शिवेन कुमारोपदेशे प्रपञ्चस्य मिथ्यत्वकथनम्
(सर्वं मिथ्या न संशयः)
व्रतानि मिथ्या भुवनानि मिथ्या भावादि मिथ्या भवनानि मिथ्या ।
भयं च मिथ्या भरणादि मिथ्या भुक्तं च मिथ्या बहुबन्धमिथ्या ॥ ६.१॥
वेदाश्च मिथ्या वचनानि मिथ्या वाक्यानि मिथ्या विविधानि मिथ्या ।
वित्तानि (विज्ञान) मिथ्या वियदादि मिथ्या विधुश्च मिथ्या विषयादि मिथ्या ॥ ६.२॥
गुरुश्च मिथ्या गुणदोषमिथ्या गुह्यं च मिथ्या गणना च मिथ्या ।
गतिश्च मिथ्या गमनं च मिथ्या सर्वं च मिथ्या गदितं च मिथ्या ॥ ६.३॥
वेदशास्त्रपुराणं च कार्यं कारणमीश्वरः ।
लोको भूतं जनं चैव सर्वं मिथ्या न संशयः ॥ ६.४॥
बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः ।
गौणं मुख्यं परं चान्यत्सर्वं मिथ्या न संशयः ॥ ६.५॥
वाचा वदति यत्किञ्चित्सर्वं मिथ्या न संशयः ।
सङ्कल्पात्कल्प्यते यद्यन्मनसा चिन्त्यते च यत् ॥ ६.६॥
बुद्ध्या निश्चीयते किञ्चिच्चित्तेन नीयते क्वचित् ।
प्रपञ्चे पञ्चते यद्यत्सर्वं मिथ्येति निश्चयः ॥ ६.७॥
श्रोत्रेण श्रूयते यद्यन्नेत्रेण च निरीक्ष्यते ।
नेत्रं श्रोत्रं गात्रमेव सर्वं मिथ्या न संशयः ॥ ६.८॥
इदमित्येव निर्दिष्टमिदमित्येव कल्पितम् ।
यद्यद्वस्तु परिज्ञातं सर्वं मिथ्या न संशयः ॥ ६.९॥
कोऽहं किन्तदिदं सोऽहं अन्यो वाचयते नहि ।
यद्यत्सम्भाव्यते लोके सर्वं मिथ्येति निश्चयः ॥ ६.१०॥
सर्वाभ्यास्यं सर्वगोप्यं सर्वकारणविभ्रमः ।
सर्वभूतेति वार्ता च मिथ्येति च विनिश्चयः ॥ ६.११॥
सर्वभेदप्रभेदो वा सर्वसङ्कल्पविभ्रमः ।
सर्वदोषप्रभेदश्च सर्वं मिथ्या न संशयः ॥ ६.१२॥
रक्षको विष्णुरित्यादि ब्रह्मसृष्टेस्तु कारणम् ।
संहारे शिव इत्येवं सर्वं मिथ्या न संशयः ॥ ६.१३॥
स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् ।
मन्त्रो गोत्रं च सत्सङ्गः सर्वं मिथ्या न संशयः ॥ ६.१४॥
सर्वं मिथ्या जगन्मिथ्या भूतं भव्यं भवत्तथा ।
नास्ति नास्ति विभावेन सर्वं मिथ्या न संशयः ॥ ६.१५॥
॥ इति शिवरहस्यान्तर्गते शिवेन कुमारोपदेशे प्रपञ्चस्य मिथ्यत्वकथनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ६ । १-१५॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 6 . 1-15..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from Ribhu Gita have been compiled here based on similarity of content.
Proofread by Ruma Dewan