शिवतत्त्वविमर्शः

शिवतत्त्वविमर्शः

॥ नमः परमशिवाय ॥ महादेवं दिव्यं सकलभवसारं शरणदं जनः को जानीते निजहृदयगं विश्ववपुषम् । ततः शम्भुर्भूयाद्भुजगपतिहारेन्दुमुकुट- स्त्रिनेत्रो गौरीशो विमलमतिदो नेत्रपथगः ॥ नासीदृशस्त्वं न च तादृशस्त्वं त्वं कीदृशोऽसीत्यनुयोगशून्यः । त्वं यादृशोऽसीत्यपि नैव वक्तुं योग्योसि शम्भो ! त्वमसि त्वमेव ॥ अत्र तत्र च सर्वत्र सदेदानीं यदा तदा । त्वमेवैकः सदा शम्भो ! विभासि विविधात्मकः ॥ दिव्याय देवाय दिगम्बराय निताय शुद्धाय महेश्वराय । रामेश्वरायाखिलविग्रहाय स्वात्मैव रोचेत शिवस्वरूपः ॥ ॥ अथ शिवतत्त्वविमर्शः ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ अथेति संस्पर्शविहीनतत्त्वे तदात्मके तत्प्रतिपादिके च । सदैकरूपेण विजृम्भमाणे प्रारम्भपर्यन्तकथा कथं स्यात् ॥ १॥ स्वस्मात्स्वयं समुद्भय स्वमलक्ष्यं विभासयन् । शब्दस्पन्दमयो धर्मः शिवस्यास्त्यहमात्मकः ॥ २॥ परावाक प्रोच्यते सैव शिवशक्तिरियं स्मृता । योगिनां स्वावमर्शः सः कृत्रिमाऽकृत्रिमात्मकः ॥ ३॥ अभिज्ञातः शिवो येन स्वस्वरूपतया दृढम् । तस्याऽकृत्रिम एवासौ भात्यन्यस्य तु कृत्रिमः ॥ ४॥ (पाठान्तर - कृत्रिमो मितयोगिनः)॥ इदानीमहमेवास्मि तदानीमहमेव च । अत्र तत्राप्यहं राजे मयि भेदो न विद्यते ॥ ५॥ जन्मकाले यथैवाहं मृत्युकालेऽप्यहं तथा । सुषुप्तावपि जागर्त्तौ मृये जाये यथैव हि ॥ ६॥ भदवासनया ग्रस्तं न भेदः क्वापि मुञ्चति । अभेदं पश्यतो भेदः स्वस्फुलिङ्ग इव स्थितः ॥ ७॥ ममतैका महाशत्रुः पुत्रदारगृहादिषु । बीजं तस्याः शरीरे या खप्राणबुद्धिगा पुरा ॥ ८॥ यो मूढः स्थूलभूतां तां त्यक्तुं नार्हति भिन्नगाम् । स कथं सूक्ष्मभूतां तां शून्यदेहादिगां त्यजेत् ॥ ९॥ शून्यप्रमातृतापन्नः क्रमाद्देहप्रमातृताम् । प्राप्याप्नोति च मूढत्वं पशुत्वं जन्ममृत्युदम् ॥ १०॥ यो धीरो गुरुतो ज्ञात्वा स्वात्मानं शिवमद्वयम् । मितप्रमातृतां हित्वा स्वं रूपमधितिष्ठति ॥ ११॥ स शिवोऽस्त्यत्र भूलोके पञ्चकृत्यपरायणः । सर्वात्मा सर्वकृच्चापि स्पृहावानपि निःस्पृहः ॥ १२॥ पञ्चकृत्यरतश्चापि नित्यानुग्रहरूपवान् । नरात्मादृश्यमानोऽपि चिदानन्दस्वरूपवान् ॥ १३॥ स्वरूपं शिवरूपं हि स्वप्रकाशमयं स्वयम् । अस्ति सिद्धं पुनस्तस्यापेक्षते मानमेव यत् ॥ १४॥ अस्ति तद्देहतादात्म्यवासनाशेष एव हि । देहोऽपि माययाऽनित्यः शङ्करस्यैव विद्यते ॥ १५॥ स्वात्मसिद्धः स्वयं पूर्णोऽद्वितीयोऽस्ति शिवः स्वराट् । अनन्तशक्तिसम्पन्नः शान्तोऽशान्त इव स्थितः ॥ १६॥ इत्येव निश्चयः कार्यः पौनःपुन्येन धीमता । नान्यो यत्नो गृहीतव्यः सिद्धस्वात्मोपलब्धये ॥ १७॥ ज्ञातुं द्रष्टुञ्च भवितुं यतन्ते ये त्वहर्निशम् । भ्राम्यन्तस्ते स्वयं चान्यान् भ्रामयन्ति भवेऽबुधाः ॥ १८॥ अशान्तोऽविद्यया भाति शान्तो विद्यात्मना स्थितः । विद्याऽविद्याविभागोऽपि प्रख्योपाख्यार्थमेव हि ॥ १९॥ विकल्पातीततत्त्वं तु ब्रह्म स्वात्माख्यमद्वयम् । वक्तुं न शक्यते भेदमन्तरा तु यतस्ततः ॥ २०॥ भेदः प्रकल्पिस्तत्र स्वस्वबुद्ध्यनुसारतः । ऋषिभिस्तत्र भेदेऽपि वैचित्र्यं बहुधा स्थितम् ॥ २१॥ यस्मादलक्ष्यरूपाद्धि स्पन्दो नित्योऽहमात्मकः । नित्यं प्रचलतीवास्ति सोऽहमस्मि सनातनः ॥ २२॥ नाहं देहोऽस्मि देहोऽयं मम भाति पृथक्स्थितः । देहोऽहमिति बुद्धिर्या साऽविद्याऽज्ञानमेव तत् ॥ २३॥ सदा विकासमापन्नः पूर्ण एवास्मि सर्वदा । सङ्कोचं नैव गृह्णामि ततो नाऽपूर्णता मयि ॥ २४॥ अलक्ष्योऽपीच्छयैवाहं विश्वं स्वस्मिन् विभावयन् । भुवनान्यप्यनन्तानि स्थितोऽस्म्यद्भुतशक्तिमान् ॥ २५॥ पश्यँश्च स्वात्मानमगभ्यमन्यैस्तृप्तिं परामाप्य पुनर्मितेऽस्मिन् । देहे वसन्नैव भजामि सर्वमद्वैत एवास्मि यतः सदाऽहम् ॥ २६॥ आत्मानमद्वैतमवैति कश्चिद्देहे वसन्नेव सुधीः स धन्यः । उग्रस्तपोभिः परिशुद्धचेताः संवित्तिदेव्यैव हि दीक्षितो यः ॥ २७॥ स्वात्मस्वरूपं नियतं न किञ्चित्तदिच्छ्या भाति यथेप्सितं तत् । शुद्धस्वरूपं स्वयमेव भाति अलक्ष्यमेवाहमिति प्रतीतम् ॥ २८॥ अविकल्पे स्थितो नित्ये व्यापके स्वात्मनि प्रभौ । पश्चात्पश्यति देहाश्च बहवः सन्ति मे स्थिताः ॥ २९॥ अत्र देहे यथैवास्मि परिच्छिन्ने मितात्मनि । अहं प्रज्ञः प्रभुत्वातोऽन्यत्राप्यस्मि तथैव हि ॥ ३०॥ दृढनिश्चयवानित्थं पश्यँश्चापि तथैव तु । न बिभेति न जानाति जन्ममृत्यु भयङ्करौ ॥ ३१॥ अपि देह इवान्यत्र देहस्थोऽपि भवत्ययम् । निजदेह इवान्यस्मिन् देहे कर्ता भवत्यसौ ॥ ३२॥ नाऽभ्यन्तरं यत्र न यत्र बाह्यं नोर्ध्वं न चाधो न च देशकालौ । उच्चावचं भाति निरञ्जनो योऽहं सो ह्यलक्ष्योऽपि सदैव लक्ष्यः ॥ ३३॥ अस्मिन्नेव वसन्देहे स्मरन्स्वातन्त्र्यमात्मनः । देहभासपरिच्छेदं हित्वाप्नोत्येव पूर्णताम् ॥ ३४॥ पूर्णभावमुपाश्रित्य यस्तिष्ठेत्सर्वदा पुमान् । स साक्षाच्छिव एवाऽस्ति दृश्यमानः पुमानपि ॥ ३५॥ सर्वत्र सर्वतः पूर्वं सर्वेच्छाज्ञानतः पुरा । त्वमसि व्यापको नित्यस्तिष्ठाऽहम्भाननिर्भरः ॥ ३६॥ तिष्ठेदम्भाननितर्लिप्तस्तिष्ठेदम्भाननिर्गतः । इदम्भानमना नाऽप्तुं शक्नुयादात्मवैभवम् ॥ ३७॥ (अहम्भानरतो योगी तन्नास्ति यद्धिनाप्नुयात्)॥ विकल्पनिर्ह्रासतया विभामि भामात्ररूपोऽहमिदंविहीनः । सत्येव तस्मिन्नहमेव सर्वमित्थं विजानँश्च महेश्वरोऽस्मि ॥ ३८॥ न यते भवितुं कश्चिन्नित्यं स्वात्मन्यवस्थितः । यतमानोऽनभिज्ञोऽस्ति प्राप्तीच्छादैन्यदुःखितः ॥ ३९॥ अभिज्ञातस्वरूपस्य स्वेच्छयैवात्मनात्मनि । देहात्मना स्थितस्यापि स्थितिः सद्यः प्रजायते ॥ ४०॥ नापेक्षते क्रियाज्ञानं स्वप्रकाशात्मनि स्थितौ । इच्छामात्रेण तत्रस्थो भवन्निव भवत्यपि ॥ ४१॥ स्वस्मिन्नेव सदा कार्या श्रद्धाभक्ती रतिः स्पृहा । एष मृत्युजयोपायो भोगमोक्षोभयप्रदः ॥ ४२॥ शिवाभिन्नः स्वात्मा सततमिह देहेऽप्यहमिति स्वशक्त्या व्यापिन्या प्रकटितशिवैश्वर्यमहिमा । निरातङ्को नित्यो जनिमृतिविकल्पेन रहितो निराकाङ्क्षो लोके विहरति च लोकाञ्छिवयितुम् ॥ ४३॥ देहात्माप्यस्म्यदेहात्मा मितोऽप्यमित एव तु । अमितोऽपि मितो भामि मितोऽप्यमित एव हि ॥ ४४॥ अविच्छिन्नोऽपि विच्छिन्नो विच्छिन्नोऽप्यस्म्यविच्छिदः । पूर्णोऽप्यपूर्णवद्भामि भाम्यपूर्णोऽपि विश्वभूः ॥ ४५॥ श्रुत्वेत्थं गुरुतो यस्तु सद्योऽवाप्नोति पूर्णताम् । पश्यत्यात्मानमेवं च सनैवाप्नोत्यपूर्णताम् ॥ ४६॥ जन्ममृत्युजराव्याधिरोगशोकसमन्वितः । देहोऽस्मि देहवाँश्चापि शिवः पूर्णोऽविकल्पितः ॥ ४७॥ पञ्चकृत्य स्वभावत्वात्सर्वं भाति मयि स्थितम् । नित्योऽनुग्रहरूपोऽस्मि सर्वभावप्रकाशदः ॥ ४८॥ सर्वतः प्रथमं सिद्धो भावाभावपदच्युतः । अस्म्यहं सर्वकृत्सर्वभानरूपो जगन्मयः ॥ ४९॥ स्वतः सिद्धोऽस्म्यहं नित्योऽहं विमर्शप्रकाशितः । हृदिस्थो व्यापकः स्वच्छः क्रियाकालानपेक्षकः ॥ ५०॥ देहोद्भूतां क्रियां चाहं न पश्यामि कदाचन । अहंविमर्शमेवैकं मन्त्रं नित्यं जपाम्यहम् ॥ ५१॥ प्रकाशमानतामात्रं रूपं स्वीयं शिवस्य मे । अहंविमर्शतो भानमन्तर्मुखतया स्थितम् ॥ ५२॥ मायाशक्त्या सदा भातीदन्तोल्लेखतया जगत् । प्रकामानं मतस्तद् मद्भिन्नं न हि भासते ॥ ५३॥ यत्किञ्चिद्भाति तत्पूर्वं पश्चादप्यस्म्यहं स्थितः । तत्कालेऽप्यस्मि तद्द्द्रष्टा त्रिकालाबाधितोऽस्म्यतः ॥ ५४॥ वर्तमाने वर्तमानः को न स्यात् सर्वशक्तिभाक् । भविष्यद्भुतचिन्ताप्तो विस्मृतात्मा न को भवेत् ॥ ५५॥ देहस्थ एवास्मि शिवोऽद्वितीयः स्वच्छः स्वतन्त्रोऽविकृतस्वभावः । स्वातन्त्र्यशक्तिर्नहि देहनिष्ठा स्पन्दात्मिका सा मयि पूर्णशक्तिः ॥ ५६॥ यत् कर्तुमिच्छामि तथैव सद्यः सम्पादयन्नस्म्यहमीशकल्पः । स्वाभिज्ञयैवास्म्यहमीशधर्मा संवित्तिदेव्यास्मि कृताभिषेकः ॥ ५७॥ पूर्णः सदैवास्म्यभिलाषशून्यो देहाद्यहन्तारहितोऽस्मि नित्यः । कृत्येषु पञ्चस्वभिमानहीनो ब्रह्मात्मजीवात्मशिवोऽद्वितीयः ॥ ५८॥ परिज्ञातस्त्वात्मा विमलतम एकोऽपरिमितः सदा लक्ष्यो नित्यो वशति हृदये विष्ठित इव । विकल्पस्तस्येदं निखिलजगदस्तीति विमृशन् कथं कश्चिद्धीरो भवति च भवे दुःखभरितः ॥ ५९॥ स्वस्थस्य सर्वदा स्वास्थ्यं नित्यं देहेऽपि तिष्ठति । अस्वस्थस्य तु यत् स्वास्थ्यं तदनित्यं भयङ्करम् ॥ ६०॥ जातोऽस्म्यहं मरिष्येऽपीत्येवं ते या दृढा मतिः । देहात्मता दृढा सास्ति यथा सत्या तथैव तु ॥ ६१॥ (स्वात्मन्यपि दृढा प्रज्ञा कार्या नित्ये त्वया सदा )॥ जायते म्रियते देहो नाहं जाये मियेऽपि न । परिणामी सदा देहोऽपरिणामी त्वहं सदा ॥ ६२॥ उद्धूयोद्भूय लीयन्ते शक्तयो विविधा मम । ताभिः किं विक्रियामेमि स्वोर्मिभिश्च सुधाम्बुधिः ॥ ६३॥ अलक्ष्यं लक्षितुं नेच्छा सिद्धं साधयितुं न हि । नित्यं नित्यतया पश्यन् हृष्यन्नस्मि महुर्मुहुः ॥ ६४॥ स्थित एव स्थितिं काञ्चित् वाञ्छन् स्वीयां स्थितिं त्यजन् । क्लिश्नासि सततं व्यर्थं तिष्ठ स्वस्मिन् सदा सुखी ॥ ६५॥ स्थित एव स्वरूपे स्वे वाञ्छन् काञ्चित् स्थितिं पुनः । त्यजन् सिद्धां स्थितिं स्वीयां किं क्लिश्नासि मुहुर्मुहुः ॥ ६६॥ अनीदृशे स्वरूपे स्वे नित्यसिद्धेऽनपेक्षिते । अहमस्मीति विज्ञाते तिष्ठह्लादसुनिर्भरः ॥ ६७॥ ईशं चिदानन्दघनं स्मरामि स्वात्मस्वरूपं जगदेकबीजम् । नाहं श्रये विश्वमिदं निकृष्टं घृणास्पदं लीनमनाः स्वरूपे ॥ ६८॥ चिदानन्दघनः शोभे विश्वातीतपदे स्थितः । विश्वं देहात्मकं नाहं पश्यन्नपि विभावये ॥ ६९॥ अवगच्छामि यद्यत्त ततदस्ति न किञ्चन । भाति भूत्वा क्षणं स्थित्वा गच्छत्येव न तिष्ठति ॥ ७०॥ व्यापकत्वादयो धर्माः सन्ति यावन्त ईश्वरे । तावन्तस्तत्प्रदेशैऽपि कल्पिते देहतो मयि ॥ ७१॥ यथाकाशस्य ये धर्माः घटाकाशैऽपि सन्ति ते । तथा शिवस्य ये धर्माः सन्ति ते मयि संस्थिताः ॥ ७२॥ गमनागमने क्वापि स्पृहा मे नैव विद्यते । निश्चित्त इव निश्चिन्तः तिष्ठन् देहेऽस्मि जीवितः ॥ ७३॥ किं नास्मि चाहं किल कोऽस्म्यहं न कोऽहं न वाहं न मम क्रिया का । भुञ्जे न किं वा न विकल्पयामि नाधारभूतोऽस्मि च कस्य कस्य ॥ ७४॥ आत्मानात्मस्वरूपोऽहं मयि जीवज्जडात्मकः । भासकश्चापि भास्यात्मा जन्ममृत्युविवर्जितः ॥ ७५॥ अत्युत्तमश्चाप्यधमोऽहमेव महान् यशस्वी च कलङ्कयुक्तः । सर्वात्मकत्वादहमस्मि सर्व एकोऽप्यनेकोऽस्स्मि विभासमानः ॥ ७६॥ मित्रस्वरूपोऽप्यहमेव भामि शत्रुस्वरूपोऽप्यहमेव राजे । प्रशंसकोऽप्यस्मि च निन्दकरच स्वात्मस्वरूपोऽपि परस्वरूपः ॥ ७७॥ न दृश्यो नावधार्योऽहं स्मार्यश्चाप्यस्म्यहं न हि । सिद्धत्वान्न प्रमाणानां व्यापारो मम भासकः ॥ ७८॥ सर्वाधारं निराधारं सर्वमङ्गलकारकम् । वन्दे विशुद्धमात्मानं देव ! त्वां हृदयस्थितम् ॥ ७९॥ अरूपः सर्वरूपस्त्वं नित्याऽनित्यावभासकः । सर्वशक्तिसमापन्नः प्रसन्नस्त्वं सदा वस ॥ ८०॥ मायामोहाद्यसंस्पृष्टो मायामोहैकभूषणः । एकाकी बहवो भूत्वा नर्तकोऽसि स्थिरः सदा ॥ ८१॥ अभिन्नं वेत्ति यो विद्वान् स्वात्मानञ्च गुरुं शिवम् । तन्नौमि मुक्तमात्मानं विद्याऽविद्योभयात्मकम् ॥ ८२॥ यद् वाञ्छामि मुहुर्मुहुश्च भवितुं ज्ञातुं यतेऽहं च यद् । गाढं गाढमुपाहरामि सततं पूर्त्यै च यद्विभ्रमात् ॥ तत्सर्वं स्वविकल्पजालमधुना हित्वा स्वरूपं निजम् । शान्तं शश्वदुपैमि बोधममलं सत्यं शिवं सुन्दरम् ॥ ८३॥ यत्पश्यामि पुनः पुनः प्रतिदिनं बोद्धुं यतेऽहं च यद् आदानक्रिययाऽऽकलय्य यदहो स्थातुं चिरं चेष्टये । तत्सर्वं स्वविकल्पदर्शितमिदं स्वल्पं विनाशोन्मुखं हित्वात्मानमुपैमि शान्तममलं नित्यं शिवं निष्क्रियम् ॥ ८४॥ यद् यद्भाति मयि प्रकाशवपुषि स्वच्छे स्वतन्त्रेऽद्वये तत्तद्रपतया विभामि सततं देहात्मना संस्थितः । हित्वा कालकृताकृतेश्च कलनां तिष्ठन् स्वरूपे निजे सर्वाधारतयाऽथ सर्वरहितो भासेऽहमेवाद्वयः ॥ ८५॥ देहो नास्मि न चास्मि माननिवहः शून्योऽपि नैवास्म्यहं निर्बोधोऽस्मि निरजनोऽस्मि नितरां सिद्धोऽस्मि साध्यो न हि । शश्वच्छान्ति समावृतोऽस्मि नियतिव्यापारदूरे स्थितः पूर्णः पूर्णकलाभिहारनिरतः स्वच्छोऽस्मि निर्वासनः ॥ ८६॥ अस्म्येव यदहं नित्यं तद्भवन् भामि सर्वदा । शिवशक्त्यात्मको देवः स्थिरो नित्योऽहमद्वयः ॥ ८७॥ केचित् त्वामनिशं स्मरन्ति हृदये रामादिरूपं विभुं केचिज्ज्योतिरुपासते च सततं शान्तं परं चिन्निभम् । अन्ये ब्रह्म परं विदन्ति विषयव्यावृत्तचित्तास्त्वहं देव ! त्वामिह नित्यमेकमनघं पश्यामि सर्वात्मकम् ॥ ८८॥ विभाति यद्यत्तदहं विभाभि विभाम्यहं यत्तदिदं विभाति । विच्छिद्यमानं यदिदन्तया तत् विश्रान्तिमभ्येति मयि प्रकाशै ॥ ८९॥ आत्मा यत्रात्मनैवायं सर्वरूपेण भासते । उपादेयं च किं तत्र हेयमेवाथवा भवेत् ॥ ९०॥ असन्निवृत्तिं सदवाप्तिकामं करोमि नाहं निजलाभतुष्टः । न सन्नचासन्निजरूपमाद्यं विकल्पकल्लोललयाधिगम्यम् ॥ ९१॥ शिवोऽविकल्पितः स्वच्छः सर्वभावसुनिर्भरः । स्वात्मा मुक्तस्य मुक्तोऽपि शिव एवास्त्यसंशयः ॥ ९२॥ मेयं ज्ञेयं च मे रूपं न तत्त्याज्यं कदाचन । हेयोपेयमतिस्त्याज्या स्वात्मविश्रान्तिरोधिका ॥ ९३॥ समोऽस्मि विषमश्चाहमदेहो देहवानपि । अनित्यो नित्य एवास्मि क्रिया कारक एव च ॥ ९४॥ इत्थं निश्चय सम्प्राप्तः गाधागाधविवर्जितः । स्वरूपे सर्वदा तिष्ठन् लोके लोको न तिष्ठति ॥ ९५॥ एकः शिवः सर्वमयः (सर्ववपुः )समन्ताद् विद्योतमानो महतां हि दृष्टौ । येषां हि तेषां न हि जन्ममृत्यू (बन्धमोक्षौ) क्रीडास्थली संसृतिरेव नूनम् ॥ ९६॥ त्वमेव सर्वस्य हृदि स्फुरन्ती विश्वेऽपि विश्वार्थ (सर्वार्थ)विधानकत्री । अतोऽभिलष्यन्नपि कञ्चिदर्थं त्वामेव याचे न हि कञ्चिदन्यम् ॥ ९७॥ स्तुतः सर्वैर्देवैर्विविधवचसाभीष्टनिरतै- स्तथा लोकैर्भ्रान्तैः सुखमभिलषद्भिश्च बहुधा । स्तुतिव्याजैः शम्भुर्वत ! निजकृतौ तैस्तुनिहित- स्त्वहं सेवे देवं वरद ! वरवाञ्छाविरहितः ॥ ९८॥ त्वमेवैकः शम्भो ! भवविभवरूपोऽसि भगवन्- त्वमात्मा त्वं देवः सुहृदसुहृदौ मोक्षनिरयौ । क्रिया ज्ञानं ध्यानं त्वमसि सकलं तत्फलमहो स्वयं स्तोता स्तुत्यो भवसि परमानन्दवलितः ॥ ९९॥ देहप्रमातृतां त्यक्त्वा हित्वा बुद्धिप्रमातृतां प्राणप्रमातृता हेया हेया शून्यप्रमातृता । एवं मितात्मतां त्यक्त्वा दुःखाभासविधायिननीं अनिर्वाच्ये पदे स्वच्छे स्थेयं स्वस्मिंश्चिदात्मनि ॥ १००॥ लेभे जन्म सुदुर्लभं द्विजकुलेऽधीता च विद्याऽखिला ज्ञातं ज्ञेयमशैषतः समभवच्छान्तिर्भवे दुर्लभा । दत्तं ज्ञानमुपार्जितं च सकलं शिष्येभ्य एतन्मया पृथ्वि ! त्वं भव सुस्थिरा तव तमोदुष्टान्निहन्म्यासुरान् ॥ १०१॥ सर्वं यत्रास्ति सर्वत्र सर्वं सच्चैकमेव यत् । तस्मिन्नस्मिन्न्ननेकस्मिन्नेकस्मिन् वा क्रमः कुतः ॥ ॥ इति महामहोपाध्याय श्रीमदाचार्य श्री पण्डित रामेश्वर झा प्रणीतः शिवतत्त्वविमर्शः सम्पूर्णः ॥ Proofread by Ruma Dewan
% Text title            : Shivatattvavimarshah
% File name             : shivatattvavimarshaH.itx
% itxtitle              : shivatattvavimarshaH (paNDita rAmeshvara jhA praNItaH)
% engtitle              : shivatattvavimarshaH
% Category              : shiva, kAshmIrashaivadarshanam
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Pt. Rameshwar Jha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Indexextra            : (Scans 1, 2)
% Latest update         : August 19, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org