शिवेन ऋभुं प्रति सूत्रोपदेशः
श्रुणु पद्मजसम्भूत मत्तः सूत्रविधिक्रमम् ।
ज्ञानोत्पादकहेतूनि श्रुतिसाराणि तत्त्वतः ॥ २.१॥
व्यासा मन्वन्तरेषु प्रतियुगजनिताः शाम्भवज्ञानसिद्ध्यै
भस्माभ्यक्तसमस्तगात्रनिवहा रुद्राक्षमालाधराः ।
कैलासं समवाप्य शङ्करपदध्यानेन सूत्राण्युमा-
कान्तात्प्राप्य वितन्वते स्वकधिया प्रामाण्यवादानहो ॥ २.२॥
जिज्ञास्यं ब्रह्म एवेत्यथपदविदितैः साधनप्राप्त्युपायै-
र्योगैर्योगाद्युपायैर्यमनियममहासाङ्ख्यवेदान्तवाक्यैः ।
श्रोतव्यो भगवान्न रूपगुणतो मन्तव्य इत्याह हि वे-
दोद्बोधदवाक्यहेतुकरणैर्ध्येयः स साक्षात्कृतेः ॥ २.३॥
जन्माद्यस्य यतोऽस्य चित्रजगतो मिथ्यैव तत्कारणं
ब्रह्म ब्रह्मात्मनैव प्रकृतिपरमदो वर्तमानं विवर्तेत् ।
श्रुत्या युक्त्या यतो वा इतिपदघटितो बोधतो वक्ति शम्भुं
नाणुः कालविपाककर्मजनितेत्याचोदना वै मृषा ॥ २.४॥
योनिः शास्त्रस्य वेदस्तदुभयमननाद्ब्रह्मणः प्रत्यभिज्ञा
निःश्वासाद्वेदजालं शिववरवदनाद्वेधसा प्राप्तमेतत् ।
तस्मात्तर्कवितर्ककर्कशधिया नातिक्रमेत्तां धियं
स्वाम्नायक्रियया तदप्रकरणे योनिर्महेशो ध्रुवम् ॥ २.५॥
तत्त्वस्यापि समन्वयात्श्रुतिगिरां विश्वेश्वरे चोदना
सा चानिर्वचनीयतामुपगता वाचो निवृत्ता इति ।
आत्मैवैष इतीव वाक्यसुवृतिर्वृत्तिं विधत्ते धिया
वेदान्तादिषु एक एव भगवानुक्तो महेशो ध्रुवम् ॥ २.६॥
नासद्वा वीक्षते यज्जडमिति करणैर्गन्धरूपादिहीनं
शब्दस्पर्शादिहीनं जगदनुगतमपि तद्ब्रह्म किंरूपमीष्टे ।
गौणं चेदपि शब्दतो जगदिदं यन्नामरूपात्मकं
तच्चात्राविशदीश्वरोऽर्थवचसा मोक्षस्य निष्ठाक्रमः ॥ २.७॥
हेयत्वावचनाच्च तच्छ्रुतिगिरां स्थूलं प्रदृष्टं भवेद्
रूपं नारूपतोऽपि प्रकरणवचनं वा विकारः किलेदम् ।
स्वाप्यायादपि तद्वदापि परमानन्दो यदीत्थं परः
सामान्याच्च गतेरथाप्यनुभवे विद्योतते शङ्करः ॥ २.८॥
श्रुतत्वाद्वेदान्तप्रतिपदवचः कारणमुमा-
सनाथो नाथानां स च किल न कश्चिज्जनिभवः ।
स एवानन्दात्मा श्रुतिकथितकोशादिरहितो
विकारप्राचुर्यान्न हि भवति कार्यं च करणम् ॥ २.९॥
तद्धेतुव्यपदेशतोऽपि शिव एवेति चानन्दकृ-
न्मन्त्रैर्वर्णकृतक्रमेण भगवान्सत्याद्यनन्तोच्यते ।
नैरन्तर्यानुपपत्तितोऽपि सुखिता चानन्दभेदोऽर्थतः
कामाच्चाननुभावतो हृदि भिदा जायेद्भयं संसृतेः ॥ २.१०॥
पुच्छं ब्रह्म प्रतिष्ठितेति वचनाच्छेषी महेशोऽव्ययः ।
आकाशान्तरतोऽपि भौतिकहृदाकाशात्मता वाक्यतो
ब्रह्मैव प्रतिभाति भेदकलने चाकल्पना कल्पतः (नल्पतः)॥ २।११॥
सुषुप्त्युत्क्रान्त्योर्वा न हि खलु न भेदः परशिवे
अतोत्थानं द्वैते न भवति परे वै विलयने ।
तदर्हं यत्सूक्ष्मं जगदिदमनाकारमरसं
न गन्धं न स्पर्शं भवति परमेशे विलसितम् ॥ २.१२॥
अधीनञ्चार्थं तद्भवति पुनरेवेक्षणपरं
स्वतन्त्रेच्छा शम्भोर्न खलु करणं कार्यमपि न ॥ २.१३॥
ज्ञेयत्वावचनाच्च शङ्कर परानन्दे प्रमोदास्पदे
प्रज्ञानं न हि कारणं प्रकृतिकं प्रश्नत्रयस्यार्थवत् ।
न विज्ञेयं देहप्रविलयशतोत्थानगणना
स मृत्योर्मृत्युस्तद्भवति किल भेदेन जगतः ॥ २.१४॥
महद्वच्चाणीयो भवति च समो लोकसदृशा
तथा ज्योतिस्त्वेकं प्रकरणपरं कल्पितवतः ।
न सङ्ख्याभेदेन त्रिभुवनविभवादतिकरं
स्वभावोऽयं शश्वन्मुखरयति मोदाय जगताम् ॥ २.१५॥
प्राणादुद्गतपञ्चसङ्ख्यजनिता तद्वस्त्रिवच्च श्रुतं
तच्छ्रोत्रं मनसो न सिद्धपरमानन्दैकजन्यं महः ।
ज्योतिष्कारणदर्शिते च करणे सत्ता सदित्यन्वहं
चाकर्षा भवति प्रकर्षजनिते त्वत्तीति वाक्योत्तरम् ॥ २.१६॥
जाग्रत्त्वावचनेन जीवजगतोर्भेदः कथं कथ्यते
लिङ्गं प्राणगतं न चेश्वरपरं ज्योतिः किलैक्यप्रदम् ।
अन्यार्थत्वविवेकतोऽर्थगतिकं चाकल्पयद्वाक्यतः ।
प्रज्ञामित्यपरः क्रमस्थितिरसावन्यो वदन्तं मृषा ॥ २.१७॥
प्रकृत्यैवं सिद्धं भवति परमानन्दविधुरं
अभिध्योपादेशाद्भवति उभयाम्नायवचनैः ।
भवत्यात्मा कर्ता कृतिविरहितो योनिरपि च
प्रतिष्ठा निष्ठा च त्रिभुवनगुरुः प्रेमसदनः ॥ २.१८॥
अभिध्योपादेशात्स बहु भवदीक्षादिवशतः
समासा(भो)चोभाभ्यां प्रकृतिजसमाम्नायवचनात् ।
अतो ह्यात्मा शुद्धः प्रकृतिपरिणामेन जगतां
मृदीव व्यापारो भवति परिणामेषु च शिवः ॥ २.१९॥
आनन्दाभ्यासयोगाद्विकृतजगदानन्दजगतो
अतो हेतोर्धर्मो न भवति शिवः कारणपरः ।
हिरण्यात्माऽऽदित्येऽक्षिणि उदेतीह भगवा-
न्नतेश्चाधाराणां श्रवणवचनैर्गोपितधियः ॥ २.२०॥
भेदादिव्यपदेशतोऽस्ति भगवानन्यो भवेत्किन्ततः
आकाशादिशरीरलिङ्गनियमाद्व्याप्यं हि सर्वं ततः ।
तज्ज्योतिः परमं महेश्वरमुमाकान्ताख्यशान्तं महो
वेदान्तेषु नितान्तवाक्यकलने छन्दोऽभिधानादपि ॥ २.२१॥
भूतादिव्यपदेशतोऽपि भगवत्यस्मिन्महेशे ध्रुवं
यस्माद्भूतवराणि जायत इति श्रुत्याऽस्य लेशांशतः ।
विश्वं विश्वपतेरभूत्तदुभयं प्रामाण्यतो दर्शना-
त्प्राणस्यानुगमात्स एव भगवान्नान्यः पथा विद्यते ॥ २.२२॥
न वक्तुश्चात्मा वै स खलु शिवभूमादिविहितः
तथैवायुर्देहे अरनिवहवच्चक्रगमहो ।
अदृश्यो ह्यात्मा वै स हि सुदृशतः शास्त्रनिवहैः
शिवो देवो वामो मुनिरपि च सार्वात्म्यमभजत् ॥ २.२३॥
प्रसिद्धिः सर्वत्र श्रुतिषु विधिवाक्यैर्भगवतो
महाभूतैर्जातं जगदिति च तज्जादिवचनैः ।
अतोऽणीयाञ्ज्यायानपि द्विविधभेदव्यपगता
विवक्षा नोऽस्तीति प्रथयति गुणैरेव हि शिवः ॥ २.२४॥
सम्भोगप्राप्तिरेव प्रकटजगतः कारणतया
सदा व्योमैवेत्थं भवति हृदये सर्वजगताम् ।
अतोऽत्ता वै शर्वश्चरमचरभूतं जगदिदं
महामृत्युर्देशो भवति शिखरन्नाद इति च ॥ २.२५॥
प्रकरणवचनेन वेदजाते भगवति भवनाशने महेशे ।
प्रविशति शिव एव भोगभोक्तृनियमनदर्शनतो हि वाक्यजातम् ॥ २.२६॥
विशेषणैः शङ्करमेव नित्यं द्विधा वदत्येवमुपाधियोगात् ।
अतोऽन्तरा वाक्यपदैः समर्थितः स्थानादियोगैर्भगवानुमापतिः ॥ २.२७॥
सुखाभिधानात्सुखमेव शम्भुः कं ब्रह्म खं ब्रह्म इति श्रुतीरितः ।
श्रुतोपवाक्योपनिषत्प्रचोदितः गतिं प्रपद्येत बुधोऽपि विद्यया ॥ २.२८॥
अनवस्थितितोऽपि नेतरो भगवानेव स चक्षुषि प्रबुध्येत् ।
भयभीताः खलु यस्य सोमसूर्यानलवाय्वम्बुजसम्भवा भ्रमन्ति ॥ २.२९॥
अन्तर्यामितयैव लोकमखिलं जानात्युमायाः पतिः ।
भूतेष्वन्तरगोऽपि भूतनिवहा नो जानते शङ्करम् ॥ २.३०॥
न तत्स्मृत्या धर्मैरभिलषणतो भेदविधुरं
न शारीरं भेदे (भेद) भवति अगजानायकवरे ।
अदृश्यत्वाद्धर्मैर्न खलु भगवानन्यदिति च
परादादित्यं चामतिरपि च भेदप्रकलने ॥ २.३१॥
भेदादेश्च विशेषणं परशिवे रूपं न नाम प्रभा ।
भावो वा भवति प्रभाविरहितं ब्रह्मात्मना चाह तत् ॥ २.३२॥
स्मृतं मानं शम्भौ भगवति च तत्साधनतयाप्यतो
दैवं भूतं न भवति च साक्षात्परशिवे ।
अभिव्यक्ती चान्यः स्मृतिमपि तथाऽन्योऽपि मनुते तथा
सम्पत्तिर्वै भुवि भवति किं शम्भुकलने ॥ २.३३॥
यं मुक्तिव्यपदेशतः श्रुतिशिखाशाखाशतैः कल्पिते
भिद्येद्ग्रन्थिरपि प्रकीर्णवचनात्साक्ष्येव बाह्यान्तरा ।
शब्दो ब्रह्मतयैव न प्रभवते प्राणप्रभेदेन च
तच्चाप्युत्क्रमणस्थितिश्च विलये भुङ्क्तेऽप्यसौ (भुङ्क्त्येऽप्यसौ) शङ्करः ॥ २.३४॥
तं भूमा सम्प्रसादाच्छिवमजरमात्मानमधुना
शृणोतीक्षेद्वापि क्षणमपि तथान्यं न मनुते ।
तथा धर्मापत्तिर्भवति परमाकाशजनितं
प्रशस्तं व्यावृत्तं दहरमपि दध्याद्यपदिशत् ॥ २.३५॥
अलिङ्गं लिङ्गस्थं वदति विधिवाक्यैः श्रुतिरियं
धृतेराकाशाख्यं महिमनि प्रसिद्धेर्विमृशता ।
अतो मर्शान्नायं भवति भवभावात्मकतया
शिवाविर्भावो वा भवति च निरूपे गतधियाम् ॥ २.३६॥
परामर्शे चान्यद्भवति दहरं किं श्रुतिवचो
निरुक्तं चाल्पं यत्त्वनुकृति तदीयेऽह्नि महसा ।
विभातीदं शश्वत्प्रमतिवरशब्दैः श्रुतिभवैः ॥ २.३७॥
यो व्यापकोऽपि भगवान्पुरुषोऽन्तरात्मा ।
वालाग्रमात्रहृदये किमु सन्निविष्टः ॥ २.३८॥
प्रत्यक्षानुभवप्रमाणपरमं वाक्यं किलैकार्थदं
मानेनापि च सम्भवाभ्रमपरो वर्णं तथैवाह हि ।
शब्दञ्चापि तथैव नित्यमपि तत्साम्यानुपत्तिक्रिया
मध्वादिष्वनधीकृतोऽपि पुरुषो ज्योतिष्यभावो (ज्योतिष्ट्रभावो) भवेत् ॥ २.३९॥
भावञ्चापि शुगस्य तच्छ्रवणतो जात्यन्तरासम्भवा-
त्संस्काराधिकृतोऽपि शङ्करपदं ये वक्तुकामा (यो वक्तुकामो) मनाक् ।
ज्योतिर्दर्शनतः प्रसादपरमादस्माच्छरीरात्पर-
ञ्ज्योतिश्चाभिनिविश्य व्योम परमानन्दम्परं विन्दति ॥ २.४०॥
स्मृतीनां वादोऽत्र श्रुतिविभवदोषान्यवचसा
स एवात्मा दोषैर्विगतमतिकायः परशिवः ।
स विश्वं विश्वात्मा भवति स हि विश्वाधिकतया
समस्तेषु प्रोतो भवति स हि कार्येषु करणम् ॥ २.४१॥
प्रधानानान्तेषां भवति इतरेषामनुपमो-
ऽप्यलब्धोऽप्यात्मायं श्रुतिशिरसि चोक्तोऽणुरहितः ।
स दृश्योऽचिन्त्यात्मा भवति वरकार्येषु करणं
असद्वा सद्वा सोऽप्यसदिति न दृष्टान्तवशगम् ॥ २.४२॥
असङ्गो लक्षण्यः स भवति हि पञ्चस्वपि मुधा
अभीमानोद्देशादनुगतिरथाक्षादिरहितः ।
स्वपक्षादौ दोषाश्रुतिरपि न ईष्टे परमतं
त्वनिर्मोक्षो भूयादनुमितिकुतर्कैर्न हि भवेत् ॥ २.४३॥
भोक्त्रापत्तेरपि विषयतो लोकवेदार्थवादो नैनं
शास्ति प्रभुमतिपरं वाचि वारम्भणेभ्यः (वा विचारम्भणेभ्यः) ।
भोक्ता भोगविलक्षणो हि भगवान् भावोऽपि लब्धो भवे-
त्सत्त्वाच्चापि परस्य कार्यविवशं सद्वाक्यवादान्वयात् ॥ २.४४॥
युक्तेः शब्दान्तराच्चासदिति न हि कार्यं च करणं
प्रमाणैर्युक्त्या वा न भवति विशेषेण मनसा ।
परः प्राणोद्देशाद्धितकरणदोषाभिधधिया
तथाश्माद्या दिव्या ??? द्योतन्ति देवा दिवि ॥ २.४५॥
प्रसक्तिर्वा कृत्स्ना श्रुतिवरबलादात्मनि चिरं
स्वपक्षे दोषाणां प्रभवति च सर्वादिसुदृशा ।
विकाराणां भेदो न भवति वियोज्यो गुणधियां
अतो लोके लीलापरविषमनैर्घृण्यविधुरम् ॥ २.४६॥
स कर्मारम्भाद्वा उपलभति यद्येति च परं
सर्वैर्धर्मपदैरयुक्तवचनापत्तेः प्रवृत्तेर्भवेत् ।
भूतानां गतिशोपयुज्यपयसि क्षारं यथा नोपयुकवस्थानं नैव प्रभवति
तृणेषूद्यतमतेस्तथाभावात्पुंसि प्रकटयति कार्यं च करणम् ॥ २.४७॥
अङ्गित्वानुपपत्तितोऽप्यनुमितो शक्तिज्ञहीनं जगत्-
प्रतिषिद्धे सिद्धे प्रसभमिति मौनं हि शरणम् ।
महद्दीर्घं ह्रस्वमुभयमपि कर्मैव करणे तथा
साम्ये स्थित्या प्रभवति स्वभावाच्च नियतम् ॥ २.४८॥
न स्थानतोऽपि श्रुतिलिङ्गसमन्वयेन
प्रकाशवैयर्थ्यमतो हि मात्रा ।
सूर्योपमा प्रभवतित्वतथा उदत्वा- (सूर्योपमा प्रभति चत्वतथाम्बुदत्वा)
त्तद्दर्शनाच्च नियतं प्रतिबिम्बरूपम् ॥ २.४९॥
तदव्यक्तं न ततो लिङ्गमेतत्तथोभयव्यपदेशाच्च तेजः ।
प्रतिषेधाच्च परमः सेतुरीशः सामान्यतः स्थानविशेषबुद्ध्या ॥ २.५०॥
विशेषतश्चोपपत्तेस्तथान्यदतः फलञ्चोपपद्येत यस्मात् ।
महेश्वराच्छ्रुतिभिश्चोदितं यद्धर्मं परे चेश्वरं चेति चान्ये ।
न कर्मवच्चेश्वरे भेदधीर्नः ॥ २.५१॥
भेदान्न चेति परतः परमार्थदृष्ट्या स्वाध्यायभेदादुपसंहारभेदः ।
अथान्यथात्वं वचसोऽसौ वरीयान्संज्ञातश्चेद्व्याप्तिरेव प्रमाणम् ॥ २.५२॥
सर्वत्राभेदादनयोस्तथान्यत्प्राधान्यमानन्दमयः शिरस्त्वम् ।
तथेतरे त्वर्थसामान्ययोगात्प्रयोजनाभावतयाऽप्ययाय ते ॥ २.५३॥
शब्दात्तथा ह्यात्मगृहीतिरुत्तरात्तथान्वयादितराख्यानपूर्वम् ।
अशब्दत्वादेवमेतत्समानमेवञ्च संविद्वचनाविशेषात् ॥ २.५४॥
तद्दर्शनात्सम्भृतञ्चैवमेषोऽनाम्नायाद्वेद्यभेदात्परेति ।
गतेरर्थादुपपन्नार्थलोके शब्दानुमानैः सगुणोऽव्ययात्मा ॥ २.५५॥
यथाधिकारं स्थितिरेव चान्तरा (तथात्मनः) तत्रैव भेदाद्विशिषन्हीतरवत् ।
अन्यत्तथा सत्यकृत्या तथैके कामादिरत्रायतनेषु चादरात् ॥ २.५६॥
उपस्थिते तद्वचनात्तथाग्नेः संलोप एवाग्निभवः प्रदाने ।
अतोऽन्यचिन्तार्थभेदलिङ्गं बलीयः क्रिया परं चासमानाच्च दृष्टेः ॥ २.५७॥
श्रुतेर्बलादनुबन्धेमखे वै भावापत्तिश्चात्मनश्चैक एव ।
तद्भावभावदुपलब्धिरीशे सद्भावभावादनुभावतश्च ॥ २.५८॥
अङ्गावबद्धा हि तथैव मन्त्रतो भूम्नः क्रतोर्जायते दर्शनेन ॥ २.५९॥
रूपादेश्च विपर्ययेण तु दृशा दोषोभयत्राप्ययं
अग्राह्याः सकलानपेक्ष्यकरणं प्राधान्यवादेन हि ।
तत्प्राप्तिः समुदायकेऽपि इतरे प्रत्यायिकेनापि य-
द्विद्याऽविद्या असति बलतो धुर्यमार्याभिशंसी ॥ २.६०॥
दोषोभयोरपि तदा स्वगमोऽभ्युपेया ।
स्मृत्या सतो दृशि उदासीनवद्भजेत ॥ २.६१॥
नाभावादुपलब्धितोऽपि भगवद्वैधर्म्यस्वन्यादिव-
तद्भावेनाप्युपलब्धिरीशितुरहो सा वै क्षणं कल्प्यते ।
सर्वार्थानुपपत्तितोऽपि भगवत्येकाद्वितीये पुनः ।
कार्त्स्न्येनात्मनि नो विकारकलनं नित्यं पतेर्धर्मतः ॥ २.६२॥
सम्बन्धानुपपत्तितोऽपि समधिष्ठानोपपत्तेरपि
तच्चैवाकरणं च भोगविधुरं त्वं तत्त्वसर्वज्ञता ।
उत्पत्तेरपि कर्तुरेव कारणतया विज्ञानभावो यदि
??? निषेधप्रतिपत्तितोऽपि मरुतश्चाकाशतः प्राणतः ॥ २.६३॥
अस्तित्वं तदपीति गौणपरता वाक्येषु भिन्ना क्रिया
कार्यद्रव्यसमन्वयायकरणं शब्दाच्च ब्रह्मैव तत् ।
शब्देभ्योऽप्यमतं श्रुतं भवति तज्ज्ञानं परं शाम्भवं
यावल्लोकविभागकल्पनवशाद्भूतक्रमात्सर्जति ॥ २.६४॥
तस्यासम्भवतो भवेज्जगदिदं तेजःप्रसूतं श्रुतिः ।
चापः क्ष्मा मरुदेव खात्मकथयन्तल्लिङ्गसंज्ञानतः ॥ २.६५॥
विपर्ययेण क्रमतोऽन्तरा हि विज्ञानमानक्रमतो विशेषात् ।
न चात्मनः कारणताविपर्यश्चराचरव्यापकतो हि भावैः ॥ २.६६॥
नात्मा श्रुतो नित्यताशक्तियोगान्नानेव भासत्यविकल्पको हि ।
संज्ञान एवात्र (सन्तान एवात्र) गतागतानां स्वात्मानं चोत्तरणेनाणुरेव ॥ २.६७॥
स्वशब्दोन्मानाभ्यां सुखयति सदानन्दनतनुं
विरोधश्चान्द्रोपद्रव इव सदात्मा निखिलगः ।
गुणादालोकेषु व्यतिकरवतो गन्धवहतः
परो दृष्टो ह्यात्मा व्यपदिशति प्रज्ञानुभवतः ॥ २.६८॥
यावच्चात्मा नैवा दृश्येत दोषैः पुंस्त्वादिवत्त्वसतो व्यक्तियोगात् ।
मनोऽन्यत्रायदि कार्येषु गौणं विमुखः कर्ता
शाश्वतो विहरति उपादानवशतः ॥ २.६९॥
अस्यात्मव्यपदेशतः श्रुतिरियं कर्तृत्ववादं वद-
तुपालब्धुं शक्तेर्विपरति समाध्या (विपर्ये समाध्या) क्षुभितया ।
परात्तत्तु श्रुत्याप्यनुकृति सुरत्वक्षुभितया (सुयत्नक्षुभितया)
परो मन्त्रो वर्णैर्भगवति अनुज्ञापरिहरौ ।
तनोः सम्बन्धेन प्रविशति परं ज्योतिकलने ॥ २.७०॥
आसन्नतेव्यतिकरं पररूपभेदे आभास एव सुदृशा नियतो नियम्यात् ।
आकाशवत्सर्वगतोऽव्ययात्मा आसन्धिभेदात्प्रतिदेशभावात् ॥ २.७१॥
तथा प्राणो गौणः प्रकृतिविधिपूर्वार्थकलना-
दघस्तोये सृत्यः प्रथितगतिशेषेण कथितः ।
हस्तादयस्त्वणवः प्राणवायोः चक्षुस्तथा करणत्वान्न दोषः ॥ २.७२॥
यः पञ्चवृत्तिर्मनवच्च दृश्यते तथाणुतो ज्योतिरसुश्च खानि ।
भेदश्रुतेर्लक्षणविप्रयोगादात्मादिभेदे तु विशेष वादः ॥ २.७३॥
आत्मैकत्वात्प्राणगतेश्च वह्नेः ते जागतीवाश्रुतत्त्वान्न चेष्टा ।
भोक्तुर्न चात्मन्यविदीकृता ये ते धूममार्गेण किल प्रयान्ति ॥ २.७४॥
चरणादिति चान्यकल्पनां स्मरन्ति सप्तैव गतिप्ररोहात् ।
व्यापारवैधुर्यसमूहविद्या ते कर्मणैवेह तृतीयलब्धाम् ॥ २.७५॥
तद्दर्शनन्तद्गदतोऽप्यविद्या सव्योपपत्तेरुत दौविशेषात् ।
चिरन्तपः शुद्धिरतो विशेषात्ते स्थावरे चाविशेषार्थवादः ॥ २.७६॥
सन्ध्यांशसृष्ट्या किल निर्ममे जगत्पुत्रेषु मायामयतोऽव्ययात्मा ।
कृत्स्नं मायामयं तज्जगदिदमसतो नामरूपं तु जातम् ।
जाग्रत्स्वप्नसुषुप्तितोऽपि परमानन्दम्तिरोधानकृत् ॥ २.७७॥
देहयोगाथ्रसते वर्धते यः तत्रैवान्यत्पश्यते सोऽथ बोधात् ।
स शोशुचानस्मृतिशब्दबोधः ॥ २.७८॥
नानाशब्दादिभेदात्फलविविधमहाकर्मवैचित्र्ययोगा-
दीष्टेतां गुणधारणां श्रुतिहितां तद्दर्शनोद्बोधतः ।
तद्दर्शनात्सिद्धित एव सिद्ध्यते आचारयोगादृततच्छ्रुतेश्च ॥ २.७९॥
वाचा समारम्भणतो नियामतः तस्याधिकाप्रात्वकस्योपदेशात् ।
तुल्यन्दृशा सर्वतः स्याद्विभागः अध्यापयात्रान्नविशेषतस्तु ते ॥ २.८०॥
कामोपमर्देन तदूर्ध्वरेतसा विमर्शतो याति स्वतत्त्वतोऽन्यः ।
अनुष्ठेयं चान्यत्श्रुतिशिरसि निष्ठाभ्रमवशात् ।
विधिस्तुत्या भावम्प्रवदति रथाग्नेराधानमनुवदति ज्ञानाङ्गमपि च ॥ २.८१॥
प्राणात्यये वापि समन्तथान्नमबाधतः स्मृतितः कामकारे ।
विहिताश्रमकर्मतः सहैव कार्यात्तथोभयोर्लिङ्गभङ्गं च दर्शयेत् ॥ २.८२॥
तथान्तरा चापि स्मृतेर्विशेषतः ज्यायोऽपि लिङ्गाभयभावनाधिका ।
सैवाधिकारादर्शनात्तदुक्तमाचारतः स्वामिन ईज्यवृत्त्या ॥ २.८३॥
स्मृते ऋत्विक्सहकार्यं च कृत्स्नम् ।
तन्मौनवाचा वचनेन कुर्वन्तदैहिकम्तदवस्थाधृतेश्च ॥ २.८४॥
आवृत्त्याप्यसकृत्तथोपदिशति ह्यात्मन्नुपागच्छति
ग्राहं याति च शास्त्रतो प्रतीककलनात्सा ब्रह्मदृष्टिर्प्रभोः ।
आदित्यादिकृतीषु तथा सतीरपि कर्माङ्गताध्यानतः
तस्माच्चास्थिरतां स्मरन्ति च पुनर्यत्रैव तत्र श्रुता ॥ २.८५॥
आप्रायणात्तत्र दृष्टं हि यत्र तत्रागमात्पूर्वयोऽश्लेषनाशौ ।
तथेतरस्यापि पतेदसंसृतौ अनारब्धाग्निहोत्रादिकार्ये ॥ २.८६॥
अतोऽन्येषामुभयोर्यत्र योगाद्विद्याभोगेन वाङ्मनसी दर्शनाच्च ।
सर्वाण्यनुमनसा प्राण एव सोऽध्यक्षेत उपदर्शेन कच्चित् ॥ २.८७॥
समानवृत्त्या क्रमते चासु वृत्त्या संसारतो व्यपदेशोपपत्तेः ।
सूक्ष्मप्रमाणोपमर्दोपलब्धस्थितिश्च तथोपपत्तेरेष ऊष्मा रसैके ॥ २.८८॥
अत्र स्मर्यनानुपरताविधिवाक्यसिद्धेर्वैयासकिर्मुनिरेषोव्ययात्मा ।
अविभागो वचनाद्धार्द एव रश्म्यनुसारी निशितो दक्षिणायने ।
योगिनः प्रतिसृतैस्तथार्चिराद्वायुमद्घटितो वरुणेन ॥ २.८९॥
अतिवाहिकविधेस्तदलिङ्गात्तद्वदत्रोभयोरपि सिद्धिः ।
तद्वैतेन गतिरप्युपावृतो विशेषसामीप्यसकार्यहेतौ ॥ २.९०॥
स्मृतिस्तथाऽन्योऽपि च दर्शनेन काये तथा प्रतिपत्तिप्रतीकः ।
विशेषदृष्ट्या सम्पदाविर्भवेन स्वेनांशत्वान्मुक्तिविज्ञानतो हि ॥ २.९१॥
आत्मप्रकाशादविभागेन दृष्टः तद्ब्रह्मणोऽन्यद्द्युतितन्मात्रतोऽन्यः ।
उपन्यासादन्यसङ्कल्पभूत्या रथवान्योऽप्युथाह ॥ २.९२॥
भावमन्यो उभयं न स्वभावा भावे सम्पत्तिरेवं (भावे स्वाप्यसम्पत्तिरेवं) जगत्स्यात् ।
प्रत्यक्षेणोपदेशात्स्थितिरपि जगतो (स्थितिरविनृषरावर्ति) व्यक्तिभावादुपासा
भेदाभासस्थितिरविकारावर्तिरिति च ॥ २.९३॥
तथा दृष्टेर्द्रष्टुर्विपरीतदृष्टेः श्रुतिवशात्तथा
बुद्धेर्बोद्धा भवति अनुमानेन हि बुधः ।
भोगे सामान्यलिङ्गाच्छिवभजनभवे मान्यमनसा
अनावृत्तिः शब्दो भवति विधिवाक्येन नियतम् ॥ २.९४॥
तवोक्तः सूत्राणां विधिरपि च सामान्यमुभय-
प्रकृष्ट श्रुत्यैव प्रभवति महानन्दसदने ॥ २.९५॥
॥ इति शिवरहस्यान्तर्गते शिवेन ऋभुं प्रति सूत्रोपदेशः सम्पूर्णः ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः २ । १-९५॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 2 . 1-95..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan