्तत्त्वमर्द्धशशिप्रभम् ।
क्षुत्तृष्णादिसहिष्णुत्वं जलमध्ये च मज्जनम् ॥ २१०॥
रं बीजमग्निजं ध्यायेत्त्रिकोणमरुणप्रभम् ।
बह्वन्नपानभोक्तृत्वमातपाग्निसहिष्णुता ॥ २११॥
यं बीजं पवनं ध्यायेद्वर्तुलं श्यामलप्रभम् ।
आकाशगमनाद्यं च पक्षिवद्गमनं तथा ॥ २१२॥
हं बीजं गगनं ध्यायेन्निराकारं बहुप्रभम् ।
ज्ञानं त्रिकालविषयमैश्वर्यमणिमादिकम् ॥ २१३॥
स्वरज्ञानी नरो यत्र धनं नास्ति ततः परम् ।
गम्यते तु स्वरज्ञानं ह्यनायासं फलं भवेत् ॥ २१४॥
श्री देव्युवाच ।
देव देव महादेव महाज्ञानं स्वरोदयम् ।
त्रिकालविषयं चैव कथं भवति शङ्कर ॥ २१५॥
ईश्वर उवाच ।
अर्थकालजयप्रश्नशुभाशुभमिति त्रिधा ।
एतत्त्रिकालविज्ञानं नान्यद्भवति सुन्दरि ॥ २१६॥
तत्त्वे शुभाशुभं कार्यं तत्त्वे जयपराजयौ ।
तत्त्वे सुभिक्षदुर्भिक्षे तत्त्वं त्रिपादमुच्यते ॥ २१७॥
अथ प्राणगतिकथनम् ।
श्री देव्युवाच ।
देव देव महादेव सर्वसंसारसागरे ।
किं नराणां परं मित्रं सर्वकार्यार्थसाधकम् ॥ २१८॥
ईश्वर उवाच ।
प्राण एव परं मित्रं प्राण एव परः सखा ।
प्राणतुल्यो परो बन्धुर्नास्ति नास्ति वरानने ॥ २१९॥
श्रीदेव्युवाच ।
कथं प्राणस्थितो वायुर्देहः किं प्राणरूपकः ।
तत्त्वेषु सञ्चरन्प्राणो ज्ञायते योगिभिः कथम् ॥ २२०॥
श्रीशिव उवाच ।
कायानगरमध्यस्थो मारुतो रक्षपालकः ।
प्रवेशे दशभिः प्रोक्तो निर्गमे द्वादशाङ्गुलः ॥ २२१॥
गमने तु चतुर्विशन्नेत्रवेदास्तु धावने ।
मैथुने पञ्चषष्ठिश्च शयने च शताङ्गुलम् ॥ २२२॥
प्राणस्य तु गतिर्देवि स्वभावाद्द्वादशाङ्गुला ।
भोजने वमने चैव गतिरष्टादशाङ्गुलम् ॥ २२३॥
एकाङ्गुले कृते न्यूने प्राणे निष्कामता मता ।
आनन्दस्तु द्वितीये स्यात्कविशक्तिस्तृतीयके ॥ २२४॥
वाचां सिद्धिश्चतुर्थे च दूरदृष्टिस्तु पञ्चमे ।
षष्ठे त्वाकाशगमनं चण्डवेगश्च सप्तमे ॥ २२५॥
अष्टमे सिद्धयश्चैव नवमे निधयो नव ।
दशमे दशमूर्तिश्च (दशरूपाणि)छायाचैकादशे भवेत् ॥ २२६॥
द्वादशे हंसचारश्च गङ्गामृतरसं पिबेत् ।
आनखाग्रं प्राणपूर्णे कस्य भक्ष्यं च भोजनम् ॥ २२७॥
एवं प्राणविधिः प्रोक्तः सर्वकार्यफलप्रदः ।
ज्ञायते गुरुवाक्येन न विद्याशास्त्रकोटिभिः ॥ २२८॥
प्रातश्चन्द्रो रविः सायं यदि दैवान्न लभ्यते ।
मध्याह्नमध्यरात्राच्च परतस्तु प्रवर्तते ॥ २२९॥
अथ युद्धप्रकरणम् ।
दूरयुद्धे जयी चन्द्रः समासन्ने दिवाकरः ।
वहन्नाड्यां गतः पादः सर्वसिद्धिप्रदायकः ॥ २३०॥
यात्रारम्भे विवाहे च प्रवेशे नगरादिके ।
शुभकार्याणि सिद्ध्यन्ति चन्द्रचारेषु सर्वदा ॥ २३१॥
अयनतिथिदिनेशैः स्त्रीयतत्त्वे च युक्ते
यदि वहति कदाचिद्दैवयोगेन पुंसाम् ।
स जयति रिपुसैन्यं स्तम्भमात्रस्वरेण
प्रभवति न च विघ्नं केशवस्यापि लोके ॥ २३२॥
जीवं रक्ष जीवं रक्ष जीवाङ्के परिधाय च ।
जीवो जपति यो युद्धे जीवं जयति मेदिनीम् ॥ २३३॥
भूमौ जले च कर्त्तव्यं गमनं शान्तिकर्मसु ।
वह्नौ वायौ प्रदीप्तेषु खे पुनर्नोभयेष्वपि ॥ २३४॥
जीवेन शस्त्रं बध्नीयाज्जीवेनैव विकाशयेत् ।
जीवेन प्रक्षिपेच्छस्त्रं युद्धे जयति सर्वदा ॥ २३५॥
आकृष्य प्राणपवनं समारोहेत वाहनम् ।
समुत्तरे पदं दद्यात् सर्वकार्याणि साधयेत् ॥ २३६॥
अपूर्णे शत्रुसामग्री पूर्णे वा स्वबलं तथा ।
कुरुते पूर्णतत्त्वस्थो जयत्येको वसुन्धराम् ॥ २३७॥
या नाडी वहते चाङ्गे तस्यामेवाधिदेवता ।
सन्मुखेऽपि दिशा तेषां सर्वकार्यफलप्रदा ॥ २३८॥
आदौ तु क्रियते मुद्रा पश्चाद्युद्धं समाचरेत् ।
सर्पमुद्रा कृता येन तस्य सिद्धिर्न संशयः ॥ २३९॥
चन्द्रप्रवाहेऽप्यथ सूर्यवाहे भटाः समायान्ति च योद्धुकामाः ।
समीरणस्तत्त्वविदां प्रतीतो या शून्यता सा प्रतिकार्यनाशम् ॥ २४०॥
यां दिशं वहते वायुर्युद्धं तद्दिशि दापयेत् ।
जयत्येव न सन्देहः शक्रोऽपि यदि चाग्रतः ॥ २४१॥
यत्र नाड्यां वहेद्वायुस्तदङ्गे प्राणमेव च ।
आकृष्य गच्छेत्कर्णान्तं जयत्येव पुरन्दरम् ॥ २४२॥
प्रतिपक्षप्रहारेभ्यः पूर्णाङ्गे योऽभिरक्षति ।
न तस्य रिपुभिः शक्तिर्बलिष्ठैरपि हन्यते ॥ २४३॥
अङ्गुष्ठतर्जनीवंशे पादाङ्गुष्ठे तथा ध्वनिः ।
युद्धकाले च कर्त्तव्यो लक्षयोद्धृजयी भवेत् ॥ २४४॥
निशाकरे रवौ वारे मध्ये यस्य समीरणः ।
स्थितो रक्षेद्दिगन्तानि जयकाङ्क्षी गतः सदा ॥ २४५॥
श्वासप्रवेशकाले तु दूतो जल्पति वाञ्छितम् ।
तस्यार्थः सिद्धिमायाति निर्गमे नैव सुन्दरि ॥ २४६॥
लाभादीन्यपि कार्याणि पृष्टानि कीर्त्तितानि च ।
जीवे विशति सिद्ध्यन्ति हानिर्निःसरणे भवेत् ॥ २४७॥
नरे दक्ष स्वकीया च स्त्रियां वामा प्रशस्यते ।
कुम्भको युद्धकाले च तिस्रो नाड्यस्त्रयीगतिः ॥ २४८॥
हकारस्य सकारस्य विना भेदं स्वरः कथम् ।
सोऽहं हंसपदेनैव जीवो जपति सर्वदा ॥ २४९॥
शून्याङ्गं पूरितं कृत्वा जीवाङ्गे गोपयेज्जयम् ।
जीवाङ्गे घातमाप्नोति शून्याङ्गे रक्षते सदा ॥ २५०॥
वामे वा यदि वा दक्षे यदि पृच्छति पृच्छकः ।
पूर्णे घातो न जायेत शून्ये घातं विनिर्दिशेत् ॥ २५१॥
भूतत्त्वेनोदरे घातः पदस्थानेऽम्बुना भवेत् ।
उरुस्थानेऽग्नितत्त्वेन करस्थाने च वायुना ॥ २५२॥
शिरसि व्योमतत्त्वे च ज्ञातव्यो घातनिर्णयः ।
एवं पञ्चविधो घातः स्वरशास्त्रे प्रकाशितः ॥ २५३॥
युद्धकाले यदा चन्द्रः स्थायी जयति निश्चितम् ।
यदा सूर्यप्रवाहस्तु यायी विजयते सदा ॥ २५४॥
जयमध्ये तु सन्देहो नाडीमध्यं तु लक्षयेत् ।
सुषुम्नायां गते प्राणे समरे शत्रुसङ्कटम् ॥ २५५॥
यस्यां नाड्या भवेच्चारस्तां दिशं युधि संश्रयेत् ।
तदाऽसौ जयमाप्नोति नात्रकार्या विचारणा ॥ २५६॥
यदि सङ्ग्रामकाले तु वामनाडी सदा वहेत् ।
स्थायिनो विजयं विद्याद्रिपुवश्यदयोऽपि च ॥ २५७॥
यदि सङ्ग्रामकाले च सूर्यस्तु व्यावृतो वहेत् ।
तदा यायिजयं विद्यात् सदेवासुरमानवे ॥ २५८॥
रणे हरति शत्रुस्तं वामायां प्रविशेन्नरः ।
स्थानं विषुवचारेण जयः सूर्येण धावता ॥ २५९॥
युद्धद्वये कृते प्रश्ने पूर्णस्य प्रथमे जयः ।
रिक्ते चैव द्वितीयस्तु जयी भवति नान्यथा ॥ २६०॥
पूर्णनाडीगतः पृष्ठे शून्याङ्गं च तदाऽग्रतः ।
शून्यस्थाने कृतः शत्रुर्म्रियते नात्र संशयः ॥ २६१॥
वामाचारे समं नाम यस्य तस्य जयो भवेत् ।
पृच्छको दक्षिणे भागे विजयी विषमाक्षरः ॥ २६२॥
यदा पृच्छति चन्द्रस्य तदा सन्धानमादिशेत् ।
पृच्छेद्यदा तु सूर्यस्य तदा जानीहि विग्रहम् ॥ २६३॥
पार्थिवे च समं युद्धं सिद्धिर्भवति वारुणे ।
युद्धे हि तेजसो भङ्गो मृत्युर्वायौ नभस्यपि ॥ २६४॥
अथ रुद्धस्वरज्ञानोपायकथनम् ।
निमित्ततः प्रमादाद्वा यदा न ज्ञायतेऽनिलः ।
पृच्छाकाले तदा कुर्यादिदं यत्नेन बुद्धिमान् ॥ २६५॥
निश्चलां धारणां कृत्वा पुष्पं हस्तान्निपातयेत् ।
पूर्णाङ्गे पुष्पपतनं शून्यं वा तत्परं भवेत् ॥ २६६॥
तिष्ठन्नुपविशंश्चापि प्राणमाकर्षयन्निजम् ।
मनोभङ्गमकुर्वाणः सर्वकार्येषु जीवति ॥ २६७॥
न कालो विविधं घोरं न शस्त्रं न च पन्नगाः ।
न शत्रुव्याधिचौराद्याः शून्यस्थानाशितुं क्षमाः ॥ २६८॥
जीवेन स्थापयेद्वायुं जीवेनारम्भयेत्पुनः ।
जीवेन क्रीडते नित्यं द्युते जयति सर्वदा ॥ २६९॥
स्वरज्ञानीबलादग्रे निष्फलं कोटिधा भवेत् ।
इहलोके परत्रापि स्वरज्ञानी बली सदा ॥ २७०॥
दशशतायुतं लक्षं देशाधिपबलं क्वचित् ।
शतक्रतु सुरेन्द्राणां बलं कोटिगुणं भवेत् ॥ २७१॥
देव्युवाच ।
परस्परं मनुष्याणां युद्धे प्रोक्तो जयस्त्वया ।
यमयुद्धे समुत्पन्ने मनुष्याणां कथं जयः ॥ २७२॥
ईश्वरोवाच ।
ध्यायेद्देवं स्थिरो जीवं जुहुयाज्जीव सङ्गमे ।
इष्टसिद्धिर्भवेत्तस्य महालाभो जयस्तथा ॥ २७३॥
निराकारात्समुत्पन्नं साकारं सकलं जगत् ।
तत्साकारं निराकारज्ञाने भवति तत्क्षणात् ॥ २७४॥
अथ वशीकरणप्रकरणम् ।
श्रीदेव्युवाच ।
नरयुद्धं यमयुद्धं त्वया प्रोक्तं महेश्वर ।
इदानीं देवदेवानां वशीकारणकं वद ॥ २७५॥
ईश्वरोवाच ।
चन्द्रं सूर्येण चाकृष्य स्थापयेज्जीवमण्डले ।
आजन्मवशगा रामा कथितेयं तपोधनैः ॥ २७६॥
जीवेन गृह्यते जीवो जीवो जीवस्य दीयते ।
जीवस्थाने गतो जीवो बाला जीवान्तकारकः ॥ २७७॥
रात्र्यन्तयामवेलायां प्रसुप्ते कामिनिजने ॥
ब्रह्मजीवं पिबेद्यस्तु बालाप्राणहरो नरः ॥ २७८॥
अष्टाक्षरं जपित्वा तु तस्मिन् काले गते सति ।
तत्क्षणं दीयते चन्द्रो तु मोहमायाति कामिनी ॥ २७९॥
शयने वा प्रसङ्गे वा युवत्यालिङ्गनेऽपि वा ।
यः सूर्येण पिबेच्चन्द्रं स भवेन्मकरध्वजः ॥ २८०॥
शिव आलिङ्ग्यते शक्त्या प्रसङ्गे दक्षिणेऽपि वा ।
तत्क्षणाद्दापयेद्यस्तु मोहयेत्कामिनीशतम् ॥ २८१॥
सप्त नव त्रयः पञ्च वारान्सङ्गस्तु सूर्यभे ।
चन्द्रे द्वितुयषट्कृत्वा वश्या भवति कामिनी ॥ २८२॥
सूर्यचन्द्रौ समाकृष्य सर्पाक्रान्त्याऽधरोष्ठयोः ।
महापद्मे मुखं स्पृष्ट्वा वारं वारमिदं चरेत् ॥ २८३॥
आप्राणामिति पद्मस्य यावन्निद्रावशं गता ।
पश्चाज्जागृति वेलायां चोष्यते गलचक्षुषी ॥ २८४॥
अनेन विधिना कामी वशयेत्सर्वकामिनीः ।
इदं न वाच्यमस्मिन्नित्याज्ञा परमेश्वरि ॥ २८५॥
अथ गर्भप्रकरणम् ।
ऋतुकालभवा नारी पञ्चमेऽह्नि यदा भवेत् ।
सूर्यचन्द्रमसोर्योगे सेवनात्पुत्र सम्भवः ॥ २८६॥
शङ्खवल्लीं गवां दुग्धे पृथ्व्यापो वहते यदा ।
भर्तुरेव वदेद्वाक्यं गर्भं देहि त्रिभिर्वचः ॥ २८७॥
ऋतुस्नाता पिबेन्नारी ऋतुदानं तु योजयेत् ।
रूपलावण्यसम्पन्नो नरसिंहः प्रसूयते ॥ २८८॥
सुषुम्ना सूर्यवाहेन ऋतुदानं तु योजयेत् ।
अङ्गीनः पुमान्यस्तु जायते त्रासविग्रहः ॥ २८९॥
विषमाङ्के दिवारात्रौ विषमाङ्के दिनाधिपः ।
चन्द्रेनेत्राग्नितत्त्वेषु वन्ध्या पुत्रमवाप्नुयात् ॥ २९०॥
ऋत्वारम्भे रविः पुंसां स्त्रीणां च सुधाकरः ।
उभयोः सङ्गमे प्राप्तो वन्ध्या पुत्रमवाप्नुयात् ॥ २९१॥
ऋत्वारम्भे रविः पुंसां शुक्रान्ते च सुधाकरः ।
अनेन क्रमयोगेन नादत्ते दैवदारुकम् ॥ २९२॥
चन्द्रनाडी यदा प्रश्ने गर्भे कन्या तदा भवेत् ।
सूर्यो भवेत्तदा पुत्रो द्वयोर्गर्भो विहन्यते ॥ २९३॥
पृथ्व्यां पुत्री जले पुत्रः कन्यका तु प्रभञ्जने ।
गर्भपातस्तेजसि स्यान्नभस्यपि नपुंसकः ॥ २९४॥
चन्द्रे स्त्री पुरुषः सूर्ये मध्यमार्गे नपुंसकः ।
गर्भप्रश्ने यदा दूतः पूर्णे पुत्रः प्रजायते ॥ २९५॥
शून्ये शून्यं युगे युग्मं गर्भपातश्च सङ्क्रमे ।
तत्त्ववित्स विजानीयात्कथितं तत्तु सुन्दरि ॥ २९६॥
गर्भाधानं मारुते स्याच्च दुःखी दिक्षु ख्यातो वारुणे सौख्ययुक्तः ।
गर्भस्रावः स्वल्पजीवश्च वह्नौ भोगी भव्यः पार्थिवेनार्थयुक्तः ॥ २९७॥
धनवान्सौख्ययुक्तश्च भोगवानर्थसंस्थितिः ।
स्यान्नित्यं वारुणे तत्त्वे व्योम्नि गर्भो विनश्यति ॥ २९८॥
माहेन्द्रे सुसुतोत्पत्तिर्वारुणे दुहिता भवेत् ।
शेषेषु गर्भहानिः स्याज्जातमात्रस्य वा मृतिः ॥ २९९॥
रविमध्यगतश्चन्द्रश्चन्द्रमध्यगतो रविः ।
ज्ञातव्यं गुरुतः शीघ्रं न वेदशास्त्रकोटिभिः ॥ ३००॥
अथ संवत्सरफलकथनम् ।
चैत्रशुक्लप्रतिपदि प्रातस्तत्त्वविभेदतः ।
पश्येद्विचक्षणो योगी दक्षिण चोत्तरायणे ॥ ३०१॥
चन्द्रोदयस्य वेलायां वहमानोऽत्र तत्त्वतः ।
पृथिव्यापस्तथा वायुः सुभिक्षं सर्वसस्यजम् ॥ ३०२॥
तेजोव्योम्नोर्भयं घोरं दुर्भिक्षं कालतत्त्वतः ।
एवं तत्त्वफलं ज्ञेयं वर्षे मासे दिनेष्वपि ॥ ३०३॥
मध्यमा भवति क्रूरा दुष्टा सर्वेषु कर्मसु ।
देशभङ्गमहारोगक्लेषकष्टादिदुःखदा ॥ ३०४॥
मेषसङ्क्रान्तिवेलायां स्वरभेदं विचारयेत् ।
संवत्सरफलं ब्रूयाल्लोकानां तत्त्वचिन्तकः ॥ ३०५॥
पृथिव्यादिकतत्त्वेन दिनमासाब्दजं फलम् ।
शोभनं च यथा दुष्टं व्योममारुतवह्निभिः ॥ ३०६॥
सुभिक्षं राष्ट्रवृद्धिः स्याद्बहुसस्या वसुन्धरा ।
बहुवृष्टिस्तथा सौख्यं पृथ्वीतत्त्वं वहेद्यदि ॥ ३०७॥
अतिवृष्टिः सुभिक्षं स्यादारोग्यं सौख्यमेव च ।
बहुसस्या तथा पृथ्वी अप्तत्त्वं वहेद्यदि ॥ ३०८॥
दुर्भिक्षं राष्ट्रभङ्गः स्यादुत्पत्तिश्च विनश्यति ।
अल्पादल्पतरा वृष्टिरग्नितत्त्वं वहेद्यदि ॥ ३०९॥
उत्पातोपद्रवाः भीतिरल्पा वृष्टिस्युरीतयः ।
मेषसङ्क्रान्तिवेलायां वायुतत्त्वं वहेद्यदि ॥ ३१०॥
मेषसङ्क्रान्तिवेलायां व्योमतत्त्वं वहेद्यदि ।
तत्रापि शून्यता ज्ञेया सस्यादीनां सुखस्य च ॥ ३११॥
पूर्णप्रवेशने श्वासे सस्यं तत्त्वेन सिद्ध्यति ।
सूर्यचन्द्रेऽन्यथाभूते सङ्ग्रहः सर्वसिद्धिदः ॥ ३१२॥
विषमे वह्नितत्त्वं स्याज्ज्ञायते केवलं नभः ।
तत्कुर्याद्वस्तुसङ्ग्राहो द्विमासे च महर्घता ॥ ३१३॥
रवौसङ्क्रमते नाडी चन्द्रमन्ते प्रसर्पिता ।
खानिले वह्नियोगेन रौरवं जगतीतले ॥ ३१४॥
अथ रोगप्रकरणम् ।
महीतत्त्वे स्वरोगश्च जले च जलमातृतः ।
तेजसी खेटवाटीस्था शाकिनीपितृदोषतः ॥ ३१५॥
आदौ शून्यागतो दूतः पश्चात्पूर्णे विशेद्यदि ।
मूर्च्छितोऽपि ध्रुवं जीवेद्यदर्थ प्रतिपृच्छति ॥ ३१६॥
यस्मिन्नङ्गे स्थितो जीवस्तत्रस्थः परिपृच्छति ।
तदा जीवति जीवोऽसौ यदि रोगैरुपद्रुतः ॥ ३१७॥
दक्षिणेन यदा वायुर्दूतो रौद्राक्षरो वदेत् ।
तदा जीवति जीवोऽसौ चन्द्रे समफलं भवेत् ॥ ३१८॥
जीवाकारञ्च वा धृत्वा जीवाकारं विलोक्य च ।
जीवास्थो जीवितप्रश्ने तस्य स्याज्जीवितं फलम् ॥ ३१९॥
वामाचारे तथा दक्षप्रवेशे यत्र वाहने ।
तत्रस्थः पृच्छते दूतस्तस्य सिद्धिर्न संशयः ॥ ३२०॥
प्रश्ने चाधःस्थितो जीवो नूनं जीवो हि जीवति ।
ऊर्ध्वचारस्थितो जीवो जीवो याति यमालयम् ॥ ३२१॥
विपरीताक्षरप्रश्ने रिक्तायां पृच्छको यदि ।
विपर्ययं च विज्ञेयं विषमस्योदये सति ॥ ३२२॥
चन्द्रस्थाने स्थितो जीवः सूर्यस्थाने तु पृच्छकः ।
तदा प्राणवियुक्तोऽसौ यदि वैद्यशतैर्वृतः ॥ ३२३॥
पिङ्गलायां स्थितो जीवो वामे दूतस्तु पृच्छति ।
तदाऽपि म्रियते रोगी यदि त्राता महेश्वरः ॥ ३२४॥
एकस्य भूतस्य विपर्ययेण रोगाभिभूतिर्भवतीह पुंसाम् ।
तयोर्द्वयोर्बन्धुसुहृद्विपत्तिः पक्षद्वये व्यत्ययतो मृतिः स्यात् ॥ ३२५॥
अथ कालप्रकरणम् ।
मासादौ चैव पक्षादौ वत्सरादौ यथाक्रमम् ।
क्षयकालं परीक्षेत वायुचारवशात्सुधीः ॥ ३२६॥
पञ्चभूतात्मकं दीपं शिवस्नेहेन सिञ्चितम् ।
रक्षयेत्सूर्यवातेन प्राणी जीवः स्थिरो भवेत् ॥ ३२७॥
मारुतं बन्धयित्वा तु सूर्यं बन्धयते यदि ।
अभ्यासाज्जीवते जीवः सूर्यकालेऽपि वञ्चिते ॥ ३२८॥
गगनात्स्रवते चन्द्र कायपद्मानि सिञ्चयेत् ।
कर्मयोगसदाभ्यासैरमरः शशिसंश्रयात् ॥ ३२९॥
शशाङ्कं वारयेद्रात्रौ दिवा वार्यो दिवाकरः ।
इत्यभ्यासरतो नित्यं स योगी नात्र संशयः ॥ ३३०॥
अहोरात्रे यदैकत्र वहते यस्य मारुतः ।
तदा तस्य भवेन्मृत्युः सम्पूर्णे वत्सरत्रये ॥ ३३१॥
अहोरात्रद्वयं यस्य पिङ्गलायां सदा गतिः ।
तस्य वर्षद्वयं प्रोक्तं जीवितं तत्त्ववेदिभिः ॥ ३३२॥
त्रिरात्रं वहते यस्य वायुरेकपुटे स्थितः ।
तदा संवत्सरायुस्तं प्रवदन्ति मनीषिणः ॥ ३३३॥
रात्रौ चन्द्रो दिवा सूर्यो वहेद्यस्य निरन्तरम् ।
जानीयात्तस्य वै मृत्युः षण्मासाभ्यन्तरे भवेत् ॥ ३३४॥
लक्ष्यं लक्षति लक्षणेन सलिले भानुर्यदा दृश्यते
क्षीणो दक्षिणपश्चिमोत्तरपुरः षट्त्रिद्विमासैकतः ।
मध्यं छिद्रमिदं भवेद्दशदिनं धूमाकुलं तद्दिने
सर्वैज्ञैरभिभाषितं मुनिवरैरायुः प्रमाणं स्फुटम् ॥ ३३५॥
दूतः कृष्णकषायकृष्णवसनो दन्तक्षतो मुण्डित-
स्तैलाभ्यक्तशरीररज्जुकरो दीनश्च पूर्णोत्तरः ।
भस्माङ्गारकपालपाशमुसली सूर्यास्तमायाति यः
कालीशून्यपदस्थितो गदयुतःकालानलस्याहतः(दृत)॥ ३३६॥
अकस्मातच्चित्तविकृतिरकस्मात्पुरुषोत्तमः ।
अकस्मादिन्द्रियोत्पातः सन्निपाताग्रलक्षणम् ॥ ३३७॥
शरीरं शीतलं यस्य प्रकृतिर्विकृता भवेत् ।
तदरिष्टं समासेन व्यासतस्तु निबोध मे ॥ ३३८॥
दुष्टशब्देषु रमते शुद्धशब्देषु चाप्यति ।
पश्चात्तापो भवेद्यस्य तस्य मृत्युर्न संशयः ॥ ३३९॥
हुङ्कारः शीतलो यस्य फुत्कारो वह्निसन्निभः ।
महावैद्यो भवेत्तस्य तस्य मृत्युर्भवेद्ध्रुवम् ॥ ३४०॥
जिह्वां विष्णुपदं ध्रुवं सुरपदं सन्मातृकामण्डल-
मेतान्येवमरुन्धतीममृतगुं शुक्रं ध्रुवं वा क्षणम् ।
एतेष्वेकमपि स्फुटं न पुरुषः पश्येत्पुरः प्रेषितः
सोऽवश्यं विशतीह कालवदनं संवत्सरादूर्ध्वतः ॥ ३४१॥
अरश्मिबिम्बं सूर्यस्य वह्नेः शीतांशुमालिनः ।
दृष्ट्वैकादशमासायुर्नरश्चोर्ध्वं न जीवति ॥ ३४२॥
वाप्यां पुरीषमूत्राणि सुवर्णं रजतं तथा ।
प्रत्यक्षमथवा स्वप्ने दशमासान्न जीवति ॥ ३४३॥
क्वचित्पश्यति यो दीपं सुवर्णं च कषान्वितम् ।
विरूपाणि च भूतानि नवमासान्न जीवति ॥ ३४४॥
स्थूलाङ्गोऽपि कृशः कृशोऽपि सहसा स्थूलत्वमालभ्यते
प्राप्तो वा कनकप्रभां यदि भवेत्क्रूरोऽपि कृष्णच्छविः ।
शूरो भीरुसुधीरधर्मनिपुणः शान्तो विकारी पुमा-
न्नित्येवं प्रकृतिः प्रयाति चलनं मासाष्टकं जीवति ॥ ३४५॥
पीडा भवेत्पाणितले च जिह्वा-
मूले तथा स्याद्रुधिरं च कृष्णम् ।
विद्धं न स (च)ग्लायति यत्र दृष्ट्या
जीवेन्मनुष्यः स हि सप्तमासान् ॥ ३४६॥
मध्याङ्गुलीनां त्रितयं न वक्रं
रोगं विना शुष्यति यस्य कण्ठः ।
मुहुर्मुहुः प्रश्नवशेन जाड्यात्-
षड्भिः स मासैः प्रलयं प्रयाति ॥ ३४७॥
न यस्य स्मरणं किञ्चिद्विद्यते स्तनचर्माणि ।
सोऽवश्यं पञ्चमे मासे स्कन्धारूढो भविष्यति ॥ ३४८॥
यस्य न स्फुरति ज्योतिः पीड्यते नयनद्वयम् ।
मरणं तस्य निर्दिष्टं चतुर्थे मासे निश्चितम् ॥ ३४९॥
दन्ताश्च वृषणौ यस्य न किञ्चिदपि पीड्यते ।
तृतीयं मासमावश्यं कालाज्ञायां भवेन्नरः ॥ ३५०॥
अथ छायापुरुषकथनम् ।
कालो दूरस्थितो वाऽपि येनोपायेन लक्ष्यते ।
तं वदामि समासेन यथाऽऽदिष्टं शिवागमे ॥ ३५१॥
एकान्तं विजनं गत्वा कृत्वाऽऽदित्यं च पृष्ठतः ।
निरीक्षयेन्निजच्छायां कण्ठदेशे समाहितः ॥ ३५२॥
ततश्चाकाशमीक्षेत ह्रीं परब्रह्मणे नमः ।
अष्टोत्तरशतं जप्त्वा ततः पश्यति शङ्करम् ॥ ३५३॥
शुद्धस्फटिकसङ्काशं नानारूपधरं हरम् ।
षण्मासाभ्यासयोगेन भूचराणां पतिर्भवेत् ।
वर्षद्वयेन ते नाथ कर्त्ता हर्त्ता स्वयं प्रभुः ॥ ३५४॥
त्रिकालज्ञत्वमाप्नोति परमानन्दमेव च ।
सतताभ्यासयोगेन नास्ति किञ्चित्सुदुर्लभम् ॥ ३५५॥
तद्रूपं कृष्णवर्णं यः पश्यति व्योम्नि निर्मले ।
षण्मासान्मृत्युमाप्नोति स योगी नात्र संशयः ॥ ३५६॥
पीते व्याधिं भयं रक्ते नीले हानिं च विनिर्दिशेत् ।
नानावर्णोऽथ चेत्तस्मिन्सिद्धश्च गीयते महान् ॥ ३५७॥
पदे गुल्फे च जठरे विनाशः क्रमशो भवेत् ।
विनश्यतो यदा बाहू स्वयं तु म्रियते ध्रुवम् ॥ ३५८॥
वामबाहुस्तथा भार्या नश्यतेति न संशयः ।
दक्षिणे बन्धुनाशो हि मृत्युं मासं विनिर्दिशेत् ॥ ३५९॥
अशिरो मासमरणं विना जङ्घं दिनाष्टकम् ।
अष्टाभिः स्कन्धनाशेन छायालोपेन तत्क्षणात् ॥ ३६०॥
प्रातः पृष्ठगते रवौ च निमिषाच्छायाङ्गुलीश्चाधरं
दृष्ट्वाऽर्धेन मृतिस्त्वनन्तरमहो छायां नरः पश्यति ।
तत्कर्णांसकरास्य पार्श्वहृदयाभावे क्षणार्धात्स्वयं
दिङ्मूढो हि नरःशिरोविगमतो मासांस्तु षड्जीवति ॥ ३६१॥
अथ आसन्नमृत्युलक्षणनिरूपणम् ।
एकादिषोडशाहानि यदि भानुर्निरन्तरम् ।
वहेद्यस्य च वै मृत्युः शेषाहेन मासिकः(के)॥ ३६२॥
सम्पूर्णं वहते सूर्यश्चन्द्रमां नैव दृश्यते ।
पक्षेण जायते मृत्युः कालज्ञेनान भाषितम् ॥ ३६३॥
मूत्रं पुरीषं वायुश्च समकालं प्रवर्तते ।
तदाऽसौ चलितो ज्ञेयो दशाह्ने म्रियते ध्रुवम् ॥ ३६४॥
सम्पूर्णं वहते चन्द्रः सूर्यो नैव च दृश्यते ।
मासेन जायते मृत्युः कालज्ञेनान भाषितम् ॥ ३६५॥
अरुन्धतीं ध्रुवं चैव विष्णोस्त्रीणि पदानि च ।
आयुर्हीना न पश्यन्ति चतुर्थं मातृमण्डलम् ॥ ३६६॥
अरुन्धती भवेज्जिह्वा ध्रुवो नासाग्रमेव च ।
भ्रुवौ विष्णुपदं ज्ञेयं तारकं मातृमण्डलम् ॥ ३६७॥
नव भ्रुवं सप्त घोषं पञ्च तारां त्रिनासिकाम् ।
जिह्वामेकदिनं प्रोक्तं म्रियते मानवो ध्रुवम् ॥ ३६८॥
कोणावक्ष्णोरङ्गुलिभ्यां किञ्चित्पीड्य निरीक्षयेत् ।
(कोणावक्ष्णोरङ्गुलिभ्यां किञ्चिदापीड्य लोकयेत् ।)
यदा न दृश्यते बिन्दुर्दशाहेन भवेन्मृतिः ॥ ३६९॥
तीर्थस्नानेन दानेन तपसा सुकृतेन च ।
जपैर्ध्यानेन योगेन जायते कालवञ्चना ॥ ३७०॥
शरीरं नाशयन्त्येते दोषा धातुमलास्तथा ।
समस्तु वायुर्विज्ञेयो बलतेजोविवर्धनः ॥ ३७१॥
रक्षणीयस्ततो देहो यतो धर्मादिसाधनम् ।
अथ योगप्रकरणम् ।
योगाभ्यासात्वमायान्ति साधुजप्यास्तु साध्यताम् ।
असाध्याञ्जीवितं घ्नन्ति न तत्रास्ति प्रतिक्रिया ॥ ३७२॥
येषां हृदि स्फुरति शाश्वतमद्वितीयं
तेजस्तमोनिवहनाशकरं रहस्यम् ।
तेषामखण्डशशिरम्यसुकान्तिभाजां
स्वप्नेऽपि नो भवति कालभयं नराणाम् ॥ ३७३॥
इडा गङ्गेति विज्ञेया पिङ्गला यमुना नदी ।
मध्ये सरस्वतीं विद्यात्प्रयागादिसमं तथा ॥ ३७४॥
आदौ साधनमाख्यातं सद्यः प्रत्ययकारकम् ।
बद्धपद्मासनो योगी बन्धयेदुड्डियानकम् ॥ ३७५॥
पूरकः कुम्भकश्चैव रेचकश्च तृतीयकः ।
ज्ञातव्यो योगिभिर्नित्यं देहसंशुद्धिहेतवे ॥ ३७६॥
पूरकः कुरुते धृष्टिं धातुसाम्यं तथैव च ।
कुम्भकः स्तम्भनं कुर्याज्जीवरक्षाविवर्द्धनम् ॥ ३७७॥
रेचको हरते पापं कुर्याद्योगपदं व्रजेत् ।
पश्चात्सङ्ग्रामवत्तिष्ठेल्लयबन्धं च कारयेत् ॥ ३७८॥
कुम्भयेत्सहजं वायुं यथाशक्ति प्रकल्पयेत् ।
रेचयेच्चन्द्रमार्गेण सूर्येणापूरयेत्सुधीः ॥ ३७९॥
चन्द्रं पिबति सूर्यश्च सूर्यं पिबति चन्द्रमाः ।
अन्योन्यकालभावेन जीवेदाचन्द्रतारकम् ॥ ३८०॥
स्वीयाङ्गे वहते नाडी तन्नाडीरोधनं कुरु ।
मुखबन्धममुञ्चन्वै पवनं जायते युवा ॥ ३८१॥
मुखनासाक्षिकर्णान्तानङ्गुलीभिर्निरोधयेत् ।
तत्त्वोदयमिति ज्ञेयं षण्मुखीकरणं प्रियम् ॥ ३८२॥
तस्य रूपं गतिः स्वादो मण्डलं लक्षणं त्विदम् ।
स वेत्ति मानवो लोके संसर्गादपि मार्गवित् ॥ ३८३॥
निराशो निष्कलो योगी न किञ्चिदपि चिन्तयेत् ।
वासनामुन्मनां कृत्वा कालं जयति लीलया ॥ ३८४॥
विश्वस्य वेदिकाशक्तिर्नेत्राभ्यां परिदृश्यते ।
तत्रस्थं तु मनो यस्य याममात्रं भवेदिह ॥ ३८५॥
तस्यायुर्वर्धते नित्यं घटिकात्रयमानतः ।
शिवेनोक्तं पुरा तन्त्रे सिद्धस्य गुणगह्वरे ॥ ३८६॥
बद्ध्वा पद्मासनं ये गुदगतपवनं सन्निरुद्ध्यामुमुच्चैस्तं
तस्यापानरन्ध्रक्रमजितमनिलप्राणशक्त्यानिरुद्ध्य ।
एकीभूतं सुषुम्नाविवरमुपगतं ब्रह्मरन्ध्रं च नीत्वा
निक्षिप्याकाशमार्गे शिवचरणरता यान्ति ते केऽपि धन्याः ॥ ३८७॥
एतज्जानाति यो योगी एतत्पठति नित्यशः ।
सर्वदुःखविनिर्मुक्तो लभते वाञ्छितं फलम् ॥ ३८८॥
अथ स्वरज्ञानप्रशंसा ।
स्वरज्ञानं नरे यत्र लक्ष्मीपादतले भवेत् ।
सर्वत्र च शरीरेऽपि सुखं तस्य सदा भवेत् ॥ ३८९॥
प्रणवः सर्ववेदानां ब्राह्मणो भास्करो यथा ।
मृत्युलोके तथा पूज्यः स्वरज्ञानी पुमानपि ॥ ३९०॥
नाडीत्रयं विजानाति तत्त्वज्ञानं तथैव च ।
नैव तेन भवेत्तुल्यं लक्षकोटिरसायनम् ॥ ३९१॥
एकाक्षरप्रदातारं नाडीभेदविवेचकम् ।
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वाचानृणं भवेत् ॥ ३९२॥
स्वरतत्त्वं तथा युद्धं देवि वश्यं स्त्रियस्तथा ।
गर्भाधानं च रोगश्च कलार्धनैव मुच्यते ॥ ३९३॥
एवं प्रवर्तितं लोके प्रसिद्धं सिद्धयोगिभिः ।
चन्द्रार्कग्रहणे जाप्यं पठतां सिद्धिदायकम् ॥ ३९४॥
स्वस्थाने तु समासीनो निद्रां चाहारमल्पकम् ।
चिन्तयेत्परमात्मानं यो वेद स भविष्यति ॥ ३९५॥
इत्युमामहेश्वरसंवादे स्वरोदयज्ञानं सम्पूर्णम् ।
Proofread by Ruma Dewan