शिवेन कुमारोपदेशे प्रपञ्चस्य ब्रह्मत्वकथनम्
(सर्वं ब्रह्मेति निश्चिनु)
चित्तभेदो जगद्भेदः अविद्यायाश्च सम्भवः ।
अनेककोटिब्रह्माण्डाः सर्वं ब्रह्मेति निश्चिनु ॥ ६.१६॥
लोकत्रयेषु सद्भावो गुणदोषादिजृम्भणम् ।
सर्वदेशिकवार्तोक्तिः सर्वं ब्रह्मेति निश्चिनु ॥ ६.१७॥
उत्कृष्टं च निकृष्टं च उत्तमं मध्यमं च तत् ।
ॐकारं चाप्यकारञ्च सर्वं ब्रह्मेति निश्चिनु ॥ ६.१८॥
यद्यज्जगति दृश्येत यद्यज्जगति वीक्ष्यते ।
यद्यज्जगति वर्तेत सर्वं ब्रह्मेति निश्चिनु ॥ ६.१९॥
येन केनाक्षरेणोक्तं येन केनापि सङ्गतम् ।
येन केनापि नीतं तत्सर्वं ब्रह्मेति निश्चिनु ॥ ६.२०॥
येन केनापि गदितं येन केनापि मोदितम् ।
येन केनापि च प्रोक्तं सर्वं ब्रह्मेति निश्चिनु ॥ ६.२१॥
येन केनापि यद्दत्तं येन केनापि यत्कृतम् ।
यत्र कुत्र जलस्नानं सर्वं ब्रह्मेति निश्चिनु ॥ ६.२२॥
यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् ।
यद्यत्करोषि सत्येन सर्वं मिथ्येति निश्चिनु ॥ ६.२३॥
इदं सर्वमहं सर्वं सर्वं ब्रह्मेति निश्चिनु ।
यत्किञ्चित्प्रतिभातं च सर्वं मिथ्येति निश्चिनु ॥ ६.२४॥
॥ इति शिवरहस्यान्तर्गते शिवेन कुमारोपदेशे प्रपञ्चस्य ब्रह्मत्वकथनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ६ । १६-२४॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 6 . 16-24..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan